सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

78
(சு. 416) 'ராஸகம்' என்னும் பிரபந்தம்.
द्विरुद्ग्राहो ध्रुवोऽपिद्विः आभोगध्रुवकौ ततः ।
गीत्वा न्यासो यत्र सा स्यात् एकतालयैकतालिका ॥ ४१७ ॥
इति शुद्धसूडलक्षणम्
(417) Prabandha 'called 'Ekatalee'. Here end the
8 kinds of Prabandhas included in 'Suddhasuda'
variety.
(சு. 417) 'ஏகதாளீ' என்னும் பிரபந்தம். இதனோடு
• 'சுத்த ஸூடம்' என்னும் வகையில் அடங்கிய 8 பிரபந்தங்களின்
விவரம் முற்றுப்பெற்றது.
वर्णो वर्णस्वरो गद्यं कैवाड श्चाङ्गचारिणी ।
कन्दस्तुरङ्गलीलाच गजलीला द्विपद्यपि ॥ ४१८ ॥
चक्रवालः क्रौञ्चपदः स्वरार्थो ध्वनि कुट्टनी ।
आर्या गाथा द्विपथगः कलहंसोऽथतोटकः ॥ ४१९ ॥
घटोवृत्तं मातृकाच तथा रागकदंबकः ।
पञ्चतालेश्वर स्तालार्णव इत्यालिसंज्ञिकाः ॥ ४२० ॥
श्रीरङ्गः श्रीविलासस्तु पञ्चभङ्गिरतः परम् ।
पञ्चाननोमातिलकौ द्विपदीचचतुष्पदी ॥ ४२१ ॥
षट्पदी वस्तुसंज्ञश्च विजयस्त्रिपथस्तथा ।
चतुर्मुखस्सिम्हलीलो हंसलीलोऽथदण्डकः ॥ ४२२ ॥
झोंबडः कन्दुकः स्यान्त्रिभङ्गी हरिविलासकः ।
सुदर्शनः स्वराङ्कः श्रीवर्धनो रा¹गवर्धनः ॥ ४२३ ॥

  1. 'हर्षवर्धनः' इतिवा पाठः ।
    10

74
वदनं चर्चरी चर्या पद्धडी राहडी तथा ।
वीरश्रीमङ्गलाचारौ धवलो मङ्गलस्तथा ॥ ४२४ ॥
ओवी लोली ढोल्रीच दन्तीषट्त्रिंशदित्यमी ।
प्रबन्धा विप्रकीर्णाख्याः सालगास्तु ध्रुवादयः ॥ ४२५ ॥
(418-425) The variety of Prabandhas known as
‘Aali’, 24 number; ‘Viprakeerna’ or miscellaneous
varaieties of Prabandhas, 36 in number.
(சு. 418-425) ‘ஆளி’ என்ற வகையைச்சேர்ந்த 24 பிரபந்-
தங்கள் ; ‘விப்ரகீர்ணம்’ அல்லது பலவகை பிரபந்தங்கள் 36.
आद्यो ध्रुव स्ततो मण्ठः प्रतिमण्ठो निसारुकः ।
अड्डताल स्ततो रासः एकतालीति सप्त ते ॥ ४२६ ॥
शार्ङ्गदेवेन कथिताः मिलिताः पञ्चसप्ततिः ।
(425-426) ‘Salaga suda’, its seven constituent ele-
ments in the seven talas:— Dhruva, Mantha, Prati-
mantha, Nisaruka, Adda, Rasa and Ekatali. Here end
the 75 Prabandhas according to Sarngadeva in Sangeeta-
ratnakara.
(சு. 425-426) ‘ஸாலக ஸூடம்’ என்னும் பிரபந்தத்தில்
அடங்கிய ஏழு வகையும், அவற்றின் தாளங்களும் :—
த்ருவம், மண்டம், ப்ரதி மண்டம், நிஸாருகம், அட்ட, ராஸ,
ஏகதாளீ; இதனுடன் ஸங்கீத ரத்னா கரத்தில் சார்ங்க தேவரால்
விவரிக்கப்பட்ட 75 பிரபந்தங்கள் முற்றுப்பெற்றன.
केचिद्देषु प्रसिद्धाये तल्लक्षण मिहोच्यते ॥ ४२७ ॥
कर्णाट भाषयाबद्धो बिरुदै र्वर्णतालतः ।
वर्णसंज्ञः प्रबंधोऽयं त्रिविधस्तालभेदतः ॥ ४२८ ॥

