सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

ब्राह्मणाद्युपनयनं कल्पयतीति तत्प्राप्तिरिति चेत् । मैवम् । लौकिकाग्नौ

तैत्तिरीयब्राह्मणम् (१.१.३) १३
लौकिकाग्नेः पुस्तकाच्च तत्सिद्धेर्नास्ति कल्पनम् ।
कालविप्रादिसंयुक्तोऽप्राप्तं विधीयते ॥
“वसन्ते ब्राह्मणोऽग्निमादधीत । ग्रीष्मे राजन्यः । शरदि वैश्यः”
इति श्रूयते । “वसन्ते ब्राह्मणमुपनयीत । ग्रीष्मे राजन्यम् । शरदि वैश्यम्”
इति च । तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयोऽनूद्यन्ते । न च
तेषां प्राप्त्यभावः । क्रत्वनुष्ठानान्यथानुपपत्त्या क्लृप्तत्वात् । न
ह्याहुत्याधारभूतमग्निमनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं
संभवति । अग्निश्च नाऽऽधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं
कल्पयति । विद्या चोपनयनपूर्वकाध्ययनमन्तरेण न संभवतीति
ब्राह्मणाद्युपनयनं कल्पयतीति तत्प्राप्तिरिति चेत् । मैवम् । लौकिकाग्नौ
होतुं पुस्तकपाठनाधिगन्तुं च शक्यत्वेनाऽऽधानोपनयनयोरकल्पने
ब्राह्मणादीनामप्राप्तेः । तस्माद्वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके
आधानोपनयने अत्र विधीयेते ।
षष्ठाध्यायस्य प्रथमपादे चिन्तितम्-पुंसोरेकस्य वाऽऽधानं
वसानावित्यतो द्वयोः । एष क्षौमविधिर्द्वित्वं दंपत्योरेकता
ततः ॥
आंधाने श्रूयते-“क्षौमे वसानावग्निमादधीयाताम् ” इति । तत्र
वसानाविति पुंलिङ्गद्विवचनादुभयोः पुंसोराधानेऽधिकार इति चेत् ।
मैवम् । क्षौमस्याप्राप्तस्य विधेयतया पुंद्वित्वस्यापि विधाने वाक्यभेदान्न
तद्विधीयतं । किंतु दंपत्योः सहाधिकारेण प्राप्तं द्वित्वमनूद्यते । पतिश्च पत्नी
चेति विगृह्य पतिशब्दस्यैकशेषात्पुंलिङ्गद्विवचनमविरुद्धम् ।
तस्मादाधानेऽधिकारिणः पुंस एकत्वमेव ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीयोऽनुवाकः
द्वितीयानुवाके आधानार्थं नक्षत्रादिकालोऽभिहितः । तृतीये
देवयजनार्थाः संभारा उच्यन्ते । ‘यदुक्तं सूत्रकारेण-‘प्राचीनप्रवणं
देवयजनमुद्धृत्य’ इति । तदिदं विधत्ते-

१४ (१.१.३) तैत्तिरीयब्राह्मणम्
उद्ध॑न्ति । यदे॒वास्या॑ अमे॒ध्यम् । तदप॑हन्ति, इति ।
भूमेरूर्ध्वभागं खनित्रादिना खनेत् । तेन निष्ठीवनादिनिमित्तं यदमेध्यं
तदपहतं भवति । उद्धननमन्त्रस्तु-‘उद्धन्यमान-“ इत्यादि । स चोपरि
तनप्रपाठकादावाम्नातत्वात्तत्रैव व्याख्यास्यते । एवमुत्तरेष्वपि विधिषु
द्रष्टव्यम् ।
अथ विधत्ते-
अ॒पो वोक्ष॑ति॒ शान्त्यै॑, इति ।
उद्धननकृता भूमेर्वेदना जलेन शाम्यति । ‘आपो वै शान्ताः’
इत्यन्यत्रोपशमहेतुत्वश्रवणात् ।
विधत्ते -
सिर्कता॒ निव॑पति । ए॒तद्वा अ॒ग्नेर्वै॑श्वान॒रस्य॑ रू॒पम् ।
रू॒पेणै॒व वै॑श्वान॒रमव॑रुन्द्धे, इति ।
सिकतानां तद्रूपत्वं ‘वैश्वानरस्य रूपम्’ इति मन्त्रादवगन्तव्यम् ।
सिकतादयो द्रव्यविशेषा देवयजनभूमौ प्रक्षेपणीयाः संभाराः । अत एव
सूत्रकारेणोक्तम्-‘सप्त पार्थिवान्संभारानाहरत्येवं वानस्पत्यान्' इति । तत्र
पार्थिवेषु सिकतारूप एकः संभार उक्तः ।
ऊषा॒न्निर्व॑पति । पुष्टि॒र्वा ए॒षा प्र॒जनन॒म् । यदूषा॑: (१) ।
पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निमाध॑त्ते । अथा॒ संज्ञान॑ ए॒व ।
सं॒ज्ञान॒ ँ ह्येतत्प॑शू॒नाम् । यदूषा॑:, इति ।
पशवो ह्युषरक्षेत्रोत्पन्नं तृणादिकं रसान्तरयुक्तत्वादादरेण भक्षयित्वा
पुष्टाः सन्तोऽपत्यान्युत्पादयन्ति । तस्मादूषा लवणाम्भसा मिश्रिता
भूम्यवयवा इति यावत् । सैषा पुष्टिः प्रजननं च तस्मादूषनिर्वापेन
तदुभयप्राप्तिः । अपि च संज्ञाने प्रदेश एवाग्निराहितो भवति । एतच्चोषरक्षेत्रं
पशूनां संज्ञानम् । पशवो ह्याघ्राणेन तत्संस्थानं जानन्ति । तस्मादूषा
आधानस्य स्थाने निवपनीयाः ।
एतन्निर्वपणकाले ध्यानविशेषं विधत्ते

तैत्तिरीयब्राह्मणम् (१.१.३) १५
द्यावा॑पृथि॒वी स॒हाऽऽ॑स्ताम् । ते वि॑यती॒ अब्रूताम् ।
अस्त्वे॒व 'नौ स॒ह य॒ज्ञिय॒मिति॑ । यद॒मुष्या॑ य॒ज्ञिय॒मासी॑त् ।
तद॒स्या॑मदधात् । त ऊ॒षा अ॑भवन् (२) । यद॒स्या
य॒ज्ञिय॒मासी॑त् तद॒मुष्या॑मदधात् । तद॒दश्च॒न्द्रम॑सि
कृ॒ष्णम् । ऊ॒षान्निव॑पन्न॒दो ध्या॑येत् । द्यावा॑पृथि॒व्योरे॒व
य॒ज्ञिये॒ऽग्निमाध॑त्ते, इति ।
सृष्टिकाले द्यावापृथिव्यौ मध्यगतान्तरिक्षव्यवधानरहिते अभूतां
तदा प्राणिनामवकाशार्थमीश्वरानुज्ञया परस्परवियोगं गते वियोगकाले
च स्नेहातिशयात्परस्परमेवमब्रूतामावयोर्यज्ञयोग्यं यत्सारमस्ति तत्सहैव
तिष्ठतु । भूसारस्य दिवो वियोगो मा भूद् द्युसारस्य च भूमेर्वियोगो मा
भूदिति । ततोऽमुष्या दिवः संबन्धि यद्यज्ञियं सारं तदस्यां पृथिव्यां सा
द्यौरस्थापयत् । ते च द्युलोकसारांशा एते दृश्यमाना भूम्यवयवा ऊषरूपा
अभवन् । तस्यां पृथिव्यां यद्यज्ञियं सारमासीत्तदमुष्यां दिवि
भूमिरस्थापयत् । तच्च स्थापितं भूसारमदो दृश्यमानं चन्द्रमसि कलङ्करूपं
कृष्णम् । तस्माद्भूसारत्वादूषाणां निवपनकाले तत्कृष्णरूपमत्र तिष्ठतीति
ध्यायेत् । तथा सति द्युलोकसंबन्धिन्यूषे भूलोकसंबन्धिनि कृष्णे
चाग्निराहितो भवति ।
अथ तृतीयं संभारं विधत्ते-
अ॒ग्नि॒र्दे॒वेभ्यो॒ निला॑यत । आ॒खुरू॒पं कृ॒त्वा । स पृ॑थि॒वीं
प्रावि॑शत् । ऊतीः कु॒र्वाणः॑ पृथि॒वीमनु॒सम॑चरत् ।
तदा॑शुकरी॒षम॑भवत् (३) । यदा॑खुकरी॒ष ँसंभा॒रो भव॑ति
यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्द्धे, इति ।
अग्निः कदाचित्केनापि निमित्तेन देवेभ्योऽपरक्तः सन्मूषको भूत्वा
तदीयं रूप च संपूर्णं कृत्वा निलीनो देवैरदृश्यो भूत्वा स च पृथिवीं
प्रविष्टां बिलानि कुर्वाणोऽनुक्रमेण भूमेरन्तरेव समचरत् । यद्विलनिर्माणं
निःसारितं पांसुरूपं तदेतदाखुकरीषं तस्मिन्संभृते सति तत्र निगूढं
यदग्नेस्तेजस्तत्सर्वं प्राप्नोति ।
अथ चतुर्थं संभारं विधत्ते-
ऊर्जं॒ वा ए॒त ँ रसं॑ पृथि॒व्या 'उ॒पर्दी॑का उ॒द्दिह॑न्ति ।

