तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
इस ग्रन्थ के बारे में
तैत्तिरीय ब्राह्मण कृष्ण यजुर्वेद की तैत्तिरीय संहिता से जुड़ा ब्राह्मण-ग्रन्थ है और इसे उसी संहिता का विस्तार माना जाता है। पुस्तक के पिछले आवरण पर बताया गया है कि विद्वान इसे सबसे प्राचीन उपलब्ध ब्राह्मणों में गिनते हैं; शतपथ ब्राह्मण की तरह इसका पाठ भी स्वरांकित है, और सायणाचार्य ने अपने भाष्य-कार्य का आरम्भ इसी ब्राह्मण से किया था। ग्रन्थ तीन काण्डों में है: पहले और दूसरे काण्ड में आठ-आठ और तीसरे में बारह प्रपाठक हैं।
यह नाग पब्लिशर्स, दिल्ली का संस्करण है, जिसमें सायणाचार्य के भाष्य सहित पाठ प्रो. पुष्पेन्द्र कुमार ने प्रस्तुत किया है; यह उसका पहला भाग है। संस्कृत भूमिका में ब्राह्मण की विशेषताओं, उसकी भाषा की प्राचीनता और उसमें आने वाले पुरूरवा-उर्वशी जैसे आख्यानों की चर्चा है। पाठ का आरम्भ अग्न्याधान की विधि से होता है, और उपहोम, सोमयाग आदि श्रौत कर्मों का विवेचन आगे के अनुवाकों में मिलता है। अनुवाकों की विस्तृत सूची भी दी गई है।
लगभग ३४५ पृष्ठों का यह भाग वैदिक यज्ञ-विधान और ब्राह्मण साहित्य के अध्येताओं के लिए उपयोगी है।
तैत्तिरीयब्राह्मणम् (१.५.१०) २५७
तं त्रि॒वृता॑ऽभि॒प्रास्तु॑वत । तं त्रि॒वृता॑ऽऽद॑दत । तं
त्रि॒वृता॑ऽऽहर॑न् । याव॑ती त्रि॒वृतो॒ मात्रा॑, इति ।
त्रिवृता तिस्रो वृत्तस्तृचरूपावयवा यस्य स्तोमस्य सोऽयं
स्तोमस्त्रिवृत् । तेन स्तोमेन देवास्तमादित्यं स्तुत्वा तं स्वाधीनत्वेन
समादाय स्वापेक्षिते स्थाने समाहरन् । तस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२५८ (१.५.१०) तैत्तिरीयब्राह्मणम्
यावती भोग्यवस्तुसंपत्तिस्तावतीमयं यजमानः प्राप्नोति । अयमेवार्थः
संग्रहेण पुनरपि स्पष्टी क्रियते । अग्निरेव त्रिवृत्स्तोमाभिमानी देवः ।
तस्य चाग्नेररण्यादिकं दहतो दहनवेलायां धूम उद्गत्यानुक्रमेण यावन्तं
देशं विविधं व्याप्नोति तावती त्रिवृत्संबन्धिनी भोगभूमिः । तस्मादुद्गातार
एनं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.५.१०) २५९
इत्येकविंशस्तोमपूरकत्वेनाऽऽदित्यस्याऽऽम्नातत्वादादित्य एकविंशस्तो-
मस्वामी। अन्यत्सर्वं पूर्ववद्व्याख्येयम्।
