सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

४६ स्वप्नवासवदत्ते
पद्मावती — (क) अहो सदक्खिण्णस्स जणस्स परिजेणो
वि सदक्खिण्णो एव्व होदि । (उपेत्य) जेदु अय्यउत्तो । इदं
मुहोदअं ।
राजा — अये पद्मावती । (अपवार्य) वसन्तक ! किमिदम् ।
विदूषकः —(कर्णे) (ख) एव्वं विअ ।
राजा — साधु वसन्तक ! साधु । (आचम्य) पद्मावति !
आस्यताम् ।
पद्मावती — (ग) जं अय्यउत्तो आणवेदि । (उपविशति)
राजा — पद्मावति !
शैरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ! ।
काशपुष्पप्लवेनेदं साश्रुपातं मुखं मम ॥ ७ ॥
(आत्मगतम् )
इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् ।
कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥ ८ ॥
विदूषकः — (घ) इदं* तत्तहोदो मअधराअस्स अवरह्णकाळे


(क) अहो सदाक्षिण्यस्य जनस्य परिजनोऽपि सदाक्षिण्य एव भवति । जयत्वा-
र्यपुत्रः । इदं मुखोदकम् ।
(ख) एवमिव ।
(ग) यदार्यपुत्र आज्ञापयति ।
(घ) इदं तत्रभवतो मगधराजस्यापराह्नकाले भवन्तमग्रतः कृत्वा सुहृज्जनद-


१. ‘अ’ ख. पाठः. २. ‘दि । विदूषकः- जेदु भवं । पद्मावती - जेदु अय्यउत्तो । रा’.
ख. पाठः. ३. ‘रा(ज)च्छ’ख. पाठः. ४. ‘मधी’ क. पाठः.
* इदं सन्निकृष्टमित्यर्थः.

चतुर्थोऽङ्कः । ४७
भवन्तं अग्गदो करिअ सुहिज्जणदंसणं । सक्कारो हि णाम सक्का-
रेण पडिच्छिदो पीदिं उप्पादेदि । ता उट्ठेदु दाव भवं ।
राजा — बाढम् १। प्रथमः कल्पः । (उत्थाय)
गुणानां वा विशालानां सत्काराणां च नित्यशः ।
कर्तारः सुलभा लोके विज्ञातारस्तु २ दुर्लभाः ॥ ९ ॥
(निष्क्रान्ताः सर्वे)
चतुर्थोऽङ्कः ।
र्शनम् । सत्कारो हि नाम सत्कारेण प्रतीष्टः प्रीतिमुत्पादयति । तदुत्तिष्ठतु तावद्
भवान् ।
१. 'म् उ' ख. पाठः. २. 'प्र' ख. पाठः.

अथ पञ्चमोऽङ्कः ।
(ततः प्रविशति पद्मिनिका)
पद्मिनिका—(क) महुअरिऐ ! महुअरिऐ ! आअच्छ दाव सिग्घं।
(प्रविश्य)
मधुकरिका — (ख) हळा ! इअम्हि । किं करीअदु ।
पद्मिनिकां — (ग) हळा ! किं ण जाणासि तुवं भट्टिदा-
रिआ पदुमावदी सीसंवेदणाए दुक्खाविदे ३ त्ति ।
मधुकरिका — (घ) हद्धि ।
पद्मिनिका -- (ङ) हळा ! गच्छ सिग्घं, अय्यं आवन्तिअं
सदावेहि । केवळं भट्टिदारिआए सीसवेदणं एव्व णिवेदेहि ।
तदो सअं एव्व आगमिस्सदि ।
मधुकरिका — (च) हळा ! किं सा करिस्सदि ।
पद्मिनिका — (छ) सा हु दा६णिं महुराहि कहाहि भट्टिदा-
रिआए सीसवेदणं विनोदेदि ।
(क) मधुकारिके ! मधुकारिके ! आगच्छ तावच्छीघ्रम् ।
(ख) हला ! इयमस्मि । किं क्रियताम् ।
(ग) हला ! किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति ।
(घ) हा धिक् ।
(ङ) हला ! गच्छ शीघ्रमार्थ्यामावन्तिकां शब्दय । केवलं भर्तृदारिकायाः शीर्षवेद-
नामेव निवेदय । ततः स्वयमेवागमिष्यति ।
(च) हला ! किं सा करिष्यति ।
(छ) सा खल्विदानीं मधुराभिः कथाभिः भर्तृदारिकायाः शीर्षवेदनां विनोदयति ।
१. ‘का—किं’ ख. पाठः. २. ‘स्स’ ख. पाठः. ३. ‘दा’ ख. पाठः. ४. ‘य्यं’ क.
पाठः. ५. ‘अ’ ख. पाठः. ६. ‘णि’ क. पाठः.