१६ (१.१.३) तैत्तिरीयब्राह्मणम्
यद्वल्मी॒कम् । यद्व॑ल्मीकव॒पा सं॒भारो भव॑ति । ऊर्ज॑मे॒व
रसं॑ पृथि॒व्या अव॑रुन्द्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्र॒ ँ
ह्येतत्पृ॑थि॒व्याः । यद्वल्मीकः॑ (४), इति ।
उपदीकाः पिपीलिकासमाना आर्द्रीकृतमृत्तिकोपचयक्षमा जन्तवस्ते
हि पृथिव्याः संबन्धिनभूर्शब्दाभिधेयं रसं पृथिव्याः
सकाशादूर्ध्वमानीयोपचिन्वन्ति । तत्संभारेण भूसारं प्राप्नोति । अपि च
श्रोत्रेन्द्रियसामर्थ्यमपि प्राप्नोति । वल्मीकस्य पृथिवीश्रोत्रत्वात् ।
एतद्वेदनं प्रशंसति-
अब॑धिरो भवति । य ए॒वं वेद॑, इति ।
अथ पञ्चमं संभारं विधत्ते -
प्र॒जाप॑तिः प्र॒जा अ॑सृजत । तासा॒मन्न॑मुपा॑क्षीयत । ताभ्यः॑
सू॒दमु॑प॒प्राभि॑नत् । ततो॒ वै तासा॒मन्नं॒ नाक्षी॑यत । यस्य॑
सू॒दः सं॒भारो भव॑ति । नास्य॑ गृ॒हेऽन्नं॑ क्षीयते, इति ।
पुरा कदाचित्प्रजापतिः सृष्टानां प्रजानां यदन्नं
तद्भुज्यमानमुपक्षीणमभूत् । ततः प्रजार्थं सूदमशोषजलप्रदेशावस्थितं
कर्दममुपानीय प्राभिनत् । तेषु तेषु पृथिवीप्रदेशेषु पृथक्पृथक्प्रसारितवान् ।
ततस्तत्र तत्र तस्योत्पत्तौ सत्यां तासां प्रजानामन्नमक्षीणमभूत् ।
अतस्तत्संभारेण गृहेऽन्नमक्षयं भवति ।
अथ षष्ठं संभारं विधत्ते-
आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् । तेन॑ प्र॒जाप॑तिरश्राम्यत्
(५) । क॒थमि॒द ँ स्यादि॑ति । 'सोऽप॑श्यत्पुष्करप॒र्णं तिष्ठ॑त् ।
'सोऽम॑न्यत । अ॒स्ति वै तत् । यस्मि॑न्नि॒दमधि॑ति॒ष्ठतीति॑ ।
स·'वरा॒हो रू॒पं कृ॒त्वोप॑न्यमज्जत् स पृ॑थि॒वीमध॒ आर्च्छ॑त् ।
तस्या॑ उप॒हत्योद॑मज्जत् । तत्पु॑ष्करप॒र्णेऽप्र॑थयत् । यदप्र॑थयत्
(६) तत्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् । अभू॒द्वा इ॒दमिति॑ । तद्भू॒म्यै
भूमि॒त्वम् । तां दिशोऽनु॒ वातः॒ समर्॑वहत । ता ँ

शर्क॑राभिदृ ँ हत् । शं वै नो॑ऽभूदिति॑ । तच्छर्क॑राणा
शर्क॑रत्वम् । यद्व॑रा॒हवि॑हत ँ सं॒भारो॑ भव॑ति ।
अ॒स्यामे॒वाच्छ॑म्बट्कारम॒ग्निमार्ध॑त्ते । शर्क॑रा भवन्ति॒ धृत्यै॑
(७) । अथो॒ शंत्वार्य॒, इति॑ ।

इदमिदानीं दृश्यमानं गिरिनदीसमुद्रादिकं स्थावरं मनुष्यगवादिकं
जंगमं च सृष्टेः पूर्वमीदृशं नाऽऽसीत् । किंतु सलिलरूपमासीत् ।
'षलगत्तौ' औणादिक इलच् । इदं दृश्यमानं जगत्सटिलं कारणेन
संगतमविभागापन्नम् । यद्वा “इमे वै लोकाः सरिरम्” इति श्रुतेः
सरिरशब्देन लोका उच्यन्ते । रलयोरभेदात्सलिलरूपमासीत्तत्राप्याप एव
न तु भूमिरूपम् । तदानीं प्रजापतिस्तेन सिसृक्षित-
जगन्निमित्तेनाश्राम्यत् । पर्यालोचनरूपं तपोऽकुरुत । कथं नामेदं सर्वं
जगद्भवेदिति विचार्य तस्य सलिलस्य मध्ये दीर्घनालाग्रेऽवस्थितमेकं
पद्मपत्रमपश्यत् । तच्च दृष्ट्वा मनस्येवमतर्कयत् यस्मिन्नाधार इदं सनालं
पद्मपत्रमधिश्रित्य तिष्ठति किंचिदधस्तादस्त्येवेति तर्कयित्वा च स
प्रजापतिर्वराहो भूत्वा तदीयं रूपं च सम्यक्कृत्वा तस्य पद्मपत्रनालस्य समीपे
जलमध्ये निमग्नोऽभूत् । मग्नश्चासावधस्ताद् भूमिं प्राप्तवान् । तस्या भूमेः
सकाशात्कियतीमप्यार्द्रां मृदं स्वदंष्ट्रया पृथकृत्य सलिलस्योपर्यन्मज्जनं
कृतवान् । तच्च मृद्रूपं तस्मिन्पुष्करपर्णे प्रसारितवान् । यस्मादियं मृत्तिका
प्रथिता तस्मात्पृथिवीनाम संपन्नम् । ततः संतुष्ट इदं स्थावरजंगमाधारभूतं
वस्त्वभूदित्युवाच । ततो भवतीति व्युत्पत्या भूमिनाम संपन्नम् । तामाद्रीं
भूमिमनुलक्ष्य शोषयितुं चतस्रो दिशोऽप्यनुप्रजापतिसंकल्पाद्वायुः स (सं)
प्रवृत्तः। शुष्यन्तीं तां भूमिं स प्रजापतिः शर्कराभिः क्षुद्रपाषाणैर्दृढीचकार ।
कृत्वा च नोऽस्माकं शं सुखमभूदित्युवाच । तस्मात्कारणाच्छं सुखं
कृतमाभिरीति व्युत्पत्या शर्करेति नाम संपन्नम् । यस्माद्वराहेणाऽऽनीताया
मृद ईदृशो महिमा तस्माद्वराहेण भूमौ विहतं खनितमस्यां मृत्स्वरूपं
संभरणीयम् । तथा सत्यस्यां भूम्यामेव वैयर्थ्यं, यथा न भवति
तथाऽग्निमाधत्ते । यस्माच्छर्कराभिर्भूमिर्दृढीकृता तस्मादत्रापि धृत्यै
दाढर्याय शर्कराः प्रक्षेप्सव्याः । अथो अपि च शंत्याय सुखसिद्धये शर्कराः
कार्याः ।

अथ सप्तमं संभारं विधत्ते-
सरैता अ॒ग्निराधेय॒ इत्या॑हुः । आपो॒ वरु॑णस्य॒ पत्नय
आसन् । ता अ॒ग्निर॒भ्य॑ध्यायत् । ताः सम॑भवन् । तस्य

