सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

प्रथमोऽनुवाकः ।। १ ।।

तैत्तिरीयब्राह्मणम् (१.४.१) १७१

स्तना॑ आसन् ।। इ॒यं वै पृश्नि॑: । तामा॑दि॒त्या
आदि॑त्यस्था॒ल्या च॑तुष्पदः प॒शून॑दुहन् । यदा॑दित्यस्थाली
भव॑ति । चतु॑ष्पद एव॒ तया॑ प॒शू न्यज॑मान इ॒मां दु॑हे ।
तामिन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम॑दुहत् । यदु॑क्थ्यस्था॒ली
भव॑ति । इ॒न्द्रि॒यमे॒व तया॑ यज॑मान इ॒मां दु॑हे । तां विश्वे॑
दे॒वा आ॑ग्रयणस्था॒ल्योर्ज॑मदुहन् । यदा॑ग्रयणस्थाली
भव॑ति । ऊर्ज॑मेव॒ तया॑ यज॑मान इ॒मां दु॑हे । तां म॒नुष्या॑
ध्रुवस्था॒ल्यायु॑रदुहन् । यद् ध्रुवस्था॒ली भव॑ति । आयु॑रेव
तया॑ यज॑मान इ॒मां दु॑हे । स्था॒ल्या गृ॒ह्णाति॑ । वा॒य॒व्येन॑
जु॒होति॑ । तस्मा॑द॒न्येन॑ पा॒त्रेण॑ प॒शून्दुहन्ति॑ । अ॒न्येन॑
प्रति॑गृह्णन्ति । अथो॑ व्यावृत॑मे॒व तद्यज॑मानो गच्छति (५),
इति ।
गृ॒ह्यत्वं॑ ग्रहा॑ञ्जुहो॒त्यकु॑र्वतादुहन्नाग्रयणस्थाली भव॑ति॒ । नव॑ च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये
प्रथमोऽनुवाकः ।। १ ।।
वायुः स्वामी येषां दारुमयाणां पात्रविशेषाणां ते वायव्याः । यद्यप्येकै
कस्य पात्रस्यैकैको देवस्तथाऽपि वायुना वरस्य वृत्तत्वाद्व्रायव्यशब्देनैव
तेषां व्यवहारः । तथ चैन्द्रवायवग्रहब्राह्मणे समाम्नायते-“ते
वायुमब्रुवन्निमं नः स्वदयेति । सोमऽब्रवीद्वरं वृणै मद्देववत्यान्येव वः
पात्राण्युच्यन्ता इति । तस्मान्नानादेवत्यानि सन्ति वाव्याक्युच्यन्ते” इति ।
ते च वायव्याः पात्रविशेषाः सोमग्रहणार्था ऐन्द्रवायवं गृह्णाति मैत्रावरुणं
गृह्णातीत्यादिश्रवणात् । तद्वन्मृण्मयस्थाल्योऽपि चतस्रः सोमग्रहणय
इत्येवमत्र प्रसिद्धिः । ताश्च स्थाल्यः किं विधा इति प्रश्नः ।
तस्योत्तरमुच्यते । पुरा कदाचिद्भूमिः । पृश्निः श्वेतगोरूपाऽभूत् ।
भूविकारभूता आदित्यस्थाल्युक्थ्यस्थाल्याग्रयणस्थाली ध्रुवस्थालीत्येते
चत्वारः स्थालीविशेषास्तस्या गोः स्तना आसन् । तांश्च स्तानाना
दित्यादयो दुग्ध्वा पश्वादिफलानि प्राप्तवन्तः एवं यजमानोऽपि तानि प्राप्तुं
स्थालीचतुष्टयं कुर्यात् । कृत्वा च मृन्मयस्थाल्यां तत्तद्देवतासंबन्धिन्यां
तत्तद्देवार्थं सोमरसं गृह्णीयात् । तं च सोमरसं होमकाले दारुमये
वायव्यपात्रेऽवनीय तेन पात्रेण जुहुयात् । यस्मादेवं तस्माल्लोकेऽपि

१७२ (१.४.२) तैत्तिरीयब्राह्मणम्
दोहपात्रमन्यत्क्षीरग्रहणपात्रं चान्यत् । अपि चैवंकुर्वाणो यजमान इतरेभ्यो
व्यावॄत्तिं प्राप्नोति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठके प्रथमोऽनुवाकः ।
अथ चतुर्थप्रपाठके द्वितीयोऽनुवाकः ।
प्रथमेऽनुवाके सोमविशेषे ग्रहविधिरुक्तः । द्वितीयानुवाके
सौत्रामणिशेषामन्त्रा उच्यन्ते । तत्राऽऽश्विनसारस्वतेन्द्रग्रहेषु त्रिष्वपि
साधारणं याज्यानुवाक्यायुगलम् । तथा च सौत्रामणिब्राह्मणमेवामाम्नातम्

  • "युवंँ सुराममश्विनेति सर्वदेवत्ये याज्यनुवाक्ये भवतः" इति । तत्र
    पुरोनुवाक्यामाह-
    यु॒व् ँसु॒रा॑ममश्विना॑ । नमु॑चावासु॒रे सचा॑ । वि॒पि॒पा॒ना
    शु॒भस्पती॑ । इन्द्रं॒ कर्म॑स्वावतम्, इति ।
    हेऽश्विनौ नमुचावासुरे नमुचिनामके कस्मिंश्चिदसुरे सचा संबद्धं
    सुरां सुरया संपादितमिमं पात्रस्थं द्रव्यशेषं विपिपाना विशेषेण पिबन्तौ
    शुभस्पती शोभनस्य कर्मणः पालकौ युवां कर्मस्वेतंश्चिन्द्रमावतं सहपानेन
    पालयतम् ।
    याज्यामाह-
    पु॒त्रमि॑व पि॒तरा॑वु॒भा । इन्द्रा॑वतं॒ कर्म॑णा
    द् ँशना॑भिः । यत्सु॒रा॒मं व्यपि॑बः॒ शची॑भिः । सर॑स्वती
    त्वा म॒घव॑न्नभीष्णात्, इति ।
    हेऽश्विनौ युवामुभौ यथा लोके पितरौ पुत्रं
    पालयतस्तद्वद्यजमानमनेन कर्मणा रक्षतम् । दंसनाशब्दः कर्मवाची ।
    शचीशब्द शक्तिवाची । ह इन्द्र यद्यस्मात्कारणात्मकर्म विशेषेण याभिः
    शक्तिभिः सह त्वं सुरया संपादितमिमं रसविशेषं विशेषेण
    पीतवांस्तस्माद्यजमानं रक्षेति शेषः । हे मघवन्नियं सरस्वती
    त्वामभीष्णाद्विषज्यतु । पानेन परितोषयत्वित्यर्थः । अथ मन्त्रद्वयेन सुराया
    अनुमन्त्रणम् । तथा च सूत्रकारः-"हुतां हूयमानां वा यजमानोऽनुमन्त्रयते"
    इति ।
    तत्र प्रथमं मन्त्रमाह-