पञ्चमोऽङ्कः । ४९
मधुकरिका — (क) जुज्जइ । कहिं सअणीयं रइदं भद्दि-
दारिआए ।
पद्मिनिका — (ख) समुद्द्गिहके किळं^१ सय्यात्तिण्णा । गच्छ
दाणि तुवं । अहं वि भद्दिणो णिवेदणत्थं अय्यवसन्तअं
अण्णेसामि ।
मधुकरिका — (ग) एव्वं होदु । (निष्क्रान्ता)
पद्मिनिका — (घ) कहिं दाणि अय्यवसन्तअं पेक्खामि ।
(ततः प्रविशति विदूषकः)
विदूषकः — (ङ) अज्जं^२ खु देवीविओअविहुरस्स तत्त-
होदो वच्छराअस्स पदुमावदीपाणिग्गहणसमीरिअस्स^३ अच्चन्त-
सुहावहे^४ मङ्गळोसवे मदणग्गिदाहो^५ अहिअदरं वड्ढइ । (पद्मिनिकां
विलोक्य) अयि पदुमिणिआ । पदुमिणिए ! किं इह वत्तंसि ।
(क) युज्यते । कुत्र शयनीयं रचितं भर्तृदारिकायाः ।
(ख) समुद्रगृहके किल शय्यास्तीर्णा । गच्छेदानीं त्वम् । अहमपि भर्त्रे निवे-
दनार्थमार्यवसन्तकमन्वेषे ।
(ग) एवं भवतु ।
(घ) कुत्रेदानीमार्यवसस्तकं प्रेक्षे ।
(ङ) अद्य खलु देवीवियोगविधुरस्य तत्रभवतो वत्सराजस्य पद्मावतीपाणिग्रहण-
समीरितस्यात्यन्तसुखावहे मङ्गलोत्सवे मदनाग्निदाहोऽधिकतरं वर्धते । अयि पद्मिनिका ।
पद्मिनिके ! किमिह वर्तते ।
१. 'ळ अत्थिण्णा' ख. पाठः. २. 'ज वि हु देवीविओअविहुरहिअअस्स' ख. पाठः.
३. 'आधमाणे अब्ब' ख. पाठः. ४. 'हे वमङ्गळोमणमम' क. पाठः. ५. 'णदो'
ख. पाठः. ६. 'इह । (विलोक्य) पदुमाणिए' ख. पाठः. ७. 'इसि ।' ख. पाठः.

५० स्वप्नवासवदत्ते
पद्मिनिका — (क) अय्य ! वसन्तअ ! किं ण जाणासि
तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुःखाविदे१त्ति ।
विदूषकः — (ख) भोदि ! सच्चं ण जाणामि ।
पद्मिनिका — (ग) तेण हि२ भट्टिणो णिवेदेहि णं३। जाव अहं
वि सीसाणुलेवणं तुवारेमि ।
विदूषकः — (घ) कहिं सअणीअं रइदं पदुमावदीए ।
पद्मिनिका — (ङ) समुद्गगिहके किळ सय्यत्ति४ण्णा ।
विदूषकः — (च) गच्छदु भोदी । जाव अहं वि तत्तहोदो
णिवेदइस्सं ।
(निष्क्रान्तौ)
(प्रवेशकः)
(ततः प्रविशति राजा)
राजा —
श्लाघ्यामवन्तिनृपतेः सदृशीं तनूजां
कालक्रमेण पुनरागतदारभारः ।
(क) आर्य ! वसन्तक ! किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया
दुःखितेति ।
(ख) भवति ! सत्यं न जानामि ।
(ग) तेन हि भर्त्रे निवेदयैनाम् । यावदहमपि शीर्षानुलेपनं त्वरयामि ।
(घ) कुत्र शयनीयं रचितं पद्मावत्याः ।
(ङ) समुद्रगृहके किल शय्यास्तीर्णा ।
(च) गच्छतु भवती । यावदहमपि तत्रभवते निवेदयिष्यामि ।
१. 'दे' क. पाठः. २. 'हि सिग्घं भ' ख. पाठः. ३. 'हि । जा' ख. पाठः.
४. 'गि' ख. पाठः.

पञ्चमोऽङ्कः । ५१
लावाणके हुतवहेन हृताङ्गयष्टिं
तां पद्मिनीं हिमहतामिव चिन्तयामि ॥ १ ॥
(प्रविश्य)
विदूषकः — (क) तुवरदु तुवरदु दाव भवं ।
*राजा — किमर्थम् ।
विदूषकः — (ख) तत्तहोदी पदुमावदी §सीसवेदणाए
दुक्खाविदा ।
राजा— कैवमाह ।
विदूषकः — (ग) पदुमिणिआए कहिदं ।
राजा — भोः ! कष्टं,
रूपश्रिया समुदितां गुणतश्च युक्तां
लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः ।
‡पूर्वाभिघातसरुजोऽप्यनुभूतदुःखः
पद्मावतीमपि तथैव समर्थयामि ॥ २ ॥
अथ कस्मिन् प्रदेशे वर्तते पद्मावती ।
विदूषकः — (घ) समुद्दगिहके किळ सय्यात्तिण्णा ।
(क) त्वरतां त्वरतां तावद् भवान् ।
(ख) तत्रभवती पद्मावती शीर्षवेदनया दुःखिता ।
(ग) पद्मिनिकया कथितम् ।
(घ) समुद्रगृहके किल शय्यास्तीर्णा ।
१. 'ग्गि' ख. पाठः.