१८ (१.१.३) तैत्तिरीयब्राह्मणम्
रेतः॒ परा॑ऽपतत् । तद्धि॑र॑ण्यमभवत् । यद्धि॑र॑ण्यमु॒पास्य॑ति ।
सरै॑तसमे॒वाग्निमाध॑त्ते, इति ।
या अब्देवता वरुणस्य भार्यास्ताः कामुकोऽग्निर्ध्यात्वा , संभोगं
कृतवान् । तदानीं व्यग्रस्य तस्य रेतो भूमौ हिरण्यमभूत् । अतोऽत्र हिरण्ये
प्रक्षिप्ते सति सरेतस्कोऽग्निराहितो भवति । एतस्य हिरण्य प्रक्षेपस्थानं
विधत्ते-
पुरु॑ष॒ इन्वै रु॒वाव्रेत॑सो बीभत्स॒त इत्या॑हुः (८) । उत्त॑र॒त
उपा॑ स्ये॒द्विभित्सायै, इति ।
इन्वा इति निपातत्रयं मिलित्वा प्रसिद्धिमाचष्टे । लोके सर्वोऽपि
पुरुषः स्वकीयं रेतो हस्तेन स्प्रष्टुं जुगुप्सते । तदेतत्प्रसिद्धमित्यभिज्ञा
आहुः । तस्मादत्राग्निस्थापनप्रदेशं विहायोत्तरस्मिन्पार्श्वे हिरण्यं
प्रक्षिपेत् । तच्चाविभित्सायै संपद्यते ।
यदुक्तं सूत्रकारेण- "द्वेष्याय रजतं प्रयच्छति' इति । तदिदं विधत्ते-
अति॑ प्रय॑च्छति । आर्ति॑ मे॒वाति॒प्रय॑च्छति, इति ।
देवयजने प्रक्षिप्तं सुवर्णमतिक्रम्यान्यद्रजतं प्रयच्छेत् । तथा सति
स्वात्मानमतिक्रम्यान्यस्मै द्वेष्याय स्वकीयामार्तिं दत्तवान्भवति ।
तदेवं पार्थिवाः संभारा विहिताः । तथा वानस्पत्येषु सप्तसु संभारेषु
प्रथमं संभारं विधत्ते-
अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒पं कृ॒त्वा । 'सोऽश्व॒त्थे
'संवत्स॒रमति॑ष्ठत् । तद॑श्व॒त्थस्या॑श्वत्थ॒त्वम् । यदा॑श्व॒त्थः
संभा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्यक्त॑म् । तदे॒वाव॑रुन्द्धे (९),
इति ।
कदाचिदग्निर्देवेभ्योऽपक्रम्याश्वो भूत्वा तदीयं रूपं स्वस्य
कृत्वाऽश्वत्थवृक्षे निरूढः संवत्सरमात्रमतिष्ठत् । अश्वस्तिष्ठत्यस्मिन्निति
व्युत्पत्त्या तस्य वृक्षस्याश्वत्थनाम संपन्नम् । तस्मादश्वत्थसंभारेण तत्र
निरूढमग्नेस्तेजः प्राप्नोति ।
द्वितीयं संभारं विधत्ते-

तैत्तिरीयब्राह्मणम् (१.१.३) १९
दे॒वा वा ऊर्जा॒ व्य॑भजन्त । तत॑ उदु॒म्बर॒ उद॑तिष्ठत् । ऊर्ग्वा
उ॑दु॒म्बरः॑ । यदौदुम्बरः॒ संभारो॒ भव॑ति । ऊर्ज॑मे॒वाव॑रुन्द्धे,
इति ।
देवाः सर्वे कदाचिदेकत्रोपविश्यान्नरसं विभक्तवन्तस्तदा
तस्मिन्स्थाने पतितादन्नरसादुदुम्बरवृक्ष उदतिष्ठत् ।
तस्मादन्नरसस्यैवोदुम्बरत्वात्तत्संभारेणान्नरसं प्राप्नोत्येव ।
अथ तृतीयं संभारं विधत्ते-
तृ॒ती॒यस्या॑मि॒तो दि॒वि सोम॑ आसीत् । तं गाय॒त्र्यह॑रत् ।
तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णोऽभवत् । तत्प॒र्णस्य॑ पर्ण॒त्वम् ।
(१०) । यस्य॑ प॒र्णम॒यः सं॒भारो भव॑ति ।
सो॒म॒पी॒थ॒मे॒वा॒व॑रुन्द्धे॒ इति ।
इतो भूलोकादारभ्य गणनायामन्तरिक्षमतिक्रम्य परतो वर्तमाना या
द्यौस्तृतीया तस्यां सोमवल्ली स्थिता । तं च सोमं गायत्री देवता तत्रत्यैः
सोमरक्षकैः सह युद्धं कृत्वा समाहरत् । अयं च वृत्तान्तः “कद्रूश्च वै
सुपर्णी च” इत्यनुवाके प्रपञ्चितः। सहसा समानीयमानस्य तस्य
सोमस्यैकं पर्णं छिन्नं सद्‍भूमौ पतित्वा पलाशवृक्षोऽभवत् ।
पर्णजन्यत्वात्तस्य वृक्षस्य पर्णनाम संपन्नम् । सोमजन्यस्य तस्य संभरणेन
सोमपानमेव प्राप्नोति ।
पुनरपि तमेव संभारं प्रशंसति-
दे॒वा वै ब्रह्म॑न्वदन्त । तत्प॒र्ण उपा॑शृणोत् । सु॒श्रवा॒ वै
नाम॑ । यत्प॑र्ण॒मयः॒ संभारो॒ भव॑ति । ब्र॒ह्म॒व॒र्च॒स॒मे॒वाव॑रुन्द्धे,
इति ।
देवाः कदाचिदेकान्ते पलाशवृक्षच्छायायामुपविश्य परस्मिन्ब्रह्मणि
संवादं कृतवन्तः । तत्सर्वं समीपे स्थितः पलाशवृक्षोऽऽशृणोत् । शोभनं
वस्तु श्रुतवानिति व्युत्पत्त्या सुश्रवा इति नाम संपन्नम् । तस्मात्परं ब्रह्म
श्रुतवतो वृक्षस्य संभरणेन ब्रह्मवर्चसमेव प्राप्नोति ।
अथ चतुर्थं संभारं विधत्ते-

तृतीयोऽनुवाकः ॥ ३ ॥

२० (१.१.३) तैत्तिरीयब्राह्मणम्
प्र॒जाप॑तिर॒ग्निम॑सृजत । सोऽबिभे॒न्मा मा॑ धक्ष्यतीति॑ । त ँ
श॒म्या॑ऽशमयत् (११) । तच्छ॒म्यै॑ शमित्त्वम् । तच्छमीम॒यः॑
सं॒भारो भ॒वति । शान्त्या॒ अप्र॑दाहाय, इति ।
प्रजापतिरग्निं सृष्ट्वा मामयमग्निः परातीति भीतः शमीशाखया
ज्वालामशमयत् । शमयत्यनेनेति व्युत्पत्या शमीति नाम संपन्नम् ।
अतस्तत्संभारः पूर्वं विद्यमानस्य दाहस्योपशान्त्यै, इतः परमदाहाय च
संपद्यते । अथ पञ्चमं संभारं विधत्ते-
अ॒ग्नेः सृ॒ष्टस्य॒ यतः॑ । वि॒क॑ङ्क॒तं॒ भा आ॑र्च्छत् । यद्वै क॑ङ्क॒तः
सं॒भारो भव॑ति । भा ए॒वाव॑रुन्द्धे, इति ।
प्रजापतिना सृष्टोऽग्निस्त्वरया गच्छन्विकङ्कतवृक्षमपश्यत् । तदा
तदीयं तेजो वृक्षं प्राप्नोत् । अतस्तत्संभारं सति भा एव दीप्तिमेवावरुन्धे ।
अथ षष्ठं संभारं विधत्ते-
सह॑दयो॒ऽग्निराधे॑य॒ इत्या॑हुः । म॒रुतो॒ऽद्भि॑र॒ग्निम॑तमयन् ।
तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन् । साऽश॑निरभवत् ।
यद॒शनि॑हतस्य वृ॒क्षस्य॑ सं॒भारो॒ भव॑ति ।
सह॑दयमे॒वाग्निमाध॑त्ते (१२), इति ।
उ॒र्शा अ॑भवन्नभवद्वल्मीके॑श्राम्यदप्र॑थयद्वैतसै बीभत्स॒त इत्या॑हू रुन्द्धे
पर्ण॒त्वम॑शमयदच्छिन्द ँ॒स्त्रीणि॑ च ॥ ३ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
मरुतः कदाचिदग्निना सह विरोधे सति तमग्निमद्भिरतमयन्ग्लानिं
प्रापयन् । ततो निष्क्लिन्नस्याग्नेर्हृदयमाच्छिन्दन् । तस्य
हृदयमशनिरूपेणोद्भूत् । तस्मादशनिहतस्य वृक्षस्य संभारेण
सहृदयोऽग्निराहितो भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमपाठके तृतीयोऽनुवाकः ॥ ३ ॥

