सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८९
शीर्यते शक्रपिटकं कूटैभ्यः शक्रवेक्ष्म वा ।
यस्यां ककुभि तत्राहुर्हानिं पूर्वे विपश्चितः ॥ १६९ ॥
भङ्गे मृगालीलकटाक्षार्गलानामनुक्रमात् ।
पीडा सञ्जायते वेश्यानृपतिश्रेष्ठिरक्षिणाम् ॥ १७० ॥
भग्ना भ्रमाक्षपादैर्वा मल्लमातृकुमारिकाः ।
राष्ट्रं हन्युर्नरेन्द्रस्य प्रियामातृसुतान् क्रमात् ॥ १७१ ॥
निर्घातोऽशनिरुल्का वा ध्वजे यदि पतेत् तदा ।
अनावृष्टिभयं राज्ञः पराजयमथादिशेत् ॥ १७२ ॥
कुर्वन्ति मक्षिकाः शके मधुच्छत्रं समुच्छ्रिते ।
यस्मिंस्तत्र द्विषद्रोधं षण्मासाच्चादिशेत् पुरे ॥ १७३ ॥
मक्षिका वा खगा वा चेद् अमेयुः पार्श्वतो हरेः ।
प्रदक्षिणा बहिस्थानंमासाच्चाहुस्तदा मृतिम् ॥ १७४ ॥
गृध्रश्येनकपोताश्चेल्लीयन्ते शक्रमूर्धनि ।
तदा कुर्वन्ति दुर्भिक्षविग्रहक्षितिपक्षयान् ॥ १७५ ॥
यदि केतौ निलीयन्ते कुररोलूकवायसाः ।
राज्ञः क्रमात् तदा हन्युर्मन्त्रिपुत्रपुरोधसः ॥ १७६ ॥
मयूरो यदि वा हंसः समाश्रयति वासवम् ।
समस्तलक्षणोपेतस्तदा स्यान्नृपतेः सुतः ॥ १७७ ॥
चक्री बलाका हंसी वा यदि केतौ निलीयते ।
तदा नरपतिर्भार्यामवाप्नोत्यतिसुन्दरीम् ॥ १७८ ॥
खगैः सुवृष्टिर्जलजैः सुभिक्षं स्यात् फलाशिभिः ।
विष्ठाशिभिश्च दुर्भिक्षं भीतिः स्यात् पिशिताशिभिः ॥ १७९ ॥
यदि चित्रपटन्यस्ताः सुरयक्षोरगोत्तमाः ।
विचित्राकृतिभिर्युक्ता वाहनायुधभूषणैः ॥ १८० ॥
१. द. ख. 'नमासमाहुस्तदितिरा मृ.' (?) ।

८६ समराङ्गणसूत्रधारे
अष्टौ च ककुभो मूर्ताः प्रनृत्ताश्चाप्सरोगणाः ।
सग्रहास्तारका मेघाः स्फीता नद्यस्तथाब्धयः ॥ १८१ ॥
वाप्यः पङ्केरुहच्छन्ना हंसवन्ति सरांसि च ।
फलपुष्पावतंसानि वनान्युपवनानि च ॥ १८२ ॥
देवतायतना(न्याद्य?न्यष्ट)गोपुराणि पुराणि च ।
भवनान्यतिशुभ्राणि शयनासनवन्ति च ॥ १८३ ॥
प्रहृष्टाः पार्थिवा भृत्या बलवाहनशालिनः ।
पौरा जानपदा लोकाः क्रीडाभाजः कुमारकाः ॥ १८४ ॥
चत्वारो मुदिता वर्णा नटनर्तकशिल्पिनः ।
सगोत्रजलतागुल्मद्रुमौषधिभृतो नगाः ॥ १८५ ॥
मृगपक्षिगणाः शस्ता मङ्गलान्यखिलानि च ।
विचित्रापानवसुधाः फलभक्षाश्च पक्षिणः ॥ १८६ ॥
यथानिवेशं शोभन्ते तदा देशे पुरेऽपि च ।
क्षेमारोग्यसुभिक्षाणि जयं राज्ञश्च निर्दिशेत् ॥ १८७ ॥
एतेषां कुट्टने पाते छेदे नाशेऽथवा हृतौ ।
प्लोषे वाप्यशुभं वाच्यं यथायोनि यथादिशम् ॥ १८८ ॥
स्थिते वा पतिते वापि चित्रपट्टे भुवस्तले ।
उपप्लवो नरेन्द्रस्य भवेज्जनपदस्य च ॥ १८९ ॥
राजते यद्यलङ्कारः सकलो यावदुत्सवम् ।
अनस्तोऽविप्लुतश्चोर्वीं तदा कृत्स्नां जयेन्नृपः ॥ १९० ॥
नटनर्तकसङ्घेषु प्रनृत्यत्सु पठत्सु च ।
शुभे शुभं समादेश्यमितरस्मिन्नशोभनम् ॥ १९१ ॥
ये वर्गाः सम्प्रहृष्यन्ति मङ्गल्या गजवाजिनः ।
सुवेषचेष्टालङ्काराः शुभं तेष्वादिशेद् ध्रुवम् ॥ १९२ ॥
१ क. राज्ये विनिर्दिशेत् । २. क. पठत्स्वपि ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८७
अमङ्गलैषिणो¹ ये स्युर्विकृता दीनचेतसः ।
पुरुषा योषितो वापि निर्दिशेत् तेषु वैशसम् ॥ १९३ ॥
प्रभिन्नकरटा नागा बृहन्तस्तोयदा इव ।
अदीनाश्च स्वतन्त्राश्च नृपतेर्विजयावहाः ॥ १९४ ॥
आलिखन्तः खुरैः क्षोणीं दक्षिणैर्हृष्टचेतसः ।
हेषमाणा हयाश्चापि शंसन्ति नृपतेर्जयम् ॥ १९५ ॥
सतडिद्गर्जिताम्भोदा वृष्टिश्चैज्जायते तदा ।
महीपतेर्जयं विद्यात् सुभिक्षं क्षेममेव च ॥ १९६ ॥
अथार्धरात्रे सम्प्राप्ते रोहिण्यां दशमेऽहनि ।
शक्रस्य ²पातमिच्छन्ति मुनयः प्रतिवत्सरम् ॥ १९७ ॥
ततः समाजे ³निर्वृत्ते शक्रकेतौ प्रतिष्ठिते ।
गन्धतोयैश्च पुष्पैश्च विदधीताम्बुसेवनम् ॥ १९८ ॥
अमेध्यैर्वस्त्रखण्डैर्वा भस्मकेशास्थिकर्दमैः ।
यदा क्रीडन्ति मनुजा दुर्भिक्षं जायते तदा ॥ १९९ ॥
विप्राः प्राँच्यां विल(म्पे?म्बे)युः पतन्तं वासवध्वजम् ।
सुभिक्षं क्षेममारोग्यमन्यथा स्याद् विपर्ययः ॥ २०० ॥
अष्टाङ्गोक्तो ध्वजाङ्गे यो विशेषः सोऽथ कथ्यते ।
पुरे ब्रह्मपुरात् प्राच्यामिन्द्रस्थानं विधीयते ॥ २०१ ॥
मात्राशयेन हस्तेन प्रमाणं तस्य कीर्तितम् ।
चतुःषष्टिसमायामं चतुरश्रं समन्ततः ॥ २०२ ॥
एकाशीतिपदेनैव भजेत् क्षेत्रं विभागतः ।
शैलस्यार्धेन कुर्वीत ध्वजायामं प्रमाणतः ॥ २०३ ॥
ततो वृद्धिर्विधातव्या हस्ते हस्तेऽङ्गुलं बुधैः
अर्धाङ्गुलं वा वृद्धिः स्याद् ध्वजस्येन्द्रस्य कुत्रचित् ॥ २०४ ॥
१ द. ख. अमङ्गल्यै° २ द. ख. शत° । ३ द. निवृत्ते । ४ ख. ताम्बुसेचनम् ।
५ द. ख. प्राक्चैर्विलम्पेयुः; क. प्राच्यां विलुपे ।

