सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

30
अथ हनूमन्मतम् ।
भैरवो कौशिकश्चैव हिन्दोलो दीपकस्तथा ।
श्रीरागो मेघरागश्च षडेते पुरुषाह्वयाः ॥ १८३ ॥
मध्यमादिर्भैरवी च बङ्गाली च वराटिका ।
सैन्धवी च पुनर्गैया भैरवस्य वराङ्गनाः ॥ १८४ ॥
टोडी खभावती गौडी गुणक्री ककुभा तथा ।
रागिण्यो रागराजस्य कौशिकस्य वराङ्गनाः ॥ १८५ ॥
वेलावली रामकरी देशारूया पटमञ्जरी ।
ललिता सहिता एता हिन्दोलस्य वराङ्गनाः ॥ १८६ ॥
केदारी कानडा देशी कामोदी नाटिका पुनः ।
दीपकस्य प्रियाः पञ्च ख्याता रागविशारदैः ॥ १८७ ॥
वसन्ती मालती चैव मालश्रीश्च धनाश्रिका ।
असावेरीति विज्ञेयाः श्रीरागस्य वराङ्गनाः ॥ १८८ ॥
मल्लारी देशकारी च भूपाली गुर्जरी तथा ।
टक्कश्च पञ्चमीभार्या मेघरागस्य योषितः ॥ १८९ ॥
इति हनूमन्मते रागरागिण्यः ।
(183-189) Classification according to Hanuman :—
6 masculine Ragas, each having 5 consorts or Raginis.
(சு. 183-189) ஹனுமத் பரதம் என்னும் நூலில் சொல்லப்
பட்டிருக்கும் விரிவினை :—

31
6 புருஷ ராகங்களும் ஒவ்வொன்றுக்கும் 5 ஸ்திரீகளாகிய
ராகிணிகளும்.
अथ रागार्णव मतम् ।
भैरवः पञ्चमो नाटो मल्लारो गौडमालवः ।
देशारुख्यश्चेति षड्रागाः प्रोच्यन्ते लोकविश्रुताः ॥ १९० ॥
बङ्गालीयं गुणकरी मध्यमादिर्वसेंन्तकः ।
धनाश्रीश्चेति पञ्चैते रागा भैरवसंश्रयाः ॥ १९१ ॥
ललितागुर्जरीदेशी वराटी रामकृत्तथा ।
मता रागार्णवे रागाः पञ्चैते पञ्चमाश्रयाः ॥ १९२ ॥
नटनारायणः पूर्वगान्धारः सालगस्तथा ।
ततः केदारकर्णाटौ पञ्चैते नाटसंश्रयाः ॥ १९३ ॥
मेघमल्लारिका मालकौशिकः पटमञ्जरी ।
असावेरीति विज्ञेयाः रागा मल्लारिसंश्रयाः ॥ १९४ ॥
हिन्दोल स्त्रवणांधारी गौडी च पडहंसिका ।
पञ्चैते रागनामानं गौडमाश्रित्य संस्थिताः ॥ १९५
भूपालीच कुडायीच कामोदी नाटिका तथा ।
वेलावलीति विज्ञेया रागादेशारुख्यसंश्रयाः । इति रागार्णवमतम्।
न तालानां न रागाणां अन्तः कुत्रापि विद्यते ॥ १९६ ॥

32

  • (190-196) Classification according to Ragarnava:-
    6 principal ragas, and 5 subordinate ragas attached to
    each of the principal ones.
    (சு. 190-196) ராகார்ணவ மதப்படி ராகங்களின் பிரிவினை:-
    6 முக்ய ராகங்களும் ஒவ்வொரு முக்ய ராகத்துக்கும் சார்பு
    ராகங்கள் 5ம்.
    इदानीं राग रागिण्युदाहरणं प्रारभ्यते ॥
    धैवतांश ग्रहन्यासो रिपहीनोथ मागतः ।
    भैरवस्सतु विज्ञेयः धैवतादिक मूर्छनः ।
    धैवतो विकृतोयत्र औडवः परिकीर्तितः ॥ १९७ ॥
    उदाहरणम् ।
    गङ्गाधरः शशिकलातिलकस्त्रिनेत्रः
    सर्पैर्विभूषिततनुर्गजकृत्तिवासाः ।
    भास्वत्रिशूलकर एष नृमुण्डधारी
    शुभ्राम्बरोजयति भैरव आदिरागः ॥ १९८ ॥

