सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 160, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 160

चतुःशालविधानं नामैकोनविंशोऽध्यायः । ९५
अन्यानि चाष्टभेदानि भवन्त्युत्तमवर्णिनाम् ।
लक्षणं नाम संस्थानं चैतेषां प्रतिपाद्यते¹ ॥ १४ ॥
वर्णिनां स्याच्चतुःशालं मितं द्वात्रिंशता करैः ।
सेनापतेश्चतुःषष्टिरस्तद्वदेव पुरोधसः ॥ १५ ॥
श्रेष्ठमष्टशतं राज्ञामेतानि तु यथाक्रमम् ।
चतुःषडष्टहान्या स्युः पञ्चमं च पृथक् पृथक् ॥ १६ ॥
विशोधयेत् कनीयोभिर्मध्यमानि यथाक्रमम् ।
नरेन्द्रपुरुषाणां स्युर्वेश्मान्येतानि वृद्धये ॥ १७ ॥
गृहाणि शोधयेत् प्राग्वज्ज्यायांस्यपि च मध्यमैः ।
भवन्त्येतानि भूपानां रतिकोशप्रतिश्रयाः ॥ १८ ॥
दशांशयुक्तो विस्तारा²दायामो विप्रवेश्मनाम् ।
अष्टषट्चतुरंशाढ्यः क्षत्रादित्रयवेश्मनाम् ॥ १९ ॥
यो विस्तारः स एव स्यादायामोऽस्मिन् यथाक्रमम् ।
विट्शूद्रयोः स्यादाधिक्यं³ मध्ये ज्येष्ठे च सद्मनि ॥ २० ॥
कर्णसूत्राद् बहिः स्तम्भान् न्यसेत् सर्वान् प्रयत्नतः ।
धाम्नां षोडशहस्तानां पञ्चानां चतुरुत्तरा ॥ २१ ॥
वृद्धिः शालास्तु तेषां स्युश्चतुरंशेन विस्तृताः ।
शालाव्यासार्धतोऽलिन्दः सर्वेषामपि वेश्मनाम् ॥ २२ ॥
तस्याः⁴ षोडशहस्ते स्यात् पञ्चमांशद्वयेन वा ।
सप्तमांशत्रयेण स्याद् द्वयोरपरवेद्मनोः ॥ २३ ॥
अन्त्ययोर्हस्तयोः स स्याच्चतुर्भिर्नवमांशकैः ।
पञ्चभिः षड्भिरेभिश्च सार्धैः साङ्घ्रिनगैः करैः ॥ २४ ॥
दैर्घ्यं स्याद् दशभिः सार्धैः शालायाः षोडशादिषु ।
निवेशदशमांशो यः स युतः सप्तभिः करैः ॥ २५ ॥
१ द. प्रतिपद्यते । २ द. विस्तार आयामो । ३ द. ॰धिकामथ ज्येष्ठेथ वेद्मनोः ।
४ क तस्यां ।