तैत्तिरीयब्राह्मणम् (१.४.२) १७३
अहा॒व्यग्ने॑ ह॒विरा॒स्ये॑ त । स्रु॒चीव॑ घृ॒तं च॒मू इ॑व॒ सोम॑:
(१)। वा॒ज॒सनिं॑ ँ र॒यिम॒स्मे सु॒वीर॑म् । प्र॒श॒स्तं धे॑हि य॒शसं॑
बृ॒हन्त॑म्, इति ।
हेऽग्ने ते तवाऽऽस्ये मुखेऽहावीदं द्रव्यं हुतम् । यथा स्रुचि जुह्वादौ
घृतं निहितं यथा वा चमू चमसेषु सोमो निहितस्तद्वत्तस्मादस्मे अस्मासु
सुवीरं शोभनकर्मशूरं पुत्रं धेहि संपादय । कीदृशम् । वाजसनिमन्नदातारं
रयिं धनवन्तं प्रशस्तं विद्यादिगुणयुक्तं यशसं यशस्विनं बृहन्तं महान्तं
सर्वकार्यसमर्थम् ।
अथ द्वितीयं मन्त्रमाह-
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षण॑: । व॒शामे॒षा अ॑वसृ॒ष्टास॒
आहु॑ता: । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑' । हृ॒दा म॒तिं ज॑नय॒
चारु॑म॒ग्नये॑, इति ।
यस्मिन्नग्नावश्वादय आहुता अश्वासः । अश्वमेधयागे अश्वा
हुताः । ऐन्द्रमृषभमित्यादिषु विहितेषु कर्मसु ऋषभा हुताः ।
ऐन्द्रमुक्षाणमित्यादिषूक्षाणो हुताः । सेचनसमर्था उक्षाणः पुंगवगात्रा
ऋषभाः। मैत्रावरुणीं वशामालभेतत्यादिषु विहितेषु वशा हुताः । सारस्वतं
मेषमित्यादिषु मेषा हुता । ते च सर्वेऽवसृष्टासो यजमानेन समर्पिताः .
तादृशायाग्नये हृदाऽन्त:करणेन चारुं मतिं कर्मानुष्ठानविषयत्वेन
समीचीना बुद्धिं जनयाह संपादयामि । कीदृशायाग्नये ।-
कीलालपेऽन्नरसपायिने । सोमयागस्थितानि पृष्ठानि यस्यासौ
सोमपृष्ठस्तस्मै वेधसे विधात्रे ।
नाना॒ हि वां॑ दे॒वहि॑तं ँ॒ सदो॑ मि॒तम् । मा स ँ॑ सृ॑क्षाथां
प॒र॒मे व्यो॑मन् । सुरा॒ त्वम॑सि॒ शुष्मि॒णी सोम॑ ए॒षः । मा
मा॑ हि ँ॑ सी॒: स्वां योनि॑मावि॒शन् (२)। यदत्र॑ शि॒ष्ट ँ॑
रसि॑नः सु॒तस्य॑ । यदिन्द्रो॒ अपि॑बच्छची॒भिः । अ॒हं तद॑स्य॒
मन॑सा॒ शिवे॑न । सोमं॒ राजा॑नमि॒ह भ॑क्षयामि ।
कल्पः-“ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारं नाना हि वां
देवहित ँसदों मितं मा सँसृक्षाथां परमे व्योमन्सुरा त्वमसि सुष्मिणी
सोम एष मा मा हिँसीः स्वां योनिमाविशन्यदत्र शिष्ट ँरसिनः सुतस्य

१७४ (१.४.२) तैत्तिरीयब्राह्मणम्
यदिन्द्रा॑ अ॒ग्नि॒र॒र्चिर्भि॑रहं तदस्य मनसा शिवेन सोमँ राजानमिह
भक्षयामीति वा स्वयं पिबेत्" इति । अत्र सुरोच्छेषस्य ब्रह्मणे पातारं
किंचिन्मूल्यदानेन परिक्रीणीयात् । नाना हि वामिति मन्त्रेण यदिन्द्रेति
मन्त्रेण वा स्वयं पिबेदित्यर्थः । हे सोमग्रहसुराग्रहौ वां युवयोः सदों
निवासस्थानं नाना मितं पृथगेव संपादितम् । अतः परमेव्योमन्प्रकृष्टे
आकाशे भक्षणस्थाने मा संसृक्षाथां परस्परसंसृष्टौ मा भूताम् । हे
पात्रस्थद्रव्य त्वं शुष्मिणी बलवती सुराऽसि । एष खलु सोमः
सुप्रसिद्धविभवस्त्वं स्वां योनिं स्वकीयस्थानमुदररूपमाविशन्मामिह मा
हिंसीः । अत्र पात्रे रसिनो रसवतः सुतस्याभिषुतस्य यच्छिष्टमस्ति यच्चेन्द्रः
अचीर्भिः स्वशक्तिभिः सहापिबत्तत्रास्य पात्रस्थद्रव्यस्यैकदेशं सोमं
राजानमहं शिवेन भक्तियुक्तेन मनसेह कर्मणि भक्षयामि ।
द्वे सृ॒ती अ॑शृणवं पितॄ॒णाम् । अ॒हं दे॒वाना॑मुत मर्त्या॑नाम् ।
ताभ्या॑मि॒दं विश्वं॒ भुव॑न॒ꣳ समे॑ति । अ॒न्त॒रा पूर्व॒मपरं॑ च
के॒तुम् ।
कल्पः-“द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वं भुवनं समेत्यन्तरा पूर्वमपरं च केतुमिति वा
वल्मीकवपायामवनयेत् " इति पितॄणामस्मत्पूर्वपुरुषाणां द्वे सृती अशृणवं
द्वौ मार्गाविति शास्त्रमुखेनाहं श्रुतवानस्मि । तयोर्मध्ये देवानामेको मार्गो
येन गत्वा ब्रह्म लोके देवा भूत्वा न पुरावर्तन्ते । उतापि च मर्त्या येन
गत्वा स्वर्गमनु भूय पुनरावर्तन्ते ताभ्यामुभाभ्यां मार्गाभ्यामिदं विश्वं भुवनं
शास्त्रार्थनुष्ठानपरं सर्वप्राणिजातं समेति सम्यग्गच्छति । पूर्वं केतुं चिह्नं
पृथिवीमपरं केतुं दिवं चान्तरा द्यावापृथिव्योर्मध्ये द्वे सृती वर्तेते इत्यर्थः ।
यस्तै॑ देव वरुण गाय॒त्रछ॑न्दाः पाश॑ः । तं त॑ ए॒तेनाव॑जये,
इति ।
कल्पः-“यस्ते देव वरुण गायत्रीच्छन्दाः, पाशस्तं त एतेनावयजे
स्वाहेत्याश्विनपात्रमभृथे प्रविध्यन्ति" इति । हे वरुणदेवतेत्वदीयः पाशों
गायत्र्याख्येण च्छन्दसा युक्तों यो विद्यते तं पासमेतेन पात्रेण
विनाशयामि ।
कल्पः-“एतेनैव त्रिष्टुप्छन्दा इति सारस्वतस्य जगतीछन्दा
इत्येन्द्रस्य' इति । एतेन देवेति मन्त्रेण त्रिष्टुप्छन्दा इतिविशेषयुक्तेन
सारस्वतस्य पात्रं प्रविध्यन्ति । एवमुत्तरत्रापि । पाठस्तु-

द्वितीयोऽनुवाकः ॥ २ ॥

तैत्तिरीयब्राह्मणम् (१.४.२) १७५
यस्तै॑ दे॒व॒ वरु॑ण त्रि॒ष्टुप्छ॑न्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे ।
यस्तै॑ दे॒व॒ वरु॑ण॒ जग॑ती छन्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे,
इति ।
समाप्ताः सौत्रामणिशेषा मन्त्राः । अथ सोमशेषः कश्चिद्विधिः ।
यदुक्तं सूत्रकारेण-“राज्ञो राजभव्यस्य वाऽनूबन्ध्यायाः पशुपुरोडाशमष्टाै
देव सुवाँहवींष्यनु निर्वपति” इति । तदिदं विधत्ते-
सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन््राज्यो वा॒
सोमे॑न॒ यज॑ते । दे॒व॒सुवामे॒तानि॑ ह॒वी ँ षि॑ भवन्ति ।
ए॒ताव॑न्तो॒ वै दे॒वानाँ॒ सवाः॑ । त ए॒वास्मै॑ स॒वा न्प्रर्य॑च्छन्ति।
स ए॒नं॒ पुन॑: सुवन्ते रा॒ज्या॑य दे॒व॒सू राजा॑ भवति, इति ।
सोमं॑ आवि॒शन्त्य॑जे रा॒ज्यायै॒कं च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये
द्वितीयोऽनुवाकः ॥ २ ॥
यः पूर्वं राजा राजत्वयोग्यो वा भूत्वा सोमेन यजत एतस्य राज्यं
सोम देव गृह्णाति । अतस्तन्निवारणाय हविर्निर्वप । सुवन्ते प्रेरयन्ति
राज्यार्थायमिति सुवां देवाश्च ते सुवश्च देवसत्राऽग्न्यादयस्तत्संबन्धीनि
हवींष्यग्नये गृहपतये पुरोडाशमष्टाकपालमित्यनुवाकोक्तानि यावन्त
ऐश्वर्यविशेषास्तस्मिन्ननुवाके श्रूयन्ते-“अग्निरेवैनं गृहपतीनाँ सुवते
सोमो वनस्पतीनाम् ” इत्यादिना । एतावन्त एव गृहपतित्वाद्योऽपेक्षिता
देवानां संबन्धिन ऐश्वर्यविशेषाः ततस्तैर्हविर्भिस्तुष्टास्त एवाग्न्यादयो
देवा अस्मै यजमानाय तान्गृहपतित्वाद्यैश्वर्यविशेषान्प्रयच्छन्तीति ते देवा
एनं यजमानं पुनरपि राज्याय प्रेरयन्ति । असावपि देवैः प्रेरितो राजा
भवति । अत्र विनियोग संग्रहः-
युवं सुरामं याज्यनुवाक्ये सौत्रामणौ गते ।
अहाव्यस्मिन्निति द्वाभ्यां तत्र होमानुमन्त्रणम् ॥
नानेति वा यदत्रेति वा मन्त्राद्भक्षयेद्धविः ।
द्वे स्रुतीति च वल्मीकवपायां वा क्षिपेद्धि तत् ॥
यस्ते देवाश्विनादीनि विध्यन्त्यवभृथे त्रिभिः ।
अनुवाके द्वितीयेऽस्मिन्दश मन्त्रा उदाहृताः ।। (इति) । ।