33
धनि सगमधनि । इति भैरवः ॥ १ ॥
(197-198) Bhairava raga lakshana.
(சு. 197-198) 'பைரவ' ராக லக்ஷணம்.
मध्यमादिश्चरागांगा ग्रहांशन्यास मध्यमा ।
सप्तस्वरैस्तु गातव्या मध्यमादिक मूर्छना ।
सम्पूर्णा कथिता तद्ज्ञैः रिधहीना क्वचिन्मता ॥ १९९ ॥
उदाहरणम् ।
पत्या सहास परिंरभ्य कामं संचुम्बितास्या कमलायताक्षी ।
स्वर्णच्छविः कुङ्कुमलित्तदेहा सामध्यमादिः कथिता मुनीन्द्रैः ॥२००॥
पधमनी सरिगम अथवा मम पम पनि सनिगम, ।
इति मध्यमादिः ॥ २ ॥
(199-200) Raga Madhyamadi lakshana.
(சு. 199-200) 'மத்யமாதி' ராக லக்ஷணம்.
सम्पूर्णा भैरवी ज्ञेया ग्रहांशन्यास मध्यमा
सौवीरीमूर्छना ज्ञेया मध्यमभ्रामचारिणी ।
केचिदेनां भैरववत् स्वरैर्ज्ञेया विचक्षणैः ॥ २०१ ॥
उदाहरणम् ।
स्फटिकरचितपीठे रम्यकैलासशृङ्गे
विकचकमलपत्रैरर्चयन्तीमहेशम् ।
करधृतघनवाद्या पीतवर्णायताक्षी
सुकविभिरियमुक्ता भैरवी भैरवस्त्री ॥ २०२ ॥
5

34
मपधनि सरि गम अथवा धनि सगम धप ॥ इति भैरवी ॥ ३ ॥
(201-202) 'Bhairavi' lakshana.
(சு. 201-202) 'பைரவி' லக்ஷணம்.
बङ्गाली औडवाज्ञेया ग्रहांशान्यासषड्जभाक् ।
रिध हीना च विज्ञेया मूर्छना प्रथमा मता ।
पूर्णा वा मत्रयोपेता कल्लिनाथेन भाषिता ॥ २०३ ॥
उदाहरणम् ।
कक्षे निवेशितकरण्डधरस्तपस्वी
भास्वत्त्रिशूल परिमण्डितवामहस्तः ।
भस्मोज्ज्वलो निबिडबद्धजटाकलापः
बङ्गाल इत्यभिहितस्तरुणार्र्कवर्णः ॥ २०४ ॥
सगम पनि स अथवा मपधनि सरि गम । इति बङ्गाली ॥४॥
(203-204) 'Bangali' lakshana.
(சு. 203-204) 'பங்காளீ' லக்ஷணம்.
षड्जग्रहांशकन्‍यासा वराटी कथिता बुधैः ।
प्रथमा मूर्छना यस्यां सम्पूर्णा कीर्तिवर्धनी ॥ २०५ ॥
उदाहरणम् ।
विनोदयन्ती दयितं सुकेशी सुकङ्कणा चामरचालनेन ।
कर्णे दधाना सुरवृक्षपुष्पं वराङ्गनेयं कथिता वराटी ॥ २०६ ॥
सरिगम पधनिस । इति वराटी ॥ ५ ॥

35
(205-206) 'Varati' lakshana.
(205-206) 'வராடி' (வராளி) லக்ஷணம்.
षड्जग्रहांशकन्यासा सम्पूर्णा सैन्धवी मता ।
मूर्च्छनोत्तरमन्द्राद्या कैश्चित् षाडविका मता ।
रिहिना तु भवेन्नित्यं रसे वीरे प्रयुज्यते ॥ २०७ ॥
उदाहरणम् ।
त्रिशूलपाणिः शिवभक्तियुक्ता रक्ताम्बरा धारितबंधुजीवा ।
वीरे रसे गायकगीतवर्णा सा सैन्धवी भैरवरागिणीयम् ॥२०८॥
सरिगम पधनिस अथवा सगमपधनिस इति । सैन्धवी ॥ ६ ॥
इति पंचभार्यासहितोभैरवः ।
(207-208) 'Saindhavi' lakshana.
(சு. 207-208) 'ஸைந்தவி' லக்ஷணம்.
षड्जग्रहांशकन्यासः सम्पूर्णः कौशिको मतः ।
मूर्छना प्रथमा ज्ञेया काकलीस्वरसम्मतः ॥ २०९ ॥
उदाहरणम् ।
आरक्तवर्णो धृतगौरयष्टिः वीरः सुवीरेषु कृतप्रवीरः ।
वीरैर्वृतो वैरिकपोलमालामाली मतो मालवकौशिकोयम् ॥२१०॥
सरिगमपधनिस सनिधपमगरिस । इति मालव कौशिकः ॥७॥
(209-210) 'Malava Kausika' lakshana.
(சு. 209-210) 'மாளவ கௌசிக' லக்ஷணம்.
मध्यमांश ग्रहन्यासा सौवीरी मूर्छना मता ।

