समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 244, कुल 726 में से
संदर्भ में पढ़ेंयन्त्रविधानं नामैकत्रिंशोऽध्यायः । १७९
प्रेरितः सङ्गृहीतश्च जनितश्च समीरणः ।
आत्मनो बीजतां गच्छत्येवमन्यत् प्रकल्पयेत् ॥ ४१ ॥
भूतमेकमिहोद्रिक्तमन्यद्धीनं¹ ततोऽधिकम् ।
अन्यद्धीनतरं चान्यदेवंप्रायै²र्विकल्पितैः ॥ ४२ ॥
नाना भेदा भवन्त्येषां कस्तान् कात्स्न्येन वक्ष्यति ।
निष्क्रिया भूः क्रिया त्वंशे शेषेषु सहजा³ त्रिषु ॥ ४३ ॥
अतः प्रायेण सा जन्या⁴ क्षितावेवं प्रयत्नतः ।
साध्यस्य रूपवशतः सन्निवेशो यतो भवेत् ॥ ४४ ॥
यन्त्राणामाकृतिस्तेन निर्णेतुं नैव शक्यते ।
यथावद्बीजसंयोगः सौश्लिष्टयं श्लक्ष्णतापि च ॥ ४५ ॥
अलक्षता निर्वहणं लघुत्वं शब्दहीनता ।
शब्दे साध्ये तदाधिक्यमशैथिल्यमगाढता ॥ ४६ ॥
वहनीषु समस्तासु सौश्लिष्टयं चास्खलद्द्रुतिः ।
यथाभीष्टार्थकारित्वं लयताला³नुगामिता ॥ ४७ ॥
इष्टकालेऽर्थदर्शित्वं पुनः सम्यक्त्व संवृतिः ।
अनुल्बणत्वं ताद्रूप्यं दाढर्ये मसृणता तथा ॥ ४८ ॥
चिरकालसहत्वं च यन्त्रस्यैते गुणाः स्मृताः ।
एकं बहूनि चालयेद् बहुभिश्चाल्यतेऽपरम् ॥ ४९ ॥
सुश्लिष्टत्वमलक्षत्वं यन्त्राणां परमो गुणः ।
अथ कर्माणि यैन्त्राणां विचित्राणि यथाविधि ॥ ५० ॥
न विस्तरान्न सङ्क्षेपात् साम्प्रतं संप्रचक्ष्महे ।
कस्यचित् सा क्रिया साध्या कालः कस्यापि कस्यचित् ॥ ५१ ॥
शब्दः कस्यापि चोच्छ्रायो रूपस्पर्शौ च कस्यचित् ।
क्रियास्तु¹³ कार्यस्य वशादनन्ताः परिकीर्तिताः ॥ ५२ ॥
१ द. ख. ॰मन्यब्दीजं । २ क. ॰यो विक॰ । ३ द. ख. ॰यं॰ । ४ द. ख. जान्याक्षिण
चेव । ५ ग. ॰ल्या । ६ ग. ॰तत् । ७ द. ख. ॰न्या॰ । ८ क. ॰नं॰ । ९ द. ख. च तद्रूपं
दाढर्यं । १० द. ख. विकराल॰ । ११ द. ग॰ । १२ द. ख. ग. तथाविधिः । १३ द. ख. ॰नु ।