८८ समराङ्गणसूत्रधारे
तावद् वृद्धिविधातव्या यावत् क्षेत्रसमोऽङ्गुलैः ।
ततः प्रमाणमाग्यं यत् तत् पुनर्विनियोजयेत् ॥ २०५ ॥
प्रमाणमङ्गुलैः केतोः स्याच्चत्वारिंशता मितम् ।
तस्य संवत्सरे वृद्धिः कर्तव्या द्व्यङ्गुलैर्बुधैः ॥ २०६ ॥
ब्रह्मस्थाने च कुर्वीत ब्रह्मावर्त्तं विचक्षणः ।
ब्रह्मणोऽनन्तरं प्राच्यां भवेद् दैवतमार्यमा ॥ २०७ ॥
तत्र यन्त्रस्य पादौ स्तः समुच्छ्रायेण षट्पं(मौ?दौ) ।
तस्यैव पश्चिमे भागे मित्रो भवति देवता ॥ २०८ ॥
ततः प्रभृति यन्त्रस्य( वाम ? ) वेधो नतो भवेत् ।
पूर्वापरं च निम्नं स्यादेष यन्त्रविधिः स्मृतः ॥ २०९ ॥
यन्त्रस्य पश्चिमे भागे वरुणो दैवतं भवेत् ।
वरुणस्य पदान्ते च वंशस्थे द्वे कुमारिके ॥ २१० ॥
खानिले(?)चतुरो हस्तान् दशहस्तोच्छ्रिते च ते ।
रुद्रस्थाने च कर्तव्या कुमारी सुप्रतिष्ठिता ॥ २११ ॥
सोमयोगे चतुर्थी स्यादापभागे च पञ्चमी ।
षष्ठी च सवितुर्भागे यमभागे च सप्तमी२ ॥ २१२ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
इन्द्रँध्वजनिरूपणं नाम सप्तदशोऽध्यायः ॥
अथ नगरादिसंज्ञा नामाष्टादशोऽध्यायः ।
नगरं मन्दिरं दुर्गं पुष्करं साम्परायिकम् ।
निवासः सदनं सद्म क्षयः क्षितिलयस्तथा ॥ १ ॥
१ द. ख. षट्यमौ । २ द. सप्तमीत्यनन्तरम् अष्टमीत्यधिकः पाठः ।
३ द. ख. इन्द्रसंपदाध्या° ।

नगरादिसंज्ञा नामाष्टादशोऽध्यायः । ८९
यत्रास्ते नगरे राजा राजधानीं तु तां विदुः ।
शाखानगरसंज्ञानि ततोऽन्यानि प्रचक्षते ॥ २ ॥
शाखानगरमेवाहुः कर्वटं नगरोपमम् ।
ऊनं कर्वटमेवेह गुणैर्निगम उच्यते ॥ ३ ॥
ग्रामः स्यान्निगमादूनो ग्रामकल्पो गृहस्त्वसौ ।
गोकुलावासमिच्छन्ति गोष्ठमल्पं तु गोष्ठकम् ॥ ४ ॥
उपस्थानं भवेद् राज्ञां यत्र तत् पत्तनं विदुः ।
बहुस्फीतवणिग्युक्तं तदुक्तं पुटभेदनम् ॥ ५ ॥
विधाय कुटिका यत्र पत्रशाखातृणोपलैः ।
पुलिन्दाः कुर्वते वासं पल्ली स्वल्पा तु पल्लिका ॥ ६ ॥
नगरं वर्जयित्वान्यत् सर्वं जनपदः स्मृतः ।
नगरेण समं कृत्स्नं राष्ट्रं देशोऽथ मण्डलम् ॥ ७ ॥
आवासः सदनं सद्म निकेतो मन्दिरं मतम् ।
संस्थानं निधनं धिष्ण्यं भवनं वसतिः क्षयः ॥ ८ ॥
अगारं संश्रयो नीडं गेहं शरणमालयः ।
निलयो लयनं वेश्म गृहमोकः प्रतिश्रयः ॥ ९ ॥
गृहस्योपरिभूमिर्या हर्म्यं तत् परिकीर्तितम् ।
तस्यारोहणमार्गो यः सोपानं तत् प्रचक्षते ॥ १० ॥
कोष्ठकैर्यत्र रचितं स्थूणयोरधिरोहणम् ।
सा निःश्रेणिरिति प्रोक्ता सोपानैर्विपुलैः पदैः ॥ ११ ॥
स्मृतः काष्ठविटङ्कोऽसौ यत् काष्ठैः संवृतं गृहम् ।
सुधालिप्ततलं हर्म्यं सौधं स्यात् कुट्टिमं च तत् ॥ १२ ॥
वर्षाभयेन या छन्ना तालशाँकदलादिभिः ।
स्मृताभिगुप्तिरन्तस्था सर्वोपरि गृहस्य सा ॥ १३ ॥
१ द. ख. कल्पगृहं । २ क. पुटभेदकम् । ३ क. कोष्ठकैः । ४ क. शाल ।
वा. १२

९० समराङ्गणसूत्रधारे
वातायनं तु भित्तीनामवलोकनमुच्यते ।
लघुर्वातयनो यः स्यादवलोकनकं हि तत् ॥ १४ ॥
हर्म्यस्य मध्ये यच्छिद्रं स उ लोक इति स्मृतः ।
१हर्म्यप्राकारकः स स्यात् कण्ठो² हर्म्यतलस्य योँ³ ॥ १५ ॥
वितर्दिकाष्ठमाला स्यात् सर्वतश्छदमूलगा⁴ ।
तत्तस्तम्भेषु मृगा ये तु ते स्युरीहामृगा इति ॥ १६ ॥
निर्यूहो हर्म्यदेशाद्⁵ यः काष्ठानामुपनिर्गमः ।
वलीकमिति विज्ञेयं काष्ठं छेदाद् विनिर्गतम् ॥ १७॥
६छन्नैश्चतुर्भिः पार्श्वैर्यत् तच्चतुश्शालमुच्यते ।
त्रिभिस्त्रिशालं तत् प्राहुर्द्वाभ्यां तत् स्याद् द्विशालकम् ॥ १८ ॥
एकशालकमेकेन च्छन्नेन गृहमुच्यते ।
गृहमेकं तु यच्छन्नं सर्वं⁷ शालेति सा स्मृता ॥ १९ ॥
शालानां यत् पुनर्मध्यं वापी पुष्करिणी च सा ।
संछन्ना (चा ? सा)पि यस्य स्यात् तद् गर्भगृहमुच्यते ॥ २० ॥
गृहे महाजनस्थानं त्रिकुड्यं यत् प्रकल्पितम् ।
उपस्थानं तदत्राहुः स्याच्चोपस्थानकं लघु ॥ २१ ॥
प्रासादस्तु स एव स्यादल्पा प्रासादिका स्मृता ।
दीर्घप्रासादिका यासौ वलभत्यभिधीयते ॥ २२ ॥
शालाग्रे वलभी या स्यादलिन्देति वदन्ति ताम् ।
शालां विना तु वलभी वलभेति⁸ निगद्यते ॥ २३ ॥
अल्पाल्पास्तु चतुष्कुड्या ये तेऽपवरका मताः ।
गृहे चाभ्यन्तरंस्थानं शुद्धान्त इति कीर्त्यते ॥ २४ ॥
१०प्रतोलीं तां विदुर्लोकः सुरङ्गामिव यां वसेत् ।
सा कक्षेत्युदिता तज्ज्ञैर्यदवस्थान्तरं गृहे ॥ २५ ॥

१ द. ख. हर्म्यः प्रा० । २ क. कण्ठो । ३ क. यः । ४ क. श्छद्° । द. ख. शा. श्छेद्° ।
५ देशाग्रका° । ६ क. छिन्नै° । ७ क. सर्वशाले । ८ द. ख. वलभ्येति विधीयते । ९ क. ॰न्तरे ।
१० द. प्रतोलीनां विदुर्लोके सुरंगामित्रं ।

नगरादिसंज्ञा नामाष्टादशोऽध्यायः । ९१
यदुपस्थानकं नाम ये चापवरकास्तथा ।
ते कोष्ठका या तु कण्ठा कुड्यं¹ भित्तिश्चयश्च सा ॥ २६ ॥
²भक्तशाला भवेद् या तु तन्महानसमुच्यते ।
यच्छन्नं द्वारदेशे तु तमाहुर्द्वारकोष्ठकम् ॥ २७ ॥
प्रवेशनमिति प्राहुर्द्वारनिर्गमनं तथा ।
जलनिर्गमनस्थानं विज्ञेयमुदकभ्रमः ॥ २८ ॥
भवनस्याङ्गणं यत्तु तदाहुर्भवनाजिरम् ।
वनाजिरं वनमही त्वाश्रमाजिरमाश्रमे ॥ २९ ॥
उत्तरोदुम्बरस्याधः श्लिष्टां मध्ये च कु³ड्ययोः ।
तज्ज्ञास्तां देहलीत्याहुः कपाटाश्रयमेव च ॥ ३० ॥
कपाटं द्वारपक्षः स्यात् कपाटपुटमेव च ।
पक्षः पिधानं⁴वरणो द्वारसंवरणं तथा ॥ ३१ ॥
कपाटं संपुटस्ते द्वे(?) कपाटयुगलं च तत् ।
कलिका द्वारबन्धार्था या स्यात् तामर्गलां विदुः ॥ ३२ ॥
सा स्यादर्गलसूचीति यदि दीर्घा प्रमाणतः ।
पुराणां सा तु परिघः फलिहो गजवारणम् ॥ ३३ ॥
छिद्रैर्गवाक्षप्रतिमैश्छिद्रितं सर्वतस्तु यत् ।
फलकं तद् गवाक्षः स्याज्जालमित्यपि कथ्यते ॥ ३४ ॥
हर्म्यद्वारे गृहद्वारे तथा हर्म्यावलोकने ।
प्राकारान्तरपृष्ठे तु या च प्रासादिका भवेत् ॥ ३५ ॥
पार्श्वयोरुभयोरेषां फलकद्वयमुच्छ्रितम् ।
उपर्युपरि संक्षिप्तमर्धचन्द्रद्वयाकृति ॥ ३६ ॥
आनने द्वे यथा चास्मिन् श्लिष्टैरग्रैर्महाधरैः⁵ ।
तयोरुपरि सन्धौ च तारकाकृति मण्डलम् ॥ ३७ ॥


१ द. कुड्यमिति । २ क. भुक्तिशां । ३ द. ख. पिंडयोः । ४ क. पिधानावरणो ।
५ द. ˚रिहाधरैः ।

९२ समराङ्गणसूत्रधारे
तत् तोरणमिति प्रोक्तं यच्च तेन परिष्कृतम् ।
सुवर्णतोरणं च स्यान्मणितोरणमेव च ॥ ३८ ॥
पुष्पतोरणमप्येतत् क्रियते पुष्पकादिभिः ।
तोरणाग्रे ठकारो यः सिंहकर्णः स ¹उच्यते ॥ ३९ ॥
नाम्ना संयमनानीति गृहसञ्च²रभूमयः ।
गृहस्य पार्श्वे यद्यस्मिंस्तत् तत्सं³यमनं विदुः ॥ ४० ॥
भित्तेर्यद्वाह्य दारूणां तरङ्गाग्रवदो⁴न्नतम् ।
मरालपा⁵ली सा हर्म्या(त्) प्रणाली निर्गमोऽम्भसः ॥ ४१ ॥
स च प्राकार इत्युक्तः कण्ठः स्यादङ्गणस्य यः ।
द्वार⁶स्य तु समीपं यत् प्रद्वारं तदिहोच्यते ॥ ४२ ॥
यदिष्टकचितं मूले द्वारस्य भवति स्थलम् ।
दीर्घं वा ह्रस्वमथवा तदास्थलकमिष्यते ॥ ४३ ॥
मूत्रभूमिरमेध्येति वर्चस्कोऽवस्करस्तथा ।
गृहाच्च भित्तिसामान्यं बाह्यं परिसरो मतः ॥ ४४ ॥
विस्तीर्णमुच्छ्रितं यत् स्याद् वेश्म सोऽट्ट उदाहृतः ।
संक्षिप्तमेतदेवोक्तं तज्ज्ञैरट्टालकाख्यया ॥ ४५ ॥
तदेवाल्यन्तसंक्षिप्तमट्टालीति निगद्यते ।
अट्टाली या तु नात्युच्चा तामत्राट्टालिकां विदुः ॥ ४६ ॥
एकनाडीगतच्छिद्रैः काष्ठनालैः परिश्रितम् ।
यत्र काष्ठप्रणाली⁷तं छदपृष्ठेऽम्बु धावति ॥ ४७ ॥
स्तम्भशीर्षकरूपाणि काष्ठमूलाश्रितानि च ।
सुषिराणि प्रयत्नेन काष्ठनाडीमुखान्तरैः ॥ ४८ ॥
रूपाणामथ तेषां तु स्तननासामुखाक्षिभिः ।
नानास्थानस्थितानां च वृषवानरदंष्ट्रिणाम् ॥ ४९ ॥
१ द. कथ्यते । २ द. ख. गृहसंचारभूमयः । ३ संयावनं । ४ °दानवम् । ५ द. ख.
मराल्या भित्तिसामान्यं बाह्यं परिसरो मतः । विस्तीर्णमुच्छ्रितांयली सा हर्म्या । ६ क. °स्य च समीपे ।
७ क. °प्रणालीभिः ।

चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९३
कृतसूक्ष्मान्तरच्छिद्रैः प्रवर्षति समन्ततः ।
तद् धारागृहमित्युक्तं धारागारादिनामभृत् ॥ ५० ॥
कांस्यैर्लोहैस्तथा पट्टैर्निर्मृष्टादर्शनिर्मलैः ।
निचिता यस्य भित्तिः स्यात् तद् दर्पणगृहं १विदुः ॥ ५१ ॥
पक्षद्वारं तदत्राहुरन्यन्महाद्वारतोऽपरम् ।
यत् प्राकाराश्रितं द्वारं पुरे तद् गोपुरं विदुः ॥ ५२ ॥
निर्गताश्चोच्छ्रिताश्चैव प्राकारस्यान्तरान्तरा ।
उपका(ल्या?र्या) इति प्रोक्ताः ३क्षेमाश्चाट्टालका मताः ॥ ५३ ॥
चयप्रकारशालाः स्युः पुरीसंवरणाभिधाः ।
प्राकारादनुपालास्तु प्राकार उपनिष्कलाः(?) ॥ ५४ ॥
क्रीडागृहं यदारामे तदुद्यानं प्रचक्षते ।
तीरेऽम्भसो जलोद्यानं जलवेश्माम्बुमध्यगम् ॥ ५५ ॥
क्रीडागृहं यदत्रोक्तं क्रीडागारं तदुच्यते ।
विहारभूमिराक्रीडभूमिरित्यभिधीयते ॥ ५६ ॥
देवधिष्ण्यं सुरस्थानं चैत्यमर्चार्गृहं च तत् ।
देवतायतनं प्राहुर्विबुधागारमित्यपि ॥ ५७ ॥
छन्नं भवेद् यत्तु महाजनस्य स्थानं सभा सा कथिता च शाला ।
गवां पुनर्मन्दिरमत्र गोष्ठमाचक्षते वास्तुनिवेशविज्ञाः ॥ ५८ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
नगरखर्वटग्रामगृहायतनसंज्ञा नामाष्टादशोऽध्यायः ।
अथ चतुःशालविधानं नामैकोनविंशोऽध्यायः ॥
ब्रूमो नृपचमूनाथवर्णिनां भवनान्यथ ।
प्रशस्तान्यप्रशस्तानि कृत्स्नान्यपि यथाक्रमम् ॥ १ ॥
१ द. ख. जगुः । २ क. उपकाम्या इति, द. ख. उपकल्या इति । ३ क. द. ख. क्षेमाश्चा° ।
शा. क्षौमाश्चा° ।

९४ समराङ्गणसूत्रधारे ।
वेश्मनामेकशालानां शतमष्टाधिकं स्मृतम् ।
द्वापञ्चाशद् द्विशालानां त्रिशालानां द्विसप्ततिः ॥ २ ॥
चतुःशालानि वेश्मानि यानि तेषां शतद्वयम् ।
पञ्चाशच्चाधिका षड्भिर्विज्ञातव्या मनीषिभिः ॥ ३ ॥
सहस्रं पञ्चशालानां स्यात् तथा पञ्चविंशतिः ।
षट्शालानां षण्णवतिः स्यात् सहस्रचतुष्टयम् ॥ ४ ॥
अष्टाङ्गे त्वेकशालस्य भेदाः पञ्चाशदीरिताः ।
द्विशालानां तु सर्वेषां प्रभेदाः शतपञ्चकम् ॥ ५ ॥
शतं शतं च प्रत्येकं त्रिशालानामुदाहृतम् ।
द्विचत्वारिंशदधिकं चतुःशालशताष्टकम् ॥ ६ ॥
द्विनवत्युत्तराण्येवं शतानि दश सप्त च ।
षोडशैव सहस्राणि षोडशोना चतुःशती ॥ ७ ॥
वेश्मानि सप्तशालानि भवन्ति परिसङ्ख्यया ।
पञ्चषष्टिसहस्राणि तथा पञ्चशतानि च ॥ ८ ॥
गृहाणामष्टशालानां षट्त्रिंशदपरा भवेत् ।
लक्षद्वयं सहस्राणि द्विषष्टिः शतमेव च ॥ ९ ॥
गृहाणां नवशालानां चत्वारिंशच्चतुर्युता ।
दशलक्षसहस्राणि चत्वारिंशत् तथाष्ट च ॥ १० ॥
शतानि दशशालानां पञ्च षट्सप्ततिस्तथा ।
गृहद्वितययोगेन संयुक्तान्यपि विंशतिः ॥ ११ ॥
गृहद्वितययोगेन द्वात्रिंशदिह वेश्मनाम् ।
दशपञ्च तथान्यानि भवन्ति हलकान्यपि ॥ १२ ॥
गृहमालाथ सङ्घट्टो गृहनाभिर्गृहाङ्गणम् ।
उद्भिन्नं भिन्नकक्षं च निलीनं प्रतिपादितम् ॥ १३ ॥
१ द. चतुर्विंशतिः । २ क. प्रोक्तमष्टाधिकं शतम् , द. ख. चतुःशालशताष्टकम् । ३ द.
°षष्टि° ४ द. गृहत्रितय°

चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९५
अन्यानि चाष्टभेदानि भवन्त्युत्तमवर्णिनाम् ।
लक्षणं नाम संस्थानं चैतेषां प्रतिपाद्यते¹ ॥ १४ ॥
वर्णिनां स्याच्चतुःशालं मितं द्वात्रिंशता करैः ।
सेनापतेश्चतुःषष्टिरस्तद्वदेव पुरोधसः ॥ १५ ॥
श्रेष्ठमष्टशतं राज्ञामेतानि तु यथाक्रमम् ।
चतुःषडष्टहान्या स्युः पञ्चमं च पृथक् पृथक् ॥ १६ ॥
विशोधयेत् कनीयोभिर्मध्यमानि यथाक्रमम् ।
नरेन्द्रपुरुषाणां स्युर्वेश्मान्येतानि वृद्धये ॥ १७ ॥
गृहाणि शोधयेत् प्राग्वज्ज्यायांस्यपि च मध्यमैः ।
भवन्त्येतानि भूपानां रतिकोशप्रतिश्रयाः ॥ १८ ॥
दशांशयुक्तो विस्तारा²दायामो विप्रवेश्मनाम् ।
अष्टषट्चतुरंशाढ्यः क्षत्रादित्रयवेश्मनाम् ॥ १९ ॥
यो विस्तारः स एव स्यादायामोऽस्मिन् यथाक्रमम् ।
विट्शूद्रयोः स्यादाधिक्यं³ मध्ये ज्येष्ठे च सद्मनि ॥ २० ॥
कर्णसूत्राद् बहिः स्तम्भान् न्यसेत् सर्वान् प्रयत्नतः ।
धाम्नां षोडशहस्तानां पञ्चानां चतुरुत्तरा ॥ २१ ॥
वृद्धिः शालास्तु तेषां स्युश्चतुरंशेन विस्तृताः ।
शालाव्यासार्धतोऽलिन्दः सर्वेषामपि वेश्मनाम् ॥ २२ ॥
तस्याः⁴ षोडशहस्ते स्यात् पञ्चमांशद्वयेन वा ।
सप्तमांशत्रयेण स्याद् द्वयोरपरवेद्मनोः ॥ २३ ॥
अन्त्ययोर्हस्तयोः स स्याच्चतुर्भिर्नवमांशकैः ।
पञ्चभिः षड्भिरेभिश्च सार्धैः साङ्घ्रिनगैः करैः ॥ २४ ॥
दैर्घ्यं स्याद् दशभिः सार्धैः शालायाः षोडशादिषु ।
निवेशदशमांशो यः स युतः सप्तभिः करैः ॥ २५ ॥
१ द. प्रतिपद्यते । २ द. विस्तार आयामो । ३ द. ॰धिकामथ ज्येष्ठेथ वेद्मनोः ।
४ क तस्यां ।

९६ समराङ्गणसूत्रधारे

शालाया विस्तरः प्रोक्तः श्रेष्ठानामिह वेश्मनाम् ।
अलिन्दमानं प्रागेव प्रोक्तं निखिलवेश्मनाम् ॥ २६ ॥
यच्छालालिन्दयोः शेषं भवेद् गर्भगृहं हि तत् ।
मूषावच्छिन्नमिच्छन्ति शालादैर्घ्यं विपश्चितः ॥ २७ ॥
शालाव्यासप्रमाणा स्यात् सर्वेषामवकोसिमा ।
दिशासु भवने शाला विदिशाकर्णसामयः (?) ॥ २८ ॥
कर्णशाला (त?तु) या प्रोक्ता सा च ज्ञेयावकोसिमा ।
अलिन्दशालयोर्मध्ये या स्यान्मूषेति सा स्मृता ॥ २९ ॥
*पूर्वद्वारं नियम्यादावादिमूषा तदुत्तरा ।
मूषा भद्रा इति प्राहुस्तत्संख्यामवधारयेत् ॥ ३० ॥
यावन्मूषं भवेद् वेश्म तावद् भद्रं तदुच्यते ।
भद्रा'भद्रे शक्रदिक्स्थे सौम्यासौम्ये यमाश्रिते ॥ ३१ ॥
शान्ताशान्ते प्रतीचीस्थे सौम्यदिक्स्थे शिवाशिवे ।
अलिन्दा इति केऽप्याहुर्मूषा इत्यपरे विदुः ॥ ३२ ॥
भद्रा इति जगुः केचिदन्ये परिसरा इति ।
एकद्वित्रिचतुःपञ्चषट्सप्ता(ष्टौ?ष्ट)क्रमेण याः ॥ ३३ ॥
मूषास्तासां प्रवहणैसंज्ञाः स्युर्वेश्मनामिह ।
तासामाद्याः प्रशस्ताः स्युरप्रशस्तास्ततः पराः ॥ ३४ ॥
नामतो गुणतश्चैव शुभाशुभफलोदयात् ।
अष्टावादौ गुरून् न्यस्येत् ततश्चाद्यगुरोरधः ॥ ३५ ॥
लघुं न्यस्येत् ततः शेषान् विदधीत यथोपरि ।
गुरुभिः पूरयेदादिं यावत् स्युर्लघवोऽखिलाः ॥ ३६ ॥


१ क. मूषाविच्छिन्नं । २ क. कर्णमाला, द. कर्णशाला । ३ क. मूखेति । ४ द. ख.
यावन्मूषां । ५ क. प्रवहणाः । ६ क. फलोदयः । ७ द. ख. अष्टक्षादौ ।

  • 'पूर्वद्वारमियं यावत्रादिमूषा' इति पाठः स्यात् [ शालिनीः ] ।

चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९७
*आद्यपङ्क्तौ गुरुश्चैको लघुश्चैको यथाक्रमम् ।
अतः परं तु द्विगुणाः प्रतिपङ्क्ति भवन्त्यमी ॥ ३७ ॥
मूषाभेदाश्चतुःशाले षट्पञ्चाशच्छतद्वयम् ।
अलिन्दवीथीप्रग्रीवनिर्यूहकगवाक्षकैः ॥ ३८ ॥
तमङ्गभद्रविन्यासरचनाभिरनेकधा ।
अपरस्परसंबाधात् १संवृत्तैर्विवृतैरपि ॥ ३९ ॥
गृहभेदाः प्रसूयन्ते येषां संख्या न विद्यते ।
यत्संबद्धं२चतुश्शालममूषालिन्दकं हि तत् ॥ ४० ॥
एकभद्रादिगेहानां ब्रूमो नामान्यतः परम् ।
यान्येकलघुलक्षाणि प्रस्तारे तानि तद्विदः ॥ ४१ ॥
कथयन्त्येकभद्राणि क्रमसंख्याविभागतः ।
प्रागायतं प्राग्विलग्नं जयं संयमनप्रियम् ॥ ४२ ॥
प्रतीच्यं प्रासविन्यासं सुभद्रं कलहोत्तरम् ।
अष्टौ तान्येकभद्राणि द्विभद्राण्यभिदध्महे ॥ ४३ ॥
पूर्वोत्तरोत्तरं पूर्वाद् भद्रादिह विधानतः ।
स्यातां ३प्राङ्मेलकाद्यद्वत् पूर्वाद्या दक्षिणा परे( ? ) ॥ ४४ ॥
ईरं सुनीर्थमाग्नेयं ५द्वीपमाप्यं सुसंयमम् ।
अर्धर्चमैभं व्याकोशं नैर्ऋतं वृषभं विनम् ॥ ४५ ॥
काव्यं विपासमानीरं कान्तं सौभं विपश्चिमम् ।
गवयं श्रीवहं श्लिष्टं गणं भीममयोगर्मम् ॥ ४६ ॥
१ द. संवृते विवृतेरपि । २ क. °बद्धं । ३ द. ख. प्राश्लेषिका । ४ क. °तमा° । ५ द. ख.
दीप्यं वाप्यमु° । ६ द. ख. कव्यं तिगस । ७ द. ख. विपश्चितम् । ८ द. ख. भीमं मयोग° ।

  • ‘आद्यपङ्क्तौ प्रथमायामावलौ एको गुरुः, तस्याधस्तादपरो लघुः कर्तव्यः । एवं यथाक्रमं
    प्रस्तारसङ्ख्याक्रमित्यालिखेत् । तद्यथा—चतुर्गृहप्रस्तारे षोडश गुरुलघवः । ततस्तदग्रतो द्वौ गुरू द्वौ
    लघू इति एकैकस्याव्रो न्यसेत् । तदग्रतोऽपि चत्वारो गुरवश्चत्वारो लघवः । ततोऽपि अष्टौ गुरवः
    अष्टौ लघवः । एवं प्रतिपङ्क्ति द्विगुणान् गुरुलघून् न्यसेत् । अयमपरः प्रस्तारः ।’ इति टिप्पणमस्ति ।
    [ शाखिणः ]
    बा. १३

९६ समराङ्गणसूत्रधारे

वर्तं चलं शठं क्रान्तमित्यष्टाविंशको गणः ।
द्विभद्राणां समाख्यातस्त्रिभद्राणामतः परम् ॥ ४७ ॥
ऐन्द्रं विलोममायातं वधमेकाक्षमन्तिकम् ।
प्रकाशं पैत्रमायस्तं भद्रं प्रान्तं प्रसाधकम् ॥ ४८ ॥
क्षेमं विघातमायातं कान्तं चित्रं ३द्विमन्दिरम् ।
सुदक्षिणं भयं श्लिष्टं प्रमोदं व्यायतं वियत् ॥ ४९ ॥
४आप्यं सुनागं नागेन्द्रमीरितं शोभनं घनम् ।
शास्तोत्तरं ककं कर्णं कुष्ठं ५क्रान्तं क्रमागतम् ॥ ५० ॥
द्विशस्तं द्विभयं प्रोक्तं चक्रं मलयमायतम् ।
वनं भारं सुगाराख्यमागारं वीरमेव च ॥ ५१ ॥
व्यायाममायुतं तद्वद् व्याहृतं च ततः परम् ।
दुर्गमं क्षो६भसंज्ञं च कृत्रिमं क्षोभणं तथा ॥ ५२ ॥
चारुरुच्याभिधानं च ध्रुवं कथमिति क्रमात् ।
षट्पञ्चाशत् त्रिभद्राणि चतुर्भद्राण्यतः परम् ॥ ५३ ॥
कृतमर्चायनं पौष्णमुद्धतं मिश्रमुत्सुकम् ।
विघ्नं विपक्षमाहूतं रुचकं वर्धनं पृथु ॥ ५४ ॥
*कलहं छेलमायास्यं त्रिनाभं स्वस्तिकं स्थिरम् ॥ ५५ ॥
शशलं द्विगुणं नाद्यं चित्रं भ्रान्तं विधारणम् ।
साधारणं नतं ८त्र्यंशमृषं रोगं विशेषणम्§ ॥ ५६ ॥
९प्रतीच्यं त्रिसमं स्वैरं सुप्रतीकं नलं क्षपम् ।
व्याप्तमाक्रीडनं व्यर्थमीशानं सुखमव्ययम् ॥ ५७ ॥
मगधं क्षिप्रमागस्त्यमेक्रोजं द्विर्गतं लिहम् ।
पर्कं विलोममुद्दण्डं मुण्डं मातङ्गमाखिलम्‡ ॥ ५८ ॥


१ द. मन्तकं । २ द. क्षमं, ख. क्षेमं । ३ द. हि । ४ द. आद्यं, ख. अप्यं । ५ द. कान्तं ।
६ ख. क्षोमं । ७ द. ख. चउं । ८ द. तत्तत्त्र्यंशं क्रां । ९ प्रतीच्यमारभ्य (श्लो० ५७)
प्रभम् यावन् (श्लो० ६२) अंशः द. प्रतौ नास्ति ।

  • वक्ष्यामाणलक्षणश्लोके तु कलभमिति पठ्यते । § लक्षणे तु विशेषणमेति पठ्यते । ‡ ख.
    पुस्तकेऽर्धमिदं लुप्तम् ।

चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९९

खर्वं पिनाकमुद्यन्तं विशिखं प्रसमं रजम् ।
खुरु?(रुच)कं स?(सै)फलं वामं वर्धनं धावनं सहम् ॥ ५९ ॥
चयं सेठ्यं कलं तीर्णं चतुर्भद्राणि सप्ततिः ।
पञ्चभद्रान्यथोच्यन्ते षट्पञ्चाशदनुक्रमात् ॥ ६० ॥
कानलं लोलुपं जिह्मं प्रगालं सालिनं जिनम् ।
सुजयं विजयं यामं जयं ज्ञातं जपं तपम् ॥ ६१ ॥
जमं वरं चरं वैरं † विशिषं सुप्रभं प्रभम् ।
प्रतीक्षं क्षमिणं युक्तं शान्तं त्रैतं विनोदनम् ॥ ६२ ॥
सन्दोहं विप्रदोहं च विद्रुतं सततं ततम् ।
व्याकुलं लीनमालीनं विचित्रं लम्बनं खरम् ॥ ६३ ॥
शेखरं विबुधं चैत्रं व्यासक्तं संपदं पदम् ।
त्रिशिखं चतुरं प्रातं सुस्थितं दुःस्थितं स्थितम् ॥ ६४ ॥
चक्रं वक्रं लघं लाभं संपर्कं मूलमव्ययम् ।
अष्टाविंशतिरन्यानि षड्भद्राणि निबोधत ॥ ६५ ॥
किन्नरं कौस्तुभं हर्म्यं धार्मिकं ४निषधं वसु ।
५साटिकं वामनं गौरमस्थिरं क्रमिणं ६खलम् ॥ ६६ ॥
७विवरं वालिशं धौमं त्रिपुष्टं मन्दिरं भवम् ।
अशोकं भास्करं चौष्यं लातव्यं ८सुखनं मखम् ॥ ६७ ॥
वाजि नेत्रं भ्रमं घोषं सप्तभद्रायतः परम् ।
भाण्डीरं * वैसेहं प्रस्थं प्रतानं वासुलं ९कैटम् ॥ ६८ ॥
लक्ष्मीवासं सुगन्धान्तमष्टधैतानि नामतः ।
अन्यच्च सर्वतोभद्रमेकं भद्राभिरष्टभिः ॥ ६९ ॥
संप्रकल्प्यं चतुःशालं ब्रूमश्चैषां शुभाशुभम् ।
प्रदक्षिणा शुभा मूषा विपरीता विपर्यये ॥ ७० ॥


१ क. क्षिमिणं । २ द. सुस्थितं । ३ द. ख. नक्तं । ४ क. निषिधं । ५ द. साकीटं ।
६ द. ख. खरम् । ७ द. ख. विचनं वाभिसं । ८ द. सुध्वनं । ९ क. वैसमं । १० द. टक्म् ।
† ख. पुस्तकदृष्टलक्षणापाठरीत्या तु विरोषमिति पाठ्यम् । * लक्षणानुसाराद् बैसनमिति पाठ्यम् ।

१०० समराङ्गणसूत्रधारे
समवाये यथा भूयो जानीयात् साध्वसाधु च ।
तथाष्टावेकभद्राणि सप्तभद्राणि च क्रमात् ॥ ७१ ॥
द्विभद्राण्यष्टभिर्युक्ता षड्भद्राणि च विंशतिः ।
षट्पञ्चाशत् त्रिभद्राणि पञ्चभद्राणि चोन्नयेत् ॥ ७२ ॥
सप्ततिश्च चतुर्भद्राण्येकं भद्राभिरष्टभिः ।
एवं शतद्वयं पिण्डः षट्पञ्चाशच्च वेश्मनाम् ॥ ७३ ॥
भद्रैः पूर्वविधानेन चतुःशालाक्रियादिषु ।
मूषा स्यात् कुड्यजैस्तेषु चतुश्शालेषु वेश्मसु ॥ ७४ ॥
अनुवंशाश्रिते मूषे स्वस्तिके स्तःपराङ्मुखे ।
मुखायते च पुरतो द्वे स्यातामवकोसिमे ॥ ७५ ॥
नोदङ्मुखः स कर्तव्यः कार्यः प्राग्जीवसंयुतः ।
वर्धमाने तथा कार्ये?(र्यो) यथा प्राग्ग्रीवसंयुतः ॥ ७६ ॥
वर्धमाने तथा कार्ये द्वारमूषे मुखायते ।
मूषाया दक्षिणे स्यातां दीर्घवामेऽवकोसिमे ॥ ७७ ॥
नन्द्यावर्तगृहे सर्वा नन्द्यावर्ता भवन्ति ताः ।
द्वे स्तरु?(मू)षे रुचके स्यातामायते त्ववकोसिमे ॥ ७८ ॥
सर्वद्वारवहा मूषाः सर्वतोभद्रवेश्मनि ।
आदिमूषा भवेदेका गृहं प्रागायतं हि तत् ॥ ७९ ॥
द्वितीया प्राग्विलग्नमेकया तदनन्तरम् ।
प्रदक्षिणेन वेश्मानि जयादीन्येकयैकया ॥ ८० ॥
मूषया स्युः क्रमादेवं कथ्यन्ते तत्फलान्यथ ।
धनमर्थविनाशश्च जयश्चैवाशुभं सदा ॥ ८१ ॥
प्रीतिरुद्वेगकल्याणकलहाश्चाप्यनुक्रमात् ।
यत्र पूर्वे उभे मूषे तदीरं परिकीर्तितम् ॥ ८२ ॥
यत्र पूर्वा तृतीया च तत् १सुनीतं गृहं विदुः ।
आग्नेये द्वितृतीये स्तो द्वीपे चाद्यचतुर्थिके ॥ ८३ ॥
१ द. सुनीथं ।

चतुःशालविधानं नामैकोनविंशोऽध्यायः । १०१
द्विचतुर्थ्यौ तथा चाप्ये त्रिचतुर्थ्यौ सुसंयमे ।
अर्धर्चे त्वाद्यपञ्चम्यौ द्वितीयेभे सपञ्चमी ॥ ८४ ॥
व्याकोशे च त्रिपञ्चम्यौ नैरृते द्विशराभिधे ।
वृषभे प्रथमाषष्ठ्यौ द्विषष्ठ्यौ च तथा विने ॥ ८५ ॥
काव्ये तृतीया षष्ठी च विपासेऽब्धिरसाभिधे ।
आनीरे पञ्चमीषष्ठ्यौ साद्या कान्ते च सप्तमी ॥ ८६ ॥
सौभे द्वितीयासप्तम्यौ त्रिसप्तम्यौ विपश्चिमे¹ ।
गवये सप्तमीतूर्ये श्रीवहे पञ्चसप्तमी ॥ ८७ ॥
सषष्ठी सप्तमी श्लिष्टे गणे पूर्वाष्टमी तथा ।
भीमेऽष्टमी द्वितीया च त्र्यष्टम्यौ चाप्ययोगमे ॥ ८८ ॥
वर्ते चतुर्थ्यष्टमी च पञ्चमी चाष्टमी चले ।
षष्ठ्यष्टम्यौ शठे क्रान्ते सप्तमी चाष्टमीति च ॥ ८९ ॥
इत्यष्टाविंशतिः प्रोक्ता द्विभद्राणामिहौकसाम् ।
अथ ब्रूमस्त्रिभद्राणि तत्रैन्द्रं पुष्टिवर्धनम् ॥ ९० ॥
स्याद् याम्यपश्चिमद्वारमाद्यमूषात्रयान्वितम् ।
आद्या द्वितीया तुर्या च यस्य द्वारं विपश्चिमम् ॥ ९१ ॥
विलोमं नाम तद् वेश्म शूद्राणां पुष्टिवर्धनम् ।
आद्या तृतीया तुर्या स्यादायामे सर्वतोमुखे ॥ ९२ ॥
वधे द्वित्रिचतुर्थ्यः स्युर्द्वारं च स्यादुदग्दिशि ।
यत्र साद्ये द्विपञ्चम्यावेकाक्षं तदुदाहृतम् ॥ ९३ ॥
साग्र्ये यत्र द्विपञ्चम्यौ तत् प्रोक्तं गृहमन्तिकम् ।
यत्र स्युर्द्वित्रिपञ्चम्यः प्रकाशं सर्ववृद्धिकृत् ॥ ९४ ॥
पूर्वा चतुर्थीपञ्चम्यौ यत्र तत् पैत्रमुच्यते ।
पञ्चमी द्विचतुर्थ्यौ च यत्राग्रस्तं तदीरितम् ॥ ९५ ॥
त्रिचतुःपञ्चमीयुक्तं भद्रमाहुर्मनीषिणः ।
आद्या द्वितीया³ षष्ठी च यत्र तत् प्रान्तशब्दितम् ॥ ९६ ॥
१ क. शोभे । २ द. ख. ॰ते । ३ द. ख. तृतीया ।

आद्या तृतीया षष्ठी च स्यात् प्रसाधकवेश्मनि ।
तद् भवेत् सर्वतोद्वारं तथा सर्वार्थसाधकम् ॥ ९७ ॥
द्वितीया च तृतीया च षष्ठी च क्षमनामनि ।
तस्य प्रत्यग्दिशि द्वारं शूद्रवर्गस्य चेष्टदम् ॥ ९८ ॥
षष्ठी चतुर्थी चाद्या च स्युर्विघाताह्वयवेश्मनि ।
षष्ठी द्वितुर्ये यस्मिंस्तदायातं दक्षिणामुखम् ॥ ९९ ॥
षट्चतुस्त्रियुतं कान्तं तत् स्यात् सर्वार्थसाधकम् ।
षट्पञ्चाद्यान्वितं चित्रं तच्च स्याद् याम्यदिङ्मुखम् ॥ १०० ॥
द्वितीयापञ्चमीषष्ठ्यो यस्मिन् स्युस्तद् द्विमन्दिरम् ।
यत्र त्रिपञ्चमीषष्ठ्यस्तद् वदन्ति सुदक्षिणम् ॥ १०१ ॥
चतुर्थीपञ्चमीषष्ठयो भये स्युस्तन्न वृद्धिकृत् ।
पूर्वाद्वातीयासप्तम्यो यत्र तच्छ्लिष्टसंज्ञितम् ॥ १०२ ॥
याम्यास्यमिदमिच्छन्ति शुभं सर्वार्थदं नृणाम् ।
साद्ये तृतीयासप्तम्यौ प्रमोदे परिकीर्तिते ॥ १०३ ॥
यत्र स्युर्द्वित्रिसप्तम्यस्तद् वेश्म व्यायतं स्मृतम् ।
यत्राद्या च चतुर्थी च सप्तम्यपि च तद् वियत् ॥ १०४ ॥
द्विचतुःसप्तमीमूषमाप्यं स्याद् दक्षिणामुखम् ।
त्रिचतुस्सप्तमीभिस्तु सुनागं वेश्म कीर्त्यते ॥ १०५ ॥
तच्च याम्यापरमुखं धनधान्यसुखप्रदम् ।
सप्तमी पञ्चमी पूर्वा मूषा नागेन्द्रसंज्ञिते ॥ १०६ ॥
मूषा द्विपञ्चसप्तम्यो याम्यं च मुखमीरितम् ।
त्रिपञ्चसप्तमीमूषाशोभितं शोभनं भवेत् ॥ १०७ ॥
चतुर्थी पञ्चमी यत्र सप्तम्यपि च तद् घनम् ।
पूर्वा षष्ठी सप्तमी च स्मृता शस्तोत्तरे गृहे ॥ १०८ ॥
द्वितीयासप्तमीषष्ठ्यो यस्मिंस्तत् कफसंज्ञितम् ।
द्वारं वारुणमेतस्य हितं च स्याद् द्विजन्मनाम् ॥ १०९ ॥


१ द. ख. ॰योच्छिष्टं ।

चतुःशालविधानं नामैकोनत्रिंशोऽध्यायः १०३
कर्णं स्यात् पश्चिमद्वारं त्रिषष्ठीसप्तमीयुतम् ।
चतुर्थीसप्तमीषष्ठयो मूषाः स्युः क्रुष्टसंज्ञिते ॥ ११० ॥
सप्तमीपञ्चमीषष्ठीयुक्तं क्रान्तं यशस्करम् ।
आद्याष्टमी द्वितीया च मूषा प्रोक्ता क्रमागते ॥ १११ ॥
आद्याष्टमी तृतीया च द्विशस्ते भवने स्मृताः ।
यत्राष्टमी त्रिद्वितीये द्विभयं तदुदाहृतम् ॥ ११२ ॥
आद्याष्टमी चतुर्थी च यत्र तच्चक्रसंज्ञितं ।
तुर्याष्टमी द्वितीया च यत्र तन्मलयं विदुः ॥ ११३ ॥
तुर्याष्टमी तृतीया च यत्र तत् प्रोक्तमायतम् ।
आद्याष्टमी पञ्चमी च स्याद् यस्मिंस्तद् वनं स्मृतम् ॥ ११४ ॥
द्वितीया पञ्चमी मूषा यत्र स्यादष्टमी तथा ।
तद् १भाराख्यमुदग्वक्त्रं शुभं विघ्नकृदन्यथा ॥ ११५ ॥
२त्रिपञ्चम्यष्टमीभिस्तु सुगारं परिकीर्तितम् ।
यत्राष्टमी तदागारं चतुर्थी पञ्चमी तथा ॥ ११६ ॥
यस्मिन्नाद्याष्टमीषष्ठयो वीरं तदिह कीर्तितम् ।
षष्ठयष्टमी द्वितीया च गृहे व्यायामनामनि ॥ ११७ ॥
षष्ठयष्टमीतृतीयाभिर्मूषाभिः प्रोक्तमायुतम् ।
षष्ठयष्टमीचतुर्थ्यः स्युर्यत्र तद् व्याहृतं विदुः ॥ ११८ ॥
षष्ठयष्टमीपञ्चमीभिर्दुर्गमं व्याधिकृन्मतम् ।
आद्याष्टमीसप्तमीभिः संयुक्तं क्षोभमुच्यते ॥ ११९ ॥
द्विसप्तम्यष्टमीयुक्तं गृहं कृत्रिमसंज्ञितम् ।
त्रिसप्तम्यष्टमीभिस्तु मूषाभिः क्षोभणं भवेत् ॥ १२० ॥
चारुरुच्यं चतुःसप्तम्यष्टमीभिः समन्वितम् ।
सप्तपञ्चम्यष्टमीभिर्युक्तं ध्रुवमिति स्मृतम् ॥ १२१ ॥
षट्सप्तम्यष्टमीयुक्तं कथं सर्वार्थसिद्धिदम् ।
इत्युक्तानि त्रिभद्रानि शस्तान्येतेषु यानि च ॥ १२२ ॥
१ द. भावाक्षं। २ द. प्रतौ श्लोकार्धं नास्ति ।

तानि नित्यं प्रयोज्यानि वर्णानां च मनीषिभिः ।
आद्याश्चतस्रो मूषाः स्युर्यत्र तत् कृतसंज्ञितम् ॥ १२३ ॥
सर्वद्विगुणकृत् पूर्वप्रत्यग्द्वारं नचान्यथा ।
आद्यास्तिस्रः पञ्चमी च यस्मिन्नर्चायनं हि तत् ॥ १२४ ॥
तद् भवेत् पश्चिमद्वारं सर्वगुणान्वितम् ।
यस्मिन्नाद्या द्वितीया च चतुर्थी पञ्चमी तथा ॥ १२५ ॥
तत् पौष्णं दक्षिणद्वारं सर्ववृद्धिकरं नृणाम् ।
आ?(द्या)¹द्यास्तिस्रस्तथाद्या च यस्मिंस्तद् गृहमुद्गतम् ॥ १२६ ॥
द्वारेण पश्चिमेनैतच्छस्यते दक्षिणेन वा ।
द्वयाद्याश्चतस्रो यत्र स्युस्तन्मित्रं प्रीतिवर्धनम् ॥ १२७॥
प्रशस्तं क्षत्रियादीनामस्य द्वाः प्राच्यपाचि वा ।
आद्यास्तिस्रस्तथा षष्ठी यस्मिन् मूषास्तदुत्सुकम् ॥ १२८ ॥
तच्छस्तं पश्चिमद्वारं विप्रादीनां जयावहम् ।
आद्या द्वितीया तुर्या च मूषा षष्ठी च यत्र तत् ॥ १२९ ॥
याम्य²प्रत्यङ्मुखं शस्तं विन्नं नाम कुलर्द्धितम् ।
आद्या तृतीया तुर्या च यस्मिन् षष्ठी च तच्छुभम् ॥ १३० ॥
विपक्षं नाम धाम स्याद् द्वारमस्य च पश्चिमम् ।
द्व्याद्यास्तिस्रो गृहे यस्मिन् मूषा षष्ठी च तच्छुभम् ॥ १३१ ॥
स्याद् याम्यपश्चिमद्वारमाहूतं नाम तद् गृहम् ।
आद्याद्वितीयापञ्चम्यो यत्र षष्ठी च तद् भवेत् ॥ १३२॥
रुचकं नाम याम्यप्राग्द्वारं सकलकामदम् ।
एकत्रिपञ्चषष्ठयः स्युर्यत्र तद्वर्धमानकम् ॥ १३३॥
प्राक्पश्चिमोत्तरद्वारं चातुर्वर्ण्यस्य वृद्धिदम् ।
यत्र स्युर्द्वित्रिपञ्चम्यो मूषाः षष्ठी च तद् गृहम् ॥ १३४ ॥
स्यात् पूर्वदक्षिणद्वारं प्रथितं पृथुसंज्ञया ।
यस्मिन्नाद्या³श्चतुःपञ्चषष्ठ्यस्तत् कलभं विदुः ॥ १३५॥
१ द. द्व्याद्यां । २ क. याम्यप्रत्यं । ३ 'द्य' क. पाठः ।