समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 239, कुल 726 में से
संदर्भ में पढ़ें१०४ समराङ्गणसूत्रधारं
तस्याः खमेव बाहल्यं पादोनं विस्तृतिः स्मृता ।
अन्तरार्वाणकातुल्यो मदलाया विनिर्गमः ॥ १२७ ॥
स्वनिर्गमात् तथा चास्याः सपादः स्यात् समुच्छ्रयः ।
भूम्युच्छ्रयनवांशस्य पादोऽस्याः पिण्डमिष्यते ॥ १२८ ॥
भूनवांशस्त्रिभागोनो मदलायाश्च विस्तृतिः ।
†लुमामूलस्य स्तम्भार्धं विस्तारः परिकीर्तितः ॥ १२९ ॥
तत्तत्र्यंशादग्रविस्तीर्णा मूले साष्टांशयुग् भवेत् ।
तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमा ॥ १३० ॥
आध्माता चेत्यमूः प्रोक्ता लुमाः सप्त मनीषिभिः ।
ऋजुः सा लम्बिनी तासामाध्माता कर्णगा स्मृता ॥ १३१ ॥
अन्तराले क्रमेण स्युः पञ्चान्याः परिकीर्तिताः ।
स्तम्भे निदध्यान्मदलां छाद्यं धर्तुं दृढां शुभाम् ॥ १३२ ॥
स्तम्भाभावे पुनर्न्यस्येत् कुड्यपट्टेऽपि तां सुधीः ।
सप्त पञ्चाथवा तिस्रो मल्लच्छाद्ये लुमाः स्मृताः ॥ १३३ ॥
कोणेष्वेता इमाभ्योऽन्याः कर्तव्याः प्राञ्जलाः समाः ।
छाद्ये कर्णात् क्वचित् कार्या मकराननभूषिताः ॥ १३४ ॥
तेऽपि विद्याधरोपेताः क्वचित् सगजतुण्डिकाः ।
सकुम्भिकस्य स्तम्भस्य प्रविभज्योदयं त्रिधा ॥ १३५ ॥
तत्र भागद्वयं कुर्याद् भागानर्धचतुर्थकान् ।
तत्र पादोनभागेन राजितासनकं भवेत् ॥ १३६ ॥
ततः सोल्कलका वेदी साङ्घ्रिभागा विधीयते ।
कूटागारसमांशार्धं कार्योंऽत्रासनपट्टकः ॥ १३७ ॥
स स्यादभीष्टो(ष्ट)विस्तारो भागोच्चं मत्तवारणम् ।
स्वोदयस्य त्रिभागेन तिर्यक् कार्योंऽस्य निर्गमः ॥ १३८ ॥
१ द. ख. ॰ल्यां । २ द. ख. ॰ना° । ३ द. ख. ॰यमयां सस्या पादोश्या° । ४ द. ख.
स्या । ५ द. ख. ॰न्या यः प्र° । ६ द. ख. ॰ले । ७ द. ख. सुना । ८ द. ख. ॰न्यो° ।
९ द. ख. ॰द्य । १० द. ख. तातः सोत्कालका वेदी सांहि । ११ द. ख. कूट्राकार समो सार्द्ध
कार्यों प्रा° । १२ द. ख. ॰भीष्टे विस्तारा° ।
† 'लुपा' इति शिल्पशास्त्रे प्रसिद्धिः ।