सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

१६४ समराङ्गणसूत्रधारे
चत्वारो निर्गमास्तस्य प्रोक्ताः सर्वे विभागिकाः¹ ।
दिक्षु सर्वासु कर्तव्यमेवं भद्रनिवेशनम् ॥ ७ ॥
अर्धेन मध्यभित्ते²स्तु भित्तिर्भद्रे³ञ्च(त्र )ये⁴ भवेत् ।
भद्रे भद्रे⁵ धराणां स्याद् विंशतिश्चाष्टभिर्युता ॥ ८ ॥
मुखभद्रं भवेद् युक्तं वेदिकामत्तवारणैः ।
क्षेत्रभागोदयाद्या भूराभूमिफलकान्तरम् ॥ ९ ॥
आदिभूम्युदयार्धेन पीठं चास्य प्रकल्पयेत् ।
भागान् नवोदयं कृत्वा भागेनैकेन कुम्भिका ॥ १० ॥
कर्तव्याष्टांशयुक्तेन स्तम्भो भागचतुष्टये⁸ ।
पादयुक्तं विधातव्यो भागेनोत्कीलंकं तथा ॥ ११ ॥
हीरग्रहणं कार्यं भागं¹⁰ पादविवर्जितः(तम्)¹¹ ।
सपादभागिकः पट्टः स्तम्भकेन समन्वितः ॥ १२ ॥
पट्टार्धेन जयन्त्यः स्युर्भूभौभूमावयं क्रमः ।
क्लृप्तभागोदयादर्धं भूमिश्वन्यासु हीयते ॥ १३ ॥
पञ्चभागप्रमाणं तु सच्छाद्यं नवमं तलम् ।
वेदिकाया अधश्छोद्यं¹² सार्धभागत्रयोन्मितम् ॥ १४ ॥
कण्ठेन युक्तं कर्तव्यं वेदिका पिहिता यथौ¹⁴ ।
तस्याः कण्ठे(ण्ठो) विधातव्यस्तन्मध्ये सार्धभागिकः ॥ १५ ॥
वेदिकाविस्तरः कार्यो भागांस्तंर्धसप्तमान्¹⁵ ।
वेदिकोपरि घण्टा च सार्धभागांश्चतुर्दश ॥ १६ ॥
भागद्वयं सपादं तु कण्ठः पट्टं तु पञ्चभिः ।
चतुर्भिंश्च द्वितीयं च तृतीयं च त्रिभिस्ततः ॥ १७ ॥
१ द. सर्वेऽपि भागिकाः । २ क. ᵒत्तिᵒ । ३ क. ᵒभᵒ । ४ क. ᵒयो । ५ द. भद्रभद्रे ।
६ क. यो । ७ क. ᵒगोᵒ । ८ द. ख. ᵒयं । ९ द. ख. ᵒत्काᵒ १० क. ग । ११ द. ख.
भागः पादविवर्जितः । १२ क. स्थाप्यं साᵒ । १३ क. ᵒर्धंᵒ । १४ द. ख. ᵒथा शोभं उदयार्द्धवती ।
१५ द. ख. भागानत्राᵒ । १६ द. ख. ᵒगंᵒ । १७ द. ᵒस्तु ।

राजगृहं नाम त्रिंशोऽध्यायः । १६५
सद्मशीर्षश्च¹ दातव्यो यथाशोभं यथारुचि ।
क्षेत्रभागसमः कार्यः कलशश्चूलिकावधेः ॥ १८ ॥
उदयार्धेन भूमेः स्युरन्तराणि तलानि च ।
यथाशोभं तु कर्तव्यं पीठं तस्य सुशोभितम् ॥ १९ ॥
सार्धभागद्वयं चास्य कार्या खुरघरण्डिका² ।
जङ्घा भागचतुष्कं च ततश्छाद्यं प्रयोजयेत् ॥ २० ॥
भागद्वयं च पादोनं छाद्यपिण्डः प्रकीर्तितः ।
निर्गमोऽस्य चतुर्भागो³ हंसाख्यस्तस्य चोपरि ॥ २१ ॥
पादोनभागं कर्तव्यं⁴ ततश्छाद्यं द्वितीयकम् ।
जङ्घा भूमिचतुष्केण प्रासादस्य प्रकल्पयेत् ॥ २२ ॥
चतुर्थभूमिकामूर्ध्नि ततो मुण्ड⁵(न्) निवेशयेत् ।
क्षर्ण⁶क्षणप्रवेशेन कार्याः शेषास्तु भूमिकाः ॥ २३ ॥
वेदिका च यथोक्ता स्यात् सघण्टा कलशान्विता ।
रेखाशुद्ध्या⁷ च कर्तव्या मुण्डाः सर्वे यथायथम् ॥ २४ ॥
अर्घोदयं⁹ त्रिधा कृत्वा तृतीयं दशधा भजेत् ।
वामनश्चातपत्रश्च कुबेरो भ्रमरावली ॥ २५ ॥
हंसपृष्ठो महाभोगी नारदः शम्बुको जयः ।
अनन्तो दशमस्तेषां विधायक्वशादमी⁸ ॥ २६ ॥
विधातव्याः स्थपतिभिर्मुण्ड¹⁰रेखाप्रसिद्धये ।
तमङ्गवेदिकाजालमत्तवारणशोभितम् ॥ २७ ॥
वितर्द्दिनिर्य्यूह¹¹युतं चन्द्रशालाविभूषितम् ।
कर्माढ्यं बहुचित्रं च कुर्वीत पृथिवीजयम् ॥ २८ ॥
प्रासादाश्च महान्तो ये विधेयास्ते समोदयाः ।
अर्घोदयेन लघवो ह्यवाको(को)णादयं क्रमः¹² ॥ २९ ॥
१ क. ॰प्त॰ । २ द. ख. खुखरंडिका । ३. द. ख. निर्गमो स्याच्चतु॰ । ४ द. ख. पादोन
नाग क॰ । ५ द. ख. मंडा नि॰ । ६ क. ॰णं । ७ द. ख. ॰शुच्या । ८ द. ख. मदाः । ९ द.
ख. अर्थो॰ । १० द. ख. ॰र्म॰ । ११ द. ख. ॰र्व्यू॰ । १२ द. ख. घटवो ह्यवाकाणादयं ।