75
इति वर्णः
(427-428) Prabandhas in practice at the present
day ((i-e) of the author):— (1) Varna.
(சு. 427-428) பிற்காலத்தில் பிரசித்தமான பிரபந்தங்கள்:-
(1) வர்ணம்.
स्वरैः पाटैः पदै स्तेनै रचिता वाञ्छितः क्रमात् ।
न्यासस्तु तेनकैरेव स वर्णस्वर उच्यते ॥ ४२९ ॥
इति वर्णस्वरः
(429) (2) 'Varnasvara.'
(சு. 429) (2) வர்ணஸ்வரம்,
गद्यं निगद्यते छन्दोहीनं पदकदंबकम् ।
तस्य भेदास्तु बहवो ज्ञेया ग्रंथान्तराद्बुधैः ॥ ४३० ॥
इति गद्यम्
(430) (3) 'Gadya' (Prose).
(சு. 430) (3) 'கத்யம்' (உரை நடை).
उद्ग्राहध्रुवकौ यस्य पाटैरेव विनिर्मितौ ।
सार्थकैरर्थहीनैर्वा न्यसनन्तु ध्रुवे भवेत् ॥ ४३१ ॥
स कैवाडः शुद्धमिश्रपाटभेदाद्विधा मतः ।
इति कैवाडः
(431) (4) 'Kaivada.'
(சு. 431) (4) 'கைவாடம்.'
पूर्वपूर्वाक्षरव्रा¹तो योऽन्त्योवर्णचय स्सचेत् ।

  1. 'कान्तौ' इतिवा पाठः ।

76
उत्तरोत्तरवाक्यादौ चक्रवालस्तदा भवेत् ॥ ४३२ ॥
गद्यपद्यप्रभेदेन द्विविधः परिकीर्तितः ।
इति चक्रवालः
(432) (5) 'Chakravala.'
(432) (5) 'சக்ரவாளம்.'
पदैः स्वरैः क्रौञ्चपदः प्रतितालेन गीयते ॥ ४३३ ॥
स्वरे न्यासः स तन्नाम्ना छन्दसा मुक्तकोऽथवा ॥ ४३४ ॥
इति क्रौञ्चपदः
(434) (6) 'Kraunchapada'.
(சு. 434) (6) 'க்ரௌஞ்ச பதம்.
यत्र स्वराक्षरैरेव वाञ्छितार्थोऽभिधीयते ।
स स्वरार्थो द्विधा शुद्धो मिश्रस्तैः शुद्धमिश्रितैः ॥ ४३५ ॥
न्यासो ग्रहस्वरेचास्य सप्तधैकादिकैः स्वरैः ।
क्रमात् क्रमाभ्यां बहुशः भिद्यन्ते द्विस्वरादयः ॥ ४३६ ॥
इति स्वरार्थः
435—436 (7) 'Svarartha'.
(சு. 435—436) (7) 'ஸ்வாரார்த்தம்.'
एकैकमातृकावर्णपूर्वकाणि पदानिचेत् ।
क्रमेण परिगीयन्ते तदासौ मातृका मता ॥ ४३७ ॥
मातृकावर्णपूर्वाणि केचिद्वाक्यानि मन्वते ।

77
यातु संस्कृतया वाचा मार्गतालैश्च गीयते ॥ ४३८ ॥
सा दिव्या प्राकृता गीता देशीतालैश्च मानुषी ।
उभयो र्मिश्रणादुक्ता मातृका दिव्यमानुषी ॥ ४३९ ॥
अनिबद्धा गद्यजा सा निबद्धा पद्यजा मता ।
सर्वमन्त्रमयी ह्येषा सर्वसिद्धिप्रदायिनी ॥ ४४० ॥
इति मातृका ।
(437-440) (8) 'Matrika'
(சு. 437-440) (8) 'மாத்ருகா'
तालै रनेकै विविधैश्चरागैः वृत्तैस्तथाङ्गैरपि धातुमिश्च ।
शृङ्गारवीरादिरसैरुपेतो निबध्यते रागकदंब एषः ॥ ४४१ ॥
चतुर्वृत्तश्चतुस्तालो रागराजीविर्राजितः ।
तालमानद्वयेन स्यान्नन्द्यावर्तस्तदा भवेत् ॥ ४४२ ॥
तालेनैकेन गद्येन केचिदङ्गगुर्बुधाः ।
एतस्माद्रागतालैश्च द्वि