  • 'राजा' इत्यादि 'दु' इत्यन्तं क. पुस्तके त्रुटितम् । § 'सीदनदणाए' (?) इति ख.
    पुस्तके दृश्यते । ‡ पूर्वाभिघातसरुजोऽपि अनुवर्तमानपूर्वाभिघातपीडस्यापीत्यर्थः ।

५२ स्वप्नवासवदत्ते
राजा — तेन हि तस्य मार्गमादेशय ।
विदूषकः — (क) एदु एदु भवं ।
(उभौ परिक्रामतः)
विदूषकः — (ख) इदं समुद्दगिहकं । पविसदु भवं ।
राजा — पूर्वं प्रविश ।
विदूषकः — (ग) भो ! तह । (प्रविश्य) अविहा चिट्ठदु चिट्ठदु
दाव भवं ।
राजा — किमर्थम् ।
विदूषकः — (घ) एसो खु दीवप्पभावसूइदरूवो वसुधातले
परिवत्तमाणो अअं काओदरो ।
राजाँ — (प्रविश्यावलोक्य सस्मितम्) अहो सर्पव्यक्तिवैधेयस्यै ।
ऋज्वायतां च मुखतोरणलोलमालां
भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख ! सर्पम् ।
मन्दानिलेन निशि या परिवर्तमाना
किञ्चित् करोति भुजगस्य विचेष्टितानि ॥ ३ ॥
विदूषकः — (निरूप्य) (ङ) सुट्ठु भवं भणादि । ण हु अअं
(क) एत्वेतु भवान् ।
(ख) इदं समुद्रगृहकम् । प्रविशतु भवान् ।
(ग) भोः ! तथा । अविहा तिष्ठतु तिष्ठतु तावद् भवान् ।
(घ) एष खलु दीपप्रभावसूचितरूपो वसुधातले परिवर्तमानोऽयं काकोदरः ।
(ङ) सुष्ठु भवान् भणति । न खल्वयं काकोदरः । तत्रभवती पद्मावतीहागत्य
निर्गता भवेत् ।
१. 'हु दाव भ' ख. पाठः. २. 'भासू' ख. पाठः. ३. 'जा-अ' क. पाठः. ४
'स्य । कुतः-ऋ' ख. पाठः. ५. 'तांगिसु' ख. पाठः.

पञ्चमोऽङ्कः । ५३
काओअरो । (प्रविश्यावलोक्य) तत्तहोदी पदुमावदी इह आअ-
च्छिअ णिग्गदा भवे ।
राजा - वयस्य ! अनागतया भवितव्यम् ।
विदूषकः - (क) कहं भवं जाणादि ।
राजा - किमत्र ज्ञेयम् । पश्य,
शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा
न क्लिष्टं हि *शिरोपधानममलं शीर्षाभिघातौषधैः ।
रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता
प्राणी प्राप्य रुजां पुनर्न शयनं शीघ्रं स्वयं मुञ्चति ॥ ४ ॥
विदूषकः - (ख) तेण हि इमस्सिं सय्याए मुहुत्तअं उब्बे-
विसिअ तत्तहोदिं पडिवाळेदु भवं ।
राजा - बाढम् । (उपविश्य) वयस्य ! निद्रा मां बाधते ।
कथ्यतां काचित् कथा ।
विदूषकः - (ग) अहं कहइस्सं । होन्तिं करेदुँ अत्तभवं ।
राजा - बाढम् ।
(क) कथं भवान् जानाति ।
(ख) तेन ह्यस्यां शय्यायां मुहूर्तकमुपविश्य तत्रभवतीं प्रतिपालयतु भवान् ।
(ग) अहं कथयिष्यामि । हुङ्कृतिं करोत्वत्रभवान् ।
१. 'जं' ख. पाठः. २. 'वनिवि' ख. पाठः. ३. 'दु दाव भ' ख. पाठः. ४. 'छन्दतः' ख. पाठः.