पुरा याभ्यां कुशीभ्यां चात्वालो देवैः परिगृहीतस्तयोः
कुश्योरपनयनं दर्शयति-
ते कु॒श्यौ॑। व्य॑घ्नन्। ते अ॑होरा॒त्रे अ॑भवताम्। अह॑रेव
सु॒वर्ण॑ऽभवत्। र॒ज॒ता
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६० (१.५.११) तैत्तिरीयब्राह्मणम्
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥
अथ पञ्चमप्रपाठक एकादशोऽनुवाकः ।
दशमे त्रिवृदादिस्तोमा विहिताः । एकादशे सवनीयपशुपुरोडाशा
उच्यन्ते । यदुक्तं संहितायाः षष्ठे काण्डे-“तस्मादनुसवनं पुरोडाशा
निरूप्यन्ते” इति । ते पुरोडाशा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.५.११) २६१
एवं चतुष्टोमत्वं स्तोमानां ज्योतिष्टोमत्वं
चाभिधायोपाऽऽख्यायिकामुखेन सवनीयपुरोडाशान्प्रपञ्चयति-
सो॑ऽब्रवीत् । स॒प्तद॒शेन॒ ह्रिय॑माणो॒ व्य॑लेशिषि ।
भि॒षज्य॑तमेति॑ । तम॒श्विनौ॑ धा॒ना भि॑रभिषज्य॒ताम् । पू॒षा
क॑र॒म्भेण॑ भार॑ती परिवा॒पेण॑ । मि॒त्रावरु॑णौ पय॒स्य॑या, इति॑ ।
पूर्वस्मिन्ननुवाके तस्य सप्तदशेन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६२ (१.५.११) तैत्तिरीयब्राह्मणम्
एका॑दशकपालेन॒ माध्यं॑दिने॒ सव॑ने । विश्वे॑ दे॒वा
द्वाद॑शकपालेन तृती॑यसव॒ने (३), इति ।
तमादित्यम् । न चात्रेन्द्रस्य स्तोतव्यत्वे सति भेषज्येना-
ऽऽदित्यस्तुतिस्युक्तेति वाच्यम् । इन्द्रस्यैव मूर्त्यन्तरं
स्वीकृत्याऽऽदित्यरूपेणावस्थितत्वात् । अथवाऽदितेः पुत्र इति
व्युत्पत्त्याऽऽदित्यशब्देनेन्द्र एव विवक्षित इति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् [१.५.१२] २६३
अथ पञ्चमप्रपाठके द्वादशोऽनुवाकः
एकादशे सवनीयपुरोडाशः प्रपञ्चिताः । अथ द्वादशे सप्त च्छन्दांसि
प्रपञ्च्यन्ते । तत्राऽऽदौ श्रायन्तीयवारवन्तीयनामनिरुक्तिद्वारा प्रशंसति-
तस्या॒ वाचो॑ऽवपा॒दाद॑बिभयुः। तमे॒तेषु॑ स॒प्तसु॒ च्छन्द॑:-
स्वश्रयन् । यदश्र॑यन् तच्छा॑य॒न्तीय॑स्य श्रायन्ती॒यत्वम्॑ ।
यदवा॑रयन् । यद्वा॑र॒वन्ती॑यस्य
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६४ (१.५.१२) तैत्तिरीयब्राह्मणम्
समर्थानि । कैश्चिदक्षरैर्न्यूनत्वात् । स च न्यूनाधिकभावः श्रुत्यैव
दर्शयिष्यते । तदानीं स आदित्यस्तानि षडपि च्छन्दांसि परित्यज्य