तैत्तिरीयब्राह्मणम् (१.१.४) २१
अथ चतुर्थोऽनुवाकः ।
तृतीये देवयजनदेशे प्रक्षेप्सव्याः संभारा उक्ताः । अथ चतुर्थे तैः
संभारैर्युक्तेष्वायतनेषु वह्न्याधानमभिधीयते । यदुक्तं सूत्रकारेण-
“प्राचीनप्रवणं देवयजनमुद्धृत्य तस्मिन्नुदीचीनव ँश ँशरणं करोति
तस्याग्रेण मध्यमं व ँ गार्हपत्यायतनं भवति । तस्मात्प्राचीनमष्टासु
प्रक्रमेषु ब्राह्मणस्याऽऽहवनीयायतनमेकादशसु राजन्यस्य द्वादशसु
वैश्यस्य चतुर्वि ँ शत्यामपरिमिते वा यावता वा चक्षुषा मन्यते
तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ” इति । तत्रैकं पक्षं
विधत्ते-
द्वाद॑शसु॒ विक्र॑मेष्व॒ग्निमाद॑धीत । द्वाद॑श॒ मासा॑:
सं॑वत्स॒रः । सं॑वत्स॒रादे॒वैन॑मव॒रुध्याऽऽध॑त्ते, इति ।
विक्रमः प्रक्रमः । स च द्विपदः । तथा चोक्तम्- “प्रक्रमो
द्विपदस्त्रिपदो वा” इति । गार्हपत्याद्द्वादशसु विक्रमेषु
समाप्तेष्वाहवनीयायतनं कृत्वा तत्राऽग्निमादध्यात् । संख्यासाम्येन
मासद्वारा संवत्सरबलादेनमग्निमवरुध्याऽऽधानं कृतवान् ।
पक्षान्तरं विधत्ते-
यद्द्वाद॑शसु॒ विक्र॑मेष्वाद॒धीत॑ । परी॑मित॒मव॑रुन्धीत ।
चक्षु॑र्निमि॒त आद॑धीत । इ॒यद्द्वाद॑शविक्रा॒मा ३ इति॑ ।
परि॑मितं चै॒वाप॑रिमितं॒ चार्व॑रुन्द्धे, इति ।
द्वादशसु विक्रमेष्वाधाने सति देशस्य पादेन परिमितत्वात्फलमपि
परिमितमेव भवति । तस्माद्देशो न पादेन परिमातव्यः । किंतु चक्षुषा
दृष्ट्वा प्रायेणैतावान्देशो द्वादशविक्रामः संभवतीति निश्चित्य तत्राऽऽद-
धीत । एवं सति पादेन परिमितत्वाभावात्परिमितदोषोऽपि न भविष्यति।
चक्षुषा परिमितत्वात्तदीयगुणश्च भविष्यति । चाक्षुषनिश्चयद्योतनार्था
प्लुतिः ।
इममेव पक्षं पुनः प्रशंसति-
अनृ॑तं॒ वै वा॒चा व॑दति । अनृ॑तं॒ मन॑सा ध्यायति (१) ।
चक्षु॒र्वे स॒त्यम् । अ॒द्रा॒गित्या॑ह । अदर्श॒मिति॑ । तत्स॒त्यम् ।
यश्चक्षु॑र्निमिते॒ऽग्निमाध॑त्ते । स॒त्य ए॒वैन॒माध॑त्ते, इति ।

२२ (१.१.४) तैत्तिरीयब्राह्मणम्
वाङ्मनसयोरनृतविषयत्वमपि क्वचिद् दृष्टम् । चक्षुस्तु
पुरोवर्तिवस्तुनो याथात्म्यमेव पश्यतीति तत्सत्यस्वरूपम् । अत एव
लोकेऽपि दूरदेशवृत्तान्तं पुरुषमुखादाकर्ण्य किं त्वमेव दृष्टवानुत
श्रुतवानसीत्येवं सत्यत्वनिश्चयाय पृच्छन्ति । विचारार्था प्लुतिः ।
सोऽप्यहमेव दृष्टवानस्मीति यदा ब्रूते तदा तत्सत्यमिति निश्चिन्वन्ति ।
तस्माच्चक्षुर्निमित्तस्य सत्यत्वात्सत्यदेशेऽग्निराहितो भवति । यत्तु लोके
शुक्तिरजतादिदर्शनं तच्च काचकामलादिदोषकृतमिति न कदाचिदपि
चक्षुः सत्यं व्यभिचरति ।
इदानीं प्रसङ्गादाहिताग्नेः कंचिद्धर्मं दर्शयति-
तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तं वदेत् । नास्य॑ ब्राह्म॒णोऽना॑श्वान्गृ॒हे
व॑सेत् । स॒त्ये ह्य॑स्या॒ग्निराहि॑तः, इति ।
यस्माच्चक्षुर्निमित्तत्वेनसत्यभूतेदेशेऽ यमग्निराहितस्तस्मादाहिताग्निः
सत्यमेव वदेत् । न त्वनृतम् । सत्यानृतयोरेकत्र विरोधात् । गृहस्थस्य
गृहे ब्राह्मणस्यानश्नतो यो निवासः सोऽप्यनृतसमानः । तस्मात्तं
भोजयेदेव । देशविशेषं विधाय कालविशेषं विधत्ते-
आ॒ग्ने॒यी वै रात्रिः॑ (२) आ॒ग्ने॒याः प॒शवः॑ । ऐ॒न्द्रमहः॑ ।
नक्तं॒ गार्ह॑पत्य॒माद॑धाति । प॒शूने॒वाव॑रुन्द्धे ।
दिवा॑ऽऽह॑वनी॒यम् । इ॒न्द्रि॒यमे॒वाव॑रुन्द्धे इति ।
रात्रावग्नेः प्रकाशाधिक्याद्रात्रिराग्नेयी । एतच्चाग्निहोत्रब्राह्मण
एवोपपादितम्-“अग्निं वावाऽऽदित्यः सायं प्रविशति ।
तस्मादग्निर्दूरान्नक्तं ददृशे” इति । अग्नेः पशुप्रदत्वात्पशूनामाग्नेयत्वम् ।
एतच्चाग्न्युपस्थानब्राह्मणे देवैरभिहितम्“इममेवाग्नि ँ स्तवाम स नः स्तुतः
पशून्पुनर्दास्यतीति । तेऽग्निमस्तुवन्स एभ्यः स्तुतो रात्रिया
अध्यहरभिपशून्निराजत् ” इति । एवमिन्द्रस्याहः संबन्धो ब्राह्मणान्तराद्
द्रष्टव्यः । तस्माद्रात्रौ गार्हपत्याधानेन पशून्प्राप्नोति ।
अहन्याहवनीयाधानेन्द्रियं प्राप्नोति ।
अहन्यपि विशेषं विधत्ते-
अ॒र्धोदि॑ते॒ सूर्ये॑ आहवनी॒यमाद॑धाति । ए॒तस्मि॒न्वै लो॒के
प्र॒जाप॑तिः प्र॒जा असृ॑जत । प्र॒जा ए॒व तद्यज॑मानः सृजते ।
अथो॑ भू॒तं चैव भवि॑ष्यच्च॒र्वरु॑न्द्धे (३), इति ।