78
(441-445) (9) 'Raga kadambaka' and its varieties.
(சு. 441-445) (9) ' ராக கதம்பகம் ', அதன் வகைகள்.
कर्तव्यः पूर्वमालापः सच तालविवर्जितः ।
प्राप्तश्चरूपकालापे तस्यातः प्रतिषेधभाक् ॥ ४४६ ॥
चच्चत्पुटेन तालेन¹ प्रत्येकं पदपञ्चकम् ।
पूर्ववच्च स्वराः पाटाः तद्द्विमानेनचान्तरः ॥ ४४७ ॥
द्वि²चच्चत्पुटमानेन पाटैः पटहसंभवैः ।
तत श्वाचपुटेनापि गातव्यं पदपञ्चकम् ॥ ४४८ ॥
हौडुकपाटैस्तदनु षट्पितापुत्रकेणच ।
पृथक् पदानि पञ्च द्विस्तेनैव स्वरपाटकाः ॥ ४४९ ॥
तद्विमानः पृथक्पाटैः अन्तरः स्यात्ततस्तुषट् ।
प्रत्येकं द्विपदानिस्युः संपक्केष्टाकतालकः ॥ ४५० ॥
तत्तालाः स्युः स्वराः पाटाः तद्विमानेनचान्तरः ।
कांस्यतालोद्भवैः पाटैः अथोद्घट्टपदानिषट् ॥ ४५१ ॥
प्राग्वत्तथा स्वराः पाटाः पाटै मुरजसंभवैः ।
अन्तरः पूर्ववच्चास्या भोगश्चस्याद्विलंबितः ॥ ४५२ ॥
प्रबंध नाम्ना प्राग्वानं नेतृनाम्नाथतेनकः ।

  1. 'द्विर्गेयम्' इतिपाठांतरम् ।
    2 अयं श्लोक 11499, 11500 अङ्कितमातृकयोर्नदृश्यते

79
गातव्योऽथ प्रबंधस्य नामचालापके भवेत् ॥ ४५३ ॥
पञ्चतालेश्वरोनाम सर्वसिद्धिप्रदायकः ।
वीरावतारः शृङ्गारतिलकश्चेति सद्बिधा ॥ ४५४ ॥
वीरशृङ्गारयोस्तेन प्रीयन्ते सर्वदेवताः ।
इति पञ्चतालेश्वरः
(446-454) (10) 'Panchatalesvara'
(சு. 446-454) (10) 'பஞ்சதாளேச்வரம்'
निबद्धो बहुभिस्तालैः, द्विविधो गद्यपद्यजः ।
तालार्णवो भवेदेषः प्रबंधोऽन्वर्थनामकः ॥ ४५५ ॥
इति तालार्णवः
(455) (11) 'Talarnava'
(சு. 455) (11) 'தாளார்ணவம்'
तालैश्चतुर्भी रागैश्च षडङ्गेन्ते पदान्वितः ।
श्रीरङ्गः श्रीविलासस्तु तालै रागैश्च पञ्चभिः ॥ ४५६ ॥
षडङ्गोऽयं स्वरान्तः स्यात् प्रबंधः श्रीफलप्रदः ।
इति श्रीरंगः । श्रीविलासः ।
(456) (12) 'Sreeranga' and (13) 'Sreevilasa'
(சு—456) (12) 'ஸ்ரீரங்கப்ரபந்தம்' (13) 'ஸ்ரீவிலாசம்'
तेनकान्तः पञ्चभङ्गिः तालै रागैश्च पञ्चभिः ॥ ४५७ ॥
इति पञ्चभङ्गिः ।
(457) (14) Panchabhangi.
(சு. 457) (14) பஞ்சபங்கி

तृतीय प्रकीर्णकाध्याय एवं चतुर्थ प्रबन्धाध्याय (गीत-रचना भेद)

