सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६१
पश्येत्याप्तेन प्रतिपाद्यमानस्य न तु सदा, ततश्च तस्या१ विच्छिन्नं दर्शनं
स्यात्, न सदा प्रकाशमानता, न चैतत् तत्कालप्रतीक्षणं मतम् ॥
स्वात्मनात्मानमथ चेत्पश्यन्ती सा भविष्यति ॥ ६५ ॥
तदानीं२ प्रतिपाद्यस्य किमायातं स्ववीक्षणात्३ ।
वक्तव्यमेव४ तस्यापि पश्यन्तीं पश्य या स्वयम् ॥ ६६ ॥
आत्मानमेव जानाति तथाप्यस्यास्ति कर्मता ।
नानुभवादिना पश्यन्तीदर्शनमपि तु सा स्वात्मना५ न व्यतिरिक्ते-
नानुभवेन स्वमात्मानं पश्यन्ती भविष्यतीति यदि मतं, तदेवं सति प्रति-
पाद्यस्य भवद्भिरुपदेष्टृभिः किमपूर्वं कार्यं स्वयमेव तस्याः प्रथनात् । एवं
तु अवश्यवक्तव्यं भवद्भिः प्रतिपादकैः६ सद्भिः प्रतिपाद्यस्य७ पश्यन्ती-
मदृष्टपूर्वां८ त्वं पश्य या स्वयमेवात्मानं पश्यति । तथापि चास्याः९
प्रतिपाद्यसंबन्ध्यनुभवं प्रति पूर्ववत् कर्मतास्त्येव१०, प्रतिपाद्येन११ परिमित-
त्वात् पराभिमतायाः पश्यन्त्याश्च्युतत्वात्, परिमितेनैव द्वैतदशोचिते-
नानुभवेन सा दृश्या स्यात्, न तु तदा प्रतिपाद्यप्रतिपादकपश्यन्तीनामैक्यं
येन कर्मतापत्तिर्न भवेत् । एवं च कर्मतापत्तौ तस्याः स्वयं प्रकाशता-
स्वभावाभ्युपगतेति विरोधः । १ तस्याः पश्यन्त्याः । २ ननु नास्माभिः
कादाचित्केनानुभवेन प्रतिपाद्या पश्यन्ती अभ्युपगता, येन कादाचित्क-
त्वात्पश्यन्त्या विच्छिन्नदर्शनेऽनित्यत्वादिदोषप्रसङ्गः । अपि तु स्वात्मना
प्रकाशमानेनानुभवितृत्वेनानुभवविषयमेव प्रकाशमानं पश्यन्ती पश्यति ।
एवं च सततं प्रकाशमानतैवेत्यपि निराकरोति तदानीमित्यादिना । तथा
स्वात्मनात्मानमेव सा प्रत्यवमृशति परन्तु पश्यन्तीव्यपदेशस्तूपदेश्यजनापेक्ष-
यैव न स्वतः कर्मव्यपदेशोऽत्रेति च समर्थयति । ३ तस्याः स्वयंप्रथनात् ।
४ उपदेशो ह्यवश्यवक्तव्यत्वाद्विधिलक्षणः, स चाज्ञातज्ञापनलक्षणः । स्वयमेव
ज्ञातेऽलमन्योपदेशकथावर्णनया । ५ यदुक्तं 'अथ स्वानुभवेनैव पश्यन्ती पश्य
युक्तितः' इत्यस्यैवोऽभिप्रायो यदिष्टः । ६ अन्योपदेशकैः । ७ उपदेश्यस्य ।
८ उपदेशो हि न दृष्टे प्रवर्तते । ९ पश्यन्त्याः । १० त्वं पश्यन्तीं पश्य
स्वानुभवेन तां लक्षयस्वेति स्फुटमेव पश्यन्त्याः कर्मत्वमायातम् । ११ ननु
पश्यन्त्याः स्वयमात्मदर्शनरूपाया न कथंचन कर्मताणुसंस्कारलेशमप्य-

६२ शिवदृष्टिः [ आ०-२
क्षतिरिति पुनरपि तत्प्रकाशकमेव प्रधानं भवेत् । अव्यतिरिक्तोऽपि¹
प्रकाशस्तस्या आत्मानमात्मना पश्यन्तीं पश्येति विवर्तभूम्यालिङ्गनात्²
अशुद्धतापन्नः । अस्यातीति पश्यन्तीस्वरूपस्य ।।
असत्यः³ प्रतिपाद्योऽस्मिन्नसत्यः प्रतिपादकः ।। ६७ ।।
असत्यस्योपदेशत्वमसत्येन परीक्ष्यते ।
पश्यन्त्यतिरिक्तः⁴ सर्व एव प्रतिपाद्यादिप्रपञ्चोऽस्मिन् दर्शनेऽसत्यः⁵,
तत् कुतः पश्यन्त्याः सिद्धिः कस्य वा केन वा प्रमाणेन ।।
येन सा वा प्रमाणेन स्थाप्यते तस्य सत्यता ।। ६८ ।।
तत्सत्यत्वे⁶ द्विसत्यत्वमसत्यत्वे न किंचन ।
यदि वा येन प्रमाणेन सा व्यवस्थाप्यते तस्य सत्यता इष्टा, तत्
द्वयोः पश्यन्तीतत्प्रमाणयोः सत्यता प्राप्ता⁷, प्रमाणस्यासत्यत्वे न किंचन
स्थितं स्यात् ।।
साधुशब्दसमुच्चारात्कस्य स्वर्गादियोगिता ।। ६९ ।।
पश्यन्त्याश्चेदविद्यात्वं तद्भोगोन्मुख्ययोगतः ।
मध्यमादेर्जडायाः किं भोगेन शबलात्मना ।। ७० ।।
तस्मादसाधुः साधुः स्याच्छब्दविद्याफलप्रदः ।
एवं व्याकरणस्यापि समुच्छेद उपैति ते ।। ७१ ।।

स्पृशन्त्याः कथं पूर्ववत्कर्मेति । तत्र हि पारतन्त्र्यं कर्मताऽत्र तु स्वतन्त्रैवेत्यत
आह प्रतिपाद्येनेत्यादि । १ अथ प्रकारान्तरेणापि । अथ स्वानुभवेनैव
पश्यन्तीं पश्येति युनक्ति अव्यतिरिक्त इत्यादिना । २ त्वं तस्या आत्मान-
मात्मना पश्येति तथा च न कर्मता नापि चोपदेशानार्थकयमित्येतदपि सम-
र्थयति विवर्तभूम्यालिङ्गनात् इत्यादिना । ३ ननु च यः प्रतिपाद्यः सोऽपि
पश्यन्ती, योऽपि प्रतिपादकः सोऽप्यसत्यः पश्यन्त्येव, योऽप्युपदेशः सोऽप्य-
सत्यः पश्यन्त्येव, योऽपि तत्स्वरूपे परीक्षकः सोऽप्यसत्यः पश्यन्त्येवेति किमत्र
परस्य कथनीयमिति चेत्, एतदेव पुनरपि समर्थनार्थं कथनीयमसत्यमेव हि
सर्वं तर्ह्येतत्संपन्नमित्यलं भवद्वाक्प्रलापेनेत्यर्थः । ४ विशेषप्रतिषेधे सामान्या-
भ्यनुज्ञानमिति नयेनाह पश्यन्त्यतिरिक्त इति । ५ पश्यन्तीविचारे । ६ तस्य
प्रमाणस्य । ७ तदप्यनिष्टमेव ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६३
वैयाकरणैः साधुशब्दप्रयोगः स्वर्गापवर्गफल उक्तः । 'एकः शब्दः
शास्त्रपूर्व प्रयुक्तः स्वर्गे लोके कामधुग्भवति' इति । तथा—
'साध्वी१ वाग्भूयसी येषु पुरुषेषु व्यवस्थिता ।
अधिकं वर्तते तेषु पुण्यरूपं प्रजापतेः ॥
प्राजापत्यं महत्तेजस्तन्मात्रैरेव२ संवृतम् ।
शरीरभेदे३ विदुषां स्वां योनिमुपधावति ॥'
इति । तत्फलं स्वर्गाख्यं तावत्कस्य स्यात् यः शब्दप्रयोगस्य कर्तेति तत्फला-
र्थितया पश्यन्त्याः कर्तृत्वे स्वर्गभोगोन्मुख्यात् अविद्यासंपर्केणाशुद्धता स्यात् ।
मध्यमावैखरीदशायामिष्टानिष्टोपलम्भभाजिप्राप्तिपरिहारोन्मुख्येन प्रवृत्तिः ।
तन्न, पारमार्थिकप्रमातृनिष्ठा हि विषयव्यवस्थितिः, तन्मध्यमादेः सवि-
भागत्वेन द्वैतावस्थाने सति अविद्याशबलरूपतया जडत्वान्न परमार्थपद-
प्रतिष्ठेने किञ्चिद्भोगेेन, भोग एवासौ न भवेदित्यर्थः । तस्मात्साधुशब्दः
प्रयुक्तः शब्दविद्याफलस्य भोगादेर्दाता, प्रत्युत पश्यन्त्या अशुद्ध्यापादनेना-
साधुरशुभः स्यात् । एवं चाशुभकारित्वाद्यथावर्णितफलं व्याकरणमपि
त्वदीयं समुच्छिन्नं हेयमेव स्यात् ॥ ७१ ॥
वैयाकरणतां त्यक्त्वा विज्ञानान्वेषणेन४ किम् ।
भवतामप्रस्तुतेन५ न केवलमिहोदितम्६ ॥ ७२ ॥
विज्ञानाभासनं यावत्समीक्षायामुदाहृतम्७ ।
१ साध्वी व्याकरणव्युत्पत्तिसंस्कारसहिता ।
२ तैरेव केवलं संवृतं गोपितम् ।
३ मरणक्षणे ।
४ सम्यग्ज्ञानवेषणया ।
५ प्रस्तावनानर्हेण ।
६ ननु साधुशब्दानुशासनत्वमेव प्रधानं प्रयोजनं व्याकरणस्य
व्यवस्थापितं प्रसङ्गागतं तत्र विज्ञानाभासनं व्यवस्थापितमिति कात्र
हानिरिति समर्थयति न केवलमित्यादिना ।
७ अनेन तेषामत्र सिद्धान्तप्रतीतिरस्तीति ध्वनितम् ।