36
सम्पूर्णा कथिता तज्ज्ञैः तोडी स्त्री कौशिके मता ।
ग्रहांशन्यासषड्जश्च केचिदत्र प्रचक्षते ॥ २११ ॥
उदाहरणम् ।
तुषार कुन्दोज्ज्वल देहयष्टिःकाश्मीर कर्पूर विलिप्तदेहा ।
विनोदयन्ती हरिणं वनान्ते वीणाधरा राजति तोडिकेयम् ॥२१२॥
मपधनि सरिगम अथवा सरिगम पधनिस । इति तोडी ॥८॥
(211-212) 'Todi' lakshana,
(சு. 211-212) 'டோடி' (தோடி) லக்ஷணம்.
धैवतांश ग्रहन्यासा षाडवा त्यक्तपञ्चमा ।
खंभावतीच विज्ञेया मूर्छना पौरवी मता ॥ २१३ ॥
उदाहरणम् ।
खंभावतिः स्यात् सुखदा रसज्ञा सौन्दर्यलावण्य विभूषिताङ्गी ।
दानप्रिया कोकिल तुल्यनादा प्रियं वदा कौशिकरागिणीयम् ॥२१४॥
धनि सरि गमध । इति खंभावती ॥ ९ ॥
(213-214) 'Khambhavati lakshana.
(சு. 213-214) 'கம்பாவதி' லக்ஷணம்.
ग्रहांशन्यासषड्जास्या द्विपवर्ज्या सुखप्रदा ।
मूर्छना प्रथमा ज्ञेया गौरी सर्वाङ्गसुन्दरी ॥ २१५ ॥
उदाहरणम् ।
निवेशयन्ती श्रवणेवतंसमाम्राङ्कुरं कोकिलनादरम्या ।
श्यामा मधुस्यन्दितसूक्ष्मनादा गौरीयमुक्ता किल कोहलेन ॥२१६॥

37
सगमधवनिस सनिधमगम । इति गौरी ॥ १० ॥
(215-216) ' Gouri ' lakshana
(சு. 215-216) ' கௌரி ' லக்ஷணம்.
रिधहीना गुणकरी चौडवा परिकीर्तिता ।
निग्रहांशा तुनिन्यासा कैश्चित् षड्जत्रयामता ॥
रजनी मूर्छना चात्र मालवाश्रयणी तु सा ॥ २१७ ॥
उदाहरणम् ।
शोकाभिभूतनयनारुणदीनदृष्टिः
नम्रानना धरणिधूसरगात्रयष्टिः ।
आमुक्तचारुकबरी प्रियदूरवर्ती
संकीर्तिता गुणकरी करुणे कृशाङ्गी ॥ २१८ ॥
निसगमपनि निपमगसनि अथवा सगमपनिस । इति गुणकरी ॥ १ १ ॥
(217-218) ' Gunakari ' lakshana.
(சு. 217-218) ' குணகரி ' லக்ஷணம்.
धैवतांशग्रहन्यासा सम्पूर्णा ककुभामता ।
तृतीयमूर्च्छनोत्पन्ना शृङ्गाररसमण्डिता ॥ २१९ ॥
उदाहरणम् ।
सुपोषिताङ्गी रतिमण्डिताङ्गी चन्द्रानना चम्पकदामयुक्ता ।
कटाक्षिणी स्यात् परमा विचित्रनादेन युक्ता ककुभा मनोज्ञा ॥
धनिसरिगमपध इति ककुभा ॥ इति पञ्चभार्यासहितो
मालव कौशिकः ॥ १२ ॥