१६६ समराङ्गणसूत्रधारे।
भूम्यष्टकादभ्युदयः क्षेत्रविस्तारसम्मितः ।
यतस्तव वधे प्रोक्तः प्रासादोऽन्यद् विभूषणम् (?) ॥ ३० ॥
बहवो निकरा येषु प्राङ्गणं तेषु दीयते ।
रेखायां प्रथमायां वा द्वितीयायामथापि वा ॥ ३१ ॥
तृतीयायां वा रेखायां तत्र संवरणाः स्मृताः ।
अयं भूम्युदयः कार्यः क्षेत्रे दशविभागिके ॥ ३२ ॥
न्यूनाधिकविभक्ते तु कार्यः स्यादनुसारतः ।
मुक्तकोणस्य लक्ष्माथ प्रक्रमागतमुच्यते ॥ ३३ ॥
चतुरश्रीकृते क्षेत्रे भागद्वादशकाङ्किते ।
भागश्चतुष्टो(ष्को) मध्येऽस्य चतुर्द्वा(र्ध)रविभूषितः ॥ ३४ ॥
भागेन च ततोऽलिन्दो धरद्वादशकान्वितः ।
तद्वद् द्वितीयालिन्दोऽपि विंशत्या धारितो धरैः ॥ ३५ ॥
तृतीयश्च धरैरष्टाविंशत्यालिन्दको भवेत् ।
षट्त्रिंशता धरैर्युक्तः कार्योऽलिन्दश्चतुर्थकः ॥ ३६ ॥
चतुश्चत्वारिंशता स्याद् धरैर्युक्तश्च पञ्चमः ।
भागार्धं कारयेद् भित्तिं सार्धं भागं विमुच्य तु ॥ ३७ ॥
भागत्रयं ततः कुर्यात् प्राग्ग्रीवं दैर्घ्यविस्तृतौ ।
विस्तृतौ निर्गमे चैषां भद्रं भागेन कल्पयेत् ॥ ३८ ॥
भागिकं निर्गतं तस्मान्मध्येऽन्यद् भद्रमस्य हि ।
भागनिर्गमविस्तारं दिक्षु सर्वास्र्वयं विधिः ॥ ३९ ॥
चतुःपञ्चाशता स्तम्भैरेकैकं भद्रमन्वितम् ।
मध्ये वास्य चतुश्चत्वारिंशं स्तम्भशतं भवेत् ॥ ४० ॥
षोडशाभ्यधिका च स्याद् भद्रस्तम्भशतद्वयी ।
एवं धराणां सर्वेषां भवेत् षष्ठं शतत्रयम् ॥ ४१ ॥
पृथ्वीजयवदत्रापि शेषनिर्माणमिष्यते ।
तृतीयभूमिकामूर्ध्नि निर्गमेष्वखिलेष्वपि ॥ ४२ ॥
१ द. ख. भागं चतुष्ट्रो म॑ । २ द. ख. चतुर्द्वारवि॑ ।

राजगृहं नाम त्रिंशोऽध्यायः । १६७
प्राङ्गणानि विधेयानि विशेषोऽत्रैष कीर्तितः ।
सर्वतोभद्रसंज्ञेऽथ शत्रुमर्दननामपि (नि)$^१$ ॥ ४३ ॥
अयमेव विधिः कार्यो मुण्डरेखाप्रसिद्धये ।
श्रीवत्सस्यापि मध्ये स्यात् स्तम्भाग्रं मुक्तकोणवत् ॥ ४४ ॥
सार्धं भागं परित्यज्य भागत्रितयविस्तृतम् ।
कर्णप्राग्ग्रीवमेतस्य भागेन च विनिर्गतम् ॥ ४५ ॥
भद्रं तस्यापि कर्तव्यं भागविस्तारनिर्गमम् ।
मुक्तकोणवदस्यापि मध्यभद्रं विधीयते ॥ ४६ ॥
अयं विधिः समग्रासु दिक्षु शेषं तु पूर्ववत् ।
प्रतिभद्रं धरास्त्रिंशद् भवन्त्यस्य दृढाः शुभाः ॥ ४७ ॥
शतं विंशमिदं (सर्व) धराणामिह कीर्तितम् ।
एवं समस्तस्तम्भानां चतुःषष्ठं शतद्वयम् ॥ ४८ ॥
सर्वतोभद्रसंज्ञस्य लक्ष्मेदानीं प्रचक्ष्महे ।
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥ ४९ ॥
भागिकः स्याच्चतुष्कोऽस्य चतुःस्तम्भविभूषितः ।
स्तम्भैर्द्वादशभिर्युक्तः प्रथमः स्यादलिन्दकः ॥ ५० ॥
स्तम्भविंशतिसंयुक्तो द्वितीयः स्यादलिन्दकः ।
$^३$स्यादष्टाविंशतिस्तम्भस्तृतीयः स्याप्य(द)लिन्दकः ॥ ५१ ॥
षट्त्रिंशता चतुर्थः स्यादलिन्दो भूषितो धरैः ।
पञ्चमः स्याच्चतुश्चत्वारिंशता भूषितो धरैः ॥ ५२ ॥
द्वापञ्चाशद्धरैः षष्ठः सर्वेऽप्येतेऽस्य भागिकाः ।
भागार्धं शस्यते भित्तिः सर्वतः सुदृढा घना ॥ ५३ ॥
सार्धभागं परित्यज्य भागत्रितयविस्तृतः ।
कर्णप्राग्ग्रीवकश्च स्याद् भागमेकं च निर्गमः ॥ ५४ ॥

१ द. ख. ॰नामपि । २ द. ख. मं । ३ द. ख. स्तंभविंशति संयुक्त स्या॰ । द. ख. ॰यस्या॰ । ४ द. ख. ॰शद्धरः । ५ द. ख. ॰प्येतम्य ।

१६८ समराङ्गणसूत्रधारे
भद्रमस्यापि कर्तव्यं भागनिर्गमविस्तृतम् ।
मध्ये^१ भद्रं विधातव्यं भागद्वयविनिर्गतम् ॥ ५५ ॥
अस्यापि भद्रं^२ मध्ये स्याद् भागत्रितयविस्तृतम् ।
भागिको निर्गमश्चास्य तदन्तर्भागनिर्गतम् ॥ ५६ ॥
भागविस्तार^३संयुक्तं भद्रमन्यत् प्रकल्पयेत् ।
दिक्षु सर्वास्र्वयं^४ प्रोक्तो विधिर्भद्रप्रकल्पने^५ ॥ ५७ ॥
स्तम्भानामस्य कर्तव्यं मध्ये षण्णवतं शतम् ।
भद्रेष्वेषु च स^६र्वेषु भवेत् षष्ट्यधिकं शतम् ॥ ५८ ॥
समेन प्रविभागेन स्तम्भानामेकसङ्ख्यया ।
इत्थं समस्तस्तम्भानां षट्पञ्चाशं शतत्रयम् ॥ ५९ ॥
किन्तु जङ्घा भवेदस्य भूमिकात्रितयोन्मिता ।
शत्रुमर्दनसंज्ञस्य धाम्नो लक्ष्माथ कथ्यते ॥ ६० ॥
पृथ्विजयसमं मध्ये भित्तिश्चापि तथाविधा ।
सार्धं भागं परित्यज्य भागेनायतविस्तृतम् ॥ ६१ ॥
भद्रं विदध्यात् तन्मध्ये भागत्रितयविस्तृतम् ।
भद्रमेवं विधातव्यं भागत्रितयनिर्गतम्^१० ॥ ६२ ॥
पार्श्वयोर्भागिकं भद्रमायत्यां (त्या) विस्तरेण च ।
भागत्रितयविस्तारं भागेनैकेन निर्गमम् ॥ ६३ ॥
मध्यभद्रं^११ ततोऽपि स्याद् भागेनायतविस्तृतम् ।
क्रमोऽयं दिक्षु सर्वासु विधातव्योऽस्य सिद्धये ॥ ६४ ॥
ऊर्ध्वं पृथ्विजयस्येव कार्यमस्यापरं पुनः ।
प्रतिभद्रं चतुश्चत्वारिंशत्स्तम्भसमन्वितम् ॥ ६५ ॥
मध्ये स्तम्भशतं^१२ चास्य^१३ विधेयं सुदृढं शुभम् ।
षट्सप्ततिस्तम्भशतद्वयमस्य भवेदिति ॥ ६६ ॥