१७६ (१.४.३) तैत्तिरीयब्राह्मणम्
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
अथ चतुर्थप्रपाठके तृतीयोऽनुवाकः ।
द्वितीये सौत्रामणिमन्त्रा उक्ताः । तृतीयचतुर्थयोरग्निहोत्रविषयं
प्रायश्चित्तमुच्यते । तत्राप्यस्मिन्ननुवाके दोहविषयं प्रायश्चित्तम् । तत्र
कंचिन्मन्त्रं पठति-
उद॑स्थाद्दे॒व्यदि॑तिर्वि॒श्वरू॑पी । आयु॑र्य॒ज्ञप॑तावधात् ।
इन्द्रा॑य कृण्व॒ती भा॒गम् । मि॒त्राय॒ वरु॑णाय च, इति ।
येयमग्निहोत्रहविर्दोहनार्था धेनुः सेयं देवी देवतारूपोदस्थादुत्तिष्ठतु
। कीदृशी । देव्यदितिर्भूमिरूपा विश्वरूपी कृष्णशुक्लादिनानारूपयुक्ता
सेयं यज्ञपताव्वायुः संपादयतु । किं कुर्वती । इन्द्रमित्रावरुणेभ्यो हविर्भागं
संपादयन्ती ।
तमेतं मन्त्रं विनियुङ्क्ते-
इ॒यं वा अ॑ग्निहो॒त्री । इ॒यं वा ए॒तस्य॒ निषी॑दति ।
यस्या॑ग्निहो॒त्री नि॒षीद॑ति । तामुत़्था॑पयेत् ।
उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑ । इ॒यं वै दे॒व्यदि॑तिः (१) ।
इ॒मामे॒वास्मा॒ उत्था॑पयति, इति ।
यस्याग्निहोत्रहविर्दोहनाय प्रवृत्तस्याग्निहोत्री धेनुरुपविशति, एतस्य
पुरुषस्यास्याग्निहोत्री भूमिरूपेति कृत्वा भूमिदेवतैव दोहं प्रतिबध्नन्ती
निषीदति । तस्मादुदस्थादिति मन्त्रेण तामुत्थापयेत् मन्त्रगतस्यादि-
तिशब्दस्य भूमिवाचित्वाद्भूमिमेवोत्थापयति ।
मन्त्रस्य द्वितीयपादतात्पर्यं दर्शयति-
आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति, इति ।
उत्तरार्धस्य यथार्थतां दर्शयति-
इन्द्रा॑य कृण्व॒ती भा॒गं मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह । य॒था॒-
य॒जुरे॒वैतत्, इति ।

तैत्तिरीयब्राह्मणम् (१.४.३) १७७
प्रायश्चित्तान्तरं विधत्ते-
अव॑र्ति॒ वा ए॒षैतस्य॑ पा॒प्मानं॑ प्र॒तिरू॒याय॒ निषी॑दति॒
यस्या॑ग्निहो॒त्र्युप॑सृष्टा नि॒षीद॑ति । तां दु॒ग्ध्वा ब्राह्म॑णाय
दद्यात् । यस्यान्नं॒ नाद्यात् । अव॑र्तिमे॒वास्मि॑न्पा॒प्मानं॒
प्रति॑मुञ्चति (२), इति ।
वर्तिर्वर्तनं जीवनोपायः। अवर्तिर्दारिद्य्रम् । यस्यानुष्ठातुर्दोहनार्थे
वत्सेन संसृष्टा धेनुरुपविशति, एतस्यावर्ति दारिद्र्यहेतुं पाप्मानमेषा धेनुः
प्रतिरूयाय सर्वत्र प्रख्याप्योपविशति । अतस्तां धेनुं दुग्ध्वा
पश्चाद्ब्राह्मणाय दद्यात् । कीदृशाय । यस्य ब्राह्मणस्यान्नमित ऊर्ध्वं
.यजमानो नाद्यात्तादृशाय । तेन दानेन स्वकीयं दारिद्र्यहेतुं
पाप्मानमस्मिन्ब्राह्मणे कवचादिवत्प्रतिमुञ्चति ।
दोहनपूर्वकं दानं प्रशंसति-
दु॒ग्ध्वा द॑दाति । न ह्यदृ॑ष्टा॒ दक्षि॑णा दी॒यतै, इति ।
यस्मात्प्रतिग्रहीत्रा पुरुषेणादृष्टा दक्षिणा दानयोग्या न भवति, तस्माद्
दुग्ध्वा क्षीरं तस्यै प्रदर्श्य त्वमेवं दुग्ध्वा भुङ्क्ष्वेत्येवं दद्यात् ।
अथ प्रायश्चित्तान्तरं विधातुं प्रस्तौति-
पृ॒थि॒वीं वा ए॒तस्य॒ पयः॑ प्रवि॑शति । यस्या॑ग्निहो॒त्रं
दु॒ह्यमा॑न् ̐ स्कन्द॑ति, इति ।
यस्य यजमानस्याग्निहोत्रार्थं हविर्दोहनकाले स्वल्पमपि पतति,
एतस्य कृत्स्नमपि पृथिवीमेव प्रविशति ।
एतत्प्रायश्चित्तरूपं मन्त्रपाठं विधत्ते-
यद॒द्य दु॒ग्धं पृ॑थि॒वीमस॑क्त । यदोष॑धीर॒प्यस॑र॒द्यदापः॑ । पयो॑
गृ॒हेषु॒ पयो॑ अ॒घ्निया॑सु । पयो॑ व॒त्सेषु॒ पयो॑ अस्तु
तन्मयीत्या॑ह । पय॑ ए॒वाऽऽत्मन् गृ॒हेषु॑ प॒शुषु॑ धत्ते, इति ।
अद्यास्मिन्दिने यद्दुग्धं पृथिवीमसक्त पृथिव्यां पतितं यच्च
बिन्दुरूपेणौषधीरपो वा प्राविशत्तत्पयो मदीयेषु गृहेष्ववस्थितमस्तु । तथा
तत्पयो मदीयासु गोषु स्थितमस्तु । तथा तत्पयो मदीयवत्सेषु स्थितमस्तु ।