38
(219-220) ‘Kakuba’ lakshana.
(219 220) ‘ககுபா’ லக்ஷணம்.
हिन्दोलको रिधत्यक्तः सत्रयः कथितो बुधैः । ।
मूर्छना शुद्धमध्या स्याद् औडवः काकलीयुतः ॥ २२१ ॥
उदाहरणम् ।
नितम्बिनीमन्दतरङ्गितासु दोलासु खेलासुखमादधानः ।
खर्वः कपोतद्युतिकामयुक्तो हिन्दोलरागः कथितोमुनीन्द्रैः ॥ २२२ ॥
सगम पनि मपस । इति हिन्दोलः ॥ १३ ॥
(221-222) ‘Hindola ’ lakshana.
(சு. 221-222) ‘ஹிந்தோள’ லக்ஷணம்.
धैवतांशग्रहन्यासा पूर्णा वेलावली मता ।
पौरवीमूर्छना ज्ञेया रसेवीरे प्रयुज्यते ॥ २२३ ॥
उदाहरणम् ।
सङ्कतदीक्षां दयिते च दत्वा वितन्वती भूषणमङ्गकेषु ।
मुहुः स्मरन्ती स्मरमिष्टदेवं वेलावली नीलसरोजकान्तिः ॥ २२४ ॥
धनि सरि गम पध । इति वेलावली ॥ १४ ॥
(223-224) ‘Velavali’ lakshana.
(சு. 223-224) ‘வேளாவளி’ லக்ஷணம்.
षड्जग्रहांशकन्यासा पूर्णा रामकरी मता ।
मूर्छना प्रथमा ज्ञेया करुणे सा प्रयुज्यते ॥ २२५ ॥
रिधत्यक्ता तु केचित्तु केचित्पञ्चमवर्जिता ।
षाडवा औडवा ज्ञेया सम्पूर्णा च त्रिधा मता ॥ २२६ ॥

39
उदाहरणम् ।
हेमप्रभाभासुरभूषणा च नीलं निचोलं वपुषा वहन्ती ।
कान्ते समीपे कमनीयकण्ठा मानोन्नता रामकरी मतेयम् ॥ २२७ ॥
सगमपधिनिस अथवा सरिगमपधनिस अथवा सरिगमधनि स । इतिरामकरी॥
(225-227) ‘Ramakari’ lakshana.
(சு. 225-227) ‘ராமகரி’ லக்ஷணம்.
देशाख्या षाडवा ज्ञेया गत्रयेण विभूषिता ।
ऋषभेण वियुक्ता सा शार्ङ्गदेवेन कीर्तिता ॥
मूर्छनाहरिणाश्वा च सम्पूर्णा केचिदूचिरे ॥ २२८ ॥
उदाहरणम् ।
वीरे रसे व्यंजितरोमहर्षा निरुध्य सम्बद्धविलासबाहुः ।
प्रांशुः प्रचण्डा किल सुंदराङ्गी देशाख्यरागः कथितो
मुनीन्द्रैः ॥ २२९ ॥
[ हिन्दोलकान्ताकिल देशकारः। इति वापाठः ] ॥ गंमपधनिसग
अथवा गमपधनिसरिगं इति देशाख्या ॥ १६ ॥
(228-229) ‘Desakhya’ lakshana.
(சு, 228-229) ‘தேஸாக்யா’ (தேஸாக்ஷி) லக்ஷணம்,
पञ्चमांश ग्रहन्यासा पूर्णा स्यात्पटमञ्जरी ।
हृष्यका मूर्छना ज्ञेया रसिकानां सुखप्रदा ॥ २३० ॥
उदाहरणम् ।
वियोगिनी कान्तविशीर्णनेत्रा स्रजं वहन्ती वपुषा च शुक्लाम् ।
आश्वास्यमाना प्रियया च सख्या सुधूसराङ्गी पटमञ्जरीयम् ॥
(230-231) ‘Patamanjari’ lakshana,