बृहतीमेवस्वकार्यक्षमियमित्थेवं स्पृष्टवान् । सा च बृहती स्वकार्येषु षट्
त्रिंशदक्षरेषु द्वे एवाक्षरे अहोरात्ररूपतामापाद्य ताभ्यामादित्यस्योपकरोति ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.५.१२) २६५
च॒त्वार्य॑क्ष॒राण्यप॑च्छि॒द्याऽऽद॑धात् (३) । ते बृ॒ह॒ती ए॒व
भू॒त्वा । बृ॒ह॒तीमुप॒सर्म॑श्रयताम्, इति ।
यानि पङ्क्त्यादीनि बृहत्या अधिकाक्षराणि यानि चानुष्टुबादीनि
बृहतीं पूरयितुं न पर्याप्तानि तानि द्विविधान्यपि स्वमनस्येवममन्यन्त ।
वयं निर्वीर्याणि बृहतीकार्यं संपादयितुमसमर्थान्यतो हीनान्यधामानीति ।
तेषां खेदं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६६ (१.५.१२) तैत्तिरीयब्राह्मणम्
छन्दो॑रथ॒मास्था॑य । ए॒तमध्वा॑न॒मनु॒सम॑चरत् । ए॒त ँह॒ वै
छन्दो॑रथ॒मास्था॑य । ए॒तमध्वा॑न॒मनु॒संच॑रति । येनै॑ष
ए॒तत्संचर॑ति । य ए॒वं वि॒द्वान्त्सोमे॑न॒ यज॑ते । य उ॑ चैनमे॒वं
वैद॑ (५), इति ।
अभवन्वाव सा देवाक्षरा बृ॒ह्त्य॑दधा॒द्द्वाद॑शा॒क्षरा॑ण्य-
पृ॒च्छ॒द्यो॑द॒धादा॒स्थाय॒ षट् च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंब्राह्मणं राजसूयस्य प्रोक्तं षष्ठे च सप्तमे ॥
तैत्तिरीयब्राह्मणम् (१५.१२) २६७
नक्षत्रद्वारकः पुण्यः काल उक्तो द्वितीयेके ॥
हेयाहेयावहर्भागौ तृतीये समुदीरितौ ।
तुर्ये पात्रोक्तिरन्यस्मिन्मन्त्रा वपनगाः श्रुताः ॥
षष्ठे तद्ब्राह्मणं मन्त्रा इष्टकार्था द्वयोः श्रुताः॥
चतुर्षु नवमाद्येषु साङ्गः सोम उदीरितः ॥
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें२६८ (१.६.१) तैत्तिरीयब्राह्मणम्
व्याख्यातोऽवेक्ष्यतां तत्र काण्डोऽत्र समापितः ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.६.१) २६९
नि॒रव॑दयते । ए॒ष ते॑ निर्ऋ॑ते भा॒ग इत्या॑ह । निर्दि॑श-
त्ये॒वैना॑म् । भू॒तै ह॒विष्म॑त्यसीत्या॑ह । भूमि॑मे॒वोपाव॑र्तते ।
ञ्चेमम॒ हँस॒ इत्या॑ह । अ ँह॑स ए॒वैनं॑ मुञ्चति । अ॒ङ्गुष्ठाभ्यां॑
जुहोति(३)। अ॒न्तत॑ एव निर्ऋतिं॒ निर॑वदयते । कृ॒ष्णं वास॑:
कृ॒ष्णतू॑षं दक्षि॑णा । ए॒तद्वै
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंभव॑ति । अ॒ग्निर्वै य॒ज्ञमु॒खम् । य॒ज्ञमु॒खमे॒वर्धि॑ पु॒रस्ता॑द्धत्ते ।
यदै॒न्द्रं दधि॑ (८) । इ॒न्द्रि॒यमे॒वाव॑रुन्थे । ऋषभो व॒ही
