सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 298, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 298

तैत्तिरीयब्राह्मणम् (१.६.१) २६९
नि॒रव॑दयते । ए॒ष ते॑ निर्ऋ॑ते भा॒ग इत्या॑ह । निर्दि॑श-
त्ये॒वैना॑म् । भू॒तै ह॒विष्म॑त्यसीत्या॑ह । भूमि॑मे॒वोपाव॑र्तते ।
ञ्चेमम॒ हँस॒ इत्या॑ह । अ ँह॑स ए॒वैनं॑ मुञ्चति । अ॒ङ्गुष्ठाभ्यां॑
जुहोति(३)। अ॒न्तत॑ एव निर्ऋतिं॒ निर॑वदयते । कृ॒ष्णं वास॑:
कृ॒ष्णतू॑षं दक्षि॑णा । ए॒तद्वै निर्ऋ॑त्यै रू॒पम् । रूपेणै॒व निर्ऋ॑तिं
निर॑वदयते । अप्र॑तीक्षम॒ार्यन्ति॑ । निर्ऋत्या अ॒न्तर्हि॑त्यै
स्वाहा॒ नमो॒ य इदं च॒कारेति॑ पुन॒रेत्य॑ गार्हपत्ये जुहोति ।
आहुत्या॑यैव नम॒स्यन्तो॒ गार्ह॑पत्यमु॒पाव॑र्तन्ते । आ॒नु॒म॒तेन॑
प्र॒चर॑ति । इ॒यं वा अनु॑मतिः (४) इ॒यमे॒वास्मै॑
रा॒ज्यमनु॑मन्यते । धे॒नुर्दक्षि॑णा । इ॒मामे॒व धे॒नुं कुरु॑ते ।
आ॒दि॒त्यं च॒रुं निर्व॑पति । उ॒भयी॑ष्वे॒व प्र॒जास्वा॒भिषि॑च्यते ।
दैवी॑षु च॒ मानु॑षीषु च । व॒रो दक्षि॑णा । व॒रो हि राज्यं॑ ँ
समृद्ध्यै॑ । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं॒ निर्व॑पति ।
अ॒ग्निः सर्वा॑ दे॒वता॑: । (५) । विष्णु॑र्य॒ज्ञः । दे॒वता॑श्चैव
य॒ज्ञं चाव॑रुन्धे । वा॒म॒नो व॒ही दक्षि॑णा । यद्व॒ही ।
तेना॑ऽऽग्ने॒यः। यद्वा॑म॒नः । तेन॑ वै॒ष्ण॒वः समृद्धयै ।
अग्नीषोमीयमेका॑दशकपालं॒ निर्व॑पति । अग्नीषोमा॑भ्यां
वा इन्द्रो॑ वृ॒त्रमह॑न्निति । यद॑ग्नीषोमी॒यमेका॑दशकपालं
निर्व॑पति (६) । वार्त्र॑घ्नमे॒व विजि॑त्यै॒ हिर॑ण्यं दक्षि॑णा
समृद्ध्यै॑ । इन्द्रो॑ वृ॒त्र ँह॒त्वा । दे॒वता॑भिश्चेन्द्रि॑येण च
व्या॑र्ध्यत । स ए॒तमै॑न्द्रा॒ग्नमेका॑दशकपालमपश्यत् । तं
निर॑वपत् । तेन॒ वै स दे॒वता॑श्चेन्द्रि॒यं चावा॑रुन्धे ।
यदै॑न्द्राग्नमेका॑दशकपालं॒ निर्व॑पति । दे॒वता॑श्चैव तेनै॑न्द्रि॒य
च॒ यज॑मानोऽव॑रुन्धे । ऋ॒ष॒भो॒.वही दक्षि॑णा (७) । यद्व॒ही
तेना॑ऽऽग्ने॒यः । यदृ॑ष॒भः । तेनै॑न्द्रः. समृद्धयै
आ॒ग्ने॒यम॑ष्टाक॑पालं॒ निर्व॑पति । ऐ॒न्द्रं दधि॑ । यदा॑ऽऽग्ने॒यो