१ द. ख. कर्णमध्ये । २ द. ख. क. भद्रं° । ३ द. ख. °स्तं° । ४ द. ख. °स्वि° ।
५ द. ख. °द्रं प्रकल्पते । ६ द. ख. भद्रेष्वेवस्य स° । ७ द. ख. पृष्टं । ८ इयं पंक्ति द. ख.
प्रतिद्वये नास्ति । ९ द. ख. क. °वं । १० द. ख. निर्गमं । ११ द. ख. भद्रं भद्रं तं° । १२ द.
ख, प्रतिद्वये शतं इति पदं नास्ति । १३ द. ख. भाग्यं ।

राजगृहं नाम त्रिंशोऽध्यायः । १६९
पञ्चानामपि चैतेषां हस्ताष्टशतमुत्तमम् ।
मानमुत्सेधविस्तारात् कर्तव्यं श्रियमिच्छता ॥ ६७ ॥
मध्यमाधमयोर्मानं² कीर्तितं पृथिवीजये ।
राज्ञः क्रीडार्थमन्यच्च कथ्यते गृहपञ्चकम् ॥ ६८ ॥
क्षोणीविभूषणं त्वाद्यं पृथिवीतलकं परम् ।
प्रतापवर्धनं चान्यच्छ्रीनिवासं ततोऽपि च ॥ ६९ ॥
लक्ष्मीनिवाससंज्ञं च पञ्चमं परिकीर्तितम् ।
चतुरश्रीकृते क्षेत्रे दशभागैर्वि³भाजिते ॥ ७० ॥
चतुष्को भागविस्तीर्णो मध्ये कार्यश्चतुर्धरः ।
बहिश्च भागिकोऽलिन्दस्तदन्तें⁵शत्रयार्यताः ॥ ७१ ॥
कर्णप्रासादकाः कार्या भागत्रितयविस्तृताः ।
तेषां षड्दारुकं मध्ये भित्तिर्भागार्धसम्मितौ ॥ ७२ ॥
तद्बहिर्भागनिष्क्रान्तो भद्रे भागं च विस्तृतः ।
प्राग्रीवत्रयसंयुक्तो भागिकालिन्दवेष्टितः ॥ ७३ ॥
अर्धभागिकभित्त्या च चतुष्को वेष्टितो भवेत् ।
प्रासादोऽयं मनोहारी भवेदवनिशेखरः ॥ ७४ ॥
चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते ।
चतुष्को भागिको मध्ये बाह्यालिन्दौ च भागिकौ ॥ ७५ ॥
नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् ।
षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥ ७६ ॥
ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः⁶ ।
भद्रे भांगायतो भागविनिष्क्रान्तश्चतुर्दिशम् ॥ ७७ ॥
चतुष्को भागिकांऽलिन्दवेष्टितश्च विधीयते ।
अस्य भद्रत्रयं कार्यं भागविस्तारनिर्गमम् ॥ ७८ ॥
१ द. ख. मानस्तुबोधवि° । २ द. ख. मध्यासाधनयोगानि । ३ द. ख. ॰गवि° । ४ क. तृ° ।
५ द. ख. ॰ताः । ६ द. ख. यद्वा । ७ द. ख. ॰त्रि° । ८ द. ख. ॰तोऽपि हि । ९ द. ख. भो° ।
१० क. ॰को° ।
वा. २२

१७० समराङ्गणसूत्रधारे
अर्धभागिकभित्त्या च वेष्टितं तद् विधीयते ।
कर्णे कर्णेस(ऽस्य) विस्तीर्णे द्वे भद्रे भागनिर्गते ॥ ७९ ॥
प्रासादमेवं भुवनतिलकं परिचक्षते ।
चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते ॥ ८० ॥
चतुष्को भागिको मध्ये चतुःस्तम्भो विधीयते ।
तद्वहिर्भागिकोऽलिन्दो द्वितीयोऽपि च भागिकः ॥ ८१ ॥
नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् ।
षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥ ८२ ॥
ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः ।
भद्रे भागायतो भद्रविनिष्क्रान्तश्चतुर्धरः ॥ ८३ ॥
चतुष्को³ भागिकालिन्दद्वयेन परिवेष्टितः ।
त्रिभागविस्तृतं भद्रं तद्वहिर्भागनिर्गतम् ॥ ८४ ॥
भागिकं प्रतिभद्रं च कुर्यादुभयतः समम् ।
भागार्धं बाह्यतो भित्तिर्भद्रस्य परितो भवेत् ॥ ८५ ॥
विधिरेष विधातव्यो दिक्ष्वेवं चतसृष्वपि ।
विलासस्तबको नाम प्रासादोऽयं प्रकीर्तितः ॥ ८६ ॥
कर्णप्राग्ग्रीवकौ द्वौ द्वौ शालाप्राग्ग्रीवकौ यदा ।
स्यातामस्य तदा कीर्त्तिं⁵पताकः परिकीर्तितः⁴ ॥ ८७ ॥
अस्यैव पीठे निर्मुक्तशां⁶लाभिः परितोऽष्टभिः ।
अन्योन्यशालांसंबद्धे यदासावेव दीयते⁹ ॥ ८८ ॥
कर्णप्रासादकोपेतः कोणैः शालोज्झितैर्युतः ।
प्रासादसुन्दरो ज्ञेयस्तदा भुवनमण्डनः ॥ ८९ ॥
एते प्रोक्तास्तलच्छन्दा जङ्घासंवरणादिकम् ।
भूमिमानादिकं यच्च तत् पृथ्वीजयैवद् भवेत् ॥ ९० ॥

१ द. ख. ॰ष्ठश्च । २ द. ख. यदा॰ । ३ द. ख. ॰ष्के । ४ द. ख. ॰र्तिः । ५ द. ख.
॰तः ॥ कीर्तिपताकः ॥ ६ द. ख. ॰मा॰ । ७ द. ख. ॰तोवृते । ८ द. ख. ॰ल॰ । ९ द. ख.
॰द्धे षटासावेतदीयते । १० द. ख. ॰र्णीः । ११ द. ख. ॰ष्ठि॰ । १२ द. ख. ॰क्तावल॰ । १६ द.
ख. ॰नामा॰ । १४ द ख. पुष्टिंजं; क, स्तम्मेजं ।

राजगृहं नाम त्रिंशोऽध्यायः । १७१
इदानीं कथ्यते लक्ष्म क्षोणीभूषणवेश्मनः ।
पञ्चपञ्चाशता हस्तैः कल्पिते चतुरश्रके ॥ ९१ ॥
विभक्ते चाष्टभिर्भागैश्चतुष्को भागिकः स्मृतः ।
चतुर्भिरन्वितः स्तम्भैरालिन्दश्चास्य भागिकः ॥ ९२ ॥
युक्तो द्वादशभिः स्तम्भैर्विंशत्या च द्वितीयकः ।
स्यादष्टाविंशतिधरस्तृतीयश्चाप्यलिन्दकः ॥ ९३ ॥
भित्तेरप्यर्धभागेन सार्धं भागं विमुच्यते ।
भागपञ्चकविस्तीर्णं भद्रं भागेन निर्गतम् ॥ ९४ ॥
तन्मध्यभद्रमन्यच्च भागत्रितयविस्तृतम् ।
भागेन निर्गतं कार्यं भद्रमन्यत् ततोऽपि च ॥ ९५ ॥
भागेन विस्तृतं कार्यं भागेनापि च निर्गतम् ।
दिक्षु सर्वासु कर्तव्यो विधिरेषोऽस्य सिद्धये ॥ ९६ ॥
मध्यस्तम्भैश्चतुःषष्ट्या संयुक्तं सारदारुजैः ।
प्रतिभद्रं घरैः कार्यमष्टादशभिरन्वितम् ॥ ९७ ॥
षट्त्रिंशं शतमेवं स्यात् स्तम्भानामिह सर्वतः ।
चतुर्द्वारमिदं कार्यं यशःश्रीकीर्तिवर्धनम् ॥ ९८ ॥
पृथिवीतलकस्याथ लक्षणं परिकीर्त्यते ।
चत्वारिंशत्करे क्षेत्रे भागैर्भक्तेऽर्धषष्ठकैः ॥ ९९ ॥
भागिकः स्याच्चतुष्कोऽन्तश्चतुःस्तम्भविभूषितः ।
अलिन्दोऽपि च भागेन स्तम्भैर्द्वादशभिर्युतः ॥ १०० ॥
विंशत्या च द्वितीयोऽपि भित्तिः स्यादस्य पादिका ।
कर्णे प्रासादको भागैस्त्रिभिः स्यान्निर्गतायतः ॥ १०१ ॥
अस्य भद्रद्वयं कार्यं भागनिर्गतविस्तृतम् ।
कर्णप्रासादयोर्मध्ये भागपञ्चकविस्तृतम् ॥ १०२ ॥
१ द. ख. ॰र्त्तिं । २ क. शः कीर्त्तिविव । ३ द. ख. क्षोणी भूषणः पृथिं । ४ क. ॰र्द्वि॰
५ द. ख. थ । ६ द. ख. ॰द्वं च यत्कार्यं भागे निं ।