तथा तत्पयो मयि स्थितमस्तु . तमेतं मन्त्रं पठेत् । तेन स्कन्नं पय आत्मनि
गृहेषु पशुषु च स्थापितं भवति ।
एतदभिमन्त्रणानन्तरमुदकस्पर्शं विधत्ते-
अप॒ उप॑सृजति (३) । अ॒द्भिरे॒वैन॑दाप्नोति, इति ।
स्वेनोपसृष्टाभिरद्भिरेव स्कन्नमेतत्पयः पुनः प्राप्नोति ।
प्रायश्चित्तान्तरं विधत्ते-
यो वै य॒ज्ञस्याऽऽर्त्तेनानार्तं ॅस ॅ सृज॑ति । उ॒भे वै ते
त॒र्ह्यृ॑र्च्छतः । आ॒ऽर्च्छति॒ खलु॒ वा ए॒तद॒ग्निहो॒त्रम् । यद्दु॒ह्यमा॑नं ॅ
स्कन्द॑ति । यद॑भिदु॒ह्यात् । आर्त्तेनानार्तं य॒ज्ञस्य॒ स ॅ
सृ॑जेत् । तदे॒व या॒दृक्की॒दृक् च॑ होत॒व्य॑म् । अथा॒न्यां दु॒ग्ध्वा
पुन॑र्होत॒व्य॑म् । अना॑र्तेनै॒वाऽऽर्त्तं य॒ज्ञस्य॒ निष्क॑रोति (४),
इति ।
यज्ञस्य संबन्धि हविर्द्विविधम् । आर्त्तमनार्तं चेति । दुह्यमानस्य
स्कन्दने सति तदार्तं भवति । इतः परं धोक्ष्यमाणमनार्तं भवति । तथा
सति स्कन्दनादूर्ध्वं तदेव पात्रस्थमभिलक्ष्य यदि पुनर्दुह्यात्तदानी-
मार्तस्योपर्यनार्तस्य स्थापनादुभयमपि पयः संसृजेत् । तत्संसर्गे च
द्वितीयमप्यार्तमेव भवेत् । तस्मादार्तस्योपरि दोहनं न कुर्यात् । किंतु
तदेवाऽऽर्तं यादृशं पर्याप्तमपर्याप्तं वा होतव्यम् । तावता
नित्यानुष्ठानसिद्धिः । अथाऽऽर्तपरिहारा र्थमन्यां दुग्ध्वा पुनर्होतव्यम् ।
तेन पुनर्होमेनैव यज्ञस्य यत्पूर्वमार्तं तत्समादधति ।
प्रायश्चित्तान्तरं विधत्ते-
यद्युद्द्रु॑तस्य॒ स्कन्दे॑त् । यत्ततो हु॒त्वा पुन॑रिया॒त् । य॒ज्ञं
विच्छि॑न्द्यात् । यत्र॒ स्कन्दे॑त् । तन्नि॒षद्य॒ पुन॑र्गृह्णीया॒त् ।
यत्रै॒व स्कन्दे॑ति । तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति । तदे॒व या॒दृक्की॒दृक्च॑
होत॒व्य॑म् । अथा॒न्यां दु॒ग्ध्वा पुन॑र्होत॒व्य॑म् । अना॑र्तेनै॒वाऽऽ
र्तं य॒ज्ञस्य॒ निष्क॑रोति (४), इति ।
दोहनादूर्ध्वमुद्द्रुतस्याऽऽहवनीयं प्रत्युन्नीतस्य लेशो यदि भूमौ
पतेत्तदा नीमहुत्वा यदि ततो देशात्पुनरागच्छेत्तदानीं यज्ञो विच्छिद्येत् ।

तैत्तिरीयब्राह्मणम् (१.४.३) १७९
अतस्तत्परिहाराय यस्मिन्देशे स्कन्नं तस्मिन्नेव देशे स्वयमुपविश्य
तत्पतितं पुनः पात्रे गृह्णीयात् । तथा सति यस्मिन्नेव देशे स्कन्नं तस्मिन्देशे
पुनर्गृहीतत्वात्तेन दुग्धान्तरं न भवेत् । तदेव पुनर्गृहीतेन सहितं पात्रस्थं
नित्यार्थं हुत्वा प्राय श्चित्तार्थमन्यां दुग्ध्वा जुहुयात् ।
पुनरपि प्रायश्चित्तान्तरं विधत्ते-
वि वा॑ ए॒तस्य॑ य॒ज्ञश्छि॑द्यते । य॒स्या॒ग्नि॒हो॒त्रेऽधि॑श्रिते
श्वाऽन्त॒रा धाव॑ति । रु॒द्रः खलु॒ वा ए॒षः । यद॒ग्निः ।
यद्गाम॑न्व॒त्याव॑र्तये॑त् । रु॒द्राय॑ प॒शूनपि॑ दध्यात् ।
अ॒प॑शु॒र्यज॑मानः स्यात् । यद॒पोऽन्व॑तिषि॒ञ्चेत् १
अ॒ना॒द्यम॒ग्नेराप॑: । अ॒ना॒द्याभ्या॑मपि॑ दध्यात् ।
गार्ह॑पत्या॒द्भस्मा॒ऽऽदाय॑ । इ॒दं विष्णुर्विच॑क्र॒म॒ इति॑
वैष्ण॒व्यर्चाऽऽह॑व॒नीया॒दध्व॒ ँस॑यन्नु॒द्रवे॑द्य॒ज्ञो वै विष्णु॑:
य॒ज्ञेनै॒व य॒ज्ञ ँसं॑तनोति । भस्म॑ना प॒दमपि॑ वपति॒ शान्त्यै॑
(६), इति ।
वै दे॒व्यर्दिति॑र्मुञ्चति सृजति करोति करोत्याभ्या॒मपि॑ दध्यात्प॒ञ्च
च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
चतुर्थाध्याये तृतीयोऽनुवाकः ॥ ३ ॥
यस्य यजमानस्याग्निहोत्रहविषि पाकार्थं गार्हपत्येऽधिश्रिते
सत्याहवनीयगार्हपत्योर्मध्ये यदि श्वा धावेत्तदानीमेतस्य यज्ञो
विच्छिद्येत । अतस्तत्परिहाराय यदि तेन शुनो मार्गेण गामतिनीय
पुनरावर्तयेत्तदानीमग्नेः क्रूरत्वेन रुद्ररूपत्वात्तस्मै रुद्राय पशून्समर्पयेत् ।
ततो यजमानः पशुरहितः स्यात् । यदि तु शुनः पदे जलमनुक्रमेणातिशयेन
निषिञ्चेत्तदानीमग्नेरनाद्यभूता आपः संपन्नाः तादृशमनाद्यं वस्तु
द्वाभ्यामग्निभ्यां समर्पयेत्ततो गोर्नयनमुदकस्य निषेचनं न कुर्यात् । किन्तु
गार्हपत्यात्किञ्चिद्भस्माऽऽदाय “इदं विष्णुः” इति मन्त्रेणाऽऽहवनीयपर्यन्तं
भस्म प्रसारयंस्तस्योपरि स्वयं गच्छेत् । ततो यज्ञस्य
विष्णुत्वाद्विष्णुरूपेणेव यज्ञेन वर्तमानं यज्ञं संततं करोति । तेन भस्मना
शुनः पदमाच्छादयेत् । तच्च दोषस्य शान्त्यै भवति । अत्र
विनियोगसंग्रहः-

अनुवाके तृतीयेऽस्मिन्मन्त्रास्त्रयं उदीरिताः ॥

१८० (१.४.४) तैत्तिरीयब्राह्मणम्
उदस्थादित्यग्निहोत्रीमुत्थापयति दोहने ।
यदद्य दुग्धमित्येतत्स्कन्नक्षीराभिमन्त्रणे ॥
इदं विष्णुश्चान्तराये ध्वंसयेद्बस्म वह्निगम् ।
अनुवाके तृतीयेऽस्मिन्मन्त्रास्त्रयं उदीरिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीयवेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठके तृतीयोऽनुवाकः । ३ ।
अथ चतुर्थप्रपाठके चतुर्थोऽनुवाकः ।
तृतीये दोहविषयं प्रायश्चित्तमुक्तम् । चतुर्थे वह्निविषयं
प्रायश्चित्तमुच्यते । तत्रैकं प्रायश्चित्तं विधत्ते-
नि वा ए॒तस्या॑ऽऽहव॒नीयो॒ गार्ह॑पत्यं कामयते । नि गार्ह॑पत्यं
आहव॒नीय॑म् । यस्या॒ग्निमनु॑द्धृत॒ ँ॒ सूर्यो॑ऽभिनि॒म्रोच॑ति ।
दर्भे॑ण हिर॑ण्यं प्र॒बध्य॑ पु॒रस्ता॑द्धरेत् । अथा॒ग्निम् ।
अथा॑ग्निहो॒त्रम् । यद्धिर॑ण्यं पु॒रस्ता॑द्धर॑ति । ज्योति॒र्वै
हिर॑ण्यम् । ज्योति॑रे॒वैनं॑ पश्य॒न्नुद्ध॑रति । यद॒ग्नि पूर्व॑ ँ
हर॑त्यथा॑ग्निहो॒त्रम् (१) । भा॒ग॒धेये॑नै॒वैनं॑ प्रण॑यति, इति ।
यस्य पुरुषस्यानुद्धतमग्निमुपलक्ष्य सूर्योऽस्तमेति सायंकालीनाग्नि-
होत्रार्थादाहवनीयं प्रत्यग्निप्रणयनात्प्रागेव यद्यस्तमियात्तदानीमेतस्य
पुरुषस्याऽऽहवनीयो गार्हपत्यं न्यक्कर्तुं कामयते । गार्हपत्यश्चैनं
न्यक्कामयते । ततोऽग्निद्वयमपि फलप्रदं न भवति । ततोऽस्तमयादूर्ध्वं
प्रणयन्पुरुषः केनचिद्दर्भेण हिरण्यं प्रकर्षेण बद्ध्वा तत्पुरस्तान्नयेत् । तस्य
पृष्ठतोऽग्निं नयेत् । तस्यापि पृष्ठतोऽग्निहोत्रहविर्नयेत् । तत्रहिरण्यनयनेन
ज्योतिरूपं हिरण्यं पुरतः पश्यन्पृष्ठतोऽग्नेरुद्धारादस्तमयदोषं न प्राप्नोति ।
पुरतोऽग्निं पश्चाद्धविर्नयनं तदीयेन भागधेयेन युक्तमेवाग्निं प्रणयति ।
अस्मिन्नुद्धरणे कंचिद्विशेषं विधत्ते-
ब्राह्म॒ण आ॑र्षे॒य उद्ध॑रेत् । ब्राह्म॒णो वै सर्वा॒ देवा॑ताः ।
सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिरुद्ध॑रति, इति ।
स्वकीयानृषीन्यो वेत्ति स आर्षेयः प्रचऱाभिज्ञ इत्यर्थः । तादृशो