तैत्तिरीयब्राह्मणम् (१.१.४) २३
लोक्यतऽवगम्यत इति व्युत्पत्त्या लोकशब्दः कालपरः ।
अर्धोदयकाले प्रजानां सृष्टत्वात्तत्राऽऽधानं प्रजाथं भवति । अपि
चोदयस्यासंपूर्णत्वाद्वृतमतीतं रात्रिरूपं च भविष्यदागाम्यहश्चेत्युभयं प्राप्तं
भवति ।
अथाऽऽधातव्यानामग्नीनां क्रमं निर्णेतुमाहवनीयस्य प्राथम्यं
निराचष्टे-
इडा॒ वै मान॒वी य॒ज्ञानूका॒शिन्या॑सीत् । साऽशृ॑णोत् । असु॑रा
अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । त आह॑व॒नीय॒मग्र॒
आद॑धत । अथ॒ गार्ह॑पत्यम् । अथा॑न्वाहार्य॒पच॑नम् ।
साऽब्र॑वीत् प्रती॒च्यै॑षा ँ॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा
परा॑भविष्य॒न्तीति॑ (४) । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्रती॒च्य॑स्य॒
श्रीरे॑ति । भ॒द्रोभू॒त्वा परा॑भवति॒, इति॑ ।
इडा नाम गोरूपा काचिद्देवता । सा च मनुसंबन्धिनी । तत्संबन्धश्च
मानवी घृतपदी मैत्रावरुणीतीडोपाव्हानस्य ब्राह्मणे स्पष्टमाम्नातः-
“मानवीत्याह मनुह्येतामग्रेऽपश्यत्” इति । सा चेडा यज्ञानूकाशिनी
यज्ञतत्त्वप्रकाशनसमर्थाऽऽसीत् । सा कदाचिदसुराणामग्न्याधानवार्तां
श्रुत्वा द्रष्टुं गता । दृष्ट्वा मनोः पार्श्वे समागत्यैवमुवाच-“असुराः प्रथमं
पूर्वदिगवस्थितमाहवनीयमाधाय ततः पश्चिमदिगवस्थितं गार्हपत्यमाधाय
दक्षिणदिगवस्थितमन्वाहार्यपचनं चाऽऽहितवन्तः । तथा
चाऽऽधानस्कृतेन कंचित्कालं धनिका भूत्वा पश्चाद्विनाशं प्राप्स्यन्ति ।
एतेषां पश्चिमभिमुखत्वे प्रवृत्तत्वादेषां श्रीरपि प्रतीची प्रतिकूलगमना सती
तेभ्योऽसुरेभ्यो निवर्तिष्यते' इति । अतोऽसुरवदिदानींतनस्या-
ऽऽहिताग्नेरप्यन्तं पराभवो भवति ।
अथान्वाहार्यपचनस्य प्राथम्यं निराचष्टे-.
साऽशृ॑णोत् । दे॒वा अ॒ग्निमार्द॑धत॒ इति॑ । तद॑गच्छत् ।
तैऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत । अथ॒ गार्ह॑पत्यम् ।
अथा॑ऽऽहव॒नीय॑म् । साऽब्र॑वीत् (५) । प्राच्यै॑षा ँ॒ श्रीर॑गात् ।
भ॒द्रा भू॒त्वा सु॑व॒र्गं लो॒कमै॑ष्यन्ति । प्र॒जां तु न वैत्स्य॒न्त
इति॑ । यस्यै॒वम॒ग्निरा॑धीय॒ते । प्राच्य॑स्य॒ श्रीरे॑त्ति । भ॒द्रो

२४ (१.१.४) तैत्तिरीयब्राह्मणम्
भू॒त्वा सु॑व॒र्गं लो॒कमै॑ति । प्र॒जां तु न वि॑न्दते , इति ।
पूर्ववद्व्याख्येयम् । अत्र गार्हपत्यादूर्ध्वं प्राङ्मुखप्रवृत्तेर्देवानां श्रीरपि
प्राची प्रवृत्ता । प्रकृष्टं पूर्वदिगवस्थितं स्वर्गमञ्चति गच्छतीति प्राची ।
तस्माद्देवानां स्वर्गप्राप्तिर्भविष्यति, किंतु प्रजाहेतोर्गार्हपत्यस्य
पूर्वमाधानाभावात्प्रजां न लप्स्यन्ते । एवं तादृगाधानकर्तरि यजमानेऽपि
द्रष्टव्यम् ।
अथ गार्हपत्यस्य प्राथम्यं विधत्ते-
साऽब्र॑वीदि॒डा मनु॑म् । तथा॒ वा अ॒हं त्वा॒ग्निमधा॑स्यामि ।
यथा॒ प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्ज॑नि॒ष्यसे॑ (६) । प्रत्य॒स्मिँल्लो॒के
स्था॒स्यासि॑ । अ॒भि सु॑व॒र्गं लो॒कं जे॑ष्यसीति॑ । गार्ह॑पत्य॒मग्र॑
आद॑धात् । गार्ह॑पत्यं॒ वा अनु॑ प्र॒जाः प॒शवः॒ प्रजा॑यन्ते ।
गार्ह॑पत्येनै॒वास्मै॑ प्र॒जां प॒शून्प्रार्ज॑नयत् ।
अथा॑न्वाहार्य॒पच॑नम् । ति॒र्यङ्ङि॑व॒ वा अ॒यं लो॒कः ।
अ॒स्मिन्ने॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् । अथा॑ऽऽहव॒नीय॑म् ।
तेनै॒व सु॑व॒र्गं लो॒कम॒भ्यज॑यत् (७) । यस्यै॒वम॒ग्निरा॑धी॒यतै॑ ।
प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जायते । प्रत्य॒स्मिँल्लो॒के ति॑ष्ठति ।
अ॒भि सु॑व॒र्गं लो॒कं ज॑यति, इति ।
गार्हपत्यस्य प्रजापशुस्वामित्वात्तस्य प्रथमाधानेन तत्प्राप्तिः।
गार्हपत्यस्य दक्षिणभागे स्थितो योऽ यमन्वाहार्यपचनस्तस्य तिर्यक्त्वेन
वर्तमानस्योर्ध्वगमनाभावेन मनुष्यलोकसदृशत्वात्तदाधानेन मनुष्यलोके
प्रतिष्ठा। तत ऊर्ध्वमाहवनीयाधानाय प्राङ्मुखप्रवृत्तेः स्वर्गस्य च
प्राग्वर्तित्वात्तत्प्राप्तिः ।
अथाधिकारिभेदेनाऽऽधानमन्त्रविशेषान्विधत्ते-
यस्य॑ वा अय॑थादेवत॒मग्निरा॑धी॒यते॑ । आ दे॒वता॑भ्यो
वृ॒श्च्यते॑ । पापी॑यान्भवति । यस्य॑ यथादे॒वत॑म् । न
दे॒वता॑भ्य॒ आ वृ॑श्च्यते । वसी॑यान्भवति । भृगू॒णां
त्वाऽङ्गिर॑सां व्रतपते व्र॒तेनाऽऽद॑धामीति॑

तैत्तिरीयब्राह्मणम् (१.१.४) २५
भृ॒ग्वङ्गि॑रसा॒माद॑ध्यात् । आ॒दि॒त्यानां॑ त्वा दे॒वानां॑ व्रतपते
व्र॒तेनाऽऽद॑धामी॒ त्यन्यासां॑ ब्राह्म॑णीनां॑ प्र॒जाना॑म् । वरु॑णस्य
त्वा॒ राज्ञो॑ व्र॒तप॑ते व्र॒तेनाऽऽद॑धामी॒ति राज्ञः॑ । इन्द्र॑स्य
त्वे॒न्द्रिये॑ण व्रतपते व्र॒तेनाऽऽद॑धामीति॑ रा॒जन्य॑स्य ।
मनौ॑स्त्वा ग्राम॒ण्यो॑ व्रतपते व्र॒तेनाऽऽद॑धामी॒ति वैश्य॑स्य ।
ऋ॒भूणां॑ त्वा॑ दे॒वानां॑ व्रतपते व्र॒तेनाऽऽद॑धामीति॑
र॒थ॒का॒रस्य॑ । य॒थादे॒व॒तम॒ग्निनाधी॑यते । न दे॒वता॑भ्य॒
आवृ॑श्च्यते । वसी॑यान्भवति (८), इति ।
ध्यायति रात्रिञ्चावरुन्द्धे भविष्यन्तीत्य॑ब्र॒वाञ्ज॒निष्य॒सें-
ऽज्जय॒द्वसी॑यान्भवति नव॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
यस्य पुरुषस्य याऽभिमानिनी देवता तामनतिक्रम्याऽऽधानं तस्य
पुरुषस्य यथादैवतमित्युच्यते । तदतिक्रमे सति देवताद्रोहो दारिद्र्यं च
भवति । अनतिक्रमे तु देवताप्रसादो धनसंपत्तिश्च भवति । ये मनुष्या
भृगुगोत्रोत्पन्ना ये चाङ्गिरोगोत्रोत्पन्नास्तेषामुभयेषां तत्प्रतिपादकं भृगू
णामिति मन्त्रेणाऽऽधानम् । हे व्रतपते कर्मस्वामिन्नग्ने (ग्न)
भृगूणामङ्गिरसां च संबन्धिना व्रतेन कर्मविशेषेण निमित्तभूतेन
त्वामाधामीहाऽऽयतने स्थापयामीति मन्त्रार्थः । एवमुत्तरत्रापि योज्यम् ।
गोत्रान्तरगतानां ब्राह्मणानामादित्या एव देवताः । अभिषिक्तस्य राज्ञो
वरुणो देवता । इतरस्य क्षत्रियस्येन्द्रो देवता । इन्द्रियेण
व्रतेनेन्द्रियाभिवृद्धिहेतुना कर्मणेत्यर्थः । वैश्यस्य ग्रामनिर्वाहको
मनुर्देवता । रथकारोऽनुलोमजः संकीर्णजातिः । तस्य ऋभवो देवता ।
एतैर्मन्त्रैर्यथादेवतमाधानं संपद्यते ।
अत्र मीमांसा । षष्ठाध्यायस्य प्रथमपादे चिन्तितम् -
विप्रादिरेव रथकृदन्यो वाऽऽद्योऽस्तु योगतः ।
रूढवर्णान्तरं तस्याऽऽधाने वर्षर्तुरुच्यते ॥ (इति) ।
आधाने श्रूयते- “वर्षासु रथकार आदधीत” इति । तत्र रथं करोतीति
व्युत्पत्या त्रैवर्णिको रथकार इति चेत् । मैवम् । संकीर्णजातिविशेषे
रूढत्वात् । वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः । शूद्रायां वैश्यादुत्पन्ना