१७२ समराङ्गणसूत्रधारे
भागेन निर्गतं कार्यं भद्रं तस्यापि मध्यतः ।
भागत्रितयविस्तीर्णं भागेनैकेन निर्गतम् ॥ १०३ ॥
भद्रमस्यापि मध्येऽन्यद् भागेनायतनिर्गतम् ।
स्तम्भाः षट्त्रिंशदन्तः स्युर्भद्रेष्वष्टौ शतद्वयम् ॥ १०४ ॥
अथातः श्रीनिवासस्य लक्षणं सम्प्रचक्ष्महे ।
पृथ्वीतिलकवन्मध्यमेतस्य परिकीर्त्यते ॥ १०५ ॥
सपादं भागमुत्सृज्ये भागत्रितयविस्तृतम् ।
भागेन निर्गतं चास्य भद्रमाद्यं प्रकल्पयेत् ॥ १०६ ॥
तस्यापि मध्यवर्त्तन्द्यद् भागनिर्गतविस्तृतम् ।
अन्वितं दशभिः स्तम्भैः सुदृढैस्तद् विधीयते ॥ १०७ ॥
सर्वासपि च दिक्ष्वेवं विधेया भद्रकल्पना ।
अस्य षट्सप्ततिः स्तम्भाः भवन्त्येकत्र सङ्ख्यया ॥ १०८ ॥
प्रतापवर्धनस्याथ लक्ष्म साम्प्रतमुच्यते ।
पञ्चविंशतिहस्ताङ्के सार्धभागत्रयाङ्किते ॥ १०९ ॥
मध्ये चतुष्को भागेन चतुर्भिः सम्भृतो धरैः ।
अलिन्दो भागिकश्चास्य स्तम्भद्वादशकान्वितः ॥ ११० ॥
पादिका भित्तिरेतस्य भद्रं चास्य प्रकल्पयेत् ।
भागनिर्गमविस्तारं चतुःस्तम्भविभूषितम् ॥ १११ ॥
विधिरेष समग्रासु दिक्षु कार्योऽस्य सिद्धये ।
स्तम्भैर्द्वात्रिंशता युक्तो बहिरन्तरयं भवेत् ॥ ११२ ॥
धराणां चैव सर्वेषां चतुःषष्टिः प्रकल्पना ।
अथ लक्ष्मीविलासस्य सम्यग् लक्ष्माधुनोच्यते ॥ ११३ ॥
प्रतापवर्धनस्येव मध्यमस्य प्रकल्पयेत् ।
प्रतापवर्धनसमं सर्वतोऽप्येतदीरितम् ॥ ११४ ॥
१ द. ख. 'दन्तस्य भं' । २ क. कल्पते । ३ क. °ष्ट । ४ द. ख. ॰र्त्य' । ५ द. ख. संसृतो ।
६ द. ख. आं । ७ द. ख. कार्यस्य । ८ द. ख. इयं पंक्तिर्नास्ति । ९ क. तो ।

राजगृहं नाम त्रिंशोऽध्यायः । १७३
किन्त्वस्य पार्श्वभद्राणि भद्राणामेव कारयेत् ।
कोणेष्वपि च भद्राणि पार्श्वयोरुभयोस्तथा¹ ॥ ११५ ॥
भागंस्य(श्च ) निर्गमोऽप्येषां विशेषोऽस्मादयं मतः ।
भद्रमस्य दशस्तम्भैर्मध्यं षोडशभिर्धरैः ॥ ११६ ॥
चतुर्द्वारं भवेदेतदिच्छया क्षणमध्यगम् ।
द्वारमन्यद् विधातव्यं स्वपदे स्यात् सुशोभितम् ॥ ११७ ॥
भूमिभिः सार्धषष्ठीभिर्विधेयः क्षोणिभूषणः ।
अर्धाष्टमीभिश्च भवेत् पृथ्वोतिलकसंज्ञकः ॥ ११८ ॥
स्यात् सार्धपञ्चमीभिस्तु श्रीनिवासोऽत्र भूमिभिः ।
लक्ष्मीविलाससंज्ञोऽर्धपञ्चमीभिर्विधीयते ॥ ११९ ॥
प्रतापवर्धनाख्योऽर्धचतुर्थीभिर्विधीयते ।
राज्ञां पृथ्वीजयादीनि निवासभवनानि च ॥ १२० ॥
क्षोणीविभूषणादीनि विलासभवनानि च ।
यान्युक्तानि निवासाय विलासाय च भूभृताम् ॥ १२१ ॥
तेषां पृथ्वीजयादीनां द्वारमानमथोच्यते ।
चतुःपञ्चाशदंशो यो विस्तृतः सकरत्रयः ॥ १२२ ॥
स द्वारस्योदयः प्रोक्तस्तदर्धेनास्य विस्तृतिः ।
स्वोदयस्य त्रिभागेन पिण्डः स्तम्भेषु शस्यते ॥ १२३ ॥
स्यात् सप्तविंशतितमः सपादः सचतुष्करः ।
गृहभागो भवेद् भूमिः प्रथमा राजवेश्मनाम् ॥ १२४ ॥
भूच्छ्राये नवधा भक्ते तदंशकचतुष्टयम् ।
निर्गमश्छाद्यकस्यांशद्वयं पादोनमुच्छ्रयः ॥ १२५ ॥
तथान्तरावणी कार्या छाद्यकोच्छ्रायनिर्गता ।
हीरग्रहणपिण्डार्धबाहुल्या सा प्रशस्यते ॥ १२६ ॥
१ द. ख. इयं पंक्ति र्नास्ति । २ द. ख. भागास्यान्नि° । ३ द. ख. °म्भं म° । ४ द. ख.
°र्धमष्टाभि° । ५ द. ख. °थ्विं° । ६ द. ख. °तितमतः ।