ब्राह्मणो दर्भेण प्रबद्धस्य हिरण्यस्य पृष्ठतो वह्निमुद्धरेत् । अत एव

तैत्तिरीयब्राह्मणम् (१.४.४) १८१
ब्राह्मणो दर्भेण प्रबद्धस्य हिरण्यस्य पृष्ठतो वह्निमुद्धरेत् । अत एव
सूत्रकारेणोक्तम्- “अन्वङ्ङार्षेयो ब्राह्मणो बहुविदग्निमुद्धरेत्” इति ।
“यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति”, इति
श्रुत्यन्तरात्सर्वदेवताकर्तृकमिदमुद्धरणं भवति ।
अत्रैवापरं विशेषं विधत्ते-
अ॒ग्नि॒हो॒त्रमु॑पसाद्यातमि॑तोरासीत् । व्र॒तमे॒व हु॒तम॑नुं प्रियते,
इति ।
आर्षेयस्य ब्राह्मणस्य पृष्ठतोऽग्निहोत्रहविर्नीत्वा तदधस्तादुपसाद्य
श्वासं निरुध्य ग्लानिपर्यन्तमवतिष्ठेत् । एवं सति सूर्यास्तमयेन विनाशितं
व्रतमनु स्वयमपि मरणोपचारं नाटयति । लोकेऽपि हि प्रियमन्
स्निग्धमनुम्रियन्ते । पुनरपि विशेषान्तरं विधत्ते-
अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति॑ । यस्ताम्य॑ति । अन्त॑मे॒ष
य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निम॑नु॒द्धत॒ꣳ सूर्यो॑ऽभिनिम्रोच॑ति
(२) । पुनः॑ स॒मन्य॑ जुहोति । अन्तै॑नै॒वान्तं॑ य॒ज्ञस्य॒ ·
निष्क॑रोति, इति ।
यो ग्लानिं प्राप्नोति, एष विनाशमिव प्राप्नोति । यस्य
चाग्न्युद्धरणात्पुरा सूर्योऽस्तमेति, एष यज्ञस्य विनाशं प्राप्नोति । अतो
दोषद्वयनिवृत्यर्थं पुनः श्वासं कृत्वा जुहुयात् । तथा सति स्वकीयेन
विनाशेन सह यज्ञस्य विनाशं समादधाति ।
पुनरप्यपरं विशेषं विधत्ते-
वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति । यस्या॒ग्निम॑नु॒द्धत॒ꣳ
सूर्यो॑ऽभिनिम्रोच॑ति । वा॒रु॒णं च॒रुं निर्व॑पेत् । तेनै॒व य॒ज्ञं
निष्क्री॑णीते, इति ।
वरुणेनापहतो यज्ञश्चरुणा मूल्येन पुनः क्रीतो भवति ।
हिरण्यबन्धनमारभ्य चरुपर्यन्तमेकमिदं प्रायश्चित्तम् ।
अस्तमयनिमित्तं प्रायश्चित्तमभिधायोदयनिमित्तं प्रायश्चित्तं विधत्ते-
नि वा ए॒तस्या॑ऽऽहव॒नीयो॒ गार्ह॑पत्यं कामयते । नि गार्ह॑पत्य
आहव॒नीय॑म् । यस्या॒ग्निम॑नु॒द्धत॒ꣳ सूर्यो॑ऽभ्युदेति॑ ।

१८२ (१.४.४) तैत्तिरीयब्राह्मणम्
चतु॑र्गृही॒तमाज्यं॑ पुर॒स्ता॑द्धरेत् (३) । अथा॒ग्निम् ।
अथा॑ग्निहो॒त्रम् । यदाज्यं॑ पुर॒स्ता॑द्ध॒रति॑ । ए॒तद्वा अ॒ग्नेः प्रि॒यं
धाम॑ । यदाज्य॑म् । प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति । यद॒ग्नि-
पूर्व॒ ँहर॑त्यथा॑ग्निहो॒त्रम् । भा॒ग॒धेये॑नै॒वैनं॑ प्रणयति । ब्राह्म॒ण
आ॒र्षेय॒ उद्ध॑रेत् । ब्राह्म॒णो वै सर्वा॒ दे॒वता॑: (४) ।
सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति, इति ।
पूर्ववद्व्याख्येयम् ।
अत्र पूर्वस्मादधिकं कंचिद्विशेषं विधत्ते-
परा॑ची॒ वा ए॒तस्मै॒ व्युच्छ॑न्ती॒ व्यु॑च्छति । यस्या॒ग्निम॑नु॒द्धृत॒
सूर्यो॒ऽभ्युदेति॑ । उषाः॑ के॒तुना॑ जुषताम् । य॒ज्ञं
दे॒वेभि॑रि॒न्वितम्॑ । दे॒वेभ्यो॒ मधु॑मत्त॒म ँ स्वाहेति॑
प्रत्यङ्ङुप॑नि॒षद्या॒ऽऽज्येन॑ जुहुयात् । प्र॒तीची॑मे॒वास्मै॒
विवा॑सयति, इति ।
यस्य पुरुषस्याग्न्युद्धरणात्प्राक्सूर्योदयो भवेदेतस्मै पुरुषायोषः
कालदेवता व्युच्छन्ती प्रभातं कुर्वती पराची वै पुनरावृत्तिरहितैव व्युच्छति
प्रभातं करोति । एकस्मिन्दिने प्रभातं कृत्वा विनश्यति दिनान्तरेषु प्रभातं
कर्तुं न तिष्ठतीत्यर्थः । एतद्दोषपरिहाराय प्रत्युङ्मुख उपविश्य"उषाः"
इत्यादि मन्त्रमुच्चार्याऽऽज्येन जुहुयात् । ततोऽस्मै यजमानार्थं प्रतीचीं
पुनरावृत्तियुक्तां स्वाकृतिं कृत्वा विवासयति । दैनंदिनं प्रभातं
संभावयति । मन्त्रस्यायमर्थः-इयमुषः कालदेवता केतुना
दिवसचिह्नभूतेनाऽऽदित्येन सह देवेभिरन्वितमन्यैर्देवैः प्रीतिपूर्वकं
स्वीकृतमिमं यज्ञं जुषताम् । देवेभ्योऽन्तमाधुर्योपेतमाज्यं
स्वादुतममस्त्विति ।
होमानन्तरकर्तव्यं विधत्ते-
अ॒ग्नि॒हो॒त्रमु॑प॒साद्यात॑मि॒तोरासी॑त् । व्र॒तमे॒व हु॒तमनु॑प्रियते ।
अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति (४) । यस्ताम्य॑ति ।
अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निम॑नु॒द्धृ॒त ँ
सूर्यो॒ऽभ्युदेति॑ । पुन॒ः संम॑न्य जुहोति । अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॑