40
प ध निस रीगमप । इति पटमञ्जरी ॥ १७ ॥
(சு. 230—231) படமஞ்சரி லக்ஷணம்.
रिपवर्ज्या च ललिता औडवा सत्रया मता ।
मूर्छनाशुद्धमध्या स्यात् संपूर्णा केचिदूचिरे ॥
धैवतत्रयसंयुक्ता द्वितीयललिता मता ॥ २३२ ॥
उदाहरणम् ।
प्रफुल्लसच्छद्ममाल्ययुक्ता गौरी कृशाङ्गी तरुणी चलाक्षी ।
विनिश्वसत्साद्वशात् प्रभाते विलासवेशा ललितोपदिष्टा ॥ २३३ ॥
सगमधनिस अथवा धनि सगमध । इति ललिता ॥ १८ ॥
इति पञ्च भार्यासहितो हिन्दोलकः ॥
(232—233) ‘ Lalita ’ lakshana
(சு. 232—233) லலிதா லக்ஷணம்,
षड्जग्रहांशकन्यासः सम्पूर्णो दीपको मतः ।
मूर्छना शुद्धमध्यास्यात् गातव्या गायनैः सदा ॥ २३४ ॥
उदाहरणम् ।
बाला रतार्थे प्रविलीनदीपे गृहेन्धकारे सुभगी प्रवृत्ता ।
तस्याः शिरोभूषणरत्नदीपैः लज्जां तदानीं कृतवान्प्रदीपः ॥ २३५ ॥
स रि ग म प ध नि स । इति दीपकः ॥ १९ ॥
(234-235) ‘Dipaka’ lakshana.
(சு. 234-235) ‘தீபக’ லக்ஷணம்.
केदारी रिधहीनास्यात् औडवा परिकीर्तिता ।
नित्रया मूर्छनामार्गी काकलीस्वरसम्मिता ॥ २३६ ॥

41
उदाहरणम् ।
जटांदधानः सितचन्द्रमौलिः नागोत्तरीयो धृतयोगपीठः ।
गङ्गाधरो ध्याननिमग्नचित्तः केदाररागः कथितस्तपस्वी ॥ २३७ ॥
[ विरहविबुभाचित्ता पाण्डुगण्डा कृशाङ्गी
मलयजरसपूरैः सिच्यमाना सखीभिः ।
सरसकमलपत्रैः कृतशय्यानिविष्टा
हिमकरसितवस्त्रा भाति केदारिकेयम् ॥ २३८ ॥ ]
नि स ग म प नि नि प म ग स नि । इति केदारी ॥ २० ॥
(236-238) 'Kedari' lakshana.
(சு. 236-238) 'கேதாரி' லக்ஷணம்.
त्रिनिषादोथ संपूर्णः निषादो विकृतो भवेत् ।
मार्गीयं मूर्छना ज्ञेया कर्णाटीयं सुखप्रदा ॥ २३९ ॥
उदाहरणम् ।
कर्णाटी कमलेक्षणा सुरतरोर्मूले वसन्ती मुहुः
श्वासोच्छ्वासवि

42
उदाहरणम् ।
निद्रालसं सा कपटेन कान्तं विबोधयन्ती सुरतोत्सुकेन ।
गौरी मनोज्ञा शुकपुच्छवस्त्रा ख्याताच देशी रसपूर्णचित्ता ॥ २४२ ॥
रिगमधनिसरि इति देशी ॥ २२ ॥
(240-242) 'Desi' lakshana.
(சு. 240-242) 'தேசீ' லக்ஷணம்.
धांशन्यासग्रहा पूर्णा पौरवी मूर्छना मता ।
मल्हारनिकटे गेया कामोदी च निगद्यते
शिवभूषणकेदारयुक्ता सर्वसुखप्रदा ॥ २४३ ॥
उदाहरणम् ।
पीतंवसाना वसनं सुकेशी वने रुदन्ती पिकनाददूना ।
विलोकयन्ती विदिशोऽतिभीता कामोदिकाकान्तमनुस्मरन्ती ॥
धनिसरिगमपध । इति कामोदी ॥ २३ ॥
(242-244) 'Kamodi' lakshana.
(சு. 242-244) 'காமோதீ' லக்ஷணம்.
ग्रहांशन्यासषड्जा स्यात् सम्पूर्णा नाटिका मता ।
प्रथमा मूर्छना ज्ञेया गमकै र्बहुधा मता ॥ २४५ ॥
उदाहरणम् ।
उद्वद्धानुसुहृच्छवि विकसितं पङ्केरुहं पाणिना
स्पृश्यन्ती मधुपानघूर्णनयना तन्वी तमालद्युतिः ।
ताम्बूलाहरणच्छलेन दयितं सङ्केतयन्ती निजं
क्रीडाकुञ्जगृहे लवङ्गलतिकामोदानिले कामिनी ॥ २४६ ॥