६४ शिवदृष्टिः [ आ०-२

अर्थप्रतीतिहेतुसाधुशब्दानुशासनव्यापारमेव¹ वैयाकरणत्वं² त्यक्त्वा
मोक्षप्रयोजनैः शास्त्रैर्यत्सम्यग्ज्ञानमनुसरणीयं तदन्वेषणेन भवतां करणीय-
त्वेनाप्रस्तुतेन³ न किंचित्, न केवलं चात्रैव पश्यन्त्यभिधानेन सम्यग्ज्ञाना-
भास एव उक्तो यावच्छब्दधातुसमीक्षायामपि विद्वद्भर्तृहरिणा॥
‘दिक्कालादिलक्षणेन व्यापकत्वं विहन्यते।
अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते॥
‘दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये⁴ ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे॥’
१ इदानीं यदुक्तं तैरलमनेनाग्रहेण, ‘एवं व्याकरणस्यापि
समुच्छेद उपैति त’ इत्येवं रूपेण। यतोऽत्र ‘साधुभिर्भाषितव्यं
नासाधुभिः’ इति न ‘ब्राह्मणेन नैव म्लेच्छितवै म्लेच्छो ह वा एष
यदपशब्दः’ इति श्रुतिश्च। तथा ‘आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां
सारस्वतीमिष्टिं निर्वपेत्’ इति च। तथालमन्येन प्रयोजनेन सकलपुरुषार्थ-
साधनोपदेशानिधेर्वेदस्य व्याकरणमर्थबोधकत्वात्प्रधानमङ्गमिवि तस्मा-
त्सिद्धमेतत्। तस्माद्व्याकरणाभियोगसुभगप्रौढोक्तिभिः पण्डितैरक्लेशेन
विचित्रवैदिकपदव्युत्पत्तिरासाद्यते। अन्यैरप्युपबृंहिते दृढतरमङ्गैर्र्निरुक्ता-
दिभिर्वेदे स्वार्थधियं वितन्वति कुतः प्रामाण्यभङ्गो भवेत् इति तदेव विषय-
भेदोत्थापनपूर्वं सत्यमित्यनुमत्याङ्गीकरोति साधुशब्दानुशासनेत्यादि।
२ यतो विभज्य आक्रियन्ते शब्दरूपाणि येन तद्व्याकरणमित्यन्वर्थे तस्य
नाम। तद्विदन्ति अधीयन्ते वा वैयाकरणास्ते, तेषां भावस्त्वप्रत्ययेनोक्तः,
स च भावप्रत्ययो धर्मान्तरप्रतिक्षेपक इति वैयाकरणतामिति भावप्रत्ययेन
ध्वनितः। ३ अप्रस्तुतेनेति प्रस्तावसदृशं हि वावयं शोभावहमिति। तच्च
नोपपन्नं, यद्व्याकरणं सादुशब्दानुशासनलक्षणं तद्धि मोक्षं प्रति प्रत्युत
बाधकमेव। तथा हि मोक्षो हि सर्वथा विच्छेदः। यत्पुनः ‘साधुभिर्भा-
षितव्यं नासाधुभिः’ इति प्रोक्तं, तत्र कोऽसाधुः साधुर्वेति प्रकृतान्तराय-
कारित्वान्न किंचित्तेन फलमित्यर्थः। ४ अत्र हि तत्रभवद्भर्तृहरेर्व्यापकत्वमेव
मुख्यवृत्त्या कथनीयम्। तथा हि दिग्देशकालैर्यतोऽपरिच्छिन्नोऽपरिमितस्त-
तोऽन्तो मर्यादारहितः व्यापक इत्यर्थ। तथा कालपरिच्छेदराहितत्वादन्नतो
विनाशरहितो नित्य इत्यर्थः। अत्र हेतुगर्भं विशेषणं चिन्मात्रमूर्तय इति,
तदेव व्यापकत्वं प्रमाणादिव्यापारनिरसनेन समर्थयति स्वानुभूतीत्यादिना,

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६५
इति लक्षणेन१ दिग्देशकालैरवच्छेदो विशिष्यमाणता निषिद्धा। तच्चायुक्तं,
परिमितदेशकालादर्थात्त्तस्यावच्छेदात्, अन्यथा२ सर्वदिक्कालादिविशेषण-
भावे व्यापकत्वादि न स्यात् । व्यापको३ हि भवेत् सर्वदिक्षु अवश्यं वर्तमानः
सर्वकालावच्छिन्नश्च४ नित्यः। व्यापकत्वमुपलक्षणं५ निर्दिष्टम् ॥
अथ दिक्कालविशेषावच्छेदाभावो मतः, तत्तथैव६ वक्तव्यं न सामा-
न्येन न च तदपि युक्तमित्याह--
स्वानुभूतिर्वर्तमानकालेनास्य७ विभाव्यते ॥ ७३ ॥
एवं कालानवच्छेदः कथमस्योदितो हि तैः८ ।
यस्मिन् हि कालभागे स्थितः सांसारिकः प्रमाता तेनैव वर्तमान-
कालेन भविष्यदादिना तदा तस्यावस्थानात् स्वानुभवविषयतास्योपलक्ष्यते,
तत्कथं कालविशेषेणाप्यनवच्छेदः ॥
तेजस इति प्रकाशरूपत्वात् । शान्तायेति विकल्पोत्तीर्णत्वात् । तदेतदाभास-
रूपतया न सम्यग्रूपमिति कथयति दिक्कालेति । १ असाधारणस्वरूपकथनं
लक्षणम्। २ अयं भावः-यदि भवद्भिरत्र दिक्कालाकारविशेषणत्वेन तस्य
विशेष्यस्य तदभावसाधनत्वमिष्टं, न तैरयं विशेष्यो भवतीत्येवं प्रकारं
तर्हि परिमितादेव तत्सिद्धयति । न च तदिष्टम्, अथ किमिति परिमिता-
देवेत्युच्यते । किमिति न सर्वस्मादित्युक्तो बाधमाहान्यथेत्यादि ।
३ यदि हि भवतां सर्वस्माद्विशेष्यमाणत्वमिष्टं स्यात्तत्किमर्थं
दिक्कालादिविशेषणत्वं निषिद्धम् । अनया हि भवदुक्तया तेऽपि किंचित्स्व-
रूपका इत्युक्तं संभवत्येवेत्याह व्यापको हीत्यादि । ४ ननु च यथा भर्तृहरि-
श्लोकेऽनन्त इदिशब्देन व्यापकत्वं नित्यत्वं चोक्तं तथैवात्रापि समर्थवाक्ये
कथनीयमिति कथमुक्तम्-
'अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते ।' इति ।
५ अत्र हि दिग्व्यापकत्वमेवोक्तं भवेदित्याशंकागर्भीकारेणाहोप-
लक्षणं निर्दिष्टम् । तदाह सर्वकालावच्छिन्नश्च नित्य इति । ६ तत्तथा
व्यापकत्वनित्यत्वे सिद्धे । तथैव विशेषतयैव । ७ न च भवद्भिरैतादृगेवा-
नेनेष्टं येन दिक्कालविशेषावच्छेद एवेति कथयति स्वानुभूतिरिति ।
८ यदि हि सर्वकालावच्छिन्नत्वेनैव भवतां कालानवच्छेद इष्टः स्यात्तत्स्वा-
नुभूतीति वर्तमानकालानुभवविषयता कथमस्योच्येत ततश्च नैतद्भवता-
मिष्टमिति सिद्धम् ।
५