तैत्तिरीयब्राह्मणम् (१.४.४) १८३
निष्क॑रोति । मि॒त्रो वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति ।
यस्या॒ग्निम॑नु॒द्धृत॒ꣳ॒ सूर्यो॑ऽभ्यु॒देति॑ । मै॒त्रं च॒रुं निर्व॑पेत् । तेनै॒व
य॒ज्ञं निष्क्री॑णीते, इति ।
पूर्ववत्सर्वं व्याख्येयम् । आज्योद्धरणमारभ्य मैत्रचरुपर्यन्तमेकं
प्रायश्चित्तम् ।
अथाग्न्युद्वाननिमित्तं प्रायश्चित्तं विधत्ते-
यस्या॑ऽहव॒नीये॑ऽनु॒द्द्वाते॒ गार्ह॑पत्य॒ उद्वाये॑त् (६) ।
यदा॑हव॒नीय॒मनु॑द्द्वाप्य॒ गार्ह॑पत्यं॒ मन्थे॑त् । विच्छि॑न्द्यात् ।
भ्रातृ॑व्यमस्मै जनयेत् । यद्वै य॒ज्ञस्य॑ वा॒स्त्व्यं॑ क्रि॒यते । तद॑नु॒
रु॒द्रोऽव॑चरति । यत्पूर्वं॒मन्वव॑सृ॒जेत् । वा॒स्त्व्य॑म॒ग्निमुपा॑-
सीत । रु॒द्रोऽस्य॑ प॒शून्घातु॑कः स्यात् । आ॒ह॒व॒नीय॑मुद्द्वाप्य॑ ।
गार्ह॑पत्यं॒ मन्थे॑त् (७), इति ।
यस्य पुरुषस्याऽऽहवनीयाग्नौ विद्यमाने सति
गार्हपत्याग्निर्नश्येत्तदानीमयं पुरुषस्तं विद्यमानमाहवनीयमविनाश्य यदि
गार्हपत्यार्थं मन्थनं कुर्यात्तदानीमाहवनीयजनकस्य गार्हपत्यस्याभावाद्यज्ञो
विच्छिद्येत । पूर्वा ह्याहवनीयजनको गार्हपत्यो विनष्टः । इत ऊर्ध्वं
मन्थनीयस्तु नैतस्याऽऽहवनीयस्य जनकः । किंच तन्मन्थनेन यजमानस्य
भ्रातृव्यमुत्पादयेत् । मन्थनीयस्य पूर्वाहवनीयविरोधित्वात् । एवं तर्हि
शास्त्रीयो गार्हपत्याहवनीयौ मा भूताम् । लौकिकमेवाग्निहोत्रं
क्रियतामिति चेत् । तदप्यनुपपन्नम् । यज्ञस्य संबन्धि यदङ्गं वास्तव्यं
लौकिकं क्रियते । वास्तवे लोकव्यवहारे भवं वास्तव्यम् ।
तल्लौकिकमङ्गमनु रुद्रः क्रूरो देवो यज्ञशालायां प्रविशति । एवं सति
यदि पूर्वं विद्यमानमाहवनीयमनु कर्म समापयेत्तदानीं
लौकिकमेवाग्निमुपासितवान्भवति । ततो रुद्रोऽस्य पशून्विनाशयेत्
तस्मात्पूर्वसिद्धमाहवनीयं विनाशय पश्चाद्गार्हपत्यार्थमग्निं मन्थेत् ।
तत्र मन्थनमन्त्रं विधत्ते-
इ॒तः प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः । स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स
गाय॒त्रिया त्रि॒ष्टुभा॒ जग॑त्या । दे॒वेभ्यो॑ ह॒व्यं व॑हतु
प्रजा॒नन्नि॑ति । छन्दो॑भिरे॒वैनं॒ ꣳ॒स्वाद्योने॑: प्रज॑नयति, इति ।

१८४ (१.४:४) तैत्तिरीयब्राह्मणम्
जातवेदा उत्पन्नसर्वजगदभिज्ञोऽग्निः स्वाद्योनेः
स्वकीयात्कारणादितोऽरणेः प्रथममुत्पन्नः । स च गायत्र्यादिच्छन्दस्त्रयेण
सहकारिणा देवान्हविश्च प्रकर्षेण जानन्नस्मदीयं हव्यं देवेभ्यो
वहत्वित्यनेन मन्त्रेण मन्थनं कुर्यात् । तथा सति
गायत्र्यादिच्छन्दोभिरेवानुगृहीतः स्वकीयात्कारणादुत्पादितो भवति ।
यथोक्तं मन्थनविधिमनूद्यानुमन्त्रणं विधत्ते-
गा॒र्हप॑त्यं मन्थति । गा॒र्हप॑त्यं वा अन्वहि॑ताग्नेः प॒शव॒
उप॑तिष्ठन्ते । स यदु॒द्वास॑यति । तदनु॑ प॒शवोऽप॑क्रामन्ति .
इ॒षे र॒य्यै रम॑स्व (८), इति । सह॑से द्यु॒म्नाय॑ । ऊ॒र्जे
पत्या॒येत्या॑ह । प॒शवो॒ वै र॒यिः । प॒शुने॒वास्मै॑ रमयति,
इति ।
मन्थनेन निष्पन्नो यो गार्हपत्यस्तदनु पशवोऽस्य संपद्यन्ते ।
तदुद्वासने तु पशवो नश्यन्ति । अतस्तदुद्वासनं वारयितुमिष
इत्यादिमन्त्रेणाभिमन्त्रयेत् । मन्त्रस्य चायमर्थः-हेऽग्ने इषऽन्नार्थं रय्यै
धनार्थं सहसे बलार्थं द्युम्नाय यशोर्थमूर्जे क्षीरादिरसार्थं पत्याय
स्वामित्वार्थं च रमस्व त्वामत्र क्रीडां कुरु । अस्मिन्मन्त्रे धनवाचिना
रयिशब्देन पशूनामप्यभिमतत्वात्पशूनस्मै संपादयति ।
अथ मन्त्रेण समिन्धनविधिमभिप्रेत्य तस्य भागमनूद्य व्याचष्टे-
सार॑स्व॒तौ त्वो॒त्सौ स॒मि॑न्धाता॒मित्या॑ह । ऋ॒क्सामे॒ वै
सार॑स्व॒तावु॒त्सौ । ऋ॒क्सा॒माभ्या॑मे॒वैनं॒ ँस॒मि॑न्धे, इति ।
हेऽग्न उत्सावत्युत्सुकौ सारस्वतौ
सरस्वतिसंबन्धिनावृग्वेदसामवेदौ त्वां समिन्धातां सम्यग्दीपयताम् ।
भागान्तरमुदाहृत्य व्याचष्टे-
स॒म्राड॑सि वि॒राड॑सीत्या॑ह । र॒थ॒न्तरं॒ वै स॒म्राट् । बृ॒हद्वि॒राट्
(९) । ताभ्या॑मे॒वैनं॒ ँस॒मि॑न्धे, इति ।
सम्यग्राजत इति सम्राट् । विविधं राजत इति विराट् । हेऽग्ने
सामद्वयरूपस्त्वमसि ।
अथ निमित्तान्तरकृतं प्रायश्चित्तं विधत्ते-

तैत्तिरीयब्राह्मणम् (१.४.४) १८५
वज्रो॒ वै च॒क्रम् । वज्रो॒ वा ए॒तस्य॑ य॒ज्ञं विच्छि॑न्दन्ति । यस्या॒नौ-
वा॒ रथो॑ वा॒न्तराग्नी॒ याति॑ । आ॒ह॒व॒नीय॑मुद्वाप्य॑ ।
गार्ह॑पत्या॒दुद्ध॑रेत् । यद॑ग्ने॒ पूर्वं॒ प्रभृ॑तं प॒द ँहि ते॑ । सूर्य॑स्य
र॒श्मीनन्वात॑तान॑ । तत्र॑ र॒यिष्ठामनु॒सम्भ॑रैतम् । सं नः॑ सृज
सु॒म॒त्या वाज॑व॒त्येति॑ । पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒संत॑नोति,
इति ।
शकटस्य रथस्य वा यच्चक्रं तल्लोहबद्धतया वज्रसमानम् ।
“रथतृतीयम्” इति वज्रांशत्वश्रुतेश्च । तथा सत्याहवनीयगार्हपत्ययोर्मध्ये
रथस्य शकटस्य वा गमने सति वज्रेण यज्ञो विच्छिद्येत् ।
अतस्तत्परिहारार्थमाहवनीयं विनाशय यदग्नय इत्यादिकमन्त्रेण
गार्हपत्यात्पुनरुद्धरेत् । मन्त्रस्य चायमर्थः-हेऽग्ने तव प्रभृतं प्रकर्षेण पुष्टं
यत्पदं स्वरूपं सूर्यस्य रश्मीनन्वनुक्रमेण सर्वतः प्रसारयामास । तत्र
यद्रयिष्ठां धनसमृद्धाववस्थितमेतमाहवनीयमनुक्रमेण संभर सम्यक्पोषय ।
नोऽस्मान्वाजवत्यान्नेनोपेतया सुमत्याशोभनबुद्ध्या संसृज संयोजय ।
अनेन मन्त्रेणाऽऽहवनीयोद्धरणे सति पूर्वसिद्धेनैव यज्ञेनास्य यजमानस्य
करिष्यमाणं यज्ञमनुक्रमेण संततं करोति ।
अस्मिन्नेवोद्धरणे मन्त्रान्तरं विधत्ते -
त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह अ॒ग्निः सर्वा॒ दे॒वताः॑ ।
दे॒वता॑भिरे॒व य॒ज्ञ ँसंत॑नोति, इति ।
हेऽग्ने त्वं सप्रथाः कीर्तियुक्तोऽसि । अस्य मन्त्रस्योत्तरभाग
उपहोमकाण्डे समाम्नास्यते । अस्मिन्पादे प्रशस्यमानोऽग्निः
सर्वदेवतात्मकः । ते देवा बिभ्यतोऽग्निं प्राविशंस्तस्मादाहुराग्निः
सर्वदेवता इत्यन्यत्राऽऽम्नानात् । अतो देवताभिरेव सहायभूताभिर्यज्ञं संततं
करोति ।
अत्रैव कर्तव्यशेषं विधत्ते-
अ॒ग्नये॑ पथि॒कृते॑ पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् । अ॒ग्निमे॒व
प॑थि॒कृत् ँस्वेन॑ भाग॒धेये॒नोप॑धावति । स ए॒वैनं॑ य॒ज्ञियं॑
पन्था॑मपि॑ नयति । अ॒न॒ड्वा न्द॑क्षिणा । वृ॒ही ह्ये॑ष समृ॑द्ध्यै
(१०), इति ।

