रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
ान् (-)
15. त (v)
16. सी (-)
17. मा (-)
18. व (v)
19. धि (v / -)
Total syllables = 19!
Shardulavikridita pattern:
-
-
- v v - v - v v v - - - v - - v - (19 syllables)
Pause at 12 and 7!
Let's check:
1-3: सम् (-) यग् (-) दिव् (-) -> 3 heavy.
4-5: य (v) र (v) -> 2 light.
6: सा (-) -> 1 heavy.
7: य (v) -> 1 light.
8: ने (-) -> 1 heavy.
9-11: न (v) स (v) त (v) -> 3 light.
12: तं (-) -> 1 heavy. (Yati at 12!)
13-15: कल् (-) पान् (-) त (v) -> 2 heavy, 1 light.
16-17: सी (-) मा (-) -> 2 heavy.
18-19: व (v) धि (-) -> 1 light, 1 heavy.
PERFECT SHARDULA-VIKRIDITA! (19 syllables).
- v v - v - v v v - - - v - - v - (19 syllables)
-
Now let's apply Shardulavikridita (1
८ आयुर्वेदियग्रन्थमाला । [उपदेशः
द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् ।
तत्सर्वं भृङ्गजैर्द्रवैर्मर्दितं भावयेत्त्र्यहम् ॥ १० ॥
त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर्माषं ततो लिहेत् ।
रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥ ११ ॥
चतुर्मासैर्जरां हन्ति जीवेद्ब्रह्मदिनं किल ।
भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्त्रिफलासमम् ॥ १२ ॥
पलैकं मधुना लेह्यं क्रामकं परमं रसे ।
वज्रधारारसः ।
वज्रमृताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥ १३ ॥
तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर्दृढम् ।
रुद्ध्वा तं त्रिदिनं पच्याद्वालुकायन्त्रगं पुनः ॥ १४ ॥
उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर्द्रवैः ।
माषेकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥ १५ ॥
मासषट्कप्रयोगेण रुद्रतुल्यो भवेन्नरः ।
वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥ १६ ॥
पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः ।
सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत्पलम् ॥ १७ ॥
भैरवरसः ।
सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् ।
शतावर्याः शिफाद्रावैर्भावयेद्दिवसत्रयम् ॥ १८ ॥
त्रिदिनं त्रिफलाक्वाथैर्भृङ्गद्रावैर्दिनत्रयम् ।
भावितं मधुसर्पिर्भ्यां भक्षयेद्भैरवं रसम् ॥ १९ ॥
माषेकैकं वर्षमात्रं जीवेच्चन्द्रार्कतारकम् ।
मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम् ॥ २० ॥
पलैकैकं पिबेच्चानु क्रामकं परमं हितम् ।
शिलावीररसः ।
रसभस्म समं गन्धं शिलाजत्वम्लवेतसम् ॥ २१ ॥
२.] रसरत्नाकरस्य रसायनखण्डः । ९
यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् ।
निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ २२ ॥
जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् ।
पलार्धं मुशलीचूर्णं भृङ्गराजरसैः पिबेत् ॥ २३ ॥
धात्रीफलरसैर्वाऽथ क्रामकं ह्यनुपानकम् ।
अमृतार्णवरसः ।
मेघनादद्रवैर्मर्द्यं शुद्धसूतं दिनत्रयम् ॥ २४ ॥
विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् ।
आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ २५ ॥
चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् ।
सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयन् पचेत् ॥ २६ ॥
तत्पिण्डं कर्षमेकैकं भक्षयेदमृतार्णवः ।
वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २७ ॥
बाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् ।
उदयादित्यरसः ।
पारदाद्द्विगुणं गन्धं शुद्धं सर्वं विमर्द्येत् ॥ २८ ॥
मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः ।
एतत्तुल्यं शुद्धताम्रं संपुटे तन्निरोधयेत् ॥ २९ ॥
वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः ।
लिप्त्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥ ३० ॥
उद्धृत्य संपुटं चूर्ण्यं देवदाल्या द्रवैस्त्र्यहम् ।
भङ्गीपुनर्नवाद्रवैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ ३१ ॥
तत्तुल्यं नागराच्चूर्णं क्षिप्त्वा मध्वाज्यसंयुक्तम् ।
लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥ ३२ ॥
रसोऽयमुदयादित्यो जरामृत्युहरः परः ।
पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥ ३३ ॥
१० आयुर्वेदीयग्रन्थमाला । [उपदेशः
मध्वाज्याभ्यां लिहेत्कर्षमनु स्यात्क्रामणं परम् ।
गगनेश्वररसः ।
पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ ३४ ॥
भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्त्र्यहम् ।
सितामध्वाज्यकैस्तुल्यं सर्वं भाण्डे निरोधयेत् ॥ ३५ ॥
धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् ।
भक्षयेच्च पिबेत्क्षीरं कर्षैकं त्रिफलामनु ॥ ३६ ॥
रात्रौ शुण्ठीं कणां खादेद्वर्षैकादमरो भवेत् ।
जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥ ३७ ॥
वटेश्वररसः ।
वटक्षीरैस्त्र्यहं मर्द्य गन्धं शुद्धरसं समम् ।
वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥ ३८ ॥
क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् ।
समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ ३९ ॥
उष्णकाले तु गुञ्जैंकं ताम्बूलपत्रसंयुक्तम् ।
चन्द्रवृद्ध्या सदा भक्ष्यं यावत् षोडशगुञ्जकम् ॥ ४०॥
चूर्णमुत्तरवारुण्या बाकुच्या देवदालिजम् ।
मध्वाज्याभ्यां लिहेत्कर्षं क्रामकं ह्यनुपानकम् ॥ ४१ ॥
वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ।
रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥ ४२ ॥
अचलेश्वररसः ।
मृतं सूतं शुद्धगन्धं त्रिफलां गुगुग्लुं समम् ।
सर्वं वातारितैलेन मिश्रं कर्षं लिहेत्सदा ॥ ४३ ॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥ ४४ ॥
अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि ।
सितायुक्तं पिबेच्चानु रसोऽयमचलेश्वरः ॥ ४५ ॥
२.] रसरत्नाकरस्य रसायनखण्डः। ११
परमेश्वररसः ।
रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् ।
माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥ ४६ ॥
सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् ।
भूधरे दिनमेकं तु ख्यातः सिद्धरसः परः ॥ ४७ ॥
मार्षकं मधुना लेह्यं वर्षान्मृत्युजरापहम् ।
दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥ ४८ ॥
श्वेतपौर्नर्नवं मूलं क्षीरपिष्टं सदा पिवेत् ।
भक्षयेद्वा सिता सार्धं क्रामकं पैरमे रसे ॥ ४९ ॥
गन्धामृतरसः ।
मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् ।
दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥ ५० ॥
दिनैकं मधुना पच्यान्निष्कैंकं मधुना लिहेत् ।
गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥ ५१ ॥
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ।
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ ५२ ॥
एकीकृत्य पलैकैकं भक्षयेदनुपानकम् ।
कालकण्टकरसः ।
पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ ५३॥
तत्सर्वं भृङ्गजैर्द्रवैर्मर्दयेद्दिनसप्तकम् ।
षड्वारं चोङ्गुलीतैलैर्भावयित्वाऽथ भक्षयेत् ॥ ५४ ॥
माषमात्रं तु वर्षेकं रसोऽयं कालकण्टकः ।
पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥ ५५ ॥
जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ।
अमृतेशरसः ।
मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ ५६ ॥
१ 'परमेश्वरे' ख. । २ 'बाकुचीतैलै-' ख. ।
१२ आयुर्वेदीयग्रन्थमाला । [उपदेशः
तुल्यांशं मधुसर्पिर्भ्यां लिहेद्गुञ्जात्रयं सदा ।
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ५७ ॥
अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् ।
भागाष्टकं गुडं तस्मिन् क्षिपेद्भागं च पिप्पलीम् ॥५८॥
मृद्वग्निना च तत्सर्वं पिण्डितं भक्षयेत् पलम् ।
क्रामकं ह्यमृतेशस्य रसराजस्य सिद्धये ॥ ५९ ॥
रसवीरमहारसः ।
त्रिगुणं शुद्धसूतस्य योजयेच्छुद्धगन्धकम् ।
लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥ ६० ॥
स्नुह्यर्कपयसा मर्द्य तत्सर्वं दिवसत्रयम् ।
तच्छुष्कं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ॥६१॥
ततश्च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेदृढम् ।