80
रागाभ्यामपि तालाभ्यां पाटैः पञ्चाननोऽन्तगैः । पञ्चाननः ।
(458) (15) ‘Panchanana’
(சுi 458) (15) ‘பஞ்சாநநம்’
तालैरागै स्त्रिभिः प्रोक्तः उमातिलकसंज्ञकः ।
विरुदान्ता स्त्रयोप्येते षडङ्गाःपरिकीर्तिताः ॥ ४५८ ॥
इति उमातिलकः
(458) (16) ‘Umatilaka’ (சு. 458) ‘உமாதிலகம்’
यस्मिन्विजयतालेन विजयो गीयते प्रभोः ।
तेनकैश्र्व स्वरैः पाटैः पदैर्न्यासश्र्वतेनकैः ।
विजयाख्याः प्रबंधोऽयं विजयश्रीप्रदोनृणाम् ॥ ४५९ ॥
इति विजयः
(459) (17) ‘Vijaya’ (சு. 459) (17) ‘விஜயம்’
स्वरैः पाटैः पदै स्तेनैः वर्णैः स्थाय्यादिभिः क्रमात् ।
चत्वार श्र्वरणा गेयाः ध्रुवेन्यास श्रुतुर्मुखे ॥ ४६० ॥
इति चतुर्मुखः ।
(460) (18) ‘Chaturmukha’
(சு. 460) (18) ‘சதுர்முகம்’
स्वरैः पाटैश्च विरुदैः तेनकैर्योविरच्यते ।
सिंहलीलेन तालेन सिंहलील स्सउच्यते ॥ ४६१ ॥
इति सिंहलीलः ।
हंसलीलो हंसलीले तालेङ्गीपदपाटजौ ।

81
पदैः पाटैश्च बिरुदैः कन्दुकः परिगीयते ॥ ४६२ ॥
इति कन्दुकः
462, (20) — Hamsalila
(21) — Kanduka.
(சு—462) (20) ஹம்ஸலீலம்
(21) கந்துகம்.
स्वरैः पाटैः पदैः प्रोक्तस्त्रिभङ्गिश्च सपञ्चधा ।
एकत्रिभङ्गितालेनवृत्तेनान्यस्त्रिभङ्गिना ॥ ४६३ ॥
तालै रागैस्त्रिभिर्यद्वाथवावृत्तत्रयान्विता ।
ब्रह्मविष्णुशिवस्तुत्या तालैस्त्रैगुण्यमुक्तिकः ॥ ४६४ ॥
इति त्रिभङ्गिः ।
463—464. (22) — Tribhangi and its five kinds.
(சு—463—464) (22) — த்ரிபங்கி, அதன் 5 வகைகள்.
पदैस्सबिरुदै स्तेनैर्निर्दिशन्तु सुदर्शनम् । इति सुदर्शनः ।
पदैस्सबिरुदैः पाटैस्तेनैर्हरविलासकः ॥ ४६५ ॥ इति
हरविलासः ।
465. (23) Sudarsana.
(24) Harivilasa.
(சு—465) (23) சுதர்சனம்,
(24) ஹரவிலாஸம்,
पदैः स्वरैश्चबिरुदैः उद्ग्राहादित्रयः क्रमात् ।
एकद्विलाश्चताळाःस्युः स्वराङ्कैन्यसनं स्वरैः ॥ ४६६ ॥
11

82
इति स्वराङ्कः ।
466— (25) Swaranka.
(சு—466) (25) ஸ்வராங்கம்.
बिरुदैर्गीयते यस्तु पाटैरपि पदैःस्वरैः ।
तालमानद्वयन्यासः भवेत् श्रीवर्धनाभिधः ॥ ४६७ ॥
इति श्रीवर्धनः ।
467— (26) Srivardhana.
(சு—467) (26) ஸ்ரீவர்த்தனம்.
पदैश्च बिरुदैर्हर्षवर्धनः स्वरपाटकैः । हर्षवर्धनः ।
पदैश्च बिरुदैर्बद्धोवीरश्रीरिति गीयते । वीरश्रीः ॥ ४६८ ॥
(468) (27) Harshavardhana. (28) Veerasri.
(சு—468) (27) ஹர்ஷவர்த்தனம். (28) வீரஸ்ரீ
¹दोहदः स्यात्पदान्तेषु प्रोल्लसद्धोलरीपदः ।
सा धोल्लरीति कथिता लाट भाषा विनिर्मिता ॥ ४६९ ॥
इति धोल्लरी । ' ढोलरी ' इतिवा नाम
(469) 29— Dhollari.
(சு—469) 29— தோல்லரி. (டோல்லரி)
अनुक्तभोगवस्तूनां पदै राभोगकल्पना ।
एकधातुद्विखण्डस्यात् यत्रोद्ग्राहस्ततः परम् ॥ ४७० ॥