१०४ समराङ्गणसूत्रधारं
तस्याः खमेव बाहल्यं पादोनं विस्तृतिः स्मृता ।
अन्तरार्वाणकातुल्यो मदलाया विनिर्गमः ॥ १२७ ॥
स्वनिर्गमात् तथा चास्याः सपादः स्यात् समुच्छ्रयः ।
भूम्युच्छ्रयनवांशस्य पादोऽस्याः पिण्डमिष्यते ॥ १२८ ॥
भूनवांशस्त्रिभागोनो मदलायाश्च विस्तृतिः ।
†लुमामूलस्य स्तम्भार्धं विस्तारः परिकीर्तितः ॥ १२९ ॥
तत्तत्र्यंशादग्रविस्तीर्णा मूले साष्टांशयुग् भवेत् ।
तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमा ॥ १३० ॥
आध्माता चेत्यमूः प्रोक्ता लुमाः सप्त मनीषिभिः ।
ऋजुः सा लम्बिनी तासामाध्माता कर्णगा स्मृता ॥ १३१ ॥
अन्तराले क्रमेण स्युः पञ्चान्याः परिकीर्तिताः ।
स्तम्भे निदध्यान्मदलां छाद्यं धर्तुं दृढां शुभाम् ॥ १३२ ॥
स्तम्भाभावे पुनर्न्यस्येत् कुड्यपट्टेऽपि तां सुधीः ।
सप्त पञ्चाथवा तिस्रो मल्लच्छाद्ये लुमाः स्मृताः ॥ १३३ ॥
कोणेष्वेता इमाभ्योऽन्याः कर्तव्याः प्राञ्जलाः समाः ।
छाद्ये कर्णात् क्वचित् कार्या मकराननभूषिताः ॥ १३४ ॥
तेऽपि विद्याधरोपेताः क्वचित् सगजतुण्डिकाः ।
सकुम्भिकस्य स्तम्भस्य प्रविभज्योदयं त्रिधा ॥ १३५ ॥
तत्र भागद्वयं कुर्याद् भागानर्धचतुर्थकान् ।
तत्र पादोनभागेन राजितासनकं भवेत् ॥ १३६ ॥
ततः सोल्कलका वेदी साङ्घ्रिभागा विधीयते ।
कूटागारसमांशार्धं कार्योंऽत्रासनपट्टकः ॥ १३७ ॥
स स्यादभीष्टो(ष्ट)विस्तारो भागोच्चं मत्तवारणम् ।
स्वोदयस्य त्रिभागेन तिर्यक् कार्योंऽस्य निर्गमः ॥ १३८ ॥
१ द. ख. ॰ल्यां । २ द. ख. ॰ना° । ३ द. ख. ॰यमयां सस्या पादोश्या° । ४ द. ख.
स्या । ५ द. ख. ॰न्या यः प्र° । ६ द. ख. ॰ले । ७ द. ख. सुना । ८ द. ख. ॰न्यो° ।
९ द. ख. ॰द्य । १० द. ख. तातः सोत्कालका वेदी सांहि । ११ द. ख. कूट्राकार समो सार्द्ध
कार्यों प्रा° । १२ द. ख. ॰भीष्टे विस्तारा° ।
† 'लुपा' इति शिल्पशास्त्रे प्रसिद्धिः ।

यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १७५
रूपकैः करणायाभिः(?) सुपुत्रैरपि शोभितम् ।
वेदिकादिकमप्यस्य रूपपत्राचितं² शुभम् ॥ १३९ ॥
आयसीभिः शलाकाभिः कीलकैश्च दृढीकृतम् ।
एतानि पञ्चदशराजनिवेशनानि
पृथ्वीजयप्रभृति यानि निरूपितानि ।
यो लक्षणेन सहितं परिमाणमेषां
जानाति तस्य नृपतिः परितोषमेति ॥ १४० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
राजगृहं नाम त्रिंशोऽध्यायः ।

अथ यन्त्रविधानं नामैकत्रिंशोऽध्यायः ।
भ्राम्यद्दिनेशशशिमण्डलचक्रशत्सं⁴ (स्त)-
मेतज्जगत्त्रितययन्त्रमलक्ष्यमध्यम् ।
भूतानि बीजमखिलान्यपि सम्प्रकल्प्य
यः सन्ततं भ्रमयति स्मरजित् स वोऽव्यात्³ ॥ १ ॥
यन्त्राध्यायमध ब्रूमो यथावत् प्रक्रमागतम् ।
धर्मार्थकाममोक्षाणां यदेकमिह कारणम् ॥ २ ॥
यदृच्छया प्रवृत्तानि भूतानि स्वेन वर्त्मना ।
नियम्यास्मिन् नयति यत् तद् यन्त्रमिति कीर्तितम् ॥ ३ ॥
स्वरसेन प्रवृत्तानि भूतानि स्वमनीषया ।
कृतं यस्माद् यमयति तद्वा यन्त्रमिति स्मृतम् ॥ ४ ॥
तस्य बीजं चतुर्धा६ स्यात् क्षितिरापोऽनलोऽनिलः ।
आश्रयत्वेन चैतेषां वियदप्युपयुज्यते ॥ ५ ॥

१ द. ख. ॰णैरपि च शो॰ । २ द. ख. पात्रान्वितं । ३ ॰श्वि॰ । ४ क. क्र. । ५ द.
ख. ॰ध्यात् । ६ द. ख. ॰र्था ।

१७६ समराङ्गणसूत्रधारे
भिन्नः सूतैश्चैकै(यै)रुक्तस्ते च सम्यङ् न जानते ।
*प्रकृत्या पार्थिवैः सूतस्ला(स्त्रा)यात् †तत्र क्रिया भवेत् ॥ ६ ॥
पार्थिवत्वादयम्तो न कदाचिद् विभिद्यते ।
द्रव्यत्वादग्निजत्वं हि यद्यस्य परिकल्प्यते ॥ ७ ॥
तदा विरोधो नैवास्य पावकेनोपपद्यते ।
गन्धाद् वंहेरविरोधाच्च स्थिता पार्थिवता बलात् ॥ ८ ॥
आत्मैव बीजं सर्वेषां प्रत्येकम्पराण्यपि ।
एवं भेदा भवन्त्येषां भूयांसः सङ्करान्मियः ॥ ९ ॥
स्वयंवाहकमेकं स्यात् सकृत्प्रेर्यं तथापरम् ।
अन्यदन्तरितं वाह्यं वाह्यमन्यत्त्वदूरतः ॥ १० ॥
स्वयंवाह्यमिहोत्कृष्टं हीनं स्यादितरत् त्रयम् ।
तेषु शंसन्ति दूरस्थमलक्ष्यं निकटस्थितम् ॥ ११ ॥
यद्यु(दु)त्पन्नमलक्ष्यं यदेकं बहुषु साधकम् ।
तदन्यदपि शंसन्ति यस्माद् विस्मयकृन्नृणाम् ॥ १२ ॥
एका स्वीया गतिश्चित्रे वाह्येऽन्या वाह्यिकाश्रिता ।
अरघट्टाश्रिते कीटे दृश्यते द्वयमप्यदः ॥ १३ ॥
इत्थं गतिद्वयवशाद् वैचित्र्यं कल्पयेत् स्वयम् ।
अलक्षता विचित्रत्वं यस्माद् यन्त्रेषु शस्यते ॥ १४ ॥
अन्यत् स्यादन्तरोत्तप्रे(प्रे)र्यं द्वितीयं मध्यमं त्विदम् ।
द्वयत्रयादियोगेन चतुर्णामपि योगतः ॥ १५ ॥
अंशांशिभावाद् भूतानां सङ्ख्यैर्षामतिरिच्यते ।
यः सम्यगेतज्जानाति स पुमान् भवति प्रियः ॥ १६ ॥
१ क. ॰तै॰ । २ क. ग. ॰श्व। ३ द. ख. ॰य॰ । ४ क. ॰वस्तत्रापां च तत्र । ५ क.
॰भज्यते । ६ द. ख. द्रवत्वादग्नजात्वं । ७ द. ख. द्रहिवि॰ । ८ द. ख. वयवाहकमेतस्या॰ । ९ द. ख.
अभ्यदत्त चित्तं । १० ख. ग. बा॰ । ११ ख. ग. बा॰ । १२ द. ख. ग. ॰त्रदू॰ । १३ क. ॰क्षं ।
१४ द. ख. ॰धं । १५ द. ख. ॰र्थेत्रे । १६ द. ख. ॰ह्यं॰ । १७ ख. ॰रात्प्रेर्यं । १८ द. ख. ॰का॰ ।