दक्षि॑णा । यद्व॒ही । तेना॑ऽऽग्ने॒यः । यदृ॑ष॒भः। तेनै॒न्द्रः
समृ॑द्ध्यै । याव॑ती॒र्वै प्र॒जा ओष॑धीना॒महु॑ताना॒माशन॑न् । ताः
परा॑भवन् । आ॒ग्र॒य॒णं भव॑ति हु॒ताद्या॑य ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंतैत्तिरीयब्राह्मणम् (१.६.२) २७१
प्राजा॑यन्त । सोऽग्नि॒रक॑मयत । अह॒मि॒माः
प्र॒ज॑नयेय॒मिति॑ । स प्र॒जाप॑तये॒ शुच॑मदधात् ।
सो॑ऽशोचत्प्र॒जामि॒च्छमा॑नः । तस्मा॒द्यं च॑ प्र॒जा भु॒नक्ति॒ यं
च॒ न । तावु॒भौ शौचतः प्र॒जामि॒च्छमा॑नौ ।
तास्व॒ग्निम॒पर्य॑सृजत् । ता अ॒ग्निरध्यै॑त् (१) सोमो॒
रेतो॑ऽदधात् । स॒वि॒ता प्राज॑नयत् । सर॑स्वती॒ वाच॑मदधात् ।
पू॒षाऽपो॑षयत् । ते वा ए॒ते त्रिः सं॑वथ्स॒रस्य॒ प्रयु॑ज्यन्ते । ये
दे॒वाः पु॒ष्टिपतयः । सं॒व॒थ्स॒रो वै प्र॒जाप॑तिः ।
सं॒व॒थ्स॒रेणै॒वास्मै॑ प्र॒जाः प्राज॑नयत् । ताः प्र॒जा जा॒ता
म॒रुतो॑ऽघ्नन् । अ॒स्मानपि॑ न प्रायु॑क्ष॒तेति॑ (२) स ए॒तं
प्र॒जाप॑तिमरुत ँस॒प्तक॑पालमपश्यत् । तं निर॑वपत् । ततो॒
वै प्र॒जाभ्यो॑ऽकल्पत । यन्मा॑रु॒तो नि॑रू (रु) प्यते॑ । य॒ज्ञस्य॒
क्लृप्त्यै॑ । प्र॒जाना॒मघा॑ताय स॒प्तक॑पालो भवति । स॒प्त ग॒णा
वै म॒रुतः॑ । ग॒णश ए॒वास्मै॒ विशं॑ कल्पयति । स
प्र॒जाप॑तिरशोचत् (३) । याः पूर्वाः॑ प्र॒जा असृ॑क्षि । म॒रुत॒स्ता
अव॑धिषुः । क॒थमप॑राः सृ॒जेयेति॑ । तस्य॒ शुष्म॑आ॒ण्डं भू॒तं
निर॑वर्तत । तद् व्युद॑हरत् । तद॑पोषयत् । तत्प्राजा॑यत ।
आ॒ण्डस्य॒ वा ए॒तद्रूपम् । यदा॒मिक्षा॑ । यद् व्युद्धर॑ति (४) ।
प्र॒जा एव तद्यज॑मानः पोषयति । वै॒श्व॒दे॒व्या॑मि॒क्षा भ॑वति ।
वै॒श्व दे॒व्यौ वै प्र॒जाः । प्र॒जा ए॒वास्मै॑ प्र॒जनय॑ति ।
वा॒जिन॒मान॑यति । प्र॒जास्वे॒व प्र॒जाता॑सु रेतो॑ दधाति ।
द्यावा॑पृथि॒व्य॑ एक॑कपालो भवति । प्र॒जा एव प्र॒जाता॑
द्यावा॑पृथि॒वीभ्या॑मु॒भयतः॒ परि॑गृह्णाति । दे॒वा॒सु॒राः संय॑त्ता
आसन् । सो॑ऽग्नि॒रब्र॑वीत् (५) । मामग्रे॑ऽब्र॑वीत् । मया॒
मु॒खेनासु॑राञ्जेष्यथेति॑ । मां द्वि॒तीय॒मिति॒ सोमो॑ऽब्रवीत् ।
मया॒ राज्ञा॑ जेष्य॒थेति॑ । मा तृ॒तीय॒मिति॑ सवि॒ता । मया॒
२७२ (१.६.३) तैत्तिरीयब्राह्मणम्
प्रसू॑ता जे॒ष्यथेति॑ । मां च॑तु॒र्थी॒मिति॑ सर॑स्वती । इ॒न्द्रियं॑