  1. डौहडः— इतिवा पाठः ॥

83
किञ्चिदुच्चं भवेत्खण्डं द्विरभ्यस्तमिदं त्रयम् ।
ततोद्विखण्ड आभोगः ततः स्यात् खण्डमुत्तमम् ¹ ॥ ४७१ ॥
एकधातुद्विखण्डञ्च खण्डमुच्चतरं भवेत् ।
स्तुत्यनामाङ्कितश्चासौ क्वचिदुच्चैकखण्डकः ॥ ४७२ ॥
उद्ग्राह स्यादखण्डेच न्यास स्सध्रुवको भवेत् ।
जयन्तादि प्रभेदेन ध्रुवाष्षोडश कीर्तिताः ॥ ४७३ ॥
(470-473) 30— The seven kinds of 'Salagasuda':—
(1) Dhruva.
(சு--470—473) 30— ‘ஸாலகஸூடம்’ என்ற ஏழுவகை
பிரபந்தங்களின் விவரம்:— (1) த்ருவம்.
जयन्त श्शेखरोत्साहौ ततो मधुर निर्मलौ ।
कुन्तलः कमल श्चारो नन्दन श्चन्द्रशेखरः ॥ ४७४ ॥
कामोदो विजयाख्यश्च कन्दर्पजयमङ्गलौ ।
तिलको ललितश्चेति संज्ञास्तेषां क्रमादिमाः ॥ ४७५ ॥
आदितालेन शृङ्गारे खण्ड एकादशाक्षरः ।
गीयते चेज्जयन्तस्स्यात् आयुःश्रीबलवर्धनः ॥ ४७६ ॥
वीरे निस्सारुताले च गीयते द्वादशाक्षरः ।
खण्ड श्शेखर संज्ञस्स्यात् ऋद्धिसौभाग्यदो नृणाम् ॥ ४७७ ॥
त्रयोदशाक्षरो हास्ये उत्साहः प्रतिमण्ठतः ।
मन्वक्षरस्तु करुणे मधुरो हयलीलया ॥ ४७८ ॥

  1. आदिमम्— इतिवा पाठः ।

84
क्रीडातालेन शृङ्गारे निर्मल स्तीर्थवर्णकः ।
लघुशेखर तालेन कलार्णः कुन्तलोऽद्रुते ॥ ४७९ ॥
विप्रलंभेतु कमलो झंपातालेन गीयते ।
तस्य खण्डस्तु कर्तव्यो बुधै स्सप्तदशाक्षरः ॥ ४८० ॥
अष्टादशाक्षर श्चारो वीरे निस्सारुतालतः ।
वीरशृङ्गारयो रेकताल्य प्रोक्तस्तुन्दनः ॥ ४८१ ॥
एकोनविंशद्वर्णस्तु सर्वसिद्धिप्रदायकः ।
वीरे हास्येच शृङ्गारे गीयते चन्द्रशेखरः ॥ ४८२ ॥
प्रतिमण्ठेन तालेन विंशत्यक्षरखण्डकः ।
एकविंशत्यक्षरस्तु प्रतिमण्ठेन गीयते ॥ ४८३ ॥
शृङ्गारेऽभीष्टफलदः कामदाख्यो ध्रुवो भवेत् ।
द्वाविंशत्यक्षरो हास्ये विजयः स्याद्द्वितीयतः ॥ ४८४ ॥
हास्यशृङ्गारकरुणे प्वादितालेन गीयते ।
त्रयो