  • ‘प्रकृत्या स्वभावेन पार्थिवो भागः बहुलः’ इति, † ‘तत्र उदकतेजोवायूनां क्रिया कार्यं भवेन्’
    इति च टिप्पणमस्ति क. पुस्तके ।

यंत्रविधानं नामैकोनत्रिंशोऽध्यायः । १७७
प्रमदानां नृपाणां च प्रज्ञानां च मतस्य च ।
लाभं ख्यातिं च पूजां च यशो मानं धनानि च ॥ १७ ॥
प्राप्नोति किं किं न पुमान् य इदं वेत्ति तत्त्वतः ।
१गृहमेकं विलासानामाश्रर्यस्य परं पदम् ॥ १८ ॥
२तैरावासभवनं विस्मयस्यैकमास्पदम् ।
यथावद् देवतादीनां रूपचेष्टादिदर्शनात् ॥ १९ ॥
तास्तुष्यन्त्यथ तत्तुष्टिः३ पूर्वैर्धर्मः प्रकीर्तितः ।
नृपादितोषादर्थः स्यादर्थे कामः प्रतिष्ठितः ॥ २० ॥
वित्तैक्यादस्य निष्पत्तिर्मोक्षश्चास्मान्न दुर्लभः ।
पार्थिवं पार्थिवैर्बीजैः पार्थिवं जलजन्मभिः ॥ २१ ॥
तदेव तेजोजनितैस्तँदैव४ मरुदुद्भवैः५ ।
आप्यमाप्यैस्तथा बीजैरानँलै६रानिलैरपि ॥ २२ ॥
वह्निजैश्च मरुज्जातैः पार्थिवैर्वारुणैरपि ।
मारुतं मारुतैराप्यैः पार्थिवैरानलैस्तथा ॥ २३ ॥
वह्निजातेऽपि९ बीजं स्यात् सूतः सोऽपि च वान(नि)ले८ ।
पार्थिवानां भवेद् बीजमाप्यानामपि वारणे(रुणम्) ॥ २४ ॥
इति बीजानि सर्वेषां कीर्तितान्यखिलान्यपि ।
१०कुँड्यंकरणसूत्राणि भारगोलकपीडनम् ॥ २५ ॥
लम्बनं लम्बकारे च चक्राणि विविधान्यपि ।
११अयँस्ताम्रं च तारं च त्रपु संवित्प्रमर्दने ॥ २६ ॥
काष्ठं च चर्म वस्त्रं च स्वबीजेषु प्रयुज्यते ।
उर्दकः कर्तरो यष्टिश्चक्रं अभ्रकस्तथा ॥ २७ ॥
शृङ्गावली च नाराचः स्वबीजान्यौर्वरे१२ विदुः ।
ताप उत्तेजनं स्तोभः क्षोभश्च जलसङ्गजः ॥ २८ ॥
१ द. ख. विशालामा० । २ द. ख. ए० । ३ क. ०ष्टेः । ४ द. ख. ०स्त्वैष त सद्भवेः ।
५ क. मारुतोद्भू० । ६ क. ०नि० ७ द. ख. ग. ०षु । ८ द. ख. वालने । ९ द. ख. ग. भा० ।
१० द. ख. कुरुंव्यरकसू० । ग. उरुंव्यक । ११ द. ख. आप० । १२ क. ०र्व्य० ।
वा. २३

१७८ समराङ्गणसूत्रधारे

एवमाद्यग्निबीजानि पार्थिवस्य प्रचक्षते ।
धारा च जलभारश्च पयसो¹ भ्रमणं तथा ॥ २९ ॥

एवमादीनि भूजस्य जलजानि प्रचक्षते ।
यथोच्छ्रायो यथाधिक्यं यथा नीरन्ध्रतापि च ॥ ३० ॥

अत्यन्तमुर्ध्वगामित्वं स्वबीजान्ययसस्तथा ।
मरुत् स्वभावजो गाढैर्ग्राहकैश्च प्रतीप्सितः ॥ ३१ ॥

हत्याद्यैर्वर्जनाद्यैश्च³ गजकर्णादिभिः कृतः ।
(छा)चाणितो गालितश्चायं बीजं भवति भूमँवे⁶ ॥ ३२ ॥

काष्ठंभै(कृ)²त्तिश्च लोहं च जलजे⁵ पार्थिवं⁴ भवेत् ।
अन्यदम्भस्तदप्यस्तु निर्गूध्व⁷मधस्तथा ॥ ३३ ॥

बीजं स्वकीयं भवति यन्त्रेषु जलजन्मसु ।
तापाद्यं पूर्वकथितं वह्निजं जलजे भवेत् ॥ ३४ ॥

सङ्गृहीतश्च दत्तश्च पूरितः प्रतिनोदितः ।
मरुद् बीजत्वमायाति यन्त्रेषु जलजन्मसु ॥ ३५ ॥

वह्निजातेषु मृत्ताम्रलोहरुक्मादि तद्ग्रहे ।
पार्थिवं कथयन्तीह बीजं बीजविचक्षणाः ॥ ३६ ॥

वह्नेर्वह्निर्भवेद् बीजमाप आपस्तथा भवेत् ।
आद्यैर्हत्यादिभिः प्रोक्तैर्मरुद् गच्छति बीजताम् ॥ ३७ ॥

प्रत्येषकं¹⁰ च जनकं¹¹ प्रेरकं ग्राहकं तथा ।
सङ्ग्राहकं च⁸ भूजातं बीजं स्यादनिलोद्भवैः ॥ ३८ ॥

प्रेरणं चाभिघातश्च विवर्त्तो⁹ भ्रमणं तथा ।
जलजं मारुतोत्थेषु बीजं स्यादिति सम्मतम् ॥ ३९ ॥

सङ्गृहीतस्य तापाद्यैर्यानि पावकजन्मनि ।
प्रकीर्तितानि तान्येव भवन्ति पवनोद्भवैः ॥ ४० ॥


१ द. ख. पा° । २ क. °स्थिता । ३ द. ख. हत्याद्यैर्जननाभैश्च । ४ द. ख. °तले ।
५ द. ख. वृ° । ६ द. ख. °ले । ७ द. ख. °दंतस्तदपाच्च ति° । ८ ख. °ना° । ९ क. °दृग्° ।
१० द. ख. प्रत्येकं । ११ द. ख. °हक्त्वं ।

यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १७९
प्रेरितः सङ्गृहीतश्च जनितश्च समीरणः ।
आत्मनो बीजतां गच्छत्येवमन्यत् प्रकल्पयेत् ॥ ४१ ॥
भूतमेकमिहोद्रिक्तमन्यद्धीनं¹ ततोऽधिकम् ।
अन्यद्धीनतरं चान्यदेवंप्रायै²र्विकल्पितैः ॥ ४२ ॥
नाना भेदा भवन्त्येषां कस्तान् कात्स्न्येन वक्ष्यति ।
निष्क्रिया भूः क्रिया त्वंशे शेषेषु सहजा³ त्रिषु ॥ ४३ ॥
अतः प्रायेण सा जन्या⁴ क्षितावेवं प्रयत्नतः ।
साध्यस्य रूपवशतः सन्निवेशो यतो भवेत् ॥ ४४ ॥
यन्त्राणामाकृतिस्तेन निर्णेतुं नैव शक्यते ।
यथावद्बीजसंयोगः सौश्लिष्टयं श्लक्ष्णतापि च ॥ ४५ ॥
अलक्षता निर्वहणं लघुत्वं शब्दहीनता ।
शब्दे साध्ये तदाधिक्यमशैथिल्यमगाढता ॥ ४६ ॥
वहनीषु समस्तासु सौश्लिष्टयं चास्खलद्द्रुतिः ।
यथाभीष्टार्थकारित्वं लयताला³नुगामिता ॥ ४७ ॥
इष्टकालेऽर्थदर्शित्वं पुनः सम्यक्त्व संवृतिः ।
अनुल्बणत्वं ताद्रूप्यं दाढर्ये मसृणता तथा ॥ ४८ ॥
चिरकालसहत्वं च यन्त्रस्यैते गुणाः स्मृताः ।
एकं बहूनि चालयेद् बहुभिश्चाल्यतेऽपरम् ॥ ४९ ॥
सुश्लिष्टत्वमलक्षत्वं यन्त्राणां परमो गुणः ।
अथ कर्माणि यैन्त्राणां विचित्राणि यथाविधि ॥ ५० ॥
न विस्तरान्न सङ्क्षेपात् साम्प्रतं संप्रचक्ष्महे ।
कस्यचित् सा क्रिया साध्या कालः कस्यापि कस्यचित् ॥ ५१ ॥
शब्दः कस्यापि चोच्छ्रायो रूपस्पर्शौ च कस्यचित् ।
क्रियास्तु¹³ कार्यस्य वशादनन्ताः परिकीर्तिताः ॥ ५२ ॥


१ द. ख. ॰मन्यब्दीजं । २ क. ॰यो विक॰ । ३ द. ख. ॰यं॰ । ४ द. ख. जान्याक्षिण
चेव । ५ ग. ॰ल्या । ६ ग. ॰तत् । ७ द. ख. ॰न्या॰ । ८ क. ॰नं॰ । ९ द. ख. च तद्रूपं
दाढर्यं । १० द. ख. विकराल॰ । ११ द. ग॰ । १२ द. ख. ग. तथाविधिः । १३ द. ख. ॰नु ।

१८० समराङ्गणसूत्रधारे
तीर्यग्दूर्ध्वमधः पृष्ठे पुरतः पार्श्वयोरपि ।
गमनं सरणं पात इति भेदाः क्रियोद्भवाः ॥ ५३ ॥
कालो मुहूर्तकाष्ठाद्यैर्भिन्नो भेदैरनेकधा ।
शब्दो विचित्रः सुखदो रतिकृद् भीषणस्तथा ॥ ५४ ॥
उच्छ्रायस्तु जलस्य स्यात् क्वचिद् भूजेऽपि शस्यते ।
गीतं नृत्यं च वाद्यं च पटहो वंश एव च ॥ ५५ ॥
वीणा च कांस्यतालश्च तृमिला करटापि च ।
यत्किञ्चिदन्यदप्यत्र वादित्रादि विभाव्यते ॥ ५६ ॥
समस्तमपि तद् यन्त्राज्जायते कल्पनावशात् ।
नृत्ये तु नाटकं चोक्ष¹स्ताण्डवं लास्यमेव च ॥ ५७ ॥
राजमार्गश्च देशी च यन्त्रात् सर्वं प्रसिध्यति ।
तथा ²जात्यनुगाश्चेष्टा विरुद्धा यास्तु³ जातितः ॥ ५८ ॥
ताः सर्वा अपि सिध्यन्ति सम्यग्यन्त्रस्य साधनात् ।
भूचराणां गतिर्व्योम्नि भूमौ व्योमचरागमः ॥ ५९ ॥
चेष्टितान्यपि मर्त्यानां तथा भूमिस्पृशामिव ।
जायन्ते यन्त्रनिर्माणाद् विविधानीप्सितानि च ॥ ६० ॥
यथासुरा जिता देवैर्यथा निर्मथितोऽम्बुधिः ।
हिरण्यकशिपुर्दैत्यो नृसिंहेन हतो⁴ यथा ॥ ६१ ॥
धावनं हस्तियुद्धं च गैजानामगडोऽपि च ।
नानाप्रकार(रा) या चेष्टा नानाधारागृहाणि च ॥ ६२ ॥
दोलाकेल्यो विचित्राश्च तथा रतिगृहाणि च ।
चित्रा सेन(ना) च कुथ्यश्च स्वयंवाहकसेवकाः ॥ ६३ ॥
सभाश्च विविधाकाराः सत्या मायाः प्रकल्पिताः ।
एवंप्रायाणि चान्यानि यन्त्रात् सिध्यन्ति कल्पनात् ॥ ६४ ॥
१ क. ॰क्ष्यं । २ द. ख. यां । ३ द. ख. ग. ॰श्च । ४ द. ख. कृतो । ५ द. ख.
राजनां । ६ क. त्रासने च ।

यन्त्रविधानं नामैकात्रिंशोऽध्यायः । १८१
विधाय भूमिकाः पञ्च शय्यां त्वादिसुवि स्थितां ।
प्रतिप्रहरमन्यासु सर्पन्ती याति पञ्चमीम् ॥ ६५ ॥
एवंप्रायाणि चित्राणि सम्यक् सिध्यन्ति यन्त्रतः ।
क्रमेण त्रिंशतावर्त्तं स्थाले दन्ता भ्रमन्त्यसौ ॥ ६६ ॥
तन्मध्ये पुत्रिका क्लृप्ता प्रति नाडिं प्रबोधयेत् ।
वह्नेश्च दर्शनं तोये वह्निमध्याज्जलोद्गतिः ॥ ६७ ॥
अवस्तुनोऽपि वस्तुत्वं वस्तुतोऽपि तथान्यथा ।
निःश्वासेन वियद् याति श्वासेनायाति मेदिनीम् ॥ ६८ ॥
क्षीरोदमध्यगा शय्या प्रतीष्ठाधः फणाभृता ।
गोलश्च सूति(चि)विहितः सूर्यादीनां प्रदक्षिणम् ॥ ६९ ॥
परिभ्राम्यत्यहोरात्रं ग्रहाणां दर्शयन् गतिम् ।
गजादिरूपे रथिकरूपतां गमितः पुमान् ॥ ७० ॥
भ्रान्त्वा नाडिकया तस्याः पर्यन्ते हन्ति भो(यो)जनम् ।
दीपिकापुत्रिका क्लृप्ता क्षीणं क्षीणं प्रयच्छति ॥ ७१ ॥
दीपे तैलं प्रनृत्यन्ती तालगत्या प्रदक्षिणम् ।
यावत् प्रदीयते वारि तावत् पिबति सन्ततम् ॥ ७२ ॥
यन्त्रेण कल्पितो हस्ती न तद् गच्छत् प्रतीयते ।
शुकाद्याः पक्षिणः क्लृप्तास्तालस्यानुगमान्मुहुः ॥ ७३ ॥
जनस्य विस्मयकृतो नृत्यन्ति च पठन्ति च ।
पुत्रिका वा गजेन्द्रो वा तुरगो मर्कटोऽपि वा ॥ ७४ ॥
वलनैर्वर्तनैर्नृत्यंस्तालेन हरते मनः ।
येनैव वर्त्मना क्षेत्रं ध्रियते तेन तत्पयः ॥ ७५ ॥
यात्यायाति पुनस्तद्वद् गर्तान् पुष्करिणीष्वपि ।
फलके कानि(?)तिष्ठन्ति धावन्त्यनुमतानि च ॥ ७६ ॥