वो॒ऽहं धा॑स्या॒मीति॑ । मां प॑ञ्च॒ममिति॑ पू॒षा । मया॑
प्रति॑ष्ठया जे॒ष्यथेति॑ । (६) । तेऽग्निना॒ मुखे॑नासु॑रानजयन् ।
सोमे॑न॒ राज्ञा॑ । स॒वि॒त्रा प्रसू॑ताः । सर॑स्वतीन्द्रि॒यम॑दधात् ।
पू॒षा प्रति॑ष्ठाऽऽसी॑त् । ततो॒ व दे॒वा व्य॑जयन्त । यदे॒तानि॑
ह॒वीꣳषि॑ नि॒रुष्य॑न्ते विजि॑त्यै । नोत्त॑रवे॒दिमुप॑वपति ।
प॒शवो॒ वा उत्त॑रवे॒दिः । अजा॑ता इव॒ ह्येतर्हि॑ प॒शव॑: (७) ।
ऐ॒दित्य॑शो॒चद्यु॒द्धर॑त्यब्रवीत्याप्र॒त्ष्ठया॑ जे॒ष्यथेत्येतर्हि॑ प॒शव॑: ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
षष्ठाध्याये द्वितीयोऽनुवाकः ॥ २ ॥
अथ षष्ठप्रपाठके तृतीयोऽनुवाकः ।
त्रि॒वृद्ब॒र्हिर्भव॑ति । मा॒ता पि॒ता पु॒त्रः । त॒देव तन्मि॑थु॒नम् ।
उल्बं॒ गर्भो॑ जरायु॑ । त॒देव तन्मि॑थु॒नम् । त्रे॒धा ब॒र्हिः संन॑द्धं
भ॑वति । त्र्य॑ इ॒मे लो॒काः । ए॒ष्वेव लो॒केषु॒ प्रति॑तिष्ठति
एक॑धा पु॒नः संन॑द्धं भवति । एक॑ इव॒ ह्य॑यं लो॒कः (१) ।
अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑तिष्ठति । प्र॒सुवौ॑ भवन्ति ।
प्र॒थ॒म॒जा॒मे॒व पुष्टि॒मव॑रुन्धे । प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा
समृ॑द्ध्यै । पृष॒दाज्यं॑ गृ॑ह्णाति । प॒शवो॒ वै पृ॑ष॒दाज्यम्॑ ।
प॒शूने॒वाव॑रुन्धे । प॒ञ्च॒गृही॑तं भव॑ति । पा॒ङ्क्ता हि प॒शव॑:।
ब॒हुरूपं॑ भव॑ति (२) । ब॒हु॒रूपा॒ हि प॒शव॑: समृ॑द्ध्यै । अ॒ग्निं
म॑न्थन्ति । अ॒ग्नि॒मुखा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । यद॒ग्निं
म॒न्थन्ति॑ । अ॒ग्नि॒मुखा॑ ए॒व तत्प्र॒जा यज॑मानः सृजते । नव॑
प्र॒जाया॑ (याजा) ईज्यन्ते । नवा॑नूया॒जाः । अ॒ष्टौ हवीꣳ॑
षि॑ । द्वावा॑घा॒रौ । द्वावाज्य॑भागौ (३)। त्रि ꣳ॑शत्संप॑द्यन्ते ।
त्रि ꣳ॑ शद॑क्षरा वि॒राट् । अन्नं॑ वि॒राट् ।
वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । यज॑मानो॒ वा एक॑कपालः । तेज॒
आज्य॑म् । यदेक॑कपा॒ल॒ आज्य॑मानय॑ति । यज॑मानमे॒व
तेज॑सा॒ समर्ध॑यति । यज॑मानो॒ वा एक॑कपालः । प॒शव॒
आज्य॑म् (४) । यदेक॑कपा॒ल॒ आज्य॑मानय॑ति । यज॑मानमे॒व
प॒शुभिः॒ समर्ध॑यति । यदल्प॑मान॒येत् । अल्पा॑ एनं प॒शवो॑
भु॒ञ्जन्त॒ उप॑तिष्ठेरन् । यद्ब॒ह्वाना॒येत् । ब॒ह्व॑ एनं प॒शवो
भु॒ञ्जन्त॒ उप॑तिष्ठेरन् । ब॒ह्नानीयाऽऽविः पृ॒ष्ठं कु॑र्यात् । ब॒ह्व॑