  • शिरस्य शीर्षस्य उपधानं शिरोपधानं । "शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा ।
    विचकर्त शिरान् द्रौणिः, इति कण्ठभूषणालङ्कार उक्तम् " इत्यमरटीकासर्वस्वम् ।

९४ स्वप्नवासवदत्ते
विदूषकः— (क) अत्थि णअरी उज्जइणी णाम । तहिँ^१
अहिअरमणीआणि^२ उदअण्णाणाणि वत्तन्ति किळ ।
राजा — कथमुज्जयिनी नाम ।
विदूषकः — (ख) जइ अणभिप्पेदा एसा कहा, अण्णं
कहइस्सं ।
राजा — वयस्य ! न खलु नाभिप्रेतैषा कथा,
स्मराम्यवन्त्याधिपतेः सुतायाः
प्रस्थानकाले स्वजनं स्मरन्त्याः ।
बाष्पं प्रवृत्तैं^३ नयनान्तलभं
स्नेहान्ममैवोरसि पातयन्त्याः ॥ ५ ॥
अपिच,
बहुशोऽप्युपदेशेषु यया मामीक्षमाणया ।
हस्तेन स्रस्तकोणेन कृतमाकाशवादितम् ॥ ६ ॥
विदूषकः — (ग) अण्णं कहइस्सं । अत्थि णअरं बह्मदत्तं
णाम । तहिं किळ राआ कंपिळ्ळो^४ णाम ।
राजा — किमिति किमिति ।
विदूषकः — (पुनस्तदेव पठति)
(क) अस्ति नगर्युज्जयिनी नाम । तत्राधिकरमणीयान्युदयज्ञानानि वर्तन्ते किल ।
(ख) यद्यनाभिप्रेतैषा कथा, अन्यां कथयिष्यामि ।
(ग) अन्यां कथयिष्यामि । अस्ति नगरं ब्रह्मदत्तं नाम । तत्र किल राजा काम्पि-
ल्यो नाम ।
१. ‘हिं किल अ’ क. पाठः, २. ‘णिज्जाणि’ ख. पाठः, ३. ‘त्तं’ ख. पाठः, ४,
‘वि’ क. पाठः.

पञ्चमोऽङ्कः । ५५
राजा — मूर्ख! राजा ब्रह्मदत्तः, नगरं काम्पिल्यमित्य-
भिधीयताम् ।
विदूषकः — (क) किं राआ बह्मदत्तो, णअरं कंपिळ्ळं ।
राजा — एवमेतत् ।
विदूषकः — (ख) तेण हि मुहुत्तअं पडिवाळेदु भवं,
जाव ओट्ठगअं करिस्सं । राआ बह्मदत्तो, णअरं कंपिळ्ळं ।
(इति बहुशस्तदेव पठित्वा) इदाणिं सुणादु भवं । अयि सुत्तो अत्त-
भवं । अदिसिदळा इअं वेळा । अत्तणो पावरअं गह्निअ
आअमिस्सं । (निष्क्रान्तः)
(ततः प्रविशति वासवदत्ता आवन्तिकावेषेण, चेटी च)
चेटी — (ग) एदु एदु अय्या । दिढं खु भट्टिदारिआ
सीसवेदणाए दुक्खाविदा ।
वासवदत्ता — (घ) कहिं सअणीअं रइदं पदुमावदीए ।
चेटी — (ङ) समुद्दगिहके किळ सय्यँत्तिण्णा ।
(क) किं राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् ।
(ख) तेन हि मुहूर्तकं प्रतिपालयतु भवान्, यावदोष्ठगतं करिष्यामि । राजा ब्रह्म-
दत्तः, नगरं काम्पिल्यम्। इदानीं शृणोतु भवान् । अयि सुप्तोऽत्रभवान् । अतिशीत-
लेयं वेला । आत्मनः प्रावरकं गृहीत्वागमिष्यामि ।
(ग) एत्वेत्वार्या । दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता ।
(घ) कुत्र शयनीयं रचितं पद्मावत्याः ।
(ङ) समुद्रगृहके किल शय्यास्तीर्णा ।
१. ‘व ण जा’ क. पाठः. २. ‘शः पठति)’ क. पाठः. ३. ‘वं । हं अ’ ख.
पाठः. ४. ‘त्ता चे’ ख. पाठः ५. ‘आ पदुमावदी सी’ ख. पाठः. ६. ‘ता हृद्दि क’
ख. पाठः, ७. ‘य्या ग्गि’ झ. पाठः.