६६ शिवदृष्टिः [ आ०-२
अनन्तस्यानुभूतिः¹ का परिच्छेदं विनात्मनः ॥ ७४ ॥
अनन्तेऽवगमः कुत्र² तेजस्वे शान्तता कथम् ।
असर्वगप्रमाणं हि मूर्त्तिर्नो³ लक्ष्यते चितः ॥ ७५ ॥
धातुषट्कोपगमाद्वेदवादे⁴ देशकालयोगोऽवश्यंभावीत्यनन्तत्वं
देशकालपर्यवसानमुच्येत, अतश्चापर्यवसितदेशकालस्य⁵ सानुभूतिर्न तयोः
संबन्धो युक्त इत्यर्थः । तथा⁶ हि आत्मनः स्वरूपस्य परिच्छेदमेयत्तां⁷
विना अनन्ते वस्तुनि कुत्रांशेऽवगमोऽस्तु भागानामपर्यवसानात् । अनन्तता⁸-
प्रतीतिस्तु परिदृष्टतावतपदार्थनिषेधपुरःसरत्वेनाग्राह्याद्यन्तकोटिदीर्घ-
वस्तुमात्रावसायिनी स्फुरति, न त्वनन्तेन रूपेणापरिच्छिन्नेनावभासन-
संभवः । परिसमाप्तरूपनिश्चयो हि प्रतीतिः । तेजोरूपता चेत्, निरा-
भासत्वाभावात् कथं शान्तता । तत्केयमुक्तिः 'शान्ताय तेजसे' इति ।
उपचारे च किं प्रयोजनम् असर्वगतद्रव्यपरिमाणं मूर्तिः काठिन्यं वा न चित्
भवति, तत्कथं चिन्मूर्तय इति ॥ ७५ ॥
अत्रैव शब्दनित्यत्ववादिनो रूढतां गताः ।
अनादिनाथ तेनैव शब्दतत्त्वेन तुल्यता ॥ ७६ ॥
अन्ये वैयाकरणा एव स्फोटादन्यदेव शब्दात्मानं नित्यमिच्छन्ति,
तत्रैव रूढाः । अथ तत्रापि⁹ तेषां पश्यन्तीरूपेणानादिनिधनात्मना शब्द-
१ ननु 'निश्चयेनान्यसिद्धान्तं यो न वेत्ति बुधोऽबुधः ।
स्वयं स संशयानोऽन्यं कथं खण्डेत स्वल्पधीः ॥'
इति नयेनानिश्चितपराशयेन कथं ग्राह्यते । तथा हि दिक्कालानवच्छेदे-
नानन्तत्वं देशकालविप्रकृष्टत्वेन देशकालापर्यवसानमुच्यते । तथा च देश-
कालसंनिकृष्टं वस्तु अव्यापकमनित्यं चोच्यते, देशकालविप्रकृष्टं तु
व्यापकमिति नित्यमिति कथ्यते ततश्च का हानिरित्यत आह अनन्तस्यानु-
भूतिः केति । २ अनन्ताय तेजसे इति यदुक्तं तदपि न युक्तमित्यत आह ।
३ चिन्मात्रमूर्तय इति एतदपि मूर्तिभागं विदलयति । ४ नैयायिकादिमते ।
५ यदि भवद्भिरनन्तत्वमुच्यत इति शेषः । ६ युक्त इत्यर्थ इत्यन्तं युगपदेव
देशकालापर्यवसानत्वेन स्फुटमेवानन्त्यमिति निरस्यति । ७ देशेन कालेन
च । ८ कुत इति समर्थयति । नित्यशब्दतत्त्वे । ९ तेषां नित्यशब्दात्म-
तत्त्ववादिनाम् ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६७
तत्त्वेन तुल्या प्रमाणाभावादिदूषणता स्फोटात्मना¹ वा ॥ ७६ ॥
तदाह—
आप्तानामभाषितत्वे विशेषो नास्ति शब्दगः ।
नित्यत्वे शब्दतत्त्वस्य व्यङ्ग्यत्वं ध्वनिभिर्न च ॥ ७७ ॥
व्योमवच्चेन्न तुल्यत्वं सदा व्योम्न्यनुमेयता ।
अनाप्तभाषितस्यापि नित्यत्वाविशेषात् तुल्यप्रमाणता² स्यात् ।
न³ च नित्यस्य ध्वनिभिः कदाचिद्व्यङ्ग्यत्वं युक्तं नित्यमेकरूपत्वेन
व्यक्ताव्यक्ततायोगात् । अथ यथा नित्यमेकमपि चाकाशं ध्वनिभि-
र्व्यज्यते घटाकाशादि वा घटादिभिः तथा शब्दोऽपीति । तन्न⁴ तुल्यत्व-
मत्र, यतः सदा व्योम्नि शब्दगुणादिनानुमेयता न तु प्रत्यक्षाख्या
व्यक्तिः ।
भवत्पक्षे⁵ न किं न्याय एष आयाति चेच्छिवे ॥ ७८ ॥
तथा रूपानुरूपत्वात्प्रसूतेः शिवरूपतः⁶ ।
सत्यत्वाच्च न तुल्य⁷त्वमतोऽस्मात्प्रविरम्यताम्⁸ ॥ ७९ ॥
१ तुल्येति संबन्धः । तत्तुल्यत्वमेवाह आप्तेति । २ तथा
चाव्यवस्था न चेष्टेति भावः । ३ ननु च नित्यत्वेऽपि शब्दतत्त्वस्याप्ता-
नाप्तभाषितव्यवस्था सिद्धयत्येव, नित्यत्वेऽपि ध्वनिभिरेव तस्य व्यङ्ग्य-
त्वादाप्तध्वनिव्यंग्यत्वे सत्यता, अनाप्तध्वनिव्यंग्यत्वेऽसत्यतेति । तथा च
न कश्चिद्दोष इत्यत आह न चेत्यादि । ४ तन्नेति न शब्दः काकाक्षि-
वद्योज्यः । तन्नेति भग्नद्वचनमयुक्तमित्यर्थः । न हि तुल्यमत्रेति योज्यम् ।
५ ननु च ‘अचिन्त्याः खलु ये भावा न तांस्तर्केषु योजयेत्’ इत्याप्तोक्ति-
रेवैतादृग्विषयेऽनुमन्तव्या कोऽत्र निर्बन्धो ‘यद्याभासान्’ इत्यादि । तथा
चाप्तोक्तत्वान्मौनमेवात्र शरणम् । नहि अचिन्त्येऽपि तर्कोद्युक्तस्य कदा-
चिदपि सत्यार्थपरिनिष्ठितिः स्यात् । अथ चेत्तर्क एव शरणं, तर्हि किमिति
भवद्भिर्वयमेव प्रत्याक्षिप्ताः । भवतामप्यत्र का युक्तिरित्याशंकापूर्वं स्वमतो-
त्कर्षं प्रथयति भवत्पक्ष इत्यादिना । न किंशब्दः शिरश्चालने, न किमायाति
आयात्येवेत्यर्थः । इति शब्दस्याध्याहारोऽत्र कर्तव्यः । ६ ‘रूपप्रसाररसतो
गर्हितत्वमयुक्तिमत्’ इति प्रथमाह्निक एवोक्तत्वादित्यर्थः । ७ भवन्मतेन ।
८ भवद्भिरत्र दूषणारोपणादिनेत्यर्थः । अथ वास्मात्प्रविरम्यतामिति

