समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 150, कुल 726 में से
संदर्भ में पढ़ेंइन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८९
शीर्यते शक्रपिटकं कूटैभ्यः शक्रवेक्ष्म वा ।
यस्यां ककुभि तत्राहुर्हानिं पूर्वे विपश्चितः ॥ १६९ ॥
भङ्गे मृगालीलकटाक्षार्गलानामनुक्रमात् ।
पीडा सञ्जायते वेश्यानृपतिश्रेष्ठिरक्षिणाम् ॥ १७० ॥
भग्ना भ्रमाक्षपादैर्वा मल्लमातृकुमारिकाः ।
राष्ट्रं हन्युर्नरेन्द्रस्य प्रियामातृसुतान् क्रमात् ॥ १७१ ॥
निर्घातोऽशनिरुल्का वा ध्वजे यदि पतेत् तदा ।
अनावृष्टिभयं राज्ञः पराजयमथादिशेत् ॥ १७२ ॥
कुर्वन्ति मक्षिकाः शके मधुच्छत्रं समुच्छ्रिते ।
यस्मिंस्तत्र द्विषद्रोधं षण्मासाच्चादिशेत् पुरे ॥ १७३ ॥
मक्षिका वा खगा वा चेद् अमेयुः पार्श्वतो हरेः ।
प्रदक्षिणा बहिस्थानंमासाच्चाहुस्तदा मृतिम् ॥ १७४ ॥
गृध्रश्येनकपोताश्चेल्लीयन्ते शक्रमूर्धनि ।
तदा कुर्वन्ति दुर्भिक्षविग्रहक्षितिपक्षयान् ॥ १७५ ॥
यदि केतौ निलीयन्ते कुररोलूकवायसाः ।
राज्ञः क्रमात् तदा हन्युर्मन्त्रिपुत्रपुरोधसः ॥ १७६ ॥
मयूरो यदि वा हंसः समाश्रयति वासवम् ।
समस्तलक्षणोपेतस्तदा स्यान्नृपतेः सुतः ॥ १७७ ॥
चक्री बलाका हंसी वा यदि केतौ निलीयते ।
तदा नरपतिर्भार्यामवाप्नोत्यतिसुन्दरीम् ॥ १७८ ॥
खगैः सुवृष्टिर्जलजैः सुभिक्षं स्यात् फलाशिभिः ।
विष्ठाशिभिश्च दुर्भिक्षं भीतिः स्यात् पिशिताशिभिः ॥ १७९ ॥
यदि चित्रपटन्यस्ताः सुरयक्षोरगोत्तमाः ।
विचित्राकृतिभिर्युक्ता वाहनायुधभूषणैः ॥ १८० ॥
१. द. ख. 'नमासमाहुस्तदितिरा मृ.' (?) ।