वासवदत्ता — (क) तेण हि अग्गदो याहि¹।
(उभे परिक्रामतः)
चेटी — (ख) इदं समुद्दगिहकं। पविसदु अय्या। जाव
अहं वि सीसाणुळेवणं² तुवारेमि। (निष्क्रान्ता)
वासवदत्ता — (ग) अहो अकरुणा खु इस्सरा मे³।
विरहपय्युस्सुअस्स अय्यउत्तस्स विस्सत्थाणभूदा इअं पि णाम
पदुमावदी अस्सत्था जादा। जाव पविसामि। (प्रविश्यावलोक्य)
अहो परिजनस्स पमादो। अस्सत्थं पदुमावदिं केवळं दीवस-
हाअं करिअ परित्तजदि। इअं पदुमावदी ओसुत्ता। जाव उव-
विसामि। अहवा अण्णासणपरिग्गहेण अप्पो विअ सिणेहो
पडिभादि। ता इमस्सिं सय्याए उवविसामि। (उपविश्य)
किंकुणुहु एदाए सह उवविसन्तीए अज्ज पल्हादिदं विअ मे
हिअअं। दिट्ठिआ अविच्छिण्णसुहणिस्सासा। णिव्वुत्तरो⁴-
आए होदव्वं। अहव एअदेससंविभाअदाए सअणीअस्स सू-
एदि मं आलिङ्गेहि त्ति। जाव सइस्सं। (शयनं नाटयति)
(क) तेन ह्यग्रतो याहि।
(ख) इदं समुद्रगृहकम्। प्रविशत्वार्या। यावदहमपि शीर्षानुलेपनं त्वरयामि।
(ग) अहो अकरुणाः खल्वीश्वरा मे। विरहपर्युत्सुकस्यार्यपुत्रस्य विश्रामस्थानभू-
तेयमपि नाम पद्मावत्यस्वस्था जाता। यावत् प्रविशामि। अहो परिजनस्य प्रमादः।
अस्वस्थां पद्मावतीं केवलं दीपसहायां कृत्वा परित्यजति। इयं पद्मावत्यवसुप्ता।
यावदुपविशामि। अथवान्यासनपरिग्रहेणाल्प इव स्नेहः प्रतिभाति। तदस्यां शय्याया-
मुपविशामि। किंनुखल्वेतया सहोपविशन्त्या अद्य प्रह्लादितमिव मे हृदयम्। दिष्ट्यावि-
च्छिन्नसुखनिःश्वासा। निवृत्तरोगया भवितव्यम्। अथवैकदेशसंविभागलया शय-
नीयस्य सूचयति मामालिङ्गेति। यावच्छयिष्ये।
१. 'हि। चे' ख. पाठः. २. 'सिस्साणु' ख. पाठः. ३. 'मम वि' ख. पाठः.
४. 'व' क. पाठः.

पञ्चमोऽङ्कः । ५७
राजा — (स्वप्नायते) हा वासवदत्ते !
वासवदत्ता — (सहसोत्थाय) (क) हं अय्यउत्तो, ण हुं^१ पदुमा-
वदी । किण्णुखु दिट्ठम्हि । महन्तो खु अय्यजोअन्धराअणस्स
पडिण्णाहारो मम दंसणेण णिफ्फळो संवृत्तो ।
राजा — हा अवन्तिराजपुत्रि !
वासवदत्ता^२ — (ख) दिट्ठिआ सिविणाअदि खु अय्यउत्तो ।
णै^३ एत्थ को^४ (न्धि?वि) जणो । जाव मुहुत्तअं चिट्ठिअ दिट्ठिं
हिअअं चें^५ तोसेमि ।
राजा — हा प्रिये ! हा प्रियशिष्ये ! देहि मे प्रतिवचनम् ।
वासवदत्ता^६ — (ग) आळवामि भट्ठा ! आळवामि ।
राजा — किं कुपितासि ।
वासवदत्ता — (घ) णहि णहि, दुखिदम्हि ।
राजा — यद्यकुपिता^७, किमर्थं नालङ्कृता^८ ।
वासवदत्ता — (ङ) इदो वरं किं ।
(क) हम् आर्यपुत्रः, न खलु पद्मावती । किन्नुखलु दृष्टास्मि । महान् खल्वा-
र्ययौगन्धरायणस्य प्रतिज्ञाभारो मम दर्शनेन निष्फलः संवृत्तः ।
(ख) दिष्ट्या स्वप्नायते खल्वार्यपुत्रः । नात्र कोऽपि जनः । यावन्मुहूर्तकं स्थित्वा
दृष्टिं हृदयं च तोषयामि ।
(ग) आलपामि भर्तः ! आलपामि ।
(घ) नहि नहि, दुःखितास्मि ।
(ङ) इतः परं किम् ।
१. 'खु' ख. पाठः. २. 'आवन्तिका—' क. पाठः. ३. 'ण खु ए' ख. पाठः. ४. 'को
अ' क. पाठः. ५. 'अ' ख. पाठः. ६. 'आवन्तिका—' क. पाठः. ७. 'अद्यापि कु'
ख. पाठः. ८. 'तासि ।' ख. पाठः.