६८ शिवदृष्टिः [ आ०-२
शिवाद्वैतपक्षेऽपि भवतः शब्द इव शिवेऽपि सत्यत्वादिदूषणन्यायः
किं नापततीति चेत् । तन्न, जगदपि ततः शिवरूपात् शिवरूपानुरूप्येण
तथा सर्वशक्तियोगात् यदा प्रसूतं तदा शिवरूपमेव, अत एव च सत्यरूपम्,
तथा च वक्ष्यते विस्तरतः । तन्न तुल्यत्वं शब्दाद्वैतपक्षेण शिवाद्वयस्येत्ये-
तद्दूषणापादनात् विरम्यताम् ॥ ७६ ॥
तदेतत्प्रासङ्गिकमुक्त्वा पश्यन्तीमेव पर्यालोचयन्नाह—
अथ १ नाम्नैव पश्यन्ती स्फुटमेव जडा ततः ।
ज्ञानशक्तिः स्मृता भङ्ग्या स्त्रीलिङ्गव्यपदेशतः ॥ ८० ॥
अथ दर्शनार्थान्वये२ दोषात्नाममात्रेण यादृच्छिकेन३ पश्यन्ती
इष्यते, स्त्रीलिङ्गभङ्ग्या४ च ब्रह्मसम्बन्धिज्ञानशक्तिरूपा सा मता, ततो
विरुद्धमेतत्५ दर्शनासमन्वयात् जडतापत्तेः, जडात्मनि च ज्ञानशक्तित्त्वानु-
पपत्तिरिति ॥ ८० ॥
शब्दस्य विषयाख्यस्य मिश्रत्वेनेन्द्रियस्य तु ।
सर्वदर्शनविज्ञानशून्यता६ पदवेदिनाम् ॥ ८१ ॥
यस्मादनादिनिधनं शब्दतत्त्वं परा हि वाक् ।
पश्यन्त्या वर्ण्यमानत्वे हस्ते ग्राह्यैकता पतेत् ॥ ८२ ॥
ल्यब्लोपपञ्चम्या व्याख्येयम् । अस्मादेनमाविश्य स्वयमेव भवद्भिः प्रकर्षेण
सुखेन स्थीयतां, स्वमतं त्यक्तवैतमेव मतमाश्रयध्वमित्यर्थः । १ ननु कृतं
भवद्दोषारोपणेन किं पश्यन्तीति कथ्यतामिति । नहि सर्वत्र यौगिकोऽर्थः
संभवति । सन्ति हि डित्थादयोऽपि शब्दाः । ततश्च रूढिमहिम्नैव कुशला-
दिवदत्रापि पश्यन्तीनिर्देशः । न च वक्तव्यं किमनेन तथापि पश्यन्तीशब्देन
व्यपदेश्यं, स्त्रीलिङ्गनिर्देशादेव ज्ञानशक्तिरूपत्वादस्या इत्यपि निरसयन्ना-
हाथेत्यादि । २ दृशिधातोः कर्मरूपस्यार्थस्यानन्वये । ३ सांकेतिकेन ।
४ तथापि किं वस्तु पश्यन्त्या स्वीकृतमित्यत आह स्त्रीलिङ्गेति । ५ पश्य-
न्तीति दर्शनार्थासंभवेनायौगिकत्वे स्थिते सतीत्यर्थः । अहो महदाश्चर्यं
पश्यन्तीति दर्शनासम्भवाद्रूढित्वमाश्रितं तत्रैव च ज्ञानशक्तिरिति । ६ इदानीं
केचिदनादिनिधनमित्यत्र शब्दतत्त्वमित्यनेन तथा वाग्रूपतामित्यत्र च
परावागित्‍यनेन अनयोर्वाक्शब्दतत्त्वयोः परस्परसंश्लेष एव यः स एव

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६६
विषयरूपत्वेन कर्मतया¹ यस्याख्या प्रतीतिः शब्दस्य तस्य इन्द्रि-
यस्य च करणतया² प्रसिद्धस्य वाग्रूपस्य मिश्रत्वेनैकीकारेण यस्मात्तैरुक्त-
मनादिनिधनमित्यादिकमभेदाभिधायि तयोः³, तस्मात्तेन मिश्रीकारेण
सर्वदर्शनाज्ञानता⁴ पदवेदिनां वैयाकरणानां प्राप्ता। नहि क्वचिदपि सांख्यादि-
दर्शनेषु व्यावहारिकयोरिन्द्रियविषययोरभेद इष्टः। एवं⁵ च वा शब्दस्य
परत्त्वेनानादिनिधनत्वेनाद्वयवादादैक्येन वर्ण्यमानत्वे हस्तेऽपि⁶ कर्मेन्द्रिये
तद्ग्राह्येण विषयेणैकता प्रसज्येत ॥ ८२ ॥
ब्रह्मणो ज्ञानशक्तिः⁷ पश्यन्तीत्यपि यावदिष्यते तावदन्यदपि⁸ सूक्ष्म-
तरमेष्टव्यमित्याह--
पश्यन्ती हि क्रिया तस्या भागौ पूर्वापरौ स्थितौ ।
न तद्दृष्टव्यमित्येतद्विमर्शः ९ पूर्वतो भवेत् ॥ ८३ ॥
यथा कर्तुः कुलालादेर्घटः कार्य इतीदृशः ।
विमर्श इच्छारूपेण तद्वदत्रापि संस्थितम् ॥ ८४ ॥
सा स्थिता पूर्वतस्तस्य इच्छायाः प्रसरः कथम् ।
यावन्न सूक्ष्म उल्लासश्चितः कार्योन्मुखः स्थितः ॥ ८५ ॥
तस्या अपि सामरस्ये व्यवस्थावान् स्थितः शिवः ।
एवं भवप्रक्रियाया अपि सूक्ष्मतरा स्थितिः ॥ ८६ ॥
परं तत्त्वमित्याहुः। तच्च शब्दतत्त्वं विषयाख्यं कर्मरूपं ग्राह्यं वाक्तत्त्वं
च करणरूपं ग्राहकं, तथा च ग्राह्यग्राहकयोरभेद एव परमार्थतत्त्वमिति
तदेतत्सोपहासं प्रत्याह सर्वदर्शनेति। १ ग्राह्यतया। २ ग्राहकतया।
३ वाक्तत्त्वशब्दतत्त्वयोः। ४ सर्वशास्त्रानभिज्ञत्वं। ५ एवमित्यङ्गीकारे।
६ हस्तेनेत्युपलक्षणं तेनान्येषामपि कर्मेन्द्रियाणामेवमेव बोध्यम्। ७ ननु
किमिदमुच्यते जडात्मनि ज्ञानशक्तिरिति, अत्र हि न स्वरूपद्वित्वमाश्रितं,
येन स्वरूपं जडात्मकं, सा च स्वयं ज्ञानात्मिका शक्तिरिति। यैव हि
ब्रह्मणो ज्ञानात्मिका शक्तिः सैव पश्यन्तीति शक्तिरूपा, न तु स्वतन्त्रा
काचिदिति। तथा च न तस्यां काचनापि पूर्वोक्तदूषणावतारसरणिरित्य-
भ्युपगमद्वारेण स्वमतेन सिद्धान्तयति। ८ उन्मीलितमायुष्मतो विवेकचक्षुषा
न कारणमत्र विद्मो येन न पूर्णं विकसतीति भावत्वेनाह तावदित्यादि।
९ न शब्दोऽत्र शीर्षचालनन्यायेनाभ्युपगमेन द्रष्टव्यं द्रष्टव्यमेवेत्यर्थः।