48
जपाकुसुमसंङ्काशां निचोलं पीतवाससम् ।
वहन्ती वपुषा तन्वी नाटिका रक्तकञ्चुकी ॥ २४७ ॥
सरिगमपधनिस सनिधपमगरिस । इति नाटिका ॥ २४ ॥
इति पञ्चभार्यासहितो हिन्दोलः ।
(244-246) ' Natika ' lakshana.
(சு. 244-246) 'நாடிகா' லக்ஷணம்.
श्रीरागः सचविख्यातः सत्रयेण विभूषितः ।
पूर्णः सर्वगुणोपेतः मूर्छना प्रथमा मता ॥
केचित्तु कथयन्त्येनं ऋषभत्रयसम्मतम् ॥ २४८ ॥
उदाहरणम् ।
अष्टादशाब्दः सरचारूमूर्तिः धीरोल्लसत्पल्लवकर्णपूरः ।
षड्जादिसेव्योऽरुणवस्त्रधारी श्रीरागराजः क्षितिपालमूर्तिः॥२४९॥
सरिगमपधनिस अथवा रिगमपधनिस इति श्रीरागः ॥ २५ ॥
(247-249) ' Sriraga ' lakshana
(சு. 247-249) ' ஸ்ரீராக' லக்ஷணம்.
वसन्ता स्यात्तु संपूर्णा सत्रया कथिता बुधैः ।
श्रीरागमूर्च्छनैवात्र गेया रागविशारदैः ॥ २५० ॥
उदाहरणम् ।
शिखण्डिबर्होच्चयबद्धपीडा कर्णावतंसा स्फुरदाम्रपत्रा ।
इन्दीवरश्यामतनुर्मनोज्ञा वसन्तिका स्यादलिमञ्जुलश्रीः ॥२५१
सरिगमपधनिस इति वसन्तिका ! ॥ २६ ॥
(249-251) ' Vasantika ' lakshana.
(சு. 249-251) 'வஸந்திகா' (வஸந்தா) லக்ஷணம்.

44
मालावी चौडवा ज्ञेया नित्रया प, रि, वर्जिता ।
रजनी मूर्छना ज्ञेया काकलीस्वरमण्डिता ॥ २५२ ॥
उदाहरणम् ।
नितम्बिनीचुम्बितवक्त्रपद्मः शुकद्युतिः कुण्डलवान्प्रमत्तः ।
सङ्गीतशालां प्रविशन्प्रदोषे मालाधरो मालव एष रागः ॥ २५३ ॥
निसपमगनि । इति माळवी ।
[ निसरिमगनि इति वा पाठः ] ॥ २७ ॥
(252-253) 'Malavi' lakshana.
(சு. 252-253) 'மாளவி' லக்ஷணம்.
मालवश्रीश्च रक्ताङ्गी पूर्णा सत्रयभूषिता ।
मूर्च्छनोत्तरमन्द्रा स्यात् शृङ्गाररसमण्डिता ॥ २५४ ॥
उदाहरणम् ।
रक्तोत्पलं हस्ततले नियुक्तं विभावयन्ती तनुदेहवल्ली ।
रसालवृक्षस्यतले निषण्णा स्तोकस्मिता साकिल मालवश्रीः ॥
सरिगमपधनिस । इति माळवश्रीः ॥ २८ ॥
(254-255) 'Malavasri' lakshana.
(சு, 254-255) 'மாளவஸ்ரீ' லக்ஷணம்
संतया हीनऋषभा षाडवा च धनासिरी ।
मूर्छना प्रथमा ज्ञेया रसे वीरे प्रयुज्यते ॥ २५६ ॥
उदाहरणम् ।
दूर्वादलश्यामतनुर्मनोज्ञा कान्तं लिखन्ती विरहेण दूना ।
श्वेते कपोले नयनारविन्दनिष्यन्दनिर्धूतकुचा धनाश्रीः ॥
सगमपधनिस । इति धनाश्रीः ॥ २९ ॥
(256-257) 'Dhanasri' lakshana.
(சு, 256-257) 'தனஸ்ரீ' லக்ஷணம்,