ए॒वैनं॑ प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठन्ते । यज॑मानो॒ वा
एक॑कपालः । यदेक॑कपालस्याव॒द्येत् । (५) ।
यज॑मानस्याव॒द्येत् । उद्वा माद्ये॒द्यज॑मानः । प्र वा॑ मीयेत ।
स॒कृदे॒व होत॑व्यः । स॒कृदि॑व॒ हि सु॑व॒र्गो लो॒कः ।
हु॒त्वाऽभिजु॑होति । यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयित्वा ।
तेज॑सा॒ समर्ध॑यति । यज॑मानो॒ वा एक॑कपालः । सु॒व॒र्गो
लो॒क आ॑हव॒नीयः (६) यदेक॑कपालमाहव॒नीये॑ जु॒होति॑ ।
यज॑मानमे॒व सु॑व॒र्गं लो॒कं ग॑मयति । यद्धस्ते॑न जुहु॒यात् ।
सु॒व॒र्गाल्लो॒का द्यज॑मान॒मर्व॑विध्येत् । स्रुचा जु॑होति ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ समर्ष्ट्यै॑ । यत्प्राङ्पद्ये॑त ।
दे॒व॒लो॒कम॑भिजयेत् । यद्दक्षिणा पि॑तृलो॒कम् । यत्प्रत्यक्
(७) । रक्षा ँ 'सि य॒ज्ञ ँ ह॑न्युः । यदुदङ् ।
म॒नु॒ष्य॒लो॒कम॑भिजयेत् । प्रति॑ष्ठितो होत॒व्यः॑ । एक॑कपालं॒
वै प्रति॑तिष्ठन्तं॒ द्यावा॑पृथि॒वी अनुप्रति॑तिष्ठतः ।
द्यावा॑पृथि॒वी ऋ॒तवः॑ । ऋ॒तून्य॒ज्ञः । य॒ज्ञं यज॑मानः ।
यज॑मानं प्र॒जाः । तस्मा॒त्प्रति॑ष्ठितो होत॒व्यः॑ । (८) वा॒जिनौ॑
यज॑ति । अ॒ग्निर्वा॒युः सूर्यः॑ । ते वै वा॒जिनः॑ । ताने॒व
तर्प॑यति । अथो॒ खल्वा॑हुः । छन्दाँ॑ सि॒ वै वा॒जिन॒ इति॑ ।
तान्ये॒व तर्प॑यंति । ऋ॒क्तगा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॑ ।
२७४ (१.६.४) तैत्तिरीयब्राह्मणम्
तयो॑: परि॒धय॒ आधा॑नम् । वा॒जिनं॑ भाग॒धेय॑म् । (९) ।
यदप्र॑हृत्य परि॒धीञ्जु॑हुयात् । अ॒न्तराधानाभ्यां॒ द्या
संप्र॒यच्छे॑त् । प्र॒हृत्य॑ परि॒धीञ्जु॑होति । निरा॑धानाभ्यामे॒व द्या
संप्र॑य॑च्छति । ब॒र्हिषि॑ वि॒षि॒ञ्चन्वा॒जिन॒मान॑यति । प्र॒जा वै
ब॒र्हिः । रेतो॒ वाजिन॑म् । प्र॒जास्वे॒व रेतो दधाति । स॒मु॒पहूय॑
भक्षयन्ति । ए॒तत्सो॑मपी॒था ह्ये॑त । अथो आ॒त्मन्ने॒व रेतो
दधते । यज॑मान उत्त॒मो भ॑क्षयति । प॒शवो॒ वै वा॒जिन॑म् ।
यज॑मान ए॒व प॒शून्प्रति॑ष्ठापयन्ति (१०) ।
लोको ब॑हुरूपं॒ भ॑वत्याज्य॑भागौ पशव॒ आज्य॑मव॒द्येदा॑हवनी॒यः
प्र॒त्यक्त स्मा॒त्प्रति॑ष्ठितो होत॒व्यो॑ भाग॒धेय॑मे॒तं च॒त्वारि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