५८ स्वप्नवासवदत्ते
राजा — किं विरहिकां¹ स्मरसि ।
वासवदत्ता — (सरोषम्) (क) आ अवेहि, इहावि विरहिआ।
राजा — तेन हि विर(चि?हि)²कार्थं भवतीं प्रसादयामि ।
(हस्तौ प्रसारयति)
वासवदत्ता — (ख) चिरं ठिदह्नि । को वि मं पेक्खे ।
ता गमिस्सं । अहव, सैय्यावळम्बिअं अय्यउत्तस्स हत्थं सअ-
णीए आरोविअ गमिस्सं । (तथा कृत्वा निष्क्रान्ता)
राजा — (सहोत्थाय) वासवदत्ते ! तिष्ठ तिष्ठ । हा धिक् ।
निष्क्रामन् सम्भ्रमेणाहं⁵ द्वारपक्षेण ताडितः ।
ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः ॥ ७ ॥
(प्रविश्य)
विदूषकः — (ग) अइ पडिबुद्धो अत्तभवं ।
राजा — वयस्य ! प्रियमावेदये, *धरते खलु वासवदत्ता ।
विदूषकः — (घ) अविहा वासवदत्ता । कहिं वासवदत्ता ।
चिरा खु उबरदा वासवदत्ता ।
(क) आ अपेहि, इहापि विरहिता ।
(ख) चिरं स्थितास्मि । कोऽपि मां पश्येत् । तद् गमिष्यामि । अथवा, शय्याव-
लम्बितामार्यपुत्रस्य हस्तं शयनीय आरोप्य गमिष्यामि ।
(ग) अयि प्रतिबुद्धोऽत्रभवान् ।
(घ) अविहा वासवदत्ता । कुत्र वासवदत्ता । चिरात् खल्वपरता वासवदत्ता ।
१. 'चिता स्म' क. पाठः. २ 'त्ता अ' ख. पाठः. ३. 'तां भ' क. पाठः.
४. 'पय्याविळम्बिदं अ' ख. पाठः. ५. 'पज्वार' क. पाठः. ६. 'ति' क. पाठः.
७. 'भा' क. पाठः. ८. 'ते वा' क. पाठः. ९. 'आ वासवदत्ता । राजा' ख. पाठः.

  • ध्रियत इत्यर्थः ।

षष्ठ अङ्क: घोषवती वीणा प्राप्ति, प्रत्यभिज्ञान व उपसंहार

पञ्चमोऽङ्कः । १९
राजा — वयस्यै¹! मा मैवम् ,
शय्यायामवसुप्तं मां बोधयित्वा सखे! गता ।
दग्धेति ब्रुवता पूर्वं वञ्चितोऽस्मि रुमण्वता ॥ ८ ॥
विदूषकैः —² (क) अविहा असम्भावणीअं एदं³ ण । आ
उदअण्णाणसङ्कित्तणेण तत्तहोदिं चिन्तअन्तेण⁵ सा सिविणे
दिट्ठा भवे ।
राजा —
यदि तावदयं स्वप्नो धन्यमप्रतिबोधनम् ।
अथायं विभ्रमो वा स्याद् विभ्रमो ह्यस्तु मे चिरम् ॥ ९ ॥
विदूषकः — (ख) मा दाणि भवं अत्ताणं⁴ ओहसिअं कादुं ।
किन्तु इमस्सिं राअउळे अवन्तिसुन्दरी णाम जक्खिणी पडिव-
सदि । सा तुए दिट्ठा⁶ भवे ।
राजा — न न,
स्वप्नस्यान्ते विबुद्धेन नेत्रविप्रोषिताञ्जनम् ।
चारित्रमपि रक्षन्त्या दृष्टं दीर्घाळकं मुखम् ॥ १० ॥
अपिच वयस्य ! पश्य पश्य,
(क) अविहा असम्भावनीयमेतद् न । आ उदयज्ञानसङ्कीर्तनेन तत्रभवतीं चिन्तयता
सा स्वप्ने दृष्टा भवेत् ।
(ख) मेदानीं भवानात्मानमवहसितं कर्तुम् । किन्त्वस्मिन् राजकुलेऽवन्तिसुन्दरी
नाम यक्षिणी प्रतिवसति । सा त्वया दृष्टा भवेत् ।
१. ‘स्य ! श’ क. पाठः. २. ‘वः — आ’ ख. पाठः. ३. ‘दम् । ण अ’ क. पाठः
४. ‘हा’ क. पाठः. ५. ‘अणत्थं चिन्तिआइ’ ख. पाठः. ६. ‘ष्ठा । रा’ ख पाठः.

१० स्वप्नवासवदत्ते
योऽयं सन्त्रस्तया देव्या तया बाहुर्निपीडितः ।
स्वप्नेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति¹ ॥ ११ ॥
विदूषकः — (क) मा दाणि भवं अणत्थं चिन्तिअ । एदु
एदु भवं । चउस्साळं पविसामो ।
(प्रविश्य)
काञ्चुकीयः — जयत्वार्यपुत्रः । अस्माकं महाराजो दर्शको
भवन्तमाह — एष खलु भवतोऽमात्यो रुमण्वान् महता बलस-
मुदयेनोपयात: खल्वारुणिमभिघातयितुम्³ । तथा हस्त्यश्वरथपदा-
तीनि मामकानि विजयाङ्गानि सन्नद्धानि । तदुत्तिष्ठतु भवान्⁴ ।
अपिच,
भिन्नास्ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः
पार्ष्णी चापि* भवेत्⁵प्रयाणसमये तस्या विधानं कृतम् ।
यद्यत् साध्यमरिप्रमाथजननं तत्तन्मयानुष्ठितं
तीर्णा चापि बलैर्नदी त्रिपथगा वत्साश्च हस्ते तव ॥ १२ ॥
राजा⁶ — बाढम् । अयमिदानीम्,
(क) मेदानीं भवाननर्थं चिन्तयित्वा । एत्वेतु भवान् । चतुःशालं प्रविशावः ।
१. 'ति । प्रवि' ख. पाठः. २. 'रि' क. पाठः. ३. 'म् । ह' क. पाठः. ४. 'न् । भि' ख.
पाठः. ५. 'वान् प्र' ख. पाठः. ६. 'जा-अ' ख. पाठः.