45
असावरी गरित्यक्ता पग्रहां शांत(?) औडवा ।
न्यासस्तु धैवतोज्ञेयः करुणारसनिर्भरा ॥ २५८ ॥ अथवा
उदाहरणम् ।
ककुभाद्द्धैवतोत्पन्ना धैवतांशग्रहामता ।
पञ्चमेनैव रहिता षाडवा च निगद्यते ॥ २५९ ॥
श्रीखण्डशैलशिखरे शिखिपुच्छवस्त्रा
मातङ्गमौक्तिककृतोत्तमहारवल्ली ।
आकृष्य चन्दन तरोरुरगं वहन्ती
सासावरीति कथितोज्वल नीलकान्तिः ॥ २६० ॥
धनिसमपध । अथवा मधनिसरिगधगरिसनिध । इति सावेरी ॥ ३० ॥
(257-259) 'Asavari' (Saveri) lakshana.
(சு. 257-259) 'அஸாவரி' (ஸாவேரி) லக்ஷணம்.
इति पञ्चभार्यासहितः श्रीरागः ॥
मेघः पूर्णो धत्रयःस्यात् उत्तरायतमूर्च्छनः ।
विकृतो धैवतो गेयः शृङ्गाररसपूरकः ॥ २६१ ॥
उदाहरणम् ।
नीलोत्पलाभवपुरिन्दुसमानचैलः पीताम्बरस्तुषितचातकयाच्यमानः
पीयूषमन्दहसितोद्यममध्यवर्ती वीरेषु राजति युवा किल मेघरागः
धनिसरिगमपध इति मेघरागः ॥ ३१ ॥
(260-261) 'Megharaga lakshana.
(சு. 260-261) 'மேகராக' லக்ஷணம்.
मल्लारी सपहीनास्यात् ग्रहांशन्यासधैवता ।
औडवा पौरवी ज्ञेया वर्षासु सुखदा सदा ॥ २६२ ॥

  1. 'Asavari' and 'saveri' are both indifferently
    used for the raga in older texts also.

46
गौरी कृशा कोकिलकण्ठनादा गीतच्छलेनात्मपतिं स्मरन्ती ।
आदाय वीणां मलिना रुदन्ती मल्लारिका यौवन दूनचित्ता ॥ २६३
धनिरीगमध इति मल्लारिका ॥ ३२ ॥
(262-263) 'Mallari' lakshana.
(சு. 262-263) 'மல்லாரி' லக்ஷணம்.
देशकारी तु संपूर्णा षड्जन्यास ग्रहांशका ।
मूर्च्छना प्रथमा ज्ञेया वराटीमिश्रिताभवेत् ॥ २६४ ॥
उदाहरणम् ।
भर्त्रासमं केलिरसं सुकेशी सर्वाङ्गपूर्णा कमलायताक्षी ।
पीनस्तनी रुक्मतनुः सुवेशा संपूर्णचन्द्रानन देशकारी ॥
सरिगमपधनिस इति देशकारी ॥ ३३ ॥
(263-264) 'Deshakari' lakshana.
(சு. 263-264) 'தேசகாரி' லக்ஷணம்.
षड्जग्रहांशकन्यासा भूपाली कथिता बुधैः ।
मूर्च्छना प्रथमा यत्र संपूर्णा शान्तिके रसे
कैचित्तुरीयहीनेय औडवा परिकीर्तिता ॥ २६६ ॥
गौरद्युतिः कुङ्कुमलिप्तदेहा तुङ्गस्तनी चन्द्रमुखा मनोज्ञा ।
भर्तुः स्मरन्ती विरहेण दूना भूपालिकेयं रसशान्तियुक्ता ॥
सरिगमपधनिस इति भूपाली ॥ ३४ ॥
(266-267) 'Bhupali' lakshana.
(சு. 266-267) 'பூபாளி' லக்ஷணம்.

47
ग्रहांशंन्यास ऋषभा सम्पूर्णा गुर्जरी मता ।
सप्तमी मूर्छना तस्यां बहुन्यास विमिश्रिता ॥ २६७ ॥
उदाहरणम् ।
श्यामा सुकेशी मलयद्रुमाणां मृदूल्लसत्पल्लव तल्पमध्ये ।
श्रुतिस्वराणां दधतीवभागं तन्त्रीमुखाद्दक्षिणगुर्जरीयम् ॥
रिगमपधनिसरि इति गुर्जरी ॥ ३५ ॥
(268-269) 'Gurjari' lakshana.
(சு. 268-269) 'குர்ஜ்ஜரீ' லக்ஷணம்.
टक्कःस्यात्तु त्रिधाषड्जः सम्पूर्णश्चादि मूर्छनः ।
उदाहरणम् ।
शय्यासु सुप्तां नलिनीदळानां वियोगिनीं वीक्ष्य विषण्णचित्तां ।
सुवर्णवर्णग्रहमागतःसन् सम्भाषते तां किल टक्कसंज्ञः ॥
सरिगमपधनिस इति टक्कः । इति पञ्चभार्यासहितो मेघरागः ॥ ३६ ॥
(270) 'Takka raga' lakshana
(சு 270) 'டக்கராக' லக்ஷணம் (Handwritten annotation: upto this according to Hanuman Mate)
कल्याणनाटो विज्ञेयः सम्पूर्णो रित्रयोमतः ।
पञ्चतयोपि कैश्चितु संप्रदिष्टो मनीषिभिः ॥ २७१ ॥
उदाहरणम् ।
कृपाणपाणिस्तिलकं ललाटे सुवेषवेषः समरे प्रचण्डः ।
स्मरन्प्रविष्टः किल रक्तवर्णः कल्याणनाटः कथितोमुनीन्द्रैः ॥

