तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 82, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.१०) ५३
द्वि॒तीय॑मपच॒च्चतु॑र्थमपच॒द्दितीर॑तोऽधत्त सं॒मिताघृ॒तवती॑भिरा॒र्दधा॑ति
रा॒जन्य॑:स्व॒स्य छन्द॑सः प्र॒त्यय॑न॒स्त्वो॑र्येयाद॒गच्छ॑ति । म॑न्थति रा॒त्र॑यश्च॒त्वारि॑
च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
प्रथमाध्याये नवमोऽनुवाकः ॥ ९ ॥
पूर्ववद् व्याख्येयम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
अथ दशमोऽनुवाकः ।
नवमे ब्रह्मौदनाऽभिहितः । अथ दशमं पञ्चाग्न्याधानमभिधीयते ।
पूर्वं पञ्चमेऽनुवाके यत्रेधाऽग्निरधीयत इत्यग्नित्रयाधानपक्ष
एवाभिहितः। इह तु पञ्चाग्न्याधानं विधातुमाख्यायिकामाह-
प्र॒जाप॑तिः प्र॒जा असृ॑जत । स रि॑रिचा॒नोऽम॑न्यत । स
तपो॑ऽतप्यत । स आ॒त्मन्वी॒र्य॑मपश्यत् । तद॑वर्धत ।
तद॑स्मा॒त्सह॑सो॒र्ध्वमसृ॑ज्यत । सा वि॒राड॑भवत् । तां
दैवा॑सु॒रा व्य॑गृह्णत । सोऽब्रवीत्प्र॒जाप॑तिः । मम॒ वा ए॒षा
(१) । दोहो॑ ए॒व यु॒ष्माक॒मिति॑, इति ।
प्रजापतिः प्रजाः सृष्ट्वा स्वकीयस्य वीर्यस्योपक्षयेण रिक्तोऽहमिति
मत्वा वीर्यलाभाय स तपस्तप्त्वा स्वात्मनि किंचिद्वीर्यमपश्यत् । तच्च
वीर्यं कालेनावर्धत । तत्प्रवृद्धं वीर्यं धारयितुमशक्यं
सच्छीघ्रमेवास्मात्प्रजापतेरूर्ध्वं निर्गत्य केनचिद्रूपेण सृष्टमभूत् । सा सृष्टा
निष्पन्ना विविधं राजमाना काचिद्गौरभवत् । तामुद्दिश्य देवाश्चासुराश्च
वयमेवैतां गृह्णीम इत्येवं परस्परं विग्रहमकुर्वन् । तदा विग्रहशान्तये
प्रजापतिरेवमब्रवीत् । एषा गौर्ममैवेति । युष्माकं तु दोहा एव
क्षीराण्येवेति ।
सा ततः॒ प्राच्युद॑क्रामत् । तत्प्र॒जाप॑तिः पर्य॑गृह्णात् । अथ॑र्व
पि॒तुं मे॑ गोपायेति॑ । सा द्वि॒तीय॒मुद॑क्रामत् । तत्प्र॒जाप॑तिः
पर्य॑गृह्णात् । नर्य॑ प्र॒जां मे॑ गोपायेति॑ । सा तृ॒तीय॒मुद॑क्रामत् ।