सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 78, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 78

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६१
पश्येत्याप्तेन प्रतिपाद्यमानस्य न तु सदा, ततश्च तस्या१ विच्छिन्नं दर्शनं
स्यात्, न सदा प्रकाशमानता, न चैतत् तत्कालप्रतीक्षणं मतम् ॥
स्वात्मनात्मानमथ चेत्पश्यन्ती सा भविष्यति ॥ ६५ ॥
तदानीं२ प्रतिपाद्यस्य किमायातं स्ववीक्षणात्३ ।
वक्तव्यमेव४ तस्यापि पश्यन्तीं पश्य या स्वयम् ॥ ६६ ॥
आत्मानमेव जानाति तथाप्यस्यास्ति कर्मता ।
नानुभवादिना पश्यन्तीदर्शनमपि तु सा स्वात्मना५ न व्यतिरिक्ते-
नानुभवेन स्वमात्मानं पश्यन्ती भविष्यतीति यदि मतं, तदेवं सति प्रति-
पाद्यस्य भवद्भिरुपदेष्टृभिः किमपूर्वं कार्यं स्वयमेव तस्याः प्रथनात् । एवं
तु अवश्यवक्तव्यं भवद्भिः प्रतिपादकैः६ सद्भिः प्रतिपाद्यस्य७ पश्यन्ती-
मदृष्टपूर्वां८ त्वं पश्य या स्वयमेवात्मानं पश्यति । तथापि चास्याः९
प्रतिपाद्यसंबन्ध्यनुभवं प्रति पूर्ववत् कर्मतास्त्येव१०, प्रतिपाद्येन११ परिमित-
त्वात् पराभिमतायाः पश्यन्त्याश्च्युतत्वात्, परिमितेनैव द्वैतदशोचिते-
नानुभवेन सा दृश्या स्यात्, न तु तदा प्रतिपाद्यप्रतिपादकपश्यन्तीनामैक्यं
येन कर्मतापत्तिर्न भवेत् । एवं च कर्मतापत्तौ तस्याः स्वयं प्रकाशता-
स्वभावाभ्युपगतेति विरोधः । १ तस्याः पश्यन्त्याः । २ ननु नास्माभिः
कादाचित्केनानुभवेन प्रतिपाद्या पश्यन्ती अभ्युपगता, येन कादाचित्क-
त्वात्पश्यन्त्या विच्छिन्नदर्शनेऽनित्यत्वादिदोषप्रसङ्गः । अपि तु स्वात्मना
प्रकाशमानेनानुभवितृत्वेनानुभवविषयमेव प्रकाशमानं पश्यन्ती पश्यति ।
एवं च सततं प्रकाशमानतैवेत्यपि निराकरोति तदानीमित्यादिना । तथा
स्वात्मनात्मानमेव सा प्रत्यवमृशति परन्तु पश्यन्तीव्यपदेशस्तूपदेश्यजनापेक्ष-
यैव न स्वतः कर्मव्यपदेशोऽत्रेति च समर्थयति । ३ तस्याः स्वयंप्रथनात् ।
४ उपदेशो ह्यवश्यवक्तव्यत्वाद्विधिलक्षणः, स चाज्ञातज्ञापनलक्षणः । स्वयमेव
ज्ञातेऽलमन्योपदेशकथावर्णनया । ५ यदुक्तं 'अथ स्वानुभवेनैव पश्यन्ती पश्य
युक्तितः' इत्यस्यैवोऽभिप्रायो यदिष्टः । ६ अन्योपदेशकैः । ७ उपदेश्यस्य ।
८ उपदेशो हि न दृष्टे प्रवर्तते । ९ पश्यन्त्याः । १० त्वं पश्यन्तीं पश्य
स्वानुभवेन तां लक्षयस्वेति स्फुटमेव पश्यन्त्याः कर्मत्वमायातम् । ११ ननु
पश्यन्त्याः स्वयमात्मदर्शनरूपाया न कथंचन कर्मताणुसंस्कारलेशमप्य-