सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 303, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 303

२७४ (१.६.४) तैत्तिरीयब्राह्मणम्
तयो॑: परि॒धय॒ आधा॑नम् । वा॒जिनं॑ भाग॒धेय॑म् । (९) ।
यदप्र॑हृत्य परि॒धीञ्जु॑हुयात् । अ॒न्तराधानाभ्यां॒ द्या
संप्र॒यच्छे॑त् । प्र॒हृत्य॑ परि॒धीञ्जु॑होति । निरा॑धानाभ्यामे॒व द्या
संप्र॑य॑च्छति । ब॒र्हिषि॑ वि॒षि॒ञ्चन्वा॒जिन॒मान॑यति । प्र॒जा वै
ब॒र्हिः । रेतो॒ वाजिन॑म् । प्र॒जास्वे॒व रेतो दधाति । स॒मु॒पहूय॑
भक्षयन्ति । ए॒तत्सो॑मपी॒था ह्ये॑त । अथो आ॒त्मन्ने॒व रेतो
दधते । यज॑मान उत्त॒मो भ॑क्षयति । प॒शवो॒ वै वा॒जिन॑म् ।
यज॑मान ए॒व प॒शून्प्रति॑ष्ठापयन्ति (१०) ।
लोको ब॑हुरूपं॒ भ॑वत्याज्य॑भागौ पशव॒ आज्य॑मव॒द्येदा॑हवनी॒यः
प्र॒त्यक्त स्मा॒त्प्रति॑ष्ठितो होत॒व्यो॑ भाग॒धेय॑मे॒तं च॒त्वारि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
षष्ठाध्याये तृतीयोऽनुवाकः ॥ ३ ॥
अथ षष्ठप्रपाठके चतुर्थोऽनुवाकः ।
प्र॒जाप॑तिः सवि॒ता भू॒त्वा प्र॒जा अंमृ(सृ). जत । ता
एन॑मर्त्यमन्यन्त । ता अ॑स्मादपा॑क्रामन् । ता व॑रुणो भू॒त्वा
प्र॒जा वरु॑णे नाग्राहयत् । ताः प्र॒जा वरु॑णगृहीताः ।
प्र॒जाप॑तिं पुनरुपा॑धावन्ना॒थमि॒च्छमा॑नाः । स
ए॒तान्प्र॒जाप॑तिर्व॑रुणप्रघा॒सान॑पश्यत् । तां निर॑वपत् । तैर्वै
स प्र॒जा व॑रुणपा॒शाद॑मुञ्चत् । यद्व॑रुणप्रघा॒सा नि॑रु॒प्यन्तै॑
(१)। प्र॒जाना॒मव॑रुंणग्राहाय । तासां॒ दक्षि॑णो बा॒हुर्न्य॑क्र
आसी॑त् । स॒व्यः प्रसृ॑तः । स ए॒तां द्वि॒तीयां दक्षि॑णतो
वेदि॒मुद॑हन् । ततो॒ वै स प्र॒जानां॒ दक्षि॑णबा॒हुं प्रासा॑रयत् ।
यद्द्वि॒तीयां दक्षि॑ण॒तो वेदि॑मु॒द्धन्ति॑ । प्र॒जाना॑मे॒व
तद्यज॑मानो॒ दक्षि॑णं बा॒हुं प्रसा॑रयति ।
तस्मा॑च्चातुर्मास्यया॒ज्य॑मु॒ष्मिँल्लो॒क उ॑भयाबा॒हुः।
य॒ज्ञाभि॑जित॒ ँह्य॑स्य । पृ॒थुमा॑त्राद्वेदी असं॑भिन्ने भवतः ।