सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 64, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 64

44 स्मृतिचन्द्रिकायां

इति कात्यायनस्मरणात् । केचित्तु—'पौर्णमास्याम्' इत्यादि
'सद्यो वा' इत्येतदन्तमेकं सूत्रं, अपरं तु 'सद्यस्कालायां सर्वं
क्रियते' इति वदन्ति । तत्र सर्वस्यां पौर्णमास्यामग्न्यन्वाधानादि
सद्यः पूर्वेद्युर्वा क्रियत इति पूर्वसूत्रस्यार्थः । द्वितीयस्य तु सद्य-
स्काला विकृतिः तस्यां सर्वं ब्राह्मणतर्पणान्तं क्रियते नेडान्तादि
कमिति । नैतद्युक्तं, अपराह्न सन्धौ सद्यस्कालपक्षे 'सन्धिम-
भितो यजेत' इति श्रुतिविरोधात् एवं प्रकृतावुक्तम् ।
विकृतौ यद्यपि 'दर्शपूर्णमासाविष्टीनां प्रकृतिः' इत्यनेन दर्शपूर्ण-
मासिकाविध्यन्तातिदेशादत्रापि स एव पर्वचतुर्थांशादिल-
क्षणः काल इति प्रतिभाति । तथाऽपि 'यदीष्ट्या यदि
पशुना यदि सोमेन यजेतामावास्यायां पौर्णमास्यां वा य-
जेत' इत्यापस्तम्बेन विकृतौ पुनःकालविधानात्पञ्चदश्या-
मेव यागसमाप्तिः, अतो यत्र सम्पूर्णाव पञ्चदशी प्रतिपच्च
तत्र पञ्चदश्यामेव विकृतिं समाप्यानन्तरं प्रकृतेरग्न्यन्वाधा-
नादि । खण्डतिथौ यदा पूर्वाह्णे पर्वसन्धिः तदा पूर्वेद्युरुपदि-
ष्टकाला सम्भवात्सम्भवेऽपि कर्मोपक्रमदशायाम सम्भवेन साङ्ग-
प्रधानांव्यापित्वात् 'साङ्गप्रधानं देशे काले कर्तरीति निर्दि-
श्यते' इत्यापस्तम्बेन साङ्गस्यैव विहितकालसम्बन्धविधानात् ।
उक्तं परेद्युरपि । प्रकृतेः पूर्वोक्तत्वात् 'अपूर्वमन्ते स्यात्' इत्याप-
स्तम्बेनैव विकृतेः पूर्वं प्रकृतिविधानात् अनन्तरमेवातिदेशिक
प्रतिपदाद्यभागत्रयेऽङ्गप्रधानपर्याप्तेर्विकृत्यनुष्ठानमवगन्तव्यम् । यदा