७० शिवदृष्टि: [ आ०-२
स्थिता सा न पुनः सत्या वाचो वायुगमात्मनः ।
इष्यते ब्रह्मरूपत्वं¹ घटादेरपि कथ्यताम् ॥ ८७ ॥
पश्यन्ती हि दर्शनक्रियात्मिका पूर्वापरीभूतावयवा, पूर्वं² चैतद्-
द्रष्टव्यमिति विमर्शः कुलालादेरिव घटादिकरणेऽवश्यमिच्छात्मकः स्यात्,
तद्वदत्रापि³ सर्वमेतत्स्थितम् । एवं चेच्छा दर्शनक्रियायाः पूर्वा स्थिता,
तस्याश्चेच्छाया अपि चित्तत्वसंबन्धिसूक्ष्मतरोल्लासमिष्टज्ञेयकार्योन्मुख्य-
लक्षणं विना प्रागुक्तन्यायात् कथं प्रसरः, तस्या अपि चित्तो निवृत्यो-
न्मुख्येच्छाज्ञानक्रियाक्रमव्यवस्थाया यत्सामरस्यमेकीभावः समावेशविषय-
स्तत्र व्यवस्थावान् व्यवस्थाश्रयोऽक्रमः शिवभट्टारकः स्थित इति । एवं
ज्ञानशक्तिताभिप्रायेणापि पश्यन्त्या भवलक्षणां प्रक्रियां प्रति सूक्ष्मतरा-
न्यापि पररूपा स्थितिरस्ति, ततः साप्यनुमन्तव्या न तु वायुगमात्मिकाया
वाचः सत्यास्तस्या ब्रह्मरूपत्वमेष्टव्यम् । एवमिष्यमाणे⁴ भूतत्वाविशेषात्
घटादेरप्येवमुच्यताम् ॥ ८७ ॥
यथा⁵ सर्वपदार्थानां भगवच्छिवरूपता ।
तद्वद्वागिन्द्रियस्यापि न पुनः सा परा दशा⁶ ॥ ८८ ॥
कण्ठादौ वदने वायोर्व्यापारो वाग्रुतस्य सा ।
करणं, नादरूपादिशब्दस्यास्ति शिवात्मता ॥ ८९ ॥
तस्यापि कथिता पञ्चतत्त्वदीक्षाविधौ क्वचित् ।
न वाच इष्यते तद्वत्तस्मात्सर्वं शिवात्मकम् ॥ ९० ॥
यद्यपि सर्वार्थानां ज्ञानगोचराणां चिदन्तःप्रवेशात् चिल्लक्षण-
परमेश्वररूपता परमार्थतो यथा तथा वागिन्द्रियस्यापि ज्ञेयसर्वार्थान्त-
१ यदि च सामान्यतयास्या वाचस्तर्हि घटादेरपि तथा प्रकल्प्यताम् ।
२ तस्याः क्रियायाः । ३ पश्यन्तीविचारे । ४ तस्या ब्रह्मत्वे । ५ ननु च
सत्यमेवैतद्घटादेरपि कथ्यतामिति यत्सर्वार्थानां ज्ञानगोचरत्वाच्चिदन्तः-
प्रवेशाच्चिन्मयत्वे परिपूर्णमखण्डमेव परमेश्वरत्वमिति, तच्च साम्येऽपि
वाच इयान्विशेषः सत्त्वादेर्यदग्राह्यत्वमिति, सर्वार्थान्तर्भावस्तु सर्वत्र
समान एवेति बुद्ध्याद्यग्राह्यत्वविशेषेण तस्या एव ब्रह्मत्वमित्याशंक्याह
यथेत्यादि । ६ ‘न पुनः सा परा दशा’ इत्यनेन तस्या अन्येभ्यो विशेषे
सत्यपीति ध्वनितम् ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ७१
र्भावादज्ञेयत्वेऽसत्त्वादेः, तथापि वागिन्द्रियदशापरा न भवति, माया-
शक्त्या शिवाभेदाख्यात्या तदुत्थानात्। तथा हि कण्ठताल्वादौ वद-
नैकदेशे वायोर्योऽभिघातव्यापारः शब्दाविर्भावहेतू रुतं नाम तस्य सा
करणम्, एषा च सर्वैव भेदमय्यपरावस्था। अथ नादरूपस्य स्थूलस्य
परस्य च शब्दस्यास्ति मन्त्रात्मनः परमशिवात्मता तदिष्टा कथिता
पञ्चतत्त्वदीक्षाविधौ दीक्षाशास्त्रे न पुनरेवं वाच इन्द्रियरूपायाः, पर-
भावस्तन्मयत्वं वा जगतो युक्तम्, अतः सर्वं शिवात्मकमेवोपपन्नमिति
शिवम् ॥ ६० ॥
इति श्रीमदुत्पलदेवपादकृतौ श्रीशिवदृष्टिवृत्तौ
द्वितीयमाह्निकम् ॥

अथ
तृतीयमाह्निकम्
अद्वयवादः स्थितः१, पश्यन्तीविचारादनन्तरं स्वयूथ्यानद्वयवादिनः२
प्रतीदानीमारम्भः३ । तथा च तैरूक्तम्—
‘यस्या निरुपाधिज्योतीरूपायाः शिवसंज्ञया ।
व्यपदेशः परां तां त्वामम्बां नित्यमुपास्महे ॥’
इति । तत्राह—
अथ४ शक्तेः परावस्था यैर्भक्त्या परिगीयते ।
युक्त्या प्रकाशितो देवस्ततः५ शक्तिदशा यतः ॥ १ ॥
लिङ्गविशेषान्यथानुपपत्त्या६ शक्तित्वेनैवाभिमतस्यार्थस्य परा-
वस्थारूपाभिधानं भक्तिरेव ततः परस्य शक्तिमतोऽभावात् शक्तिमद-
भिन्ना हि तत उद्धृत्यापि प्रयोजनवशान्निर्दिश्यमाना तत्पारतन्त्र्येण७
१ स्वसिद्धान्तेन निश्चयेन दृढीकृतः । २ स्वसमानजातीन् ।
३ न तु निराकरणमित्यर्थः । ४ अयं भावः--शक्तिरिति पराधीन-
त्वादस्याः स्त्रीलिङ्गस्य पुंल्लिङ्गविशेषरूपत्वाच्च सिद्ध एव स्वयं
तस्यास्तदधीनत्वे यत्परत्वाभिधानं सा केवलं तत्तत्त्वोत्कर्षाख्यापिका
भक्तिरेव । भक्तिस्तत्र प्रेमातिशयः रचना च । रचनया तैस्तदौत्कर्ष्य-
प्रख्यापनेन शक्तिमत्प्राधान्यमेव सूचितमित्यर्थः । ननु च यदि भक्तिरेव
तद्व्यपदेशः परंतु शक्तिमानेवोत्कर्षेण ख्यापितोऽलं तर्हि तान्प्रति प्रत्या-
क्षेपकरणेनेत्यत आह युक्त्येति । युक्तिर्हि कांश्चित्सूक्ष्मदृष्टीन्प्रत्येवोपर्युक्ते
इति तदुक्तिर्भूषणमेव सर्वोपकारकत्वाभावादित्यर्थः । ५ न च तेषां
शक्तिरेव स्वातन्त्र्येण मतेति मन्तव्यमित्याह तत इत्यादि । ६ सामान्यं
पुंलिङ्गं विनेत्यर्थः । ७ ननु च यदि शक्तिमतस्तत्स्वातन्त्र्यरुरूपा शक्तिः—
‘न वह्नेर्वाहिका शक्तिः पृथङ्निर्द्देष्टुमर्हति ।’
इति न्यायेन युक्तिबोधनार्थं भक्त्या वाभिधानं कथं संभवतीत्यत आह

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७३
तदनन्तरं निर्देशमर्हति । यतस्तैरेव१ ततः परावस्थातोऽनन्तरं शक्तिदशा
किंचिदुच्छूनतेत्यादिनोक्ता ततो यैः शक्तेः परत्वं गीयते तैस्तया धर्म-
भूतया धर्मी स्वाश्रयः स्वतन्त्रो वास्तवाभेदयुक्त्या देवः शिवः प्रकाशितः ।
अनिमित्तमेव२ तु विशेषात्मनि स्त्रीलिङ्गे किमित्यभिनिवेशः, पुंस्त्वं३
हि स्त्रीपुंसयोः सामान्यं लिङ्गं, नपुंसकं४ पुनः शक्ततापर्यायरूपं नैवं-
विधविश्वेश्वरनिर्देशावसरे युक्तोपादानमित्यभेदाभिधानार्थं शक्तितद्वतोः
पुंस्त्वेनोपपत्तिः ॥ १ ॥
तथा तद्व्यपदेशश्चेद्व्यपदेशः शिवात्मकः ।
तथा स्त्रीलिङ्गेन परमशिवस्यैव व्यपदेशो मतश्चेत्तत्सोऽपि व्यपदेश
उक्तन्यायाच्छिवशब्दात्मकः५ कार्यः ।
अभेदमेवाह--
न६ शिवः शक्तिरहितो न शक्तिर्व्यतिरेकिणी ॥ २ ॥
शिवः शक्तस्तथा भावानिच्छया कर्तुमीदृशान् ।
शक्तिशक्तिमतोर्भेदः७ शैवे जातु न वर्ण्यते ॥ ३ ॥
शक्त्या रहितः शून्यो न यद्यपि शिवस्तथापि कथमैक्यं तदाह
न शक्तिव्यतिरेकिणीति । तथाहि तेन तेनैव वैचित्र्येण ईदृशानति-


तत्पारतन्त्र्येणेति । तस्याः स्वयं स्वातन्त्र्यं व्याघातविरोधादिदोषप्रसङ्गा-
दित्यर्थः । १ न च तेषामेतदनभिप्रेतं येन तदुक्तिरन्यवादिवत्प्रतिक्षेप्यपक्षे ;
व्यवतिष्ठेतेत्याह यतस्तैरित । २ विशेषेण तत्पक्षं व्यवस्थापयति अनिमित्त-
मित्यादिना । ३ का हानिरत्रेत्याह पुंस्त्वं हीति । ४ नन्वत्र यदि
स्त्रीलिङ्गव्यपदेशे विशेषरूपत्वादोष आशंक्यते तर्हि पुंलिङ्गेऽपि शक्ति-
मत्स्वरूपप्रख्यापके दोष आपतत्येव स्थूलदृशामिति निर्दोषं नपुंसकलिङ्गमेव
गृह्यतां येन शक्तिरिति स्वातन्त्र्यं नपुंसकलिङ्गेनैव तन्निर्देश्टुमर्हतीत्यत
आह नपुंसकमिति । ५ पुंल्लिङ्गं सामान्यमिति न्यायात् । ६ न चानयोः
परस्परं भेदो युक्तः येन स्त्रीलिङ्गव्यपदेशोऽप्युपपत्स्यत इति स्वमतेन
सिद्धान्तयति । ७ शैव इति प्रामाणिकत्वकथनार्थं, तेन च तेषामपि
तद्व्यवस्थितिरेव दर्शिता नान्यदर्शनस्थितिरत एव वृत्तिकारेण स्वयूथ्यानिति
कथितम् ।