85
(சு—473—489) த்ருவஸாலகஸூடத்தின் 16 வகையின்
லக்ஷணங்கள்.
स्याद्द्रूणं नियमोऽखण्डे खण्डे खण्डद्वये ^1 तथा ॥ ४८९ ॥
द्विविरामं भवेद्यस्य खण्डमुद्ग्राह संज्ञकम् ।
ध्रुवखण्डं ततोद्विः स्यात् विकल्पेनान्तरः स्मृतः ॥ ४९० ॥
तंगीत्वा ध्रुवमागत्य चाभोगे गीयते सकृत् ।
न्यासस्तु ध्रुवके यस्य स मण्ठो मण्ठतालतः ॥ ४९१ ॥
षट्प्रकारो भवेदेष तालभेदेन मण्ठकः ।
वीरो जयप्रदो गेयो मण्ठेन जगणात्मना ॥ ४९२ ॥
मङ्गलो मेन शृङ्गारे सुन्दरस्सेन तद्रसः ।
वल्लभोरेण करुणे कलापो नगणेन तु ॥ ४९३ ॥
बि ^2 रामान्तेन हास्येस्यात् अद्भुते कमलो मतः ।
विरामान्त द्रुतद्वंद्वात् लघुनैकेन मण्ठकः ॥४९४॥ इति मण्ठः ।
(489--494) 2- The 6 kinds of ' Manthasalagasuda '
(சு—489—494) 2— மண்டஸாலகஸூடத்தின் 6 வகைகளின்
லக்ஷணங்கள்.
प्रतिमण्ठादिवस्तूनां लक्षणं मंठवन्मतम् ।
उद्ग्राहादिगतं सर्वं भेदस्तालकृतो भवेत् ॥ ४३५ ॥
अमदोगुरुणैकेन शृङ्गारे प्रतिमण्ठकः ।

  1. अथवा—इतिवा पाठः ।
  2. वीरामानेन—इतिवा पाठः ।

86
विरामान्तद्रुतद्वंद्रात् लघु द्वंद्रेन गीयते ॥ ४९६ ॥
ताराख्य प्रतिमंठोऽसौ रसयोर्वीररौद्रयोः ।
करुणेस्या द्विचाराख्यो विरामान्ताल्लघुत्रयात् ॥ ४९७ ॥
कुन्दोविराममध्येन लत्रयेणाङ्गुते ततः । इति प्रतिमण्ठः ।
(435—498) 3. The 4 kinds of ' Pratimantha Salaga-
sudas described.
(சு—495—498) 3 ப்ரதிமண்டஸாலக ஸூடகங்களின் 4 வகை
களின் லக்ஷணங்கள்.
वैकुन्दादिप्रभेदेन निस्सारुष्षड्विधो भवेम् ॥ ४९८ ॥
गाभ्यां लाभ्याञ्च वैकुन्द निस्सारुर्मङ्गले भवेत् ।
विरामान्तद्रुतद्वंद्रात् भवेदानन्दसंज्ञकः ॥ ४९९ ॥
कान्तारो लघुगुरुभ्यां स्यात् समरस्तु लघुद्वयात् ।
सविरामा द्वांच्छितस्तु लत्रयाद्द्रुतयुग्मतः ॥ ५०० ॥
लेन द्रुताभ्यांलघुना विशालाख्यो भवेदिह ।
(498--501) 4. The 6 kinds of ' Nissarukatala Salaga-
sudas' described.
(சு—498—501) 4. நிஸ்ஸாருக தாள ஸாலகஸூடகங்கள் 6
வகையின் லக்ஷணங்கள்.
अड्डुतालेन तालेनाडु ताल ष्षड्विधो भवेत् ॥ ५०१ ॥
तालस्वरूप भेदेन निश्शङ्क शशङ्क भेदतः ।
लघुशुभ्यां द्रुतद्वंद्रात् निश्शङ्को विस्मये भवेत् ॥ ५०२ ॥
लघुद्रुतद्वयेन स्यात् शङ्कः शृङ्गारवीरयोः ।
शान्ते शीलो विरामान्तात द्रुतर्द्धद्वालघोर्भवेत् ॥ ५०३ ॥