  • 'चापि' इत्यस्य स्थाने 'यापि' इत्येव पाठः स्यात् । उत्थास्यतः पार्ष्णिशुद्धिरपेक्षितानेन वा-
    क्येन प्रतिपाद्यते । स्त्रीलिङ्गेऽपि पार्ष्णिशब्दोऽस्ति । ततः 'कृदिकारादक्तिन' इति ङीषि पार्ष्णी-
    शब्दोऽपि भवति । 'पार्ष्णीर्यापि' इत्येव वा पाठो भवेत् ।

पञ्चमोऽङ्कः । ६१
उपेत्य नागेन्द्रतुरङ्गतीर्णे
तमारुणिं दारुणकर्मदक्षम् ।
विकीर्णबाणोग्रतरङ्गभङ्गे
महार्णवाभे युधि* नाशयामि ॥ १३ ॥
(निष्क्रान्ताः सर्वे)
पञ्चमोऽङ्कः ।
१. 'कौ' ख. पाठः.

  • अस्मादेव प्रयोगाद् युच्छब्दः पुंस्यपि द्रष्टव्यः । संयच्छब्दवत् । संयच्छब्दव्याख्यायां हि
    अमरटीकासर्वस्वकार आह — “रवेजि संयत्यतुलाङ्गगौरवे’ इति दण्डिना पुमान् संयत् प्रयुक्तः”
    इति ।

अथ षष्ठोऽङ्कः ।
(ततः प्रविशति काञ्चुकीयः)
काञ्चुकीयः — क इह भोः ! रै¹त्नतोरणद्वारमशून्यं कुरुते ।
(प्रविश्य)
प्रतीहारी — (क) अय्य ! अहं विजआ । किं करीअदु ।
काञ्चुकीयैः — भवति ! निवेद्यतां निवेद्यतां वत्सराज्यलौ³-
भप्रवृद्धोदयायोदयनाय — एष खलु महासेनस्य सकाशाद्
रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्य्या
वसुन्धरा नाम वासवदत्ताधात्री च प्रतीहारमुपस्थिता इति ।
प्रतीहारी — (ख) अय्य ! अदेसकालो पडिहारस्स ।
काञ्चुकीयः — कथमदेशकालो नाम ।
प्रतीहारी — (ग) सुणादु अय्यो । अज्ज भट्टिणो (सु?स)-
य्याँमहाप्पासादगदेण केण वि वीणा वादिदा । तं च सुणिअ
भट्टिणा भणिअं — घोसवदीए सद्दो विअ सुणीअदि त्ति ।
काञ्चुकीयः — ततस्ततः ।
(क) आर्य ! अहं विजया । किं क्रियताम् ।
(ख) आर्य ! अदेशकालः प्रतिहारस्य ।
(ग) शृणोत्वार्यः । अद्य भर्तुः शय्यामहाप्रासादगतेन केनापि वीणा वादिता । तां
च श्रुत्वा भर्त्रा भणितं घोषवत्याः शब्द इव श्रूयते इति ।
१. ‘काञ्चनतो’ ख. पाठः. २. ‘यः - विजय ! नि’ ख. पाठः. ३. ‘लो’ ख. पाठः.
४. ‘यै’ ख. पाठः. ५. ‘वि’ ख. पाठः. ६. ‘णा’ क. पाठः ७. ‘आमुण्णपा’ ख. पाठः.
८. ‘अ भणि’ ख. पाठः.

