सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 211, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 211

१८२ (१.४.४) तैत्तिरीयब्राह्मणम्
चतु॑र्गृही॒तमाज्यं॑ पुर॒स्ता॑द्धरेत् (३) । अथा॒ग्निम् ।
अथा॑ग्निहो॒त्रम् । यदाज्यं॑ पुर॒स्ता॑द्ध॒रति॑ । ए॒तद्वा अ॒ग्नेः प्रि॒यं
धाम॑ । यदाज्य॑म् । प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्धयति । यद॒ग्नि-
पूर्व॒ ँहर॑त्यथा॑ग्निहो॒त्रम् । भा॒ग॒धेये॑नै॒वैनं॑ प्रणयति । ब्राह्म॒ण
आ॒र्षेय॒ उद्ध॑रेत् । ब्राह्म॒णो वै सर्वा॒ दे॒वता॑: (४) ।
सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति, इति ।
पूर्ववद्व्याख्येयम् ।
अत्र पूर्वस्मादधिकं कंचिद्विशेषं विधत्ते-
परा॑ची॒ वा ए॒तस्मै॒ व्युच्छ॑न्ती॒ व्यु॑च्छति । यस्या॒ग्निम॑नु॒द्धृत॒
सूर्यो॒ऽभ्युदेति॑ । उषाः॑ के॒तुना॑ जुषताम् । य॒ज्ञं
दे॒वेभि॑रि॒न्वितम्॑ । दे॒वेभ्यो॒ मधु॑मत्त॒म ँ स्वाहेति॑
प्रत्यङ्ङुप॑नि॒षद्या॒ऽऽज्येन॑ जुहुयात् । प्र॒तीची॑मे॒वास्मै॒
विवा॑सयति, इति ।
यस्य पुरुषस्याग्न्युद्धरणात्प्राक्सूर्योदयो भवेदेतस्मै पुरुषायोषः
कालदेवता व्युच्छन्ती प्रभातं कुर्वती पराची वै पुनरावृत्तिरहितैव व्युच्छति
प्रभातं करोति । एकस्मिन्दिने प्रभातं कृत्वा विनश्यति दिनान्तरेषु प्रभातं
कर्तुं न तिष्ठतीत्यर्थः । एतद्दोषपरिहाराय प्रत्युङ्मुख उपविश्य"उषाः"
इत्यादि मन्त्रमुच्चार्याऽऽज्येन जुहुयात् । ततोऽस्मै यजमानार्थं प्रतीचीं
पुनरावृत्तियुक्तां स्वाकृतिं कृत्वा विवासयति । दैनंदिनं प्रभातं
संभावयति । मन्त्रस्यायमर्थः-इयमुषः कालदेवता केतुना
दिवसचिह्नभूतेनाऽऽदित्येन सह देवेभिरन्वितमन्यैर्देवैः प्रीतिपूर्वकं
स्वीकृतमिमं यज्ञं जुषताम् । देवेभ्योऽन्तमाधुर्योपेतमाज्यं
स्वादुतममस्त्विति ।
होमानन्तरकर्तव्यं विधत्ते-
अ॒ग्नि॒हो॒त्रमु॑प॒साद्यात॑मि॒तोरासी॑त् । व्र॒तमे॒व हु॒तमनु॑प्रियते ।
अन्तं॒ वा ए॒ष आ॒त्मनो॑ गच्छति (४) । यस्ताम्य॑ति ।
अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति । यस्या॒ग्निम॑नु॒द्धृ॒त ँ
सूर्यो॒ऽभ्युदेति॑ । पुन॒ः संम॑न्य जुहोति । अन्ते॑नै॒वान्तं॑ य॒ज्ञस्य॑