७४ शिवदृष्टिः [ आ०-३
दुष्करानिच्छामात्रेण शक्तः शिवः कर्तुमिति व्यवहारेऽप्यभेदः, शक्तितद्वतो-
र्भेदाख्यानुपपद्यमानत्वात् शैवे न कदाचिदवान्तरादिभेदेष्वपि वर्ण्यते यथा-
न्यत्राप्रामाणिकदर्शनेषु ॥ ३ ॥
तदेव विचारयन्नाह—
शक्तेरेव स्वतन्त्रत्वात्कर्तुं भावान्विचित्रकान् ।
सामर्थ्यं यदि कल्प्येत तन्नामानन्त्यमेव वा ॥ ४ ॥
भेदे १ हि शक्तिः किं कार्यं करोत्युत च शक्तिमान् ।
तत्र यदि शक्तिस्तत्किमसौ २ शक्ता करोति अथाशक्ता, अशक्तस्य
करणेऽतिप्रसङ्गः ३, शक्तत्वे ४ तस्याः शक्त्यन्तरयोगे शक्तचाश्रयस्य शिव-
स्यैव ५ शक्तिरिति नाम स्यात् । अथ ६ शक्त्यैव सत्या भिन्नशक्तियोगस्तत्सैव
भिन्नशक्तिः कार्यं कुर्यात्, कथं वा कुर्यादशक्ता, शक्तत्वे शक्त्यन्तरकल्पनेना-
नवस्था स्यात् आनन्त्यापत्तेः ॥
१ अभेदेन व्यवस्थाप्य भेदं तयोः खण्डयितुमाह भेदे इति । २ ननु
सत्यमेतत्—
शक्तिशक्तिमतोर्भेदः शैवे जातु न वर्ण्यते ।'
इति, तथापि यदेव शक्तिमतः शक्तित्वं नाम स्वातन्त्र्यं तेनैव तस्य
शक्तिमतोऽपि स्वरूपलाभेऽपि शक्तिप्रसर इत्यलं शक्तिमत्स्वरूपविस्त्रम्भेण ।
येनोक्तं—
'तथा तद्व्यपदेशश्चैद्व्यपदेशः शिवात्मकः ।'
इत्यादि, तत्र पृच्छति तत्किमसौ शक्तेति । ३ शून्यादपि सर्वभावोत्पत्तिः
स्यात् । अनिष्टापत्तिः प्रसङ्गः । ४ तदेव शक्तत्वं यत्स्वात्मनि शक्त्य-
विच्छेदः, शक्तिसमवायं विना शक्तत्वस्यैवानिर्वाहात् । ५ यदि च शक्ति-
योगः शक्तेस्तर्हि फलितं ममैव मनोरथकल्पलतेत्याह शिवस्यैव शक्ति-
रिति नाम स्यादिति । ६ अथेदानीमभेदपक्षे न कथंचनापि शक्तिव्यपदेशो
यदि शक्तिवादी भेदपक्षमनयोराश्रुणोति तत्र विवेचयितुमाह अथेत्यादिना ।
यदुक्तं शक्तिमतः शक्तत्वं धर्मभूतं स्वभावकल्पमेव येन शक्तिमानिति
व्यपदेशः । तन्न, भिन्नैव शक्तिः शक्तिमत इति तत्रापि पृच्छति तद्भिन्न-
शक्तिरिति । अत्रापि पूर्ववन्न्यायः, अशक्तस्य करणेऽतिप्रसङ्गः शक्तत्वे
पुनस्तस्याप्यन्यत्तस्याप्यन्यदित्यानन्त्यापत्त्यानवस्थाप्रसङ्ग इति ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७५
किंच¹--
शक्तिमानेव शक्तिः स्याच्छिववत्करणार्थतः ॥ ५ ॥
शक्तेः³ स्वातन्त्र्यकार्यत्वाच्छिवत्वं न क्वचिद्भवेत् ।
शक्तिरपि शक्त्यन्तरयोगात्कुर्वती शक्तिमानेव स्यात् । करणलक्षणाद-
र्थप्रवृत्तिनिमित्तात्कर्तृत्वादित्यर्थः, यथा शिवभट्टारकः⁴ । शक्तेश्च
स्वतन्त्रं स्वनिबन्धनं कार्यं नान्याश्रयमिति⁵ शिवता नान्यत्र क्वचिद्भवेदिति
शैवदर्शनानुपपत्तिः स्वयूथ्यानाम् ॥
मुञ्चतोऽपि निजां शक्तिं स्वातन्त्र्ये⁶ ज्ञानमापतेत् ॥ ६ ॥
१ न केवलं शक्तेः शक्त्यन्तरयोगेन शिवस्य शक्तिरिति भवदभीष्टमेव
नाम निर्वहेद्येन स्ववचनविरुद्धव्याघातदोषोऽप्यापतेदित्याह किंचेत्यादिना ।
२ शक्तिमत्त्वं हि कर्तृत्वमुच्यते, शक्तित्वं हि करणत्वं, शक्तेश्च शक्तता-
योगे स्फुटमेव तस्या एव शक्ततायाः करणत्वमेतस्याश्च तद्योगात्कर्तृत्वमिति
शक्तिरपि शक्तिमद्व्यपदेशमर्हति न काचनापि शक्तिरिति स्यादिति, येन क्रियते
तत् करणं इति । ३ ननु किमिदमुच्यते शक्तियोगे शिवस्यैव शक्तिरिति नाम,
तथा ‘शक्तिमानेव शक्तिः स्यात्’ इति च, यतस्तदेव शक्तेः शक्तित्वं यत्स्वा-
तन्त्र्येण स्वात्मन्येव स्वनिबन्धनमेव कार्यकारित्वं, तथा च कार्यत्वमपि
स्वतन्त्रं तदेकाकारं नान्याश्रयमिति तदेतदपि विघटयति शक्तेरित्यादिना ।
४ करणलक्षणेनार्थेन शक्त्या यथा शिवभट्टारकस्य कर्तृत्वमित्यर्थः । ५
तथा च कुतोऽयं निर्देशस्तैः कृतः—
‘शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते ।
शक्तयोऽस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः ॥’
इति ॥ ६ ननु च न शैवदर्शनानुपपत्तिः स्वयूथ्यानां येनोक्तं ‘शिवता नान्यत्र
क्वचिद्भवेत्’ इति । अस्त्येव शिवताया विषयः यावद्धि शक्तित्वसमावेशः
तावत्केन शिव इति व्यपदिश्यते, तद्व्यतिरेके तु विविक्तत्वाच्छिव इति
व्यपदेशः केनापह्रूयत इति विविक्तविषयत्वात्स्फुटमनयोः स्वरूपलाभोऽ-
स्त्येव । तत्राह ‘स्वातन्त्र्ये ज्ञानमापतेत्’ इति । अयं भावः, यद्यत्र भवद्भि-
र्विषयभेदेन व्यवस्थाप्यते तर्हि तावत् ‘शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं
महः’ इति लक्षणं शिवभट्टारकस्य भवदनुरोधेन छिन्द्यात् । छिनत्तु वा
नास्त्यत्र तव कोपि भरः । तथापि ‘स्वातन्त्र्ये ज्ञानमापतेत्’, स्वातन्त्र्यं हि