२६ (१.१.५) तैत्तिरीयब्राह्मणं
करिणी तस्यां करिण्यां माहिष्यादुत्पन्नो रथकारः । तथा च याज्ञवल्क्यः-
माहिष्येण करिण्यां तु रथकारः प्रजायते । इति ।
तस्य च रथकारस्याऽऽधानकालो वर्षर्तुः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
अथ पञ्चमोऽनुवाकः
चतुर्थे त्रयाणामाहवनीयादीनामाधानमुक्तम् । पञ्चमे तत्रैव
कंचिद्विशेषं पवमानहवींषि चाभिदधाति । तत्राऽऽदौ
व्याहृतिमन्त्रान्विधत्ते-
प्र॒जाप॑तिर्वा॒चः स॒त्यम॑पश्यत् । तेना॒ग्निमार्ध॑त् । तेन॒ वै स
आर्ध्नो॑त् । भूर्भुव॒: सुव॒रित्या॑ह । ए॒तद्वै वा॒चः स॒त्यम् ।
य ए॒तेना॒ग्निमा॒धत्ते॑ । ऋ॒ध्नोत्ये॒व । अथो॑ स॒त्यप्रा॑शूरे॒व
भ॑वति । अथो॒ य ए॒वं वि॒द्वान॒भिचर॑ति । स्तृ॒णुत ए॒वैन॑म्
(१), इति ।
वाचः संबन्धि यत्सत्यमवश्यंभाविफलसाधनं मन्त्ररूपं
तच्छास्त्रमुखेन (ण) दृष्ट्वा प्रजापतिस्तेनाग्निमाधाय समृद्धोऽभूत् । किं
तत्सत्यमिति पृच्छद्द्यः शिष्येभ्यो भूर्भुवः सुवरिति मन्त्रस्वरूपं प्राह ।
एतस्य वाक्संबन्धिसत्यत्वादेतेनाग्निमादधानः समृद्धो भवति । अपि
चासौ सत्याप्राशूर्भवत्येव । प्रकर्षेणाश्यते व्याप्यतेऽभिमतमनेनेति प्राशूः
पराक्रमः। सत्यः कदाचिदप्यविसंवादी प्राशूः । अपि चैवं
व्याहृतिमहिमानं विद्वान् शत्रुं मारयितुमभिचरन्नेनं हिनस्त्येव ।
सामर्थ्यप्रदर्शनेन व्याहृतित्रयं प्रशंसति--
भूरित्या॑ह । प्र॒जा ए॒व तद्यज॑मानः सृजते । भुव॒ इत्या॑ह ।
अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठत । सुव॒रित्या॑ह । सु॒व॒र्ग ए॒व
लो॒के प्रति॑तिष्ठति, इति ।
योऽयं भूरिति मन्त्रमुच्चारयत्यसौ तन्मन्त्रसामर्थ्येन प्रजाः
पुत्रपौत्रादिका उत्पादयति । एवमुत्तरयोरपि योज्यम् ।

तैत्तिरीयब्राह्मणम् (१.१.५) २७
सामान्येन विहितं व्याहृतित्रयं पुनर्विशेषाकारेण विधत्ते -
त्रि॒भि॒र॒क्षरै॒र्गा॑ह॑'पत्य॒माद॑धाति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॒वैनं॑
लो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते । सर्वैः॑ प॒ञ्चभि॑राहव॒नीय॑म् (२) ।
सु॒वर्गा॑य॒ वा ए॒ष लो॒काया॒ऽधीय॑ते । यदा॑हव॒नीयः॑ सु॒वर्ग॑
ए॒वास्मै॑ लो॒के, वाचः॑ स॒त्य ँस॑र्ठमा॒प्नोति॑, इति ।
भूर्भुव इत्येतानि त्रीण्यक्षराणि तैराधीयमानस्त्रित्वसाम्याल्लोकत्रये
प्रतिष्ठितोऽग्निराहितो भवति । भूर्भुवः सुवरिति पञ्चाक्षराणि
तैराधीयमानस्याऽऽहवनीयस्य स्वर्गाश्रयत्वात्स्वर्गे वाक्संबन्धि कृत्स्नं
सत्यमस्मै प्राप्नोति ।
अथ त्रयं पञ्चकं च मिलित्वा प्रशंसति-
त्रि॒भिर्गा॑र्हपत्य॒माद॑धाति । प॒ञ्चभि॑राहव॒नीय॑म् । अ॒ष्टौ
संप॑द्यन्ते । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रोऽग्निः॑ ।
यावा॑ने॒वाग्निः॑ । तमाध॑त्ते (३), इति ।
अग्नेर्मुखजत्वेन गायत्रीसंबन्धित्वम् ।
यदुक्तं सूत्रकारेण-“गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीपयति ।
सिकताश्चोपयमनीरुपकल्पयंते तमुद्यच्छति” इति । तदेतद्विधत्ते-
प्र॒जाप॑तिः प्र॒जा असृ॑जत । ता अ॑स्मात्सृ॒ष्टाः परा॑चीरायन् ।
ताभ्यो॒ ज्योति॒रुद॑गृह्णात् । तं ज्योतिः॒ पश्य॑न्तीः प्र॒जा
अ॒भिस॒माव॑र्तन्त । उ॒परी॑वा॒ग्निमुद॑गृ॒हीया॒दुद्धर॑न् ।
ज्योति॑रेव॒ पश्य॑न्तीः प्र॒जा यज॑मानम॒भिस॒माव॑र्तन्ते, इति ।
प्रजापतिना सृष्टाः प्रजाः पराच्यः पुनरावृत्तिरहिता यदा गतास्तदा
प्रजापतिस्ताभ्यो ज्योतिरुदगृह्णात् । अन्धकारे पलायमानानां प्रजानां
दर्शनार्थं कंचिद्दीपमूर्ध्वं धृतवान् । ताश्च प्रजा ज्योतिर्दृष्ट्वा तं
प्रजापतिमभिलक्ष्य समावृत्ताः । अतो गार्हपत्यादाहवनीयं
प्रत्यग्निमुद्धरन्नूर्ध्वमेव गृह्णीयान्नतत्त्वधो धारयेत् । तेन सर्वाः प्रजा ज्योतिः
पश्यन्त्यो यजमानं प्रत्यावर्तन्ते ।
यदुक्तं सूत्रकारेण-“प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति” इति ।
तदेतद्विधत्ते-

