तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 60, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.५) ३१
विशेषेण राजत इति विराडग्निरस्तस्य विक्रान्तं सामर्थ्यमनु
यजमानोऽपि विक्रमते समर्थो भवति ।
सामान्येन विहितानां हविषां देवताविशेषान्विधत्ते-
अ॒ग्नये॑ प॒वमा॑नाय । अ॒ग्नये॑ पाव॒काय॑ । अ॒ग्नये॒ शुच॑ये ।
यद॒ग्नये॑ प॒वमा॑नाय॒ निर्व॑पति । पु॒नात्ये॒वैन॑म् । यद॒ग्नये॑
पाव॒काय॑ । पू॒त ए॒वास्मि॒न्नन्नाद्यं॑ दधाति । यद॒ग्नये॑
शुच॑ये । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति (१०), इति ।
ए॒न॒मा॒ह॒व॒नी॒यं ध॑त्ते॒ऽश्व॒त्वं व॑र्तयति कुरुत॒ इति॑ रु॒द्रो द॑धाति॒ यद॒ग्नये॒
शुच॑य॒ एकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
पवमानः स्वयं शुद्धः । पावकोऽन्यस्य शोधकः । शुचिर्दीप्यमानः ।
तत्र प्रथमं यजमानशुद्धिः। द्वितीयेनान्नप्राप्तिः । तृतीयेन
फलद्वयस्योपरिष्टाद्ब्रह्मवर्चसप्राप्तिः । अत्र मीमांसा । तृतीयाध्यायस्य
षष्ठपादे चिन्तितम्-
संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्ट्यः ।
वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः ॥
चोदकः पवमानेष्टौ न ता प्रापयितु प्रभुः ।
अनङ्गत्वेष्यसिद्धिभ्यामिष्ट्यस्तदसंस्कृते ॥ (इति ) ॥
पवमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते ।
संस्कृतेष्वग्निहोत्रदर्शपूर्णमासादिक्रतवः प्रवर्तन्ते । तथा सति विमताः
पवमानेष्ट्यस्ताभिरिष्टिभिः संस्कृते वह्नौ कर्तव्या इष्टत्वादितरेष्टिवत् ।
चोदकोऽप्येवं सत्यनुगृहीतो भवति । एताभिरिष्टिभिः संस्कृते वह्नौ
प्रकृत्यनुष्ठानादिति प्राप्ते ब्रूमः । यद्यपि पवमानेष्टेर्विकृतिस्तथाऽपि
चोदको न तस्यां पवमानेष्टौ तां पवमानेष्टिमतिदेष्टुं प्रभवति । प्रकृतौ
प्रयाजादिवत्पवमानेष्टेरङ्गत्वभावात् । किंचेतरस्याः पवमानेष्टेः
संस्कृताग्निसिद्ध्यर्थं पवमानेष्ट्यन्तराङ्गीकारं तत्रापि
तथेत्यनवस्थायामिष्टिरेव न सिध्येत् । तस्मात्ताभिरिष्टिभिरसंस्कृते वह्नौ
पवमानेष्टयः कर्तव्याः। दशमाध्यायस्य द्वितीयपादे चिन्तितम्-