87
द्रुतद्वन्द्वात् लगाभ्यांस्यात् चारो वीरेऽद्भुते रसे ।
शृङ्गारे मकरन्द स्यात् द्रुतद्वन्द्वात्परे गुरौ ॥ ५०४ ॥
विजयाख्यो रसेवीरे द्रुताभ्यां लघुना भवेत् ।
इति षड्विधोऽड्डतालः ।
(501—504) (5) The 6 kinds of 'Addatala Salaga
sudas' described.
(சு—501—504) (5) அட்டதாள ஸாலக ஸூடங்கள் 6
வகையின் லக்ஷணங்கள்,
रासको रासतालेन स्याद्दालापादि भेदतः ।
चतुर्विधो भवेदेष न लक्ष्येदृश्यते तथा ॥ ५०५ ॥
आलापान्तध्रुवपदाद् विनोदः कौतुके भवेत् ।
ध्रुवादालापमध्यात्तु वरदो देवतास्तुतौ ॥ ५९६ ॥
खण्ड माद्य द्विखण्डस्योद्ग्राहस्यालाप निर्मितः ।
यस्यासौ रासको नन्दो गीयतेऽभ्युदयेच सः ॥ ५०७ ॥
आलापादेर्ध्रुवपदात् कंबुजः करुणे भवेत् ।
सर्वेषु रासकेष्वेपु द्विखण्डोद्ग्राहकल्पना ॥ ५०८ ॥
इति रासलक्षणम्
(505—508) (6) The 4 kinds of 'Rasatala Salaga
suda' described.
(சு—505—508) (6) ராஸதாள ஸாலகஸூடங்கள் 4 வகை
யின் லக்ஷணங்கள்,
एकताली भवेत्तालेनेक ताल्या त्रिधाचसा ।

88
भिद्यते गानभेदेन लयभेदेन चस्फुटम् ॥ ५०९ ॥
रामाच चन्द्रिका तद्वद्विपुले त्यथ लक्षणम् ।
सकृद्द्विरति रुद्ग्राहोऽन्तरस्त्वक्षर निर्मितः ॥ ५१० ॥
यस्यामसौ भवेद्रामा गातृश्रोतृश्रियेचसा ।
उद्ग्रा होद्विदलो यस्यां आलापरचितोऽन्तरः ॥ ५११ ॥
घनद्रुता घनयतिः घनानुप्रासयोगिनी ।
चन्द्रिका सैकतालीस्यात् भूर्गिसौभाग्यदायिनी ॥ ५१२ ॥
आलापपूर्वोद्ग्राहादि विपुलानन्ददायिनी ।
आलापो गमकालप्तिः अक्षर्वैर्जिता मता ॥ ५१३ ॥
सैव प्रयोगशब्देन शार्ङ्गदेवेन कीर्तिता ।
509—514 (7) The 3 kinds of ‘Ekatali salagasuda’
described.
(சு—509—514) (7) ஏகதாளீ ஸாலகஸூடங்கள் 3 வகை
யின் லக்ஷணங்கள்.
प्रसिद्धाः केचिदन्येऽपि वक्ष्यन्ते सांप्रतं मया ॥ ५१४ ॥
सकृद्भागेयकारेण वीरशृङ्गारसंज्ञकः ।
सप्तभिः सप्तमिस्तालैः गीतैश्चापि यदृच्छया ॥ ५१५ ॥
आद्यखण्डं परित्यज्य गीयन्तेऽन्येषु मण्ठकाः ।
प्रयोगै र्विविधैर्युक्तैः शेषस्स्याद्वीरकामयोः ॥ ५१६ ॥
स्वामिनश्चकवेर्नाम्नाऽलङ्कृतोऽयं सदामतः ॥
इति वीरशृङ्गारः

89
(514-516) Other Prabandhas in vogue. (1) 'Veera
sringara.'
(சு-514-516) பிரசித்தமான மற்ற பிரபந்தங்கள் (1)
வீரச்ருங்காரம்.
चतुरङ्गः चतुःखण्डः षडङ्गैरागसंयुतः ॥
मध्ये मध्ये भवन्त्यत्र रागवर्जान्य मून्यथ ॥ ५१७ ॥
चतुरङ्गः ॥
(517) 2. Chaturanga. (சு 517) 2. சதுரங்கம்,
अस्यैव द्विगुणःख्यातो नाम्ना शरभलीलकः ।
छन्दसातेन कथितो मुक्तकोवा भवेदसौ ॥ ५१८ ॥
शरभलीला ॥
(518) (3) Sarabhaleea. (சு-518) (3) சரபலீலை.
खण्डैर्भानुमितैस्सूर्यप्रकाशस्तु निगद्यते ।
स्वरैः पाटै स्तथा तेनैः बिरुदैः पदसंयुतैः ॥ ५१९ ॥
पुराणोक्त प्रकारेण धात्रातु रविवर्णनात् ।
रागैर्द्वादशभिस्तालैः तावद्भिर्गीयतेह्यसौ ॥ ५२० ॥
सूर्यप्रकाशः ॥
(519-520) 4- Suryaprakasa (சு-519-520) 4-
ஸூர்யப்ரகாசம்.
खण्डैष्षोडशभिश्चन्द्रप्रकाशस्तु निगद्यते ।
प्रतिखण्डं कलैकैका वर्णनीया मनीषिभिः ॥ ५२१ ॥
स्वरैः पाटैस्तथा तेनैः बिरुदैः पदसंयुतैः ।
रागैष्षोडशभिस्तालैः तावद्भिः परिगीयते ॥ ५२२ ॥
12

