समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 157, कुल 726 में से
संदर्भ में पढ़ें९२ समराङ्गणसूत्रधारे
तत् तोरणमिति प्रोक्तं यच्च तेन परिष्कृतम् ।
सुवर्णतोरणं च स्यान्मणितोरणमेव च ॥ ३८ ॥
पुष्पतोरणमप्येतत् क्रियते पुष्पकादिभिः ।
तोरणाग्रे ठकारो यः सिंहकर्णः स ¹उच्यते ॥ ३९ ॥
नाम्ना संयमनानीति गृहसञ्च²रभूमयः ।
गृहस्य पार्श्वे यद्यस्मिंस्तत् तत्सं³यमनं विदुः ॥ ४० ॥
भित्तेर्यद्वाह्य दारूणां तरङ्गाग्रवदो⁴न्नतम् ।
मरालपा⁵ली सा हर्म्या(त्) प्रणाली निर्गमोऽम्भसः ॥ ४१ ॥
स च प्राकार इत्युक्तः कण्ठः स्यादङ्गणस्य यः ।
द्वार⁶स्य तु समीपं यत् प्रद्वारं तदिहोच्यते ॥ ४२ ॥
यदिष्टकचितं मूले द्वारस्य भवति स्थलम् ।
दीर्घं वा ह्रस्वमथवा तदास्थलकमिष्यते ॥ ४३ ॥
मूत्रभूमिरमेध्येति वर्चस्कोऽवस्करस्तथा ।
गृहाच्च भित्तिसामान्यं बाह्यं परिसरो मतः ॥ ४४ ॥
विस्तीर्णमुच्छ्रितं यत् स्याद् वेश्म सोऽट्ट उदाहृतः ।
संक्षिप्तमेतदेवोक्तं तज्ज्ञैरट्टालकाख्यया ॥ ४५ ॥
तदेवाल्यन्तसंक्षिप्तमट्टालीति निगद्यते ।
अट्टाली या तु नात्युच्चा तामत्राट्टालिकां विदुः ॥ ४६ ॥
एकनाडीगतच्छिद्रैः काष्ठनालैः परिश्रितम् ।
यत्र काष्ठप्रणाली⁷तं छदपृष्ठेऽम्बु धावति ॥ ४७ ॥
स्तम्भशीर्षकरूपाणि काष्ठमूलाश्रितानि च ।
सुषिराणि प्रयत्नेन काष्ठनाडीमुखान्तरैः ॥ ४८ ॥
रूपाणामथ तेषां तु स्तननासामुखाक्षिभिः ।
नानास्थानस्थितानां च वृषवानरदंष्ट्रिणाम् ॥ ४९ ॥
१ द. कथ्यते । २ द. ख. गृहसंचारभूमयः । ३ संयावनं । ४ °दानवम् । ५ द. ख.
मराल्या भित्तिसामान्यं बाह्यं परिसरो मतः । विस्तीर्णमुच्छ्रितांयली सा हर्म्या । ६ क. °स्य च समीपे ।
७ क. °प्रणालीभिः ।