समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
DevanagariHindipublished726 पृष्ठ
पृष्ठ 233, कुल 726 में से
संदर्भ में पढ़ेंपृष्ठ 233१६८ समराङ्गणसूत्रधारे
१६८ समराङ्गणसूत्रधारे
भद्रमस्यापि कर्तव्यं भागनिर्गमविस्तृतम् ।
मध्ये^१ भद्रं विधातव्यं भागद्वयविनिर्गतम् ॥ ५५ ॥
अस्यापि भद्रं^२ मध्ये स्याद् भागत्रितयविस्तृतम् ।
भागिको निर्गमश्चास्य तदन्तर्भागनिर्गतम् ॥ ५६ ॥
भागविस्तार^३संयुक्तं भद्रमन्यत् प्रकल्पयेत् ।
दिक्षु सर्वास्र्वयं^४ प्रोक्तो विधिर्भद्रप्रकल्पने^५ ॥ ५७ ॥
स्तम्भानामस्य कर्तव्यं मध्ये षण्णवतं शतम् ।
भद्रेष्वेषु च स^६र्वेषु भवेत् षष्ट्यधिकं शतम् ॥ ५८ ॥
समेन प्रविभागेन स्तम्भानामेकसङ्ख्यया ।
इत्थं समस्तस्तम्भानां षट्पञ्चाशं शतत्रयम् ॥ ५९ ॥
किन्तु जङ्घा भवेदस्य भूमिकात्रितयोन्मिता ।
शत्रुमर्दनसंज्ञस्य धाम्नो लक्ष्माथ कथ्यते ॥ ६० ॥
पृथ्विजयसमं मध्ये भित्तिश्चापि तथाविधा ।
सार्धं भागं परित्यज्य भागेनायतविस्तृतम् ॥ ६१ ॥
भद्रं विदध्यात् तन्मध्ये भागत्रितयविस्तृतम् ।
भद्रमेवं विधातव्यं भागत्रितयनिर्गतम्^१० ॥ ६२ ॥
पार्श्वयोर्भागिकं भद्रमायत्यां (त्या) विस्तरेण च ।
भागत्रितयविस्तारं भागेनैकेन निर्गमम् ॥ ६३ ॥
मध्यभद्रं^११ ततोऽपि स्याद् भागेनायतविस्तृतम् ।
क्रमोऽयं दिक्षु सर्वासु विधातव्योऽस्य सिद्धये ॥ ६४ ॥
ऊर्ध्वं पृथ्विजयस्येव कार्यमस्यापरं पुनः ।
प्रतिभद्रं चतुश्चत्वारिंशत्स्तम्भसमन्वितम् ॥ ६५ ॥
मध्ये स्तम्भशतं^१२ चास्य^१३ विधेयं सुदृढं शुभम् ।
षट्सप्ततिस्तम्भशतद्वयमस्य भवेदिति ॥ ६६ ॥
१ द. ख. कर्णमध्ये । २ द. ख. क. भद्रं° । ३ द. ख. °स्तं° । ४ द. ख. °स्वि° ।
५ द. ख. °द्रं प्रकल्पते । ६ द. ख. भद्रेष्वेवस्य स° । ७ द. ख. पृष्टं । ८ इयं पंक्ति द. ख.
प्रतिद्वये नास्ति । ९ द. ख. क. °वं । १० द. ख. निर्गमं । ११ द. ख. भद्रं भद्रं तं° । १२ द.
ख, प्रतिद्वये शतं इति पदं नास्ति । १३ द. ख. भाग्यं ।