षष्ठाध्याये तृतीयोऽनुवाकः ॥ ३ ॥
अथ षष्ठप्रपाठके चतुर्थोऽनुवाकः ।
प्र॒जाप॑तिः सवि॒ता भू॒त्वा प्र॒जा अंमृ(सृ). जत । ता
एन॑मर्त्यमन्यन्त । ता अ॑स्मादपा॑क्रामन् । ता व॑रुणो भू॒त्वा
प्र॒जा वरु॑णे नाग्राहयत् । ताः प्र॒जा वरु॑णगृहीताः ।
प्र॒जाप॑तिं पुनरुपा॑धावन्ना॒थमि॒च्छमा॑नाः । स
ए॒तान्प्र॒जाप॑तिर्व॑रुणप्रघा॒सान॑पश्यत् । तां निर॑वपत् । तैर्वै
स प्र॒जा व॑रुणपा॒शाद॑मुञ्चत् । यद्व॑रुणप्रघा॒सा नि॑रु॒प्यन्तै॑
(१)। प्र॒जाना॒मव॑रुंणग्राहाय । तासां॒ दक्षि॑णो बा॒हुर्न्य॑क्र
आसी॑त् । स॒व्यः प्रसृ॑तः । स ए॒तां द्वि॒तीयां दक्षि॑णतो
वेदि॒मुद॑हन् । ततो॒ वै स प्र॒जानां॒ दक्षि॑णबा॒हुं प्रासा॑रयत् ।
यद्द्वि॒तीयां दक्षि॑ण॒तो वेदि॑मु॒द्धन्ति॑ । प्र॒जाना॑मे॒व
तद्यज॑मानो॒ दक्षि॑णं बा॒हुं प्रसा॑रयति ।
तस्मा॑च्चातुर्मास्यया॒ज्य॑मु॒ष्मिँल्लो॒क उ॑भयाबा॒हुः।
य॒ज्ञाभि॑जित॒ ँह्य॑स्य । पृ॒थुमा॑त्राद्वेदी असं॑भिन्ने भवतः ।
तैत्तिरीयब्राह्मणम् (१.६.४) २७५
(२) । तस्मा॑त्पृथुमा॒त्रं व्य॑ ᳵ सौ॑ । उ॒त्तर॑स्यां
वेद्या॑मुत्त॒रवे॑दिमुप॑वपति । प॒शवो॒ वा उ॑त्त॒रवे॑दिः ।
प॒शूने॒वाव॑रुन्धे । अथो॑ य॒ज्ञपु॑रुषोऽन॑न्तरित्यै ।
ए॒तद्ब्राह्म॑णान्येव पञ्च॑ ह॒वी ᳵ षि॑ । अथै॒ष ऐ॑न्द्रा॒ग्नो
भव॑ति । प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना॑म् । यदि॑न्द्रा॒ग्नी ।
यदै॑न्द्रा॒ग्नो भव॑ति । (३) । प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे । ओजो॒
बलं॒ वा ए॒तौ दे॒वाना॑म् । यदि॑न्द्रा॒ग्नी । यदै॑न्द्रा॒ग्नो भव॑ति ।
ओजो॒ बल॑मे॒वाव॑रुन्धे । मा॒रु॒त्या॑मि॒क्षा भव॑ति ।
वा॒रु॒ण्या॑मि॒क्षा॑ । मे॒षी च॑ मे॒षश्च॑ भवतः । मि॒थु॒ना ए॒व
प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति । लो॒म॒शौ भ॑वतो मेध्य॒त्वाय॑
(४) । श॒मीप॒र्णान्युप॑वपति । घा॒समे॒वाभ्या॒मपि॑यच्छति ।
प्र॒जाप॑तिमन्ना॒द्यं नोप॑नमत् । स ए॒तेन॑ श॒तेध्मै॑न ह॒विषा॒ऽ
न्नाद्य॒मवा॑रुन्ध । यत्प॑रःश॒तानि॑ शमीप॒र्णानि॒ भव॑न्ति ।
अ॒न्ना॒द्यस्याव॑रुद्ध्यै । सौ॒म्यानि॒ वै करी॑राणि । सौ॒म्या
खलु॒ वा आहु॑तिर्दि॒वो वृष्टिं॑ च्यावयति । यत्करी॑राणि॒
भव॑न्ति । सौ॒म्ययै॒वाऽऽहु॑त्या दि॒वो वृष्टि॒मव॑रुन्धे । का॒य