गुञ्जैकं मधुना खादेद्रसवीरो महारसः ॥ ६२ ॥
अब्देकेन जरां हन्ति जीवेदाचन्द्रतारकम् ।
मुशलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥ ६३ ॥
छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् ।
काञ्चायनरसः ।
मृतमृतसमं गन्धं काकमाच्या द्रवैर्दिनम् ॥ ६४ ॥
मर्दितं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ।
दिव्यौषधदलद्रावैर्दिनं मर्द्य तमन्धयेत् ॥ ६५ ॥
ध्मातं तस्मात्समुद्धृत्य तत्तुल्यं हाटकं मृतम् ।
एकीकृत्य घृतैर्लेह्यं माषैकं वत्सरावधि ॥ ६६ ॥
जरां मृत्युं निहन्त्याशु सत्यं काञ्चायनो रसः ।
काकमाचीद्रवैर्भाव्यं चूर्णं धात्रीफलोद्भवम् ॥ ६७ ॥
१ 'खादेन् करवीरो' ख. ।
२.] रसरत्नाकरस्य रसायनखण्डः । १३
मधुना भक्षयेत्कर्षमनु स्यात्कामकं परम् ।
परानन्दरसः ।
मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ ६८ ॥
शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् ।
रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥ ६९ ॥
परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् ।
दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥ ७० ॥
तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु ।
संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥ ७१ ॥
महाकालरसः ।
मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् ।
लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥ ७२ ॥
तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः ।
द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥ ७३ ॥
सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः ।
चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ ७४ ॥
सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि ।
महाकालो रसो नाम जराकालभयङ्करः ॥ ७५ ॥
तिलकोरण्टपत्राणि गुडेन भक्षयेदनु ।
हेमपर्पटरसः ।
मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ ७६ ॥
त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः ।
मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ ७७ ॥
तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः ।
मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ ७८ ॥
तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् ।
जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥ ७९ ॥
२
१४ आयुर्वेदीयग्रन्थमाला । [उपदेशः
अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् ।
भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ ८० ॥
श्रीकण्ठरसः ।
स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् ।
कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ ८१ ॥
तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् ।
समं मृतामृतं वज्रं पादांशं तत्र योजयेत् ॥ ८२ ॥
सर्वं जम्बीरजैर्द्रवैस्तप्तखल्वे विमर्दयेत् ।
दिनैकं तं निरुध्याथ भूधरे पाचयेद्दिनम् ॥ ८३ ॥
उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् ।
तच्चूर्णं मधुनाऽऽज्येन माषमात्रं लिहेत्सदा ॥ ८४ ॥
रसः श्रीकण्ठनामाऽयं खेचरत्वं प्रयच्छति ।
संवत्सरप्रयोगेण जीवेत्कल्पान्तमेव च ॥ ८५ ॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ ८६ ॥
खेचरबद्धरसः ।
शुद्धताम्रस्य भागैकं द्विपद् शुद्धरसस्य च ॥
त्रयं भूनागसत्त्वस्य भागमेकत्र कारयेत् ॥ ८७ ॥
सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् ।
तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ ८८ ॥
कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च ।
यावज्जीर्णे पुटे पच्यादेवं षड्गुणगन्धकम् ॥ ८९ ॥
जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् ।
यामं जम्बीरजैर्द्रवैस्ततो निश्चन्द्रमभ्रकम् ॥ ९० ॥
अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे ।
षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ ९१ ॥
कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधिः ।
तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥ ९२ ॥
दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् ।
उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥ ९३ ॥
अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् ।
एवं पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥ ९४ ॥
शिखिपित्तप्रलिप्तानि स्वर्णपत्राणि तस्य वै ।
चतुःषष्ठ्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥ ९५ ॥
स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् ।
इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥ ९६ ॥
ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् ।
तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥ ९७ ॥
ततो दिव्यौषधद्रावैस्तं मृतं मर्दयेत्त्र्यहम् ।
वज्रमूषानिधतं धाम्यं बद्धं स्याच्चूर्णयेत्पुनः ॥ ९८ ॥
मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् ।
रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥ ९९ ॥
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
सप्ताहं भृङ्गजैर्द्रावैर्नीलीमुण्डीफलत्रयम् ॥ १०० ॥
भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु ।
स्वयमग्निरसः ।
शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलम् ॥ १०१ ॥
तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा ।
सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥ १०२ ॥
दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् ।
आच्छाद्यैरण्डपत्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥ १०३ ॥
धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।
१६ आयुर्वेदनायग्रन्थमाला । [उपदेशः
कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डिचित्रकम् ॥१०४॥
कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः ।
शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ १०५ ॥
सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः ।
कषायैर्भावितं चूर्णं जातीफललवङ्गकम् ॥ १०६ ॥
त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् ।
तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥ १०७ ॥
वर्षैकं लेहयेन्नित्यं जराकालप्रशान्तये ।
खयमग्निरसो नाम सिद्धानां सुमुखागतः ॥ १०८ ॥
तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् ।
कक्षपुटरसः ।
निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥१०९॥
शतपुष्पा मुद्गपर्णी श्वेताकर्को वानरी जया ।
पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥ ११० ॥
एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् ।
शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ १११ ॥
वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ।
तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥ ११२ ॥
पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् ।
रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥ ११३ ॥
जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः ।
वर्षैकेन न संदेहो रसकायो भवेन्नरः ॥ ११४ ॥
भल्लातबीजचूर्णं च हयगन्धामृताघृतैः ।
पलैकं भक्षयेच्चानु क्रामकं परमं हितम् ॥ ११५ ॥
महाशक्तिरसः ।
मृतमृताभ्रकं वज्रं कान्ततारार्कहाटकम् ।
तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥११६॥
रसरत्नाकरस्य रसायनखण्डः । १७
सर्वं पालाशतैलेन मर्दयेद्दिनसप्तकम् ।
महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥ ११७ ॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥ ११८ ॥
इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ ११९ ॥
पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् ।
क्रामकं ह्यनुपानं स्यात्सम्यक्छक्त्या प्रकाशितम् ॥१२०॥
नाटकेश्वररसः ।
लोहितं वाऽथ वा कृष्णं वैक्रान्तं मारितं पलम् ।
स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ १२१ ॥
बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् ।
शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥ १२२ ॥
इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् ।
तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद्दिनत्रयम् ॥ १२३ ॥
तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् ।
सप्तधा भृङ्गजैर्द्रवैर्भावितं चूर्णयेत्पुनः ॥ १२४ ॥
त्रिफलात्र्यूषमध्वाज्यैः समं चूर्ण विमिश्रयेत् ।
माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ १२५ ॥
सर्वरोगजरामृत्यून् वत्सरान्नाशयत्यलम् ।
दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥ १२६ ॥
मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् ।
पिबेन्निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥ १२७ ॥
बालसुन्दररसः ।
सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे ।
अम्लवेतससंपिष्टं तेनैव द्रुतिमाप्नुयात् ॥ १२८ ॥
त्रैफलोषणमध्वाज्यैः' ख. । २ 'हाटकेश्वरः' क. ।
१८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् ।
मर्दितं लेहयेन्माषं मासाद्बालो भवेन्नरः ॥ १२९ ॥
वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः ।
बाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥ १३० ॥
ब्रह्मपञ्जररसः ।
चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् ।
पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ १३१ ॥
मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् ।
शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद्दिनम् ॥ १३२ ॥
माषमात्रां वटीं खादेद्वत्सरान्मृत्युजिद्भवेत् ।
जीवेद्ब्रह्मादिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥ १३३ ॥
वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् ।
शाल्मलीत्वग्दलद्रावैर्भावयेद्दिवसत्रयम् ॥ १३४ ॥
त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः ।
पुरातनगुडैस्तुल्यं कर्षकमनु भक्षयेत् ॥ १३५ ॥
शिवामृतरसः ।
रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् ।
छेदे निर्याति रक्तं चेत्तान् स्वीकुर्यात्प्रयत्नतः ॥ १३६ ॥
कृष्णवर्णगवाज्येन समेन सह तान् पचेत् ।
लोहजे चालयन् पात्रे यावत्सिन्दूरवर्णकम् ॥ १३७ ॥
तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् ।
मधुनाऽऽलोडितं सर्वं गुञ्जाधार्धं विवर्धयन् ॥ १३८ ॥
पञ्चाङ्गुञ्जां सदा खादेद्यावत्संवत्सरावधि ।
शिवामृतो रसो नाम जरामृत्युहरो नृणाम् ।
आयुर्ब्रह्मादिनं दत्ते शिवाम्बु पाययेदनु ॥ १३९ ॥
१ 'तिलैः सह' ख. ।
३.] रसरत्नाकरस्य रसायनखण्डः । १९
एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः
सिद्धं देहमनेकसाधनवलाद्येषां तु दृष्टं मया ।
तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि
भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥ १४०
इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे चतुर्थे रसायनखण्डे
दिव्यरसदेहसाधनं नाम द्वितीय उपदेशः ॥ २ ॥ *
अथ तृतीयोपदेशः ।
दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति ।
शीघ्रसिद्धिकरमेव१ सेव्यतां क्रामणार्थमनुपानमत्र वै ॥ १ ॥
मृतसंजीवनीगुटिका ।
काकतुम्ब्री काकमाची निर्गुण्डी च कुमारिका ।
गोजिह्वा सैन्धवं गुञ्जा ह्यार्द्रकं च समं समम् ॥ २ ॥
पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाऽङ्गुलावधि ।
पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥ ३ ॥
ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् ।
दिनं जम्बीरजैर्द्रवैस्तन्मूषायां विनिक्षिपेत् ॥ ४ ॥
आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् ।
करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत् ॥ ५ ॥
पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत्ततः ।
इत्येवं दशमूषासु प्रलिप्तासु विपाचयेत् ॥ ६ ॥
जायते गुटिका दिव्या मृतसंजीवनी परा ।
वक्त्रे शिरसि कण्ठे वा कर्णे वा२ धारिता करे ॥ ७ ॥
हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा ।
वलीपलितकालाग्निमृत्युशङ्काविनाशिनी ॥ ८ ॥
१ 'देहसिद्धिकरमेव' ख. । २ 'बाधां हरेदियम्' ख. ।