१ क. ॰व्याकृत्वा॰ । २ क. ॰ता एवं॰ । ३ द. त्रिंशतोवर्त्ती; ख. ग. त्रिंशते वर्ती । ४ क.
॰तिं॰ । ५ क. ॰तिं॰ । ६ द. ख. ग. ॰ल्ले । ७ क. ॰मृज्यन्ती । ८ द. ख. प्रतिक्षणं । ९ क.
॰र्नं॰ । १० द. ख. वल॑नैर्वर्तनैर्नृत्यंतां । ११ द. ख. ॰र्तां पुं॰ ।

१८२ समराङ्गणसूत्रधारं
घातां(तं) ददति युध्यन्ते निर्यान्त्यशमनावृतम् ।
नृत्यन्ति गायन्ति तथा वंशादीन् वादयन्ति च ॥ ७७ ॥
निरुद्धमुक्तस्य वशान्मरुतो यन्त्रभङ्गिभिः ।
याश्चेष्टा दिव्यमानुष्यस्ता एवात्र न केवलम् ॥ ७८ ॥
दुष्करं यद्यदन्यच्च तत्तद् यन्त्रात् प्रसिध्यति ।
यन्त्राणां घटना नोक्ता गुप्त्यर्थं नाज्ञतावशात् ॥ ७९ ॥
तत्र हेतुरयं ज्ञेयो व्यक्ता नैते फलप्रदाः ।
कथितान्यत्र बीजानि यन्त्राणां घटनो न यत् ॥ ८० ॥
तस्माद् व्यक्तीकृतेष्वेषु न स्यात् स्वार्थो न कौतुकम् ।
वस्तुतः कथितं सर्वं बीजानामिह कीर्तनात् ॥ ८१ ॥
अभ्यूह्यं स्वधिया प्राज्ञैर्यन्त्राणां कर्म यद् यथा ।
यन्त्राणि यानि दृष्टानि कीर्तितान्यत्र तान्यपि ॥ ८२ ॥
नन्यानि यस्मात् तान्यर्तो विज्ञेयान्युपदेशतः ।
एतत् स्वबुद्धयैवास्माभिः समग्रमपि कल्पितम् ॥ ८३ ॥
अग्रतश्च पुनब्रूमः कथितं यत् पुरातनैः ।
बीजं चतुर्विधमिह प्रवदन्ति यन्त्रे-
ष्वाम्भोऽग्निभूमिपवनैर्निहितैर्यथावत् ।
प्रत्येकतो बहुविधं हि विभागBlock: स्या-
न्मिश्रैर्गुणैः पुनरिदं गणनामपास्येत् ॥ ८४ ॥
किमेतस्मादन्यद् भवति भुवने चित्रमपरं
किमन्यद् वा तुष्ट्यै भवति किमु वा कौतुककरम् ।
किमन्यद् वा कीर्तेर्भवनमपरं कामसदनं
किमस्मात् पुण्यं वा किमिव च परीतापशमनम् ॥ ८५ ॥


१ द. ख. न्ददामि । २ द. ख. ॰दीच्छादं । ३ द. ख. ॰त्मा॰ । ४ द. ख. ॰चे॰ ।
५ द. ख. टनेनत् । ६ क. ख. ॰नु । ७ द. ख. तानि च । ८ द. ख. तन्यतो । ९ क.
॰दितोऽस्मा॰ । १० द ख. ॰तः परं । ११ द. ख. ॰ग्निमूर्य्य॰ । १२ क. ॰हं॰ ।

यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८३
एतेऽत्यर्थं प्रीतिदा बीजयोगाः संजायन्ते योजिताः सूत्रधारैः ।
भ्रान्त्या नान्यश्चित्रकृद् दारुक्लृप्तं चक्रं दोलाद्यं पुनः पञ्चमं तत् ॥८६॥
पारम्पर्यं कौशलं सोपदेशं शास्त्राभ्यासो वास्तुकर्मोद्यमो धीः ।
सामग्रीयं निर्मला यस्य सोऽस्मिंश्चित्राण्येवं वेत्ति यन्त्राणि कर्तुम् ॥८७॥
चित्रैर्युक्तं ये गुणैः पञ्चरूपं जानन्त्येनं यन्त्रशास्त्राधिकारम् ।
ये वा कृत्स्नं योजयन्तेऽत्र सम्यक् तेषां कीर्त्तिर्व्या भुवं चावृणोति ॥८८॥
अङ्गुलेन मितमङ्गलपादेनोच्छ्रितं द्विपुटंकं तनुवृत्तम् ।
संविधेयमृजु मध्यगरन्ध्रं श्लिष्टसन्धि दृढताम्रमयं तत् ॥ ८९ ॥
दारवेषु विहङ्गेषु तदन्तः क्षिप्तमुद्गतसमीरवशेन ।
आतनोति विचसन्मृदुशब्दं शृण्वतां भवति चित्रकरं च ॥ ९० ॥
सुश्लिष्टखण्डद्वितयेन कृत्वा सरन्ध्रमन्तर्मुरजानुकारम् ।
ग्रस्तं तथा कुण्डलयोर्युगेन मध्ये पुटं तस्य मृदु प्रदेयम् ॥ ९१ ॥
पूर्वोक्तयन्त्रे विधिनोदरेऽस्य क्षिप्तेऽथ शय्यातलसंस्थमेतत् ।
ध्वनिं ततः सञ्चलनादनङ्गक्रीडारसोल्लासकरं करोति ॥ ९२ ॥
अस्मिञ् शय्यातलविनिहिते मुञ्चति व्यक्तरागं
चित्राञ् शब्दान् मृगशिशुदृशां यान्ति(ति) भीत्येव मानः ।
किञ्चैतासां दयितमभितो निर्भरप्रेमभाजां
प्रौढिं गच्छन्त्यधिकमधिकं मन्मथक्रीडितानि ॥ ९३ ॥
पटहमुरजे वेणुः शङ्खो विपञ्च्यथ काहला
डमरुटिविले वाद्यातोद्यान्यमून्यखिलान्यपि ।
मधुरमधिकं यच्चित्रं च ध्वनिं विदधात्यलं
तदिह विधिना रुद्धोन्मुक्तानिलस्य विजृम्भितम् ॥ ९४ ॥
लघुदारुमयं महाविहङ्गं दृढसुश्लिष्टतनुं विधाय तस्य ।
उदरे रसयन्त्रमादधीतं ज्वलनाधारमधोऽस्य चाति(ग्नि)पूर्णम् ॥९५॥
१ क. °कृ°। २ द. ख. °मे°। ३ द. ख. °हं°। ४ द. ख. ग. °प्र°। ५ द. ख. ग.
°खेऽद्वि°। ६ क. स्फु°। ७ क. मे°। ८ द. ख. °नं°। ९ द. ख. रसयंत्र दधीत।