समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 234, कुल 726 में से
संदर्भ में पढ़ेंराजगृहं नाम त्रिंशोऽध्यायः । १६९
पञ्चानामपि चैतेषां हस्ताष्टशतमुत्तमम् ।
मानमुत्सेधविस्तारात् कर्तव्यं श्रियमिच्छता ॥ ६७ ॥
मध्यमाधमयोर्मानं² कीर्तितं पृथिवीजये ।
राज्ञः क्रीडार्थमन्यच्च कथ्यते गृहपञ्चकम् ॥ ६८ ॥
क्षोणीविभूषणं त्वाद्यं पृथिवीतलकं परम् ।
प्रतापवर्धनं चान्यच्छ्रीनिवासं ततोऽपि च ॥ ६९ ॥
लक्ष्मीनिवाससंज्ञं च पञ्चमं परिकीर्तितम् ।
चतुरश्रीकृते क्षेत्रे दशभागैर्वि³भाजिते ॥ ७० ॥
चतुष्को भागविस्तीर्णो मध्ये कार्यश्चतुर्धरः ।
बहिश्च भागिकोऽलिन्दस्तदन्तें⁵शत्रयार्यताः ॥ ७१ ॥
कर्णप्रासादकाः कार्या भागत्रितयविस्तृताः ।
तेषां षड्दारुकं मध्ये भित्तिर्भागार्धसम्मितौ ॥ ७२ ॥
तद्बहिर्भागनिष्क्रान्तो भद्रे भागं च विस्तृतः ।
प्राग्रीवत्रयसंयुक्तो भागिकालिन्दवेष्टितः ॥ ७३ ॥
अर्धभागिकभित्त्या च चतुष्को वेष्टितो भवेत् ।
प्रासादोऽयं मनोहारी भवेदवनिशेखरः ॥ ७४ ॥
चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते ।
चतुष्को भागिको मध्ये बाह्यालिन्दौ च भागिकौ ॥ ७५ ॥
नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् ।
षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥ ७६ ॥
ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः⁶ ।
भद्रे भांगायतो भागविनिष्क्रान्तश्चतुर्दिशम् ॥ ७७ ॥
चतुष्को भागिकांऽलिन्दवेष्टितश्च विधीयते ।
अस्य भद्रत्रयं कार्यं भागविस्तारनिर्गमम् ॥ ७८ ॥
१ द. ख. मानस्तुबोधवि° । २ द. ख. मध्यासाधनयोगानि । ३ द. ख. ॰गवि° । ४ क. तृ° ।
५ द. ख. ॰ताः । ६ द. ख. यद्वा । ७ द. ख. ॰त्रि° । ८ द. ख. ॰तोऽपि हि । ९ द. ख. भो° ।
१० क. ॰को° ।
वा. २२