२८ (१.१.५) तैत्तिरीयब्राह्मणम्
प्र॒जाप॑तेर॒क्ष्य॑श्वयत् । तत्परा॑पतत् । तदश्वो॑ऽभवत् ।
तदश्व॑स्याश्व॒त्वम् (४) । ए॒ष वै प्र॒जाप॑तिः । यद॒ग्निः ।
प्रा॒जा॒प॒त्योऽश्वः॑ । यदश्वं॑ पुर॒स्तान्नय॑ति । स्वमे॒व चक्षु॑-
र्पश्य॑न्प्र॒जाप॑तिर॒नूदै॑ति, इति ।
पुरा कदाचित्प्रजापतेरक्षिगोलकं केनापि व्याधिनोच्छूनं भूत्वा भूमौ
पतितं सदश्वरूपेणोद्भूत् । अश्वयदश्वमिति व्युत्पत्या तस्याश्वनाम
संपन्नम् । अग्निश्च प्रजापतिसृष्टत्वात्प्रजापतिरेव । अश्वश्चोक्तरीत्या
प्राजापत्यः । तस्मादाहवनीयं प्रति गच्छन्नश्व पुरस्तान्नयेत् । तथा सति
स्वकीयमेव चक्षुः पश्यन्प्रजापतिरूपोऽग्निरनुगच्छति ।
एतदेवाश्वस्य पुरोगमनं पुनः प्रशंसति-
व॒ज्री वा ए॒षः । यदश्वः॑ । यदश्वं॑ पु॒रस्तान्नय॑ति ।
जा॒ताने॒व भ्रातृ॑व्या॒न्प्रणु॑दते, इति ।
वज्रिवद्युद्धेशत्रुविनाशहेतुत्वादश्वो वज्री । स च पुरस्तान्नीयमानो
यजमानस्य पूर्वमुत्पन्नान्भ्रातृव्यान्विनाशयति । वज्रसमानदन्तो-
पेतत्वाद्वाऽस्य वज्रित्वम् । एतदेवाभिप्रेत्याग्निब्राह्मणे समाम्नातम्-“वज्री
वा एष यदश्वो दद्भिरन्यतो दद्ध्यो भूयान्” इति ।
आहवनीयपर्यन्तं नीतस्याश्वस्य तेनैव पथा पुनरावृत्तिं विधत्ते-
पु॒न॒रा॒वर्त॑यति (५) । ज॒नि॒ष्यमा॑णानेव प्रति॑नुदते, इति ।
आहवनीयात्पुनरावृत्या भविष्यतः शत्रून्प्रतिबध्नाति ।
यदुक्तं सूत्रकारेण-“पूर्ववाडश्वो भवति ” इति । तदिदं विधत्ते-
न्या॑ह॒वनी॑यो॒ गार्ह॑पत्यमकामयत । नि गार्ह॑पत्य
आह॑व॒नीय॑म् । तौ वि॒भाजं॒ नाश॑क्नोत् । सोऽश्व॑: पूर्व॒वाड्
भू॒त्वा । प्राञ्चं॑ पूर्व॒मुद॑वहत् । तत्पूर्व॒वाह॑: पूर्व॒वाट् त्वम् ।
यदश्वं॑ पुर॒स्तान्नय॑ति । वि॒भक्ति॑रे॒वैन॑योः॒ सा । अथो॒
नाना॑वीर्या॒वे॒वैनौ॑ कुरुते (६), इति ।
पुरा कदाचिदाहवनीयो गार्हपत्य नितरामकामयत । गार्हपत्यधर्मं
धृतवानित्यर्थः । गार्हपत्यश्च नितरामाहवनीयधर्मं धृतवान् ।

तैत्तिरीयब्राह्मणम् (१.१.५) २९
ततस्तावूभावग्नी संकीर्णधर्मतया प्रजापतिर्विभाजं विभक्तुं नाशक्नोत् ।
ततस्तद्विभागाय स्वयं पूर्ववाडश्वो भूत्वा धर्मसांकर्यं परिहृत्य प्राञ्चं
प्राग्देशनिवासयोग्यमाहवनीयं पूर्वमुद्वहत् । पूर्वदेशं प्रत्युद्धृत्य
नीतवान् । पूर्ववाडित्यश्वविशेषः । सेनामध्य इतरेभ्योऽश्वेभ्यः । पूर्वं
वहतीति वा पूर्वस्मिन्वयस्यत्यन्तबाल्य एव वहतीति वा पूर्ववाट् ।
अतस्तादृशमश्वमत्र पुरस्तान्नयेत् । तस्य च विभागक्षमत्वादेनयोरग्न्योः
सैव विभक्तिर्विभागः संपद्यते । पूर्वदेशेऽवस्थित आहवनीयः
पश्चिमदेशेऽवस्थितो गार्हपत्य इति विभागः । अपि च य
धर्मसांकर्यपरिहारादेनावूभावग्नी भिन्नवीर्यावेव करोति ।
पत्नीसंयाजहोमाधारत्वलक्षणं वीर्यं गार्हपत्यस्यैव । आग्नेयादि-
हविराधारत्वलक्षणमाहवनीयस्यैव ।
यदुक्तं सूत्रकारेण-“न कर्णदघ्नमत्युद्गृह्णाति” इति । तदिदं विधत्ते-
यदु॑र्पर्युप॒रि शिरो॒ हरे॑त् । प्रा॒णान्वि॑च्छिन्द्यात् अधो॒ऽधः
शिरो॑ हरति । प्रा॒णानां॑ गोपी॑थाय, इति ।
हस्तेनोद्धृत्याऽऽहवनीयं प्रति नीयमानमग्निं शिर उपर्युपरि
शिरःसमीपवर्तिन्यूर्ध्वभागे धृत्वा यदि हरेत्तदा प्राणा विच्छिद्येरन् । अतः
प्राणरक्षणाय शिरसः समीपवर्तिन्यधः प्रदेशे धृत्वा नयेत् ।
यदुक्तं सूत्रकारेण-“जानुदघ्न धारयमाणस्तृतीयमध्वनोऽग्नि ँ
हरति नाभिदघ्ने तृतीयमास्यदघ्ने तृतीयम्” इति ।
तदेतदङ्गुल्याऽभिनयन्विधत्ते-
इ॒यत्यग्रे॑ हरति । अथे॒यत्यथेय॑ति । त्रय इ॒मे लो॒काः ।
ए॒ष्वेवैनं॑ लो॒केषु॒ प्रति॑ष्ठितमाधत्ते, इति ।
इयति जानुदघ्ने । एवं नाभिदघ्नास्यदघ्नयोरपि ।
एतस्मादग्निप्रणयनात्पूर्वमग्नेर्विभागं विधत्ते-
प्र॒जाप॑तिर॒ग्निम॑सृजत । 'सोऽबि॑भेत्प्र मां ध॑क्ष्य॒तीति॑ (७) ।
तस्य॑ त्रे॒धा म॑हि॒मानं॒ व्यौ॑हत् । शान्त्यै॒ अप्र॑दाहाय ।
यत्रे॒धाऽग्निराधी॒यते॑ । म॒हि॒मान॑मेवास्य॒ तद्व्यू॑हति ।
शान्त्यै॒ अप्र॑दाहाय, इति ।