२० आयुर्वेदीयग्रन्थमाला । [उपदेशः
वर्षमात्रान्न संदेहो जीवेद्वर्षशतत्रयम् ।
शुद्धगन्धपलैकं तु गवां क्षीरैः पिबेत्सदा ॥ ९ ॥
अनेन त्वनुपानेन देहे संक्रमते रसः ।
वज्रेश्वरीगुटिका ।
समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥ १० ॥
ताप्यसत्त्वं मृतं वज्रं सर्वं जम्बीरजैर्द्रवैः ।
सप्ताहं मर्दयेत्तुल्यं कृत्वा गोलं समुद्धरेत् ॥ ११ ॥
निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका ।
पिष्ट्वा तु लेपयेद्गोलं सर्वतोऽङ्गुलमात्रकम् ॥ १२ ॥
तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे ।
लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥ १३ ॥
यवचिञ्चापलाशोत्थराजीकार्पासबीजकैः ।
सुपिष्टैर्लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥ १४ ॥
टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च ।
खदिराङ्गारयोगेन धमेदद्यावद्द्रुतं भवेत् ॥ १५ ॥
ततस्तं बिडलिप्तायां मूषायां च निवेशयेत् ।
तत्तुल्यं दापयेत्स्वर्णं जारयेत्तं धमन् धमन् ॥ १६ ॥
जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् ।
त्र्यहं दिव्यौषधिद्रावैर्वज्रमूषान्धितं धमेत् ॥ १७ ॥
जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा ।
वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल ॥ १८ ॥
शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्गच्छति ध्रुवम् ।
कृष्णाष्टम्यां समादाय सहदेवीं सुचूर्णयेत् ॥ १९ ॥
कर्षैकां भक्षयेदाज्यै्रनु स्यात्क्रमणे हितम् ।
वज्रसुन्दरीगुटिका ।
आरक्तं मेघनादं तु तथा पाषाणभेदकम् ॥ २० ॥
१ 'पिष्टैर्निरुन्धयेत्' ख. ।
रसरत्नाकरस्य रसायनखण्डः । २१
स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् ।
भागैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश ॥ २१ ॥
क्षित्वा तस्यां निरुन्ध्याथ याममात्रं दृढं धमेत् ।
उद्धृत्य निक्षिपेत्खल्वे शुद्धमूतं च तत्समम् ॥ २२ ॥
मर्दयेच्चार्द्रकद्रावैर्यावद्भवति गोलकंः ।
चण्डालीकन्दमादाय स्त्रीस्तन्येन सुपेषयेत् ॥ २३ ॥
अनेन गोलकं लिप्त्वा वज्रमूषां निरोधयेत् ।
पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी ॥ २४ ॥
वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।
ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिवेत् ॥ २५ ॥
क्रामणं ह्यनुपानं स्यात्साधकस्यातिसिद्धिदम् ।
तदुद्भवमलैर्लिप्तं ताम्रं तु धमनेन हि ॥ २६ ॥
जायते कनकं दिव्यं सत्यं शङ्करभाषितम् ।
हेमसुन्दरीवटिका ।
समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥ २७ ॥
जारयेद्विद्वयोगेन ततो मर्द्यं दिनत्रयम् ।
दिव्यौषधैः सगोमूत्रैर्वज्रमूषान्धितं धमेत् ॥ २८ ॥
उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी ।
पलार्धं गन्धकं चाज्यैर्द्विगुणैर्लेहयेदनु ॥ २९ ॥
वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् ।
वज्रखेचरीगुटिका ।
शुद्धमूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥ ३० ॥
अम्लवर्गे समं सर्वं मर्दयेद्दिवसत्रयम् ।
तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः ॥ ३१ ॥
ब्रह्मकार्पासबीजानि राजिका यवचिश्चिका ।
वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥ ३२ ॥
१ ‘क्षित्वा तु मर्दयेच्चानु चार्द्रकस्य द्रवैः पुनः’ ख. । २ ‘सुरसुन्दरी’ ख. ।
२२ आयुर्वेदीयग्रन्थमाला । [उपदेशः
रुद्धा गजपुटे पच्यात्समुद्धृत्याथ लेपयेत् ।
रुद्धा मूषां धमेद्गाढं गुटिका वज्रखेचरी ॥ ३३ ॥
जायते धारिता वक्त्रे वत्सरान्मृत्युनाशिनी ।
१भूतावरवटचूर्णं तु पलैकं सितया युतम् ॥ ३४ ॥
भक्षयेत्क्रामणार्थं तु ब्रह्मायुर्जायते नरः ।
व्योमसुन्दरी वटिका ।
कार्पासाः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥ ३५ ॥
शुद्धसूतं दिनं मर्द्यं क्षाल्यमम्लैः समुद्धरेत् ।
तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥ ३६ ॥
पादोननिष्कम्प्रोत्थं सत्त्वं पादं च हाटकम् ।
हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥ ३७ ॥
दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् ।
त्रिदिनं दोलकायन्त्रे पाचयेत्सारनालके ॥ ३८ ॥
उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी ।
वर्षमात्रान्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ३९ ॥
चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके ।
आलोड्य भक्षयेत्कर्षमनु स्यात्क्रामणे हितम् ॥ ४० ॥
हाटकेश्वरीगुटिका ।
निष्कमेकं स्वर्णपत्रं त्रिनिष्कं शुद्धपारदम् ।
जम्बीरशरपुङ्खोत्थद्रवैर्मर्द्यं दिनावधि ॥ ४१ ॥
तद्गोलं बन्धयेद्वस्त्रे पचेद्गोक्षीरपूरिते ।
दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥ ४२ ॥
जायते धारिता वक्त्रे जरामृत्युविनाशिनी ।
वर्षमात्रान्न संदेहो जीवेद्वर्षायुतं नरः ॥ ४३ ॥
दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः ।
भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥ ४४ ॥
१ 'भूतावरटचूर्णं' ख. ।
रसरत्नाकरस्य रसायनखण्डः । २३
अर्कप्रभावती गुटिका ।
रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् ।
चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्य दिनावधि ॥ ४५ ॥
तद्गोलं बन्धयेद्वस्त्रैस्तक्रचिञ्चाम्लपूरिते ।
दोलायन्त्रे दिनं पच्याद्गुटिकाऽर्कप्रभावती ॥ ४६ ॥
वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन्नरः ।
पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम् ॥ ४७ ॥
क्रामकं ह्यनुपानं स्याज्जरामृत्युहरं परम् ।
सुरसुन्दरी वटिका ।
स्वर्णमेकं कान्तमेकं पश्चतारं द्विपारदम् ॥ ४८ ॥
त्रिभागं व्योमसत्त्वं स्यात् षड्भागं शुल्वचूर्णकम् ।
सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम् ॥ ४९ ॥
मर्दयेदम्लवर्गेण दोलायन्त्रे सकाञ्जिके ।
तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥ ५० ॥
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
भूतारवटमूलं च कर्षं क्षीरैः पिबेदनु ॥ ५१ ॥
वज्रतुण्डवटिका ।
स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् ।
एतत्सर्वं समं चूर्ण चूर्णांशं मृतवज्रकम् ॥ ५२ ॥
सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः ।
मर्दयेद्दिनमेकं तु वज्रमूषानिधतं धमेत् ॥ ५३ ॥
गुटिका वज्रतुण्डेयं जायते धारिता मुखे ।
जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल ॥ ५४ ॥
वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् ।
कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥ ५५ ॥
'भूतावरटमूलं' ख.
२४ आयुर्वैदीयग्रन्थमाला । [उपदेशः
पलैकं क्रामकं लेह्यमनुपानं सदैव हि ।
कामसुन्दरीगुटिका ।
स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥ ५६ ॥
पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः ।
द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ५७ ॥
मर्दयेत्कान्तचूर्णं च वज्रतुल्यं क्षिपेच्च वै ।
वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥ ५८ ॥
जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा ।
निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥ ५९ ॥
मिश्रितं पाययेच्चानु लक्षायुर्जायते नरः ।
गान्धारीगुटिका ।
लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥ ६० ॥
किंचिच्चाल्यं तु काष्ठेन मुहूर्तादवतारयेत् ।
शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥ ६१ ॥
पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका ।
एतासां वस्त्रपूतैश्च द्रवैर्मर्घ्यं दिनत्रयम् ॥ ६२ ॥
तस्मिन् पात्रे लोहमुष्ट्या छायांशुष्कं वटीकृतम् ।
लोहसंपुटगं रुद्धा संधिं मृल्लवणैर्दृढम् ॥ ६३ ॥
तं धमेत्खदिराङ्गारैर्यावदारक्तमुद्धरेत् ।
उत्खन्योत्खन्य तन्मध्यादुद्धरेच्चद्रसं पुनः ॥ ६४ ॥
काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् ।
गान्धारीगुटिका सिद्धा वर्षे वक्त्रे स्थिता सदा ॥६५॥
काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् ।
क्रामकं ह्यनुपानं स्याज्जीवेद्वर्षसहस्रकम् ॥ ६६ ॥
मातङ्गी गुटिका ।
शुद्धसूतसमं गन्धं मर्दनात्कजलीकृतम् ।
१ 'शुष्कं तं च विचूर्णयेत्' ख.