48
रिगमपधनिसरिअथवा सरिगमपधनिम, इति कल्याणनाटः ॥ ३७ ॥
(271-272) ' Kalyana nata
(ச 271-272) ' கல்யாணநாட்ட' லக்ஷணம்
सारङ्गनाटः सम्पूर्णः सत्रयोत्तरमन्द्रजः ।
उदाहरणम् ।
वीणांदधाना दृढबद्धवेणी
सख्यासमं मञ्जुलवृक्षमूले ।
जाम्बूनदाभा च निषण्णदेहा
सारङ्गनाटा कथिता सुवेषैः ॥ २७३ ॥ अथवा
करधृतवीणा सख्यामहोपविष्टा च कल्पतरुमूले ।
दृढतरनिबद्धकबरी सारङ्गामा सुरङ्गिणी प्रोक्ता ॥ २७४ ॥
सरिगमपधनिम इति सारङ्गनाटः ॥ ३८ ॥
(273—274) ' Saranganata ' lakshana
(ச, 273—274) சாரங்கநாட்ட (சாலங்கநாட்ட) லக்ஷணம்
देवगिर्याः स्वराः प्रोक्ताः सारङ्गसदृशा मताः ।
उदाहरणम् ।
नितम्बिनी श्यामतनुः प्रवृत्ततुङ्गस्तनी सुन्दरहारवली ।
चित्रांबरा मत्तचकोरनेत्रा मदालसा देवगिरी मतेयम् ॥ २७५॥
सरिगमपधनिस इति देवगिरी ॥ ३९ ॥
275— 'Devagiri ' lakshana
(ச, 275) ' தேவகிரி ' லக்ஷணம்
सोरटी षाडवा ज्ञेया पञ्चमलयसम्मता ।
रिहीनाच समाख्याता कैश्चित्षड्जत्रयामृता ॥ २७६ ॥
पीनोन्नतस्तनतटोत्तमहारवल्ली
कर्णोत्पलभ्रमरनादविलग्नचित्ता ।

49
याति प्रियान्तिक मतिश्लथबाहुवल्ली
सौराष्ट्रिका मदनमूर्तिविचारगौरा ॥ २७७ ॥
पधनि सगमप अथवा सगमपधनिस इति सोरटी ॥ ४० ॥
(276–277) ' Sorati ' lakshana
(சு, 276–277) 'ஸோரடீ' (சுருட்டீ) லக்ஷணம்
त्रिवणा साच विज्ञेया ग्रहांशन्यासधैवता ।
औडवा सा समाख्याता परिहीना प्रकीर्तिता ॥ २७८ ॥
उदाहरणम् ।
रम्भायाः सुतरोर्मूले निष्षणा पीतवर्णभाक् ।
तन्वङ्गी हारसंयुक्ता प्रियेण त्रिवणा मता ॥ २७९ ॥
धनिसगमध । इति त्रिवणा ॥ ४१ ॥
(278-279) ' Trivana ' Lakshana
(சு. 278-279) 'த்ரிவணா' லக்ஷணம்
षड्जन्त्रया पहाडी स्यात् रिपहीना च गौरिवत् ।
छाया तैलङ्गदेशीया आलापे चौडवा मता ॥ २८० ॥
उदाहरणम् ।
वीणोपगायत्यतिसुन्दराङ्गी
रक्ताम्बरा मञ्जुकदम्बमूले
श्रीचन्दनाद्रौ स्थितिकारिणी सा
श्रीरागकान्ता कथिता पहाडी ॥ २८१ ॥
7