षष्ठोऽङ्कः । ६३
प्रतीहारी — (क) तदो तहिं गच्छिअ पुच्छिदो — कुदो
इमाए वीणाए आगमो त्ति । तेण भणिअं — अम्हेहिं णम्मदा-
तीरे कोय्यगुम्मळग्गा दिट्ठत्ति । जइ प्पओअणं इमाए, उव-
णीअदु भट्टिणेत्ति । तं च उवणी²दं अङ्के करिअ मोहं गदो
भट्‍टा । तदो मोहप्पच्चागदेण *बप्पपय्याउ(ळेण मुच्छहण?)
भट्टिणा भणिअं — दिट्ठासि घोसवदि ! सा हु ण दिस्सदि त्ति ।
अय्य ! ईदिसो अणवसरो । कहं णिवेदे³मि ।
काञ्चुकीयः — भवति ! निवेद्यताम् । इदमपि तदाश्रय-
मेव ।
प्रतीहारी — (ख) अय्य ! इअं णिवेदेमि ४ । एसो भट्‍टा (सु?स)
य्यामहप्पासादादो ओदरइ । ता इह एव्व णिवेदइस्सं ।
काञ्चुकीयः — भवति ! तथा ।
(उभौ निष्क्रान्तौ)
विष्कम्भः ।
(क) ततस्तत्र गत्वा पृष्टः — कुतोऽस्या वीणाया आगम इति । तेन भणितम्—
अस्माभिर्नर्मदातीरे (कोय्य?)गुल्मलग्ना दृष्टेति । यदि प्रयोजनमनया, उपनीयतां भर्त्रेति ।
तां चोपनीतामङ्के कृत्वा मोहं गतो भर्ता । ततो मोहप्रत्यागतेन बाष्पपर्याकुलोच्छूनमु-
खेन भर्त्रा भणितं — दृष्टासि घोषवति ! सा खलु न दृश्यत इति । आर्य ! ईदृशो-
ऽनवसरः । कथं निवेदयामि ।
(ख) आर्य ! इयं निवेदयामि । एष भर्ता शय्यामहाप्रासादादवतरति । तदिहैव
निवेदयिष्यामि ।
१. 'णो' ख. पाठः. २. 'रणिदं' क. पाठः. ३. 'दि' ख. पाठः. ४. मि । (निष्क्रा-
न्ता) मिश्रवि' ख. पाठः.

  • 'ळेणमुच्छुहण' इत्यस्य स्थाने 'लोच्छुणमुहेण' इति पठनीयं भाति । बाष्पपर्याकुलोच्छू-
    नमुखेन' इति च संस्कृतं समग्रपदस्य बोद्धव्यम् ।

६४ स्वप्नवासवदत्ते
(ततः प्रविशति राजा विदूषकश्च)
राजा --
श्रुतिसुखनिनादे¹! कथं नु देव्याः
स्तनयुगले जघनस्थले च सुप्ता।
विहगगणरजोविकीर्णदण्डा
प्रतिभयमध्युषितास्यरण्यवासम् ॥ १ ॥
अपिच, अस्निग्धासि घोषवति! या तपस्विन्या न स्मरसि,
श्रोणीसमुद्वहनपार्श्वनिपीडितानि
स्वेद²स्तनान्तरसुखान्यपगूहितानि ।
उद्दिश्य मां च विरहे परिदेवितानि
वाद्यान्तरेषु कथितानि च सस्मितानि ॥ २ ॥
विदूषकः — (क) अलं दाणि भवं अदिमत्तं³ सन्तप्पिअ ।
राजा — वयस्य! मा मैवं;
चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः ।
तां तु देवीं न पश्यामि यस्या घोषवती प्रिया ॥ ३ ॥
वसन्तक! शिल्पिजनसकाशाद्भवयोगां घोषवतीं कृत्वा शीघ्र-
मानय ।
विदूषकः — (ख) जं भवं आणवेदि⁴। (वीणां गृहीत्वा निष्क्रान्तः)
(क) अलमिदानीं भवानतिमात्रं सन्तप्य ।
(ख) यद् भवानाज्ञापयति ।
१. 'रखमथुरो' (?) ख. पाठः. २. 'खे' क. पाठः. ३. 'वं। रा' ख. पाठः. ४. 'दि।
नि' ख. पाठः.

षष्ठोऽङ्कः । ६५
(प्रविश्य)
प्रतीहारी — (क) जेदु भट्टा । एसो खु महासेणस्स सआ-
सादो रब्भसगोत्तो कञ्चुईओ देवीएँ अङ्गारवदीए पेसिदा
अय्या वसुन्धरा णाम वासवदत्ताधत्ती अ पडिहारं उवद्विदा ।
राजा — तेन हि पद्मावती तावदाहूयताम् ।
प्रतीहारी — (ख) जं भट्टा आणवेदि । (निष्क्रान्ता)
राजा — किन्न्वखलु शीघ्रमिदानीमयं वृत्तान्तो महासेनेन
विदितः ।
(ततः प्रविशति पद्मावती सपरिवारा)
प्रतीहारी — (ग) एदु एदु भट्टिदारिआ ।
पद्मावती — (घ) जेदु अय्यउत्तो ।
राजा — पद्मावति ! किं श्रुतं महासेनस्य सकाशाद् रैभ्य-
सगोत्रः काञ्चुकीयः प्राप्तस्तत्रभवत्या चाङ्गारवत्या प्रेषितार्या
वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थिताविति ।
पद्मावती — (ङ) अय्यउत्त ! पिअं मे णाँदिकुळस्स कुसळ-
वृत्तन्तं सोदुं ।
(क) जयतु भर्ता । एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयो
देव्याङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थितौ ।
(ख) यद् भर्ताज्ञापयति ।
(ग) एत्वेतु भर्तृदारिका ।
(घ) जयत्वार्यपुत्रः ।
(ङ) आर्यपुत्र ! प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम् ।
१. 'ई दे' क. पाठः. २. 'ए पे' ख. पाठः. ३. 'ज्ञा' क. पाठः.