१८६ (१.४.५) तैत्तिरीयब्राह्मणम्
हर॒त्यथा॑ग्निहो॒त्रं निम्रो॑चति हरे॒द्देव॑ता गच्छ॒त्युद्वाये॑न्मन्थे॑द्रमस्व
बृ॒हद्वि॒राडेति॑, नव॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
चतुर्थाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
(नि वै पूर्वं त्रीणि निम्नो (म्रो)र्चति दर्भेण यद्धिरण्यमग्निहोत्रम् ।
पुनर्वरुणोवारुणं नि वा एतस्यावाभ्युदेति चतुर्गृहीतमाज्यं यदाज्यं यदग्निं
परोच्युषाः । पुनर्मित्रो मैत्रं यस्याऽऽहवनीयेऽनुद्गाते गार्हपत्ये यद्वै
मन्थेदुद्धरेत ॥ (१)
पन्थानं करोतीति पथिकृत्तादृशोग्निर्निरुप्तेन स्वकीयेन भागधेयेन
सेवित एनं यजमानं यज्ञयोग्यं पन्थानं प्रापयति । तत्र चानड्वान्दक्षिणा
देया । स च भारवाहित्वात्समृद्धयै संपद्यते ।
अत्र विनियोगसंग्रहः-
उषामन्त्रेण होमः स्यात्पुरा सूर्योदये सति ।
इतः प्रथेति मन्त्रेण पश्चिमानलमन्थनम् ॥
इषे रय्यै तु मथितं मन्त्रयेतानलं तदा ।
सारस्वतौ त्वेति मन्त्राद्देतमग्निं समिन्धयेत् ॥
यदग्न इत्यन्तराये रथेनाग्निं समुद्धरेत् ।
त्वमग्न इत्यपि तथा षण्मन्त्रा इति कीर्तिताः ॥
इति श्रीमत्सायणाचार्यविरचिते वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥
अथ चतुर्थप्रपाठके पञ्चमोऽनुवाकः ।
चतुर्थेऽग्निविषयं प्रायश्चित्तमुक्तम् । पञ्चमे सोमविषयं
प्रायश्चित्तमुच्यते । तत्र प्रातः सवनविषयं प्रायश्चित्तं विधत्ते-
यस्य॑ प्रातः स॒वने॒ सोमो॑ऽति॒रिच्य॑ते । माध्यं॑दिन॒ꣳ सव॑नं
का॒मय॑मानो॒ऽभ्य॑ति॒रिच्य॑ते । गोध॑यति म॒रुता॒मिति॑
धर्य॑द्वतीषु कुर्वन्ति॑ ॥ हि॒नस्ति॒ वै सं॒ध्यधी॑तम् । सं॒धीव॒
खलु॒ वा ए॒तत् । यत्स॑वनस्याति॒रिच्य॑ते । यद्धर्य॑द्वतीषु
कु॒र्वन्ति॑ । सं॒धेः शान्त्यै॑, इति ।

तैत्तिरीयब्राह्मणम् (१.४.५) १८७
यस्य यजमानस्य प्रातः सवनेऽनुष्ठिते सति तत्राभिषुतः सोमः
कियानप्यवशिष्यते तस्यासौ सोमो माध्यंदिनसवनेऽपि
स्वस्योपयोगमपेक्ष्यातिरिक्तो भवति । तस्यातिरेकदोषस्य परिहाराय
धयच्छब्दोपेतास्वृक्षु गौर्धयति मरुतामित्यादिषु स्तोत्रं कुर्वन्ति । यद्वेद-
वाक्यमहोरात्रयोः संघावधीतं तदध्येतारं हिनस्ति । तथा चाध्ययननिषेधेषु
प्रस्तुतेष्वापस्तम्बः स्मरति-“तावन्तं कालं नाधीयीताध्यापयेद्वा
संध्योस्तथा” इति प्रातः सवनस्य सोमातिरेको यत्तदेतत्संधीव । यथा
संध्याकालोऽहोरात्रोभयस्पर्शैंवमतिरिक्तसोमोऽपि प्रातःसवने
संपादितत्वान्माध्यंदिनसवनकामित्वाच्चोभयस्य स्पर्शी । ततः
संध्याकालाध्ययनसमानो दोषः प्राप्नुयात् । तत्र धयद्वतीषु स्तोत्रे क्रियमाणे
सत्यतिरिक्तस्य सोमस्यापि प्रातःसवनान्तःपातित्वसंधित्वं शाम्यति ।
तदेतत्सूत्रकारेणापि स्पष्टमुक्तम्-“यदि प्रातःसवने प्राग्धोमात्सोममतिरिक्तं
पश्येत्तं चमसेष्वभ्युन्नयदुपाजुहुयाद्वां हुते दृष्ट्वा स्तुतशस्त्रवन्तं कुर्यात् ”
इति । एवं सति प्रातःसवनस्यैतदन्तत्वादनन्तरभाविनो
माध्यंदिनसवनत्वादुभयव्यतिरिक्तः संधिर्नाम कश्चिन्न भविष्यति ।
अतिरिक्तसोमस्य स्तोमार्थं धयद्वतीषु यत्स्तोत्रे क्रियते तत्र
सामस्तोमविशेषौ विधत्ते-
गा॒य॒त्र ँसाम॑ भवति पञ्चद॒शः स्तोम॑ः । तेने॑व प्रा॒तः
सव॒नान्नय॑न्ति (१) , इति ।
प्रातः सवने हि बहिष्पवमानस्तोत्रं गायत्रसाम्ना निष्पाद्यते । आज्य-
स्तोत्राणि पञ्चदशस्तोमेन । तस्योभयस्यात्र क्रियमाणत्वेन प्रातः
सवनलक्षणसद्भावादतिरिक्तसोमस्यानुष्ठातारः प्रातःसवनान्नाप
गच्छन्ति ।
धयद्वतीष्वृक्षु मरुच्छब्दस्य विद्यमानत्वात्तत्प्रयुक्तं गुणं दर्शयति-
म॒रुत्व॑तीषु कुर्वन्ति । तेनै॑व माध्यंदि॒नात्सव॑ना॒न्नय॑न्ति,
इति ।
मरुतो हि माध्यंदिनसवनसंबन्धिनः । तत्र हि दतीया ग्रहा आम्नाताः
“यन्माध्यंदिने सवने मरुत्वतीया गृह्यन्ते” इति श्रुतेः । अतो मरुत्वतीषु
स्तोत्रकरणेनमाध्यंदिनसवनलक्षणसद्भावादतिरिक्तसोमेन कामित-
माध्यंदिनसवनं नापगच्छन्ति ।
अतिरिक्तसोमानुष्ठानप्रकारं विधत्ते-

