सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 165, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 165

१०० समराङ्गणसूत्रधारे
समवाये यथा भूयो जानीयात् साध्वसाधु च ।
तथाष्टावेकभद्राणि सप्तभद्राणि च क्रमात् ॥ ७१ ॥
द्विभद्राण्यष्टभिर्युक्ता षड्भद्राणि च विंशतिः ।
षट्पञ्चाशत् त्रिभद्राणि पञ्चभद्राणि चोन्नयेत् ॥ ७२ ॥
सप्ततिश्च चतुर्भद्राण्येकं भद्राभिरष्टभिः ।
एवं शतद्वयं पिण्डः षट्पञ्चाशच्च वेश्मनाम् ॥ ७३ ॥
भद्रैः पूर्वविधानेन चतुःशालाक्रियादिषु ।
मूषा स्यात् कुड्यजैस्तेषु चतुश्शालेषु वेश्मसु ॥ ७४ ॥
अनुवंशाश्रिते मूषे स्वस्तिके स्तःपराङ्मुखे ।
मुखायते च पुरतो द्वे स्यातामवकोसिमे ॥ ७५ ॥
नोदङ्मुखः स कर्तव्यः कार्यः प्राग्जीवसंयुतः ।
वर्धमाने तथा कार्ये?(र्यो) यथा प्राग्ग्रीवसंयुतः ॥ ७६ ॥
वर्धमाने तथा कार्ये द्वारमूषे मुखायते ।
मूषाया दक्षिणे स्यातां दीर्घवामेऽवकोसिमे ॥ ७७ ॥
नन्द्यावर्तगृहे सर्वा नन्द्यावर्ता भवन्ति ताः ।
द्वे स्तरु?(मू)षे रुचके स्यातामायते त्ववकोसिमे ॥ ७८ ॥
सर्वद्वारवहा मूषाः सर्वतोभद्रवेश्मनि ।
आदिमूषा भवेदेका गृहं प्रागायतं हि तत् ॥ ७९ ॥
द्वितीया प्राग्विलग्नमेकया तदनन्तरम् ।
प्रदक्षिणेन वेश्मानि जयादीन्येकयैकया ॥ ८० ॥
मूषया स्युः क्रमादेवं कथ्यन्ते तत्फलान्यथ ।
धनमर्थविनाशश्च जयश्चैवाशुभं सदा ॥ ८१ ॥
प्रीतिरुद्वेगकल्याणकलहाश्चाप्यनुक्रमात् ।
यत्र पूर्वे उभे मूषे तदीरं परिकीर्तितम् ॥ ८२ ॥
यत्र पूर्वा तृतीया च तत् १सुनीतं गृहं विदुः ।
आग्नेये द्वितृतीये स्तो द्वीपे चाद्यचतुर्थिके ॥ ८३ ॥
१ द. सुनीथं ।