३० (१.१.५) तैत्तिरीयब्राह्मणम्
अग्निं सृष्ट्वा तदीयदाहाद्बिभ्यत्प्रजापतिस्तदीयसामर्थ्यं त्रेधा व्यभजत् ।
सोऽयं विभागो ज्वालायाः शान्त्यै स्वविषये दाहाभावाय च संपन्नः ।
एवमत्राऽऽधित्सुरपि गार्हपत्यादग्नेरेकं भागमाहवनीयार्थमपरं भागं
दक्षिणाग्न्यर्थं च विभज्य शान्त्यर्थमपदाहार्यं च त्रेधा कुर्यात् ।
तत्राऽऽहवनीयार्थस्याग्नेराहवनीयायतनं प्रति नयनं विधत्ते-
पुन॒राव॑र्तयति । म॒हिमान॑मे॒वास्य॒ संद॑धाति, इति ।
विभागेन योऽग्नेर्महिमा शान्तस्तं महिमानं पुनः संधातुं
विभक्तमग्निमाहवनीयायतने स्थापयेत् ।
तत्र स्थापने कंचिद्विशेषं विधत्ते-
प॒शुर्वा ए॒षः। यदश्व॑ः । ए॒ष रु॒द्रः (८) । यद॒ग्निः ।
यदश्व॑स्य प॒दैऽग्निमा॒दध्या॑त् रु॒द्राय॑ प॒शूनपि॑दध्यात् ।
अ॒प॒शुर्यज॑मानः स्यात् । यन्नाऽऽक्र॒मये॑त् । अन॑वरुद्धा अस्य
प॒शव॑: स्युः । पा॒र्श्वत॒ आक्र॑मयेत् ।
यथाऽऽहि॑तस्या॒ग्नेर॒ङ्गारा॑ अ॒भ्यव॒वर्तेर॑न् । अवरु॑द्धा अस्य
प॒शवो॑ भवन्ति । न रु॒द्रायापि॑दधाति (९), इति ।
अत्रेदं चिन्त्यते । पुरस्तादानीतमश्वं किमाहवनीयायतनमाक्रमयेन्न
वेति । उभयमप्येतदनुपपन्नम् । अश्वस्य पशुत्वात् । अग्नेः
क्रूरदेवतावत्वाच्च । अश्वपदलाञ्छिते प्रदेशेऽग्निस्थापने सति क्रूरदेवाय
पशून्समर्पयेत् । ततो यजमानः पशुरहितः स्यात् । अनाक्रमणे तु
यजमानस्य पशवो न संभवेयुः । अत उभयदोषपरिहारार्थमायतनस्य
कस्मिंश्चित्पार्श्वे तमश्वमाक्रमयेत् । स्वायतने स्थापितस्य
प्रज्वाल्यमानस्याग्नेरङ्गारा येन प्रकारेण तदश्वपदमभिलक्ष्य स्वत एव
प्रवृत्ता भवन्ति तथा समीपवर्तिप्रदेशमाक्रमयेत् । एवं
सत्यङ्गाराणामश्वपदे प्रविष्टत्वात्पशवोऽपि लभ्यन्ते । स्वयं
बुद्धिपूर्वकमश्वपदेऽग्नेरप्रतिष्ठापनादुग्रदेवाय पशवोऽपि न समर्पिता
भवन्ति ।
इत्थमाधानगतो विशेषो निरूपितः । अथ पवमानहवींषि विधत्ते-
त्रीणि॑ ह॒वी * षि॒ निर्व॑पति । वि॒राज॑ ए॒व वि॒क्रांतं॒
यज॑मा॒नोऽनु॒विक्र॑मते, इति ।

तैत्तिरीयब्राह्मणम् (१.१.५) ३१
विशेषेण राजत इति विराडग्निरस्तस्य विक्रान्तं सामर्थ्यमनु
यजमानोऽपि विक्रमते समर्थो भवति ।
सामान्येन विहितानां हविषां देवताविशेषान्विधत्ते-
अ॒ग्नये॑ प॒वमा॑नाय । अ॒ग्नये॑ पाव॒काय॑ । अ॒ग्नये॒ शुच॑ये ।
यद॒ग्नये॑ प॒वमा॑नाय॒ निर्व॑पति । पु॒नात्ये॒वैन॑म् । यद॒ग्नये॑
पाव॒काय॑ । पू॒त ए॒वास्मि॒न्नन्नाद्यं॑ दधाति । यद॒ग्नये॑
शुच॑ये । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति (१०), इति ।
ए॒न॒मा॒ह॒व॒नी॒यं ध॑त्ते॒ऽश्व॒त्वं व॑र्तयति कुरुत॒ इति॑ रु॒द्रो द॑धाति॒ यद॒ग्नये॒
शुच॑य॒ एकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
पवमानः स्वयं शुद्धः । पावकोऽन्यस्य शोधकः । शुचिर्दीप्यमानः ।
तत्र प्रथमं यजमानशुद्धिः। द्वितीयेनान्नप्राप्तिः । तृतीयेन
फलद्वयस्योपरिष्टाद्ब्रह्मवर्चसप्राप्तिः । अत्र मीमांसा । तृतीयाध्यायस्य
षष्ठपादे चिन्तितम्-
संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्ट्यः ।
वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः ॥
चोदकः पवमानेष्टौ न ता प्रापयितु प्रभुः ।
अनङ्गत्वेष्यसिद्धिभ्यामिष्ट्यस्तदसंस्कृते ॥ (इति ) ॥
पवमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते ।
संस्कृतेष्वग्निहोत्रदर्शपूर्णमासादिक्रतवः प्रवर्तन्ते । तथा सति विमताः
पवमानेष्ट्यस्ताभिरिष्टिभिः संस्कृते वह्नौ कर्तव्या इष्टत्वादितरेष्टिवत् ।
चोदकोऽप्येवं सत्यनुगृहीतो भवति । एताभिरिष्टिभिः संस्कृते वह्नौ
प्रकृत्यनुष्ठानादिति प्राप्ते ब्रूमः । यद्यपि पवमानेष्टेर्विकृतिस्तथाऽपि
चोदको न तस्यां पवमानेष्टौ तां पवमानेष्टिमतिदेष्टुं प्रभवति । प्रकृतौ
प्रयाजादिवत्पवमानेष्टेरङ्गत्वभावात् । किंचेतरस्याः पवमानेष्टेः
संस्कृताग्निसिद्ध्यर्थं पवमानेष्ट्यन्तराङ्गीकारं तत्रापि
तथेत्यनवस्थायामिष्टिरेव न सिध्येत् । तस्मात्ताभिरिष्टिभिरसंस्कृते वह्नौ
पवमानेष्टयः कर्तव्याः। दशमाध्यायस्य द्वितीयपादे चिन्तितम्-

३२ (१.१.६) तैत्तिरीयब्राह्मणम्
लुप्यते पवमानेष्टौ निर्वापः क्रियतेऽथवा ।
लुप्यते साधनः भावात्तेन मुख्यो न लुप्यते ॥ (इति) ।
आधानप्रकरणाग्नाताया पवमानेष्टौ निर्वापसाधनं नास्ति ।
अग्निहोत्रहवणी हि प्रकृतौ निर्वापसाधनं सा चाऽऽधानकाले न
संभवति । अग्निहोत्रस्याऽऽधानोत्तरकालीनत्वेन तद्धोमसाधनभूता-
यास्तस्या अपि तथात्वादिति प्राप्ते ब्रूमः। मुख्यो निर्वापस्तं प्रति
गुणभूताऽग्निहोत्रहवणी । न हि गुणलोपेन मुख्यो लोप्तुमर्हति ।
किञ्चाऽधानकाले स्वरूपेणैवाविद्यमानाया अग्निहोत्रहवण्याः साधनत्वं
दूरापेतम् । ततः साधनाभावादित्यनुपन्यासः । तस्मान्निर्वापो न लुप्यते ।
पञ्चमाध्यायस्य तृतीयपादे- चिन्तितम्-
आहिते पवमानेष्टिसंस्कृते वाऽग्निहोत्रकम् ।
आधानेनाग्निनिष्पातेस्तन्मात्रे कर्म संभवेत् ॥
आधानस्यानपेक्षस्य नाप्युत्पादकता मता ।
समुच्चितस्य हेतुत्वात्कर्म स्यादिष्टिसंस्कृते ॥ (इति)।
अग्न्याधानादूर्ध्वं विलम्ब्य पवमानेष्टयः क्रियन्ते । द्वादशसु
रात्रीष्वनुनिर्वपेदितीष्टिकालविधानात् । ताभ्यः पुरा द्वादशसु
दिनेष्वग्निहोत्रमनुष्ठेयम् । आधानमात्रेणाऽऽहवनीयाद्यग्नेर्निष्पन्नत्वादिति
प्राप्ते ब्रूमः । आधानेन पवमानेष्टिनिरपेक्षेण नाऽऽहवनीयाद्यग्निरुत्पद्यते ।
अन्यथा पवमानेष्टिवैयर्थ्यप्रसङ्गात् । न च .विकल्पः । आधानमुपजीव्य
तस्मादुत्तरकाले विधानात् । तत इष्टिभिः समुच्चित्यैवा ·
ऽऽधानमग्न्युत्पादकमितीष्टिभिः संस्कृते वह्नौ पश्चादग्निहोत्रानुष्ठानम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठोऽनुवाकः ।
पञ्चमे पवमानहवींषि संक्षिप्योक्तानि । अथ षष्ठे तद्विस्तारो
हविरन्तराणि दक्षिणाश्चोच्यन्ते। तत्र प्रथमं तावत्पवमानहविषां
देवताविशेषस्य पूर्वमुक्तत्वानदनुवादेन हविर्विशेषं विधत्ते-
दे॒वा॑सु॒रा संय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमुप॑यन्तः॒ अ॒ग्नौ
वा॒मं वसु॒ संन्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो