समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 158, कुल 726 में से
संदर्भ में पढ़ेंचतुःशालविधानं नामैकोनविंशोऽध्यायः । ९३
कृतसूक्ष्मान्तरच्छिद्रैः प्रवर्षति समन्ततः ।
तद् धारागृहमित्युक्तं धारागारादिनामभृत् ॥ ५० ॥
कांस्यैर्लोहैस्तथा पट्टैर्निर्मृष्टादर्शनिर्मलैः ।
निचिता यस्य भित्तिः स्यात् तद् दर्पणगृहं १विदुः ॥ ५१ ॥
पक्षद्वारं तदत्राहुरन्यन्महाद्वारतोऽपरम् ।
यत् प्राकाराश्रितं द्वारं पुरे तद् गोपुरं विदुः ॥ ५२ ॥
निर्गताश्चोच्छ्रिताश्चैव प्राकारस्यान्तरान्तरा ।
उपका(ल्या?र्या) इति प्रोक्ताः ३क्षेमाश्चाट्टालका मताः ॥ ५३ ॥
चयप्रकारशालाः स्युः पुरीसंवरणाभिधाः ।
प्राकारादनुपालास्तु प्राकार उपनिष्कलाः(?) ॥ ५४ ॥
क्रीडागृहं यदारामे तदुद्यानं प्रचक्षते ।
तीरेऽम्भसो जलोद्यानं जलवेश्माम्बुमध्यगम् ॥ ५५ ॥
क्रीडागृहं यदत्रोक्तं क्रीडागारं तदुच्यते ।
विहारभूमिराक्रीडभूमिरित्यभिधीयते ॥ ५६ ॥
देवधिष्ण्यं सुरस्थानं चैत्यमर्चार्गृहं च तत् ।
देवतायतनं प्राहुर्विबुधागारमित्यपि ॥ ५७ ॥
छन्नं भवेद् यत्तु महाजनस्य स्थानं सभा सा कथिता च शाला ।
गवां पुनर्मन्दिरमत्र गोष्ठमाचक्षते वास्तुनिवेशविज्ञाः ॥ ५८ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
नगरखर्वटग्रामगृहायतनसंज्ञा नामाष्टादशोऽध्यायः ।
अथ चतुःशालविधानं नामैकोनविंशोऽध्यायः ॥
ब्रूमो नृपचमूनाथवर्णिनां भवनान्यथ ।
प्रशस्तान्यप्रशस्तानि कृत्स्नान्यपि यथाक्रमम् ॥ १ ॥
१ द. ख. जगुः । २ क. उपकाम्या इति, द. ख. उपकल्या इति । ३ क. द. ख. क्षेमाश्चा° ।
शा. क्षौमाश्चा° ।