७६ शिवदृष्टिः [ आ०-३
शक्तिं मुञ्चतो विविक्तस्य शिवभट्टारकस्याभ्युपगमे' .... तत्त्वात्स्वा-
तन्त्रचे ज्ञेयनिष्ठत्वाभावस ... ... ... माप्नोति ज्ञेया-
प्रकाशनात् तच्च ... ... ... अथवा निजशक्ति-
त्यागे ......... हि तस्य स्वस्वात्तन्त्रचस्य...... तथैव ज्ञानं स्यात्...... शक्ति-
मतः शक्तेः पृथग्भावेन प्रतीतिरस्ति केवलमेकस्मिन्नेव यस्मिन् वस्तुनि
प्रतीतेः किञ्चिद्भवति२ तत्समानं शक्तं व्यवहारसारमेवमुच्यते३ शक्ति-
मानिति४ ॥
तदाह--
न५ हिमस्य पृथक् शैत्यं नाग्नेरौष्ण्यं पृथग्भवेत् ।
शक्तिः शक्तत्वं शक्तस्य धर्मः, न च धर्मो धर्मिणो भिद्यते तथा६
हिमवह्न्योः शीतोष्णस्पर्शौ न पृथगुपलभ्येते ॥ ६ ॥
स्वतन्त्रस्य शक्तिमतः स्वभावभूतो धर्मः स्वभाववन्तं विना न कथनार्हमिति
भावः। १ अभ्युपगमे' इति प्रभृति 'ज्ञानं स्यात्' इत्यन्तं निम्नलिखितः पाठः
कपुस्तके दृश्यते—नास्त्यत्र भवतो विप्रतिपत्तिसम्भावनापि केवलं स्वातन्त्र्ये
शक्तिमन्तं विनापि शक्तौ स्वभावभूते धर्मे ज्ञानं स्वतः संभावनानिष्ठापत्ति-
रायाति, न चेष्टा, नहि भवतां--२ आधिक्यमिव तस्याः स्पन्दस्वरूपं
किंचिच्चलनात्मकत्वात् । ३ किंचिच्चलत्ताव्यवहारसारम् । ४ इदमत्र
तात्पर्यम्, एकमेवेदं स्वस्वभावाख्यं शक्तिगर्भं शक्तिमत्स्वरूपं तत्रैतादृशे
यत्किचित्प्रतीतेराधिक्यं यदा स्फुरति, तत्तदा शक्तिरिति भण्यते । तदा-
श्रयत्वेन च तत्समानं तदेकसङ्घट्टमीहग्व्यवहारसारं चलत्तात्मकस्वरूपा-
भासनविश्रान्ति सामरत एव शक्तमिति तच्छक्तिसहितं शक्तिमानिति
कथ्यते, न तु शक्तिशक्तिमतोर्वस्तुतो भेदो लक्ष्यत इति । ५ नन्वस्तु शक्ति-
शक्तिमतोरभेद एव तथापि यथाग्नितदौष्ण्ययोर्हिमशैत्ययोश्चभेदेऽपि औष्ण्य-
शैत्याभ्यामेव व्यवहारो नाग्निना नापि हिमेन तथानयोरपि चोभेदेऽपि
शक्तद्वयवाद एव युक्तियुक्तः, न शिवाद्रयवाद इत्याशङ्क्याह न हिमस्येति ।
अयं भावः—सत्यमेव शक्त्यैव व्यवहारदर्शनात्तद्द्वयवाद एव वक्तुं युक्त-
मित्येतद्यद्यपि तथापि न धर्मिणं विना धर्मो व्यवहारशक्तः । न हि हिमाग्नी
विना शैत्यौष्ण्यस्पर्शो जातुचित्संभवति तद्व्यवहारेऽपि। तथा शक्तिसंबन्धेऽपि
सर्वत्र तद्व्यवहारदर्शनान्न तथा धर्मिणं व्यवधाय व्यवहारो युक्त इति शिवा-
द्वयवाद एव युक्तियुक्तोऽङ्गीकर्तव्य इति । ६ यद्यपि हिमवह्न्योरत्र दृष्टान्तत्वेन

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७७
मन्त्रस्तम्भनतायां१ हि नासौ वह्निस्तदोच्यते । ७ ।।
हेमादिवद्भास्वरं तद्द्रव्यं तैर्व्यभिचारितम् ।
यद्यौष्ण्यव्यतिरेकत्वे दृष्टान्तो दाहकाश्रयात् ॥ ८ ।।
मन्त्रेणौष्ण्यस्तम्भनं२ यस्य तथा शक्तिव्यतिरेकता शक्तिमत उच्यते ।
तन्न इदं वह्नित्वं, तदभावे सत्यग्नेरौष्ण्यं नोपलभ्यते यतस्तदानीमसौ
वह्निस्तेजोमयत्वेऽपि यथा सुवर्णादि द्रव्यं भास्वरम् । अथ तैरेव हेमादि-
भिरग्निसंज्ञतेजोमहाभूतात्मभि( गिनसहचरितै )रेव दृष्टान्तो यदि
( शक्तिव्यतिरेकता शक्तिमत उच्यते तन्न दोषः यतो ) दाहकत्वेन श्रित
उष्णः सन् ( स ) वह्निः शक्तिव्यतिरेके दृष्टान्तीकृतो न वह्निमात्रम् ॥ ८ ॥
शैवैः३ सद्भिर्वाच एव पश्यन्त्यादिक्रमे स्थिताः ।
कल्पितास्तैरशैवत्वमात्मनः प्रतिपादितम् ॥ ९ ।।
अन्यच्च यैः शक्तिवादिभिः--
'यस्या निरुपधिज्योतिरूपायाः शिवसंज्ञया ।
व्यपदेशः.....................................,'
इत्येवमभिधानात् शैवदर्शनस्थितेरपि सद्भिर्वाच एव क्रमव्यवस्थिताः
पश्यन्तीमध्यमावैखरीसंज्ञाभिर्विश्वात्मतया कल्पिताः, यदाहुः--
व्यपदेशो युक्तः तथाप्यनुभवशालिनामौत्कर्षख्यापनाय दाष्ट्रान्तिकत्वेन
योजित इति बोध्यं तदाह तथेति । १ ननु च यथा मन्त्रेणौष्ण्यशक्तिस्तम्भने-
ऽपि वह्नेर्भासमानत्वात् वह्निरयमिति सर्वोऽपि प्रत्येति, तथा शक्तिव्यतिरेके-
ऽपि तस्य व्यवस्थानात् कथनुक्तं 'मुञ्चतोऽपि' इत्यादि । तथा, यथा च तत्र
पृथगेवान्यथा कथं मन्त्रेण स्तम्भनं सिद्ध्येदिति, तथा च कथमनयोरभेद
इत्यत्र समर्थयति मन्त्रस्तम्भनेत्यादि । २ मन्त्रेणौष्ण्यस्तम्भनं यस्य तस्य
वह्नेर्यथा शक्तिर्व्यतिरिक्तैव तथा तच्छक्तिस्तम्भनतायां वह्निः स्वरूपेण
तिष्ठते, न तु तेनैव वह्निरिति ज्ञानम् । तथा शक्त्यपगमे शक्तिर्व्यतिरिक्ता ।
न च शक्त्यैव शक्तिमत्स्वरूपव्यपदेश इत्यर्थः । ३ अथेदानीं स्वातन्त्र्यापर-
पर्यायशक्त्यद्वैतपक्षेऽनुपपन्नेऽपि चान्ये शक्तिवादिनः पुनरपि प्रत्यवतिष्ठन्ते ।
पश्यन्त्यादिवाच एव समन्ताद्विश्वमागूर्य यतो वर्तन्ते ततो वाचः शक्ति-
रूपत्वाद्व्यागद्वैतमयं शक्त्यद्वैतमयं सर्वं विश्वम् । अलं शिवाद्वैतवादेनेत्यत आह
शैवैरित्यादि ।

७८ | शिवदृष्टिः | [ आ०-३
“.........................यावन्नोन्मेषभागणुः ।
न तावदर्थे वर्तत स चोन्मेषः क्रिया मता ।
क्रिया च नानारूपैव...................”
इत्युपक्रम्य--
'स्वस्वभावस्थितिं मुक्त्वा तस्मान्नान्यास्ति सा दशा ।
शिवे यस्यां न वाग्रूपं सूक्ष्ममप्राप्तसंनिधिः ॥'
इति तैरशैवत्वमात्मन उक्तम् ॥ ९ ॥
तथाहि--
शैवे वाच इन्द्रियत्वमथ¹ नादादिनोदिता ।
तदभ्यासे फलावाप्तिः सूक्ष्ममन्त्रस्वरूपता ॥ १० ॥
कथिता कालपादादौ² नादाख्यं यत्परं त्विति ।
परापरादिभेदश्च तत्रैव³ प्रतिपादितः ॥ ११ ॥
इत्यनेन वर्णितात्र वाच एव परात्मता ।
शैवे हि वाचः सांख्य इव कर्मेन्द्रियत्वमेवात्यन्ताधस्तनदशायाम् ।
अथ 'नादे प्रलीनचित' इत्यादिना वाच एव फलावाप्तिः कथिता सूक्ष्म-
मन्त्रात्मकता कालोत्तरादौ--
'नादाख्यं यत्परं बीजं.........।'
इत्यादिना परापरादिभिन्नता चोक्ता इति, तस्मादनेन शैवग्रन्थेन वाच एव
परात्मता कथमयुक्ता । परं त्विति तुशब्दः पादपूरणे ॥
नैतन्न¹ वाचः कथितं पतिशब्दस्य वर्णितम् ॥ १२ ॥
शब्दस्य विषयाख्यस्य न कदाचिदुदाहृतम् ।
१ अथेत्यत्रायं भावः,—वैयाकरणैर्हि करणरूपा बुद्धीन्द्रियादप्यति-
निकृष्टकर्मेन्द्रियरूपा पशुप्रमातृभिस्तिर्यगादिभिः साधारणा ध्वनिजनिका-
हङ्कारवृत्तिरेव काचिद्वाक् पाण्यादिवदभ्युपगता कथं तत्र परत्वमिति ।
अथ सामान्यं स्थूलसूक्ष्मरूपमाश्रित्य पृच्छत्यथेत्यादि । २ शैवतन्त्रे
एव । ३ कालपाद एव । १ अत्र हि अहमिति वाक् शुद्धकर्तृत्वप्राणा
असंकुचितमहामन्त्रमयी शब्दनरूपा या तस्या एवैतदुक्तमित्यर्थः । ये पुनरमी
मायीया वर्णाः शब्दात्मानस्ते घटादिस्थानीयास्तदुत्थापकं चाविकल्प-
सविकल्परूपं पश्यन्तीमध्यमात्मकं ज्ञानं ज्ञानान्तरस्थानीयं च तन्निवर्तकं