एक॑कपालो भव॑ति । प्र॒जानां॒ क्ऌप्त्या॑य॑ । प्र॒ति॒पूरु॑षं
क॑र॒म्भपा॒त्राणि॑ भवन्ति । जा॒ता ए॒व प्र॒जा
व॑रुणपा॒शान्मु॑ञ्चति । एक॑मतिरि॒क्तम् । ज॒नि॒ष्यमा॑णा ए॒व
प्र॒जा व॑रुणपा॒शान्मु॑ञ्चति (५) ।
नि॒रु॒प्यन्तै॑ भव॒तो भव॑ति मेध्य॒त्वाय॑ रुन्धे॒ षट् च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
षष्ठाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
अथ षष्ठप्रपाठके पञ्चमोऽनुवाकः ।
उत्त॑रस्यां॒ वेद्या॑मन्यानि॑ ह॒वीꣳषि॒ सादयति । दक्षि॑णायां
मा॒रु॒तीम् । अप॑धुरमे॒वैनां॑ युनक्ति । अथो॒ ओज॑
ए॒वाऽऽसा॒मव॑हरति । तस्मा॒द्ब्रह्म॑णश्च क्ष॒त्राच्च॒
विशो॑ऽन्यतोऽपक्र॒मिणी॑: । मा॒रु॒त्या पू॒र्वया॑ प्रचरति ।
अनृ॑तमे॒वाव॑यजते । वा॒रु॒ण्योत्त॑रया । अन्त॑त ए॒वं
वरु॑णमव॑यजते । यदे॒वाध्व॒र्युः क॒रोति॑ (१) ।
तत्प्रति॑प्रस्था॒ता क॑रोति । तस्मा॒द्यच्छ्रेया॑न्क॒रोति॑ ।
तत्पापी॑यान्करोति । पत्नीं॑ वाचयति । मेध्या॑मे॒वैनां॑
करोति । अथो॒ तर्प॑ ए॒वैना॒मुप॑ नयति । यज्जा॒रꣳसन्तं॒ न
प्र॑ब्रू॒यात् । प्रि॒यं ज्ञा॒तिꣳरु॑न्ध्यात् । असा॒ मे जा॒र इति॑
निर्दि॑शेत् । निर्दि॑श्यै॒वैनं॑ वरु॒णपा॒शेन॑ ग्राहयति (२) ।
प्र॒घा॒स्यान्ह॑वामह॒ इति॒ पत्नी॑मुदा॒र्नय॑ति । अहू॑तै॒वैना॑म् ।
यत्पत्नी॑ पुरोनुवा॒क्या॑मनुब्रू॒यात् । निर्वी॑र्यो॒ यज॑मानः
स्यात् । यज॑मानोऽन्वा॑ह । आ॒त्मनैव वी॒र्यं॑ धत्ते । उ॒भौ
या॒ज्याꣳसवी॑र्यत्वाय॑ । यद्ग्रा॒मे यदर॑ण्य इत्या॑ह ।
य॒थो॒दित॑मे॒व वरु॑णमव॑यजते । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वा
आ॑हव॒नीय॑: (३) । [भ्रातृ॑व्यदे॒व॒त्यो॑ दक्षि॑णः । यदा॑हव॒नीये॑
जुहु॒यात् । यज॑मानं वरु॒णपा॒शेन॑ ग्राहयेत् । दक्षि॑णे॒ऽग्नौ
जु॑होति । भ्रातृ॑व्यमे॒व वरु॑णपा॒शेन॑ ग्राहयति । शूर्पेण॑
जु॒होति॑ । अन्य॑मेव वरु॑णमव॑यजते । शी॒र्षन्नधि॑नि॒धाय॑
जु॒होति॑ । शीर्ष॑त ए॒व वरु॑णमव॑यजते । प्र॒त्यङ्ति॒ष्ठञ्जु॑होति
(४)।] प्र॒त्यङ्ङे॒व वरु॑णपा॒शान्निर्मु॑च्यते । अक्र॒न्कर्म॑
कर्म॒कृत॒ इत्या॑ह । दे॒वानृ॒णं निर॑वदाय॑ । अनृ॑णा गृ॒हानु॒-
प्रप्रेतेति॒ वावैतदा॑ह । वरु॑णगृहीतं॒ वा ए॒तद्य॒ज्ञस्य॑ । यद्यजु॑षा
गृ॒हीत॒स्याति॒रिच्य॑ते । तुषां॑श्च निष्का॒सꣳश्च॑ । तुषै॑श्च निष्का॒सेन॑