३.] रसरत्नाकरस्य रसायनखण्डः । २५
तत्ताम्रसंपुटे रुद्ध्वा लवणेन मृदा दृढम् ॥ ६७ ॥
शुष्कं दीपाग्निना पच्याद्यामैकं भस्मयन्त्रके ॥ ६८ ॥
संपुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् ।
तुल्यपारदसंयुक्तं पूर्ववत्संुपुटे पचेत् ॥ ६९ ॥
उद्धृत्य तुल्यमृतेन संयुक्तं मर्दितं पचेत् ।
इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ॥ ७० ॥
तुल्यं तुल्यं क्षिपेत्तस्मिन् दिनं सर्वं विमर्दयेत् ।
वज्रमूषागतं रुद्ध्वा धमाते खोटो भवेद्रसः ॥ ७१ ॥
मार्तण्डी गुटिका ह्येषा वर्षैकं यस्य वक्त्रगा ।
वलीपलितमुक्तोऽसौ जीवेदाचन्द्रतारकम् ॥ ७२ ॥
पलाशबीजजं तैलं पलैकं क्षीरतुल्यकम् ।
क्रामणं प्रपिबेन्नित्यं तत्क्षणान्मूर्च्छितो भवेत् ॥ ७३ ॥
तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् ।
प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम् ॥ ७४ ॥
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ।
वायुवेगो महासिद्धश्छिद्रां पश्यति मेदिनीम् ॥ ७५ ॥
तारकेश्वरीगुटिका ।
काकमाच्यमृताद्रावैः पारदं तालकं समम् ।
मर्दयेद्दिनमेकं तु कृत्वा गोलं विशोषयेत् ॥ ७६ ॥
निक्षिपेद्वज्रमूषायामाच्छाद्य लोहैःपर्पटैः ।
रुद्ध्वा सन्धिं धमेद्गाढं खोटबद्धो भवेद्रसः ॥ ७७ ॥
लोहपर्पटकं दत्त्वा तद्वद्धाम्यं त्रिधा पुनः ।
वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी ॥ ७८ ॥
बाकुचीबीजकर्षैकं गवां क्षीरैः पिबेदनु ।
'दीप्ताग्निना' ख.। २ 'बद्धो' ख.। ३ 'पर्पटीरसैः' ख।
३
२६ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
विद्यावागीश्वरी गुटिका ।
व्योमसत्त्वं मृतं वज्रं स्वर्णतारार्कमुण्डकम् ॥ ७९ ॥
तीक्ष्णं कान्तं तालकं च शुद्धं कृत्वा विमिश्रयेत् ।
सूक्ष्मचूर्णं समं सर्वं चूर्णांशं शुद्धपारदम् ॥ ८० ॥
त्रिदिनं चाम्लवर्गेण मर्दितं चान्धितं धमेत् ।
विद्यावागीश्वरी ख्याता गुटिका वत्सरावधि ॥ ८१ ॥
यस्य वक्त्रे स्थिता तस्य जरा मृत्युर्न विद्यते ।
कर्षं ज्योतिष्मतीतैलं क्रामणार्थं पिबेत्सदा ॥ ८२ ॥
वाक्पतिर्जायते धीरो जीवेच्चन्द्रार्कतारकम् ।
वज्रतुण्डवाटिका ।
कान्तपाषाणमाक्षीकं टङ्कणं कर्कटास्थि च ॥ ८३ ॥
स्नुह्यर्कक्षीरभूनागं सर्वमेतत्समं भवेत् ।
स्त्रीस्तन्येन दिनं मर्द्यं तेन मूषां प्रलेपयेत् ॥ ८४ ॥
तन्मध्ये द्रुतसूतं १ तु वज्रभस्म समं समम् ।
क्षिप्त्वा रुद्ध्वा पुटे पच्याद्गजाख्ये याममात्रकम् ॥ ८५ ॥
ततः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्दृढात् ।
एवं पुनः पुनः कार्यं वज्रसूतं मिलत्यलम् ॥ ८६ ॥
ततस्तस्यैव दातव्यं समं काचं सटङ्कणम् ।
एवं मूषाशते देयं तुल्यं तुल्यं धमन् धमन् ॥ ८७ ॥
तेजःपुञ्जो रसेन्द्रोऽसौ भवेन्मार्तण्डसंनिभः ।
गुटिका वज्रतुण्डेयं वक्त्रस्था मृत्युनाशिनी ॥ ८८ ॥
वर्षमात्रान्न संदेहो रुद्रतुल्यो भवेन्नरः ।
तस्य मूत्रपुरीषाभ्यां पूर्ववत्काञ्चनं भवेत् ॥ ८९ ॥
पञ्चाङ्गं भक्षयेत्कर्षं रुदन्त्या मधुसर्पिषा ।
गगनेश्वरीगुटिका ।
टङ्कणं कर्कटास्थीनि ऊर्णा चैव शिलाजतु ॥ ९० ॥
१ 'शुद्धसूतं' ख ।