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७६
तदेतन्न, नहि वागिन्द्रियस्य बद्धाणुव्यवस्थितस्य तत्तत्र १ कथितम्,
विषयाख्यस्य वा शब्दस्य तत्परत्वं कदाचित् क्वचित्प्रतिपादितम्, अपि तु
पतिभावे ईश्वरतासमापत्तौ यो महामन्त्रमयः शब्दनात्मा तस्योक्तम् ।। १२ ।।
तथा चाह खेटपालः शब्दराशेर्विशेषताम् ।। १३ ।।
स्वायम्भुवस्य टीकायां बाढमित्यादिना गुरुः ।
तथा मतङ्गटीकायां व्याख्यानिगुरुणोदितम् ।। १४ ।।
मन्त्राणां परशब्दानामुक्तं २ वाचो न जातुचित् ।
खेटपालगुरुः श्रीस्वायम्भुवशास्त्रटीकायां 'किं शब्दराशेर्विशेषोऽस्ति'
इत्याक्षिप्य, 'बाढम् एकः शिवात्मकोऽन्यश्च पाशात्मकः' इत्यादिना परतवेन
शब्दराशेर्मन्त्ररूपस्य कर्तृशक्ताववस्थानात् विशिष्यमाणतानाह न तु शब्द
इत्येव कृत्वा शब्दराशेर्निर्विशेषत्वम् । तथा व्याख्यानिसंज्ञकेन गुरुणा
मतङ्गटीकायामेवमेव विशिष्टमुक्तम् । तथोक्तं 'प्रमातृभूमिगतानां मन्त्राणां
परभूमिगतानां च शब्दानां न तु वागिन्द्रियस्य कदाचित्, वागिन्द्रियं हि
मायापद एव स्थितं, शब्दस्तु परतन्मात्ररूपः परव्योममहाभूतमयः
परमेश्वरस्य पञ्चब्रह्मविन्यासे वक्त्रमुच्यते' । दर्शितं चैतदीश्वर-
प्रत्यभिज्ञायाम् ।।
तत्र ३ वा तदुपायत्वात्परत्वेनोपचारिता ।। १५ ।।
च वागिन्द्रियं पाण्यादिस्थानीयं द्वैतात्मकमायापक्षनिक्षिप्तं च तत्कथमिव
परतत्त्वं स्यादिति । ननु यत्र तत्रापि स्वकृत्यप्रसाधकत्वं दृश्यते तत्र किं
कथनीयम् । अत्रोच्यते तत्तु 'अपि त्वात्मबलस्पर्शात्' इति परतवबलस्पर्श-
कृतमिति । १ तत्र, कालोत्तरादौ । २ उक्तं वाचो न जातुचिदिति, अत एव
भट्टनारायणेनाप्युक्तम्--
'सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया ।
जयत्युल्लासितानन्दमहिमा परमेश्वरः ॥'
इति । अत्र च पश्यन्तीशब्देन श्रीसदाशिवभूमिर्ज्ञानशक्तिस्वभावा योक्ता
असौ महापश्यन्तीनां प्रत्यगात्मरूपाणामविभागात्मिका परममहापश्यन्ती,
तया च योऽसावानन्दमहिमा परमस्वातन्त्र्यात्मोल्लसनीयः सा भगवतः परा
वागिति । ३ ननु किमिदमुच्यते--
'शैवैः सद्भिर्वच एव पश्यन्त्यादिक्रमे स्थिताः ।'
'तैरशैवत्वमात्मनः प्रतिपादितम्'

८० शिवदृष्टिः [ आ०-३
किरणेषु तथा चोक्तं नादबिन्दादिनेदृशम् ।
अथ परमन्त्रशब्दप्राप्त्युपायत्वात् परत्वं पश्यन्त्या एवोपचारयोगेन
मतम् । तथा च श्रीकिरणसंहितायां नादबिन्दादिनेवंविधमुपचारवस्तु
कथितम् ॥
तदुपायत्वात्परत्वं चेद्दीपादेरप्युपायता ॥ १६ ॥
किरणादावन्यथा¹ तदुक्तं, तत्र तदुपायमात्ररूपत्वात्परत्वं दीपा-
देरपि ज्ञानोपायत्वात्परताप्रसङ्गादित्येषां शैवदर्शनस्थानां पश्यन्ती²-
परत्ववादोऽनुपपन्नः । पूर्वोक्तनीत्या च स्वतन्त्रशक्तिवादः प्रकृतो³-
ऽप्येषामयुक्तः ॥ १६ ॥
तस्मात्समग्राकारेषु⁴ सर्वासु प्रतिपत्तिषु ।
विज्ञेयं शिवरूपत्वं स्वशक्त्यावेशनात्मकम् ॥ १७ ॥
तस्मात् शक्तिमात्रवादस्यानुपपन्नतत्वात् सर्वासु प्रतीतिषु इन्द्रियमनो-
मात्रजन्यासु ये स्फुरन्ति आकारास्तेषु सर्वेष्वेव शक्तिमद्भगवच्छिवरूपत्वं
स्थितं ज्ञेयं पूर्वोक्तसर्वनिजशक्तिसामरस्यमयमपदेशगम्यम् ॥ १७ ॥
इत्यादि । यतः पश्यन्तीज्ञानशक्तिमयीत्वादस्याः परसंविदुपायत्वात्परत्व-
मुच्यते । दृश्यते हि उपायत्वेप्युपेयतारोपः, यथा--परेशविमर्शोपायत्वा-
च्छास्त्रस्य संविद्विमर्श एव शास्त्रमिति भण्यते तथेहापीत्याशङ्क्याह तत्र
वेत्यादि । १ यदा सदाशिवसारत्वेऽहमिति चमत्कारितरन्तःकृतानन्तविश्वे-
दन्ताचमत्कृतिपूर्णवृत्तिः स्यात्पश्यन्ती स्वात्मानं परसंवित्परामर्शात्मकं
करोति तदा तदुपायत्वात्परत्वं केनापह्नूयत इत्याहान्यथेति । २ पश्यन्त्या-
मेव तात्पर्येण यत्परत्वं तद्वाच इत्यर्थः । ३ अनेन पश्यन्तीपरत्वोपगम
एषामप्रकृत एवेत्यर्थः । ४ इदानीं सर्वमतानुपपत्त्या यत्सिद्धं तत्कथयति
तस्मादिति । तदिदानीं शक्त्यद्वयवादः कथञ्चनापि नोपपन्न इति स्थिते यत्
फलितं तदाह तस्मादिति, आकारः पदार्थवपुः, प्रतिपत्तिस्तदाकारप्रति-
ज्ञानकारणं, तदेवं स्थितं द्वितत्त्वमयमेव सर्वं विश्वं तदन्तर्भावात्सर्वस्य तेन
सर्वमेव यत्किञ्चित् षडध्वजातं तत्सर्वमेव ग्राह्यग्रहणमयमेव । तत्र सर्वत्र
शिवरूपत्वं तत्सर्वं शिवमयमेश । आधारनिर्देशस्तु ऽउपदेश्यजनापेक्षया ।
ननु ‘नाप्रकाशः प्रकाशते’ इति नीत्या सिद्धमेवैतत् कोऽत्र चमत्कार इत्यत
आह--‘स्वशक्त्यावेशनात्मकम्’ इति, पञ्चशक्तिसामरस्यात्मकं यच्छैवतत्त्वं
तदेव सर्वं घटादिपदार्थजातमपीत्यर्थः ।