१८८ (१.४.५) तैत्तिरीयब्राह्मणम्
होतु॑श्च॒म॒सम॒नून्न॑यन्ते । होता॑ऽनु॒शँस॑ति । म॒ध्य॒त ए॒व य॒ज्ञ ँ
स॒माद॑धाति, इति ।
दशसु चमसेषु मध्ये योऽयं होतुश्चमसस्तमादावतिरिक्तसोमेन
पूरयित्वा पश्चादन्यान्पूरयेत् । अत्र होतैव शस्रं पठेत् । अत एव सूत्रकार
आह- “ऐन्द्रावैष्णवं होताऽनुशंसति” इति एवं कुर्वन्यज्ञं मध्यतः
समादधाति । अन्यूनातिरिक्तं सवनद्वयं समी करोति । यथा संधिदोषो
न भवति तथा करोतीत्यर्थः ।
अथ माध्यंदिनसवनविषयं प्रायश्चित्तं विधत्ते-
यस्य॑ माध्यंदि॒ने सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते । आ॒दि॒त्यं
तृ॑तीयस॒वनं॒ काम॑यमानोऽभ्य॑ति॒रिच्य॑ते । गौ॒रि॒वी॒तं ॅसाम॑
भवति । अ॒ति॒रि॒क्तं वै गौ॑रिवी॒तम् । अ॒ति॒रि॒क्तं
यत्सव॑नस्याति॒रिच्य॑ते (२) । अति॑रिक्तस्य शा॒न्त्यै, इति ।
यद्गौरिवीताख्यं साम तत्राक्षरातिरेकस्य
विद्यमानत्वात्तेनायमतिरिक्तदोषः शाम्यति । इतरत्पूर्ववद्व्याख्येयम् ।
अत्र सामाधारमृग्विशेषं विधत्ते-
ब॒ण्म॒हा ॅअ॑सि सूर्य्येति॑ कुर्वन्ति । यस्यै॒वाऽऽदि॒त्यस्य॑
सव॑नस्य॒ कामै॒नाति॒रिच्य॑ते । तेनै॒वैनं॒ कामे॑न॒ समर्ध॑यन्ति,
इति ।
बडित्यादिकमृक्प्रतीकम् । तत्र चाऽऽदित्यवाचकः सूर्यशब्द
आम्नातः । तृतीयसवनं चाऽऽदित्यसंबन्धि । आदित्यग्रहस्य तत्र
विहितत्वात् । अत एव सूत्रकारेणोक्तम् -“आदित्यारम्भणं तृतीयसवनम्”
इति । एवं सत्यतिरिक्तेन सोमेन काम्यमानदित्यसंबन्धि तृतीयसवनं
सूर्यशब्दघटितेन मन्त्रेण लब्धमिति कृत्वा तेन कामनातिरिक्तसोमं समृद्धं
करोति ।
ऋचं विधाय सामविशेषं विधत्ते-
गौ॒रि॒वी॒तं ॅसाम॑ भवति । तेनै॒व माध्यं॑दि॒नात्सव॑ना॒न्नय॑न्ति,
इति ।

तैत्तिरीयब्राह्मणम् (१.४.५) १८९
माध्यंदिनसवने गौरिवीतसाम्नः पृष्ठस्तोत्रे विहितत्वात्तत्साम
तत्सवनलक्षणम् । अतस्तेन साम्ना माध्यंदिनसवनान्नापगच्छन्ति ।
स्तोमविशेषं विधत्ते-
स॒प्त॒द॒शः स्तोम॑ः । तेनै॒व तृ॑तीयसव॒नान्नर्य॑न्ति, इति ।
तृतीयसवनगतस्याऽऽर्भैवपवमानस्य सप्तदशस्तोमयुक्तत्वादसौ
स्तोमस्तत्सवनलक्षणम् । तेन तृतीयसवनान्नापगच्छन्ति ।
अनुष्ठानप्रकारं विधत्ते-
होतृ॑श्चम॒समनून्न॑यन्ते । होता॑ऽनुशँस॑ति (३) । म॒ध्य॒त ए॒व
य॒ज्ञ ꣳ॒समाद॑धति, इति ।
पूर्ववद्व्याख्येयम् ।
अथ तृतीयसवने प्रायश्चित्तविशेषं विधत्ते-
यस्य॑ तृती॒यस॑वने सोमो॑ऽति॒रिच्ये॑त । उ॒क्थ्यं॑ कुर्वीत ।
यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त । अ॒ति॒रा॒त्रं कु॑र्वीत । यस्या॑तिरा॒त्रेऽ
ति॒रिच्ये॑त । तत्त्वै दु॑ष्प्र॒ज्ञान॒म् । यज॑मानं॒ वा ए॒तत्प॒शव॑
आ॒साह्य॑ यन्ति । बृ॒हत्सा॒मं भ॑वति । बृ॒हद्वा
इ॒माँल्लो॒कान्दा॑धार । बा॑र्ह॒ताः प॒शव॑ः । बृ॒हतै॒वास्मै॑
प॒शून्दा॑धार, इति ।
द्वादशस्तोत्रयुक्तेऽग्निष्टोमे प्रयुक्ते सति तृतीयसवने यदि
सोमातिरेकस्तदानीं तस्योपयोगाय द्वादशभ्य उपरि स्तोत्रत्रयोपेतमुक्थ्यं
कुर्वीत । तत्रापि सोमातिरेके सत्येकोनत्रिंशत्स्तोत्रयुक्तमतिरात्रं कुर्वीत ।
तत्रापि सोमातिरेके ततोऽधिकस्तोत्रयुक्तस्य क्रतोरभावादतिरेकसमाधानं
ज्ञातुं दुःशकं तर्हि मा भूत्ससमाधानमिति चेत् । न । पशुहानिप्रसङ्गात् ।
तेनातिरेकेण पशवो यजमानमासाह्य सर्वतोऽभिभूय यत्र क्वापि यन्ति ।
तस्मात्कार्यमेतत्समाधानम् । बृहत्सामगानेन तत्समाहितं भवति । बृहतः
सर्वलोकधारणसमर्थत्वात्पशूनां च तत्सामलभ्यत्वेना
ऽऽहृतत्वात्पलायमानान्पशून्यजमानार्थं तेन साम्नाधारयति ।
तस्य साम्न आधारभूता ऋचो विधत्ते-

पञ्चमोऽनुवाकः ॥ ५ ॥

१९० (१.४.६) तैत्तिरीयब्राह्मणम्
शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति । शि॒पि॒वि॒ष्टो वै दे॒वानां॒ पुष्टम्॑ ।
पुष्ट्यै॒वैन॑ ँसम॑र्धयन्ति, इति ।
शिपिविष्टशब्दो यास्वृक्षु विद्यते ताः शिपिविष्टवत्यः ।
शिपिविष्टशब्दो विष्णुवाची । “यः पशोर्भूमा या पुष्टिस्तद्विष्णुः शिपिष्टः”
इति श्रुत्यन्तरात् । स च देवानां पुष्टिहेतुः। अतः शिपिविष्टवतीषु कुर्वतीषु
गायन्तीषु गाने सति पुष्ट्यैव यजमानं समृद्धं कुर्वन्ति ।
अनुष्ठानप्रकारं विधत्ते-
होतु॑श्चम॒समनून्न॑यन्ते । होताऽनु॑श ँस॑ति । मध्य॑त एव य॒ज्ञ ँ
समा॒र्दधा॑ति, इति ।
य॒न्ति सर्व॑नस्याति॒रिच्य॑ते शासति दाधाराष्टौ च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके चतुर्थाध्याये
पञ्चमोऽनुवाकः ॥ ५ ॥
पूर्ववत् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
अथ चतुर्थप्रपाठके षष्ठोऽनुवाकः ।
पञ्चमे सोमातिरेकप्रायश्चित्तमुक्तम् । षष्ठे त्वेकग्राम-
वर्तिबहुसोमयागविषयविशेषोऽभिधीयते । तत्रैकं विशेषं विधत्ते-
एकै॑को वै ज॒नता॑या॒मिन्द्र॑ः । एकं॒ वा ए॒ता
विन्द्र॑म॒भिस ँसु॑नुतः । यौ द्वौ स 'सु॑नुतः । प्र॒जाप॑ति॒र्वा ए॒ष
विता॑यते । यद्य॒ज्ञः । तस्य॒ ग्रावा॑णो॒ दन्ता॑ः । अ॒न्य॒तरं॒ वा
ए॒ते स 'सु॑न्व॒तोर्निर्ब॑प्सति । पूर्वे॑णोप॒सृत्या॒ देव॑ता॒ इत्या॑हुः ।
पूर्वो॑प॒सृत॑स्य॒ वै श्रेया॑न्भवति । ए॒तैर्वन्त्याज्या॑नि
भवन्त्य॒भिजित्यै॑ (१), इति ।