90
खण्डेऽन्तिमै भवेन्नाम स्वामिनश्च कवेरपि । इति चन्द्रप्रकाशः ।
(521–522) 5– Chandraprakasa.
(சு-521–522) சந்திரப்பிரகாசம்.
निर्मितः पाटबिरुदैः रङ्गतालेन संगतः ।
समादि तालभेदेन रणरङ्गस्त्रिधामतः ॥ ५२३ ॥ इति रणरङ्गः ।
(523) 6. Ranaranga. (சு-523) 6. ரணரங்கம்
बिरुदैस्तेनकैर्युक्तः प्रयोक्तृजनसम्मतः ।
नन्दनाख्येन तालेन नन्दनः परिकीर्तितः ॥ ५२४ ॥
इति नन्दनः ॥
(527) 7. Nandana. (சு-524) 7. நந்தனம்.
नवरत्नप्रबंधोऽपि नवानामिह वर्णनात् ।
रत्नानां नवभिः खण्डैः तावद्भिस्तालरागकैः ॥
षडङ्गोऽयं प्रबंधस्स्यात् गातृनेत्रमिधान्वितः ॥

91
नीचोच्चद्रुतमध्यादौ श्लक्ष्णत्वे श्लक्ष्णमुच्यते ।
उच्चैरुच्चारणादुक्तं विक्रुष्टं मधुरं पुनः ॥
लावण्यपूर्णं निर्दोषं सारवज्जनरञ्जनम् ॥ ५२९ ॥
इति गीत गुणाः
(526—529) The ten desirable features of good music
described.
(சு-526—529) கீதகுணங்கள் 10, அவற்றின் விவரம்.
दुष्टं लोकेन शास्त्रेण श्रुतिकालविरोधि च ।
पुनरुक्तं कलाबाह्यं गतत्रय मपार्थकम् ॥ ५३० ॥
ग्राम्यं संदिग्धमित्येवं दशधागीतदुष्टता ।
पददोषाश्रयेकेचित् वाक्यदोषास्तथैव च ॥
पदैकदेशदोषाश्च ते सर्वेगीति माश्रिताः ॥ ५३१ ॥
इति गीतदोषाः ।
(530—531) The ten fanlts of bad music.
(சு. 530—531) கீததோஷங்கள் 10, அவற்றின் விவரம்.
इति श्रीलक्ष्मीधरसुत चतुरदामोदरविरचिते
संगीतदर्पणे प्रबन्धाध्यायः समाप्तः ।

)!
Wow, you can see it clearly: 'र', then a vertical line 'ा', then 'ञ्ज'!
So it is indeed printed as "रनुराञ्जनम्"! The user's prompt emphasizes transcribing the page faithfully.

Everything looks extremely solid and carefully verified.92
अथ वाद्याध्यायः पञ्चमः
गीतं निरूपितं तच्च वाद्याधीन मतो मया ।
वाद्यं निरूप्यते गीतनृत्ययो रनुराञ्जनम् ॥ ५३२ ॥
चतुर्विधन्तत् कथितं ततं सुषिरमेवच ।
अवनद्धं घनञ्चेति ततं तन्त्रीगतं भवेत् ॥ ५३३ ॥
वीणादि सुषिरं वंशं काहलादि प्रकीर्तितम् ।
चर्मावनद्धवदनं वाद्यते पटहादिकम् ॥ ५३४ ॥
अवनद्धन्तु तत् प्रोक्तं कांस्य तालादिकंघनम् ।
घना मूर्तिस्साभिघाता वाद्यते यत्तु तद्धनम् ॥ ५३५ ॥
(532—535) The 4 kinds of Vadyas (musical instru-
ments):— (1) stringed, (2) wind