सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 29, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 29

२२ आयुर्वेदीयग्रन्थमाला । [उपदेशः
रुद्धा गजपुटे पच्यात्समुद्धृत्याथ लेपयेत् ।
रुद्धा मूषां धमेद्गाढं गुटिका वज्रखेचरी ॥ ३३ ॥
जायते धारिता वक्त्रे वत्सरान्मृत्युनाशिनी ।
१भूतावरवटचूर्णं तु पलैकं सितया युतम् ॥ ३४ ॥
भक्षयेत्क्रामणार्थं तु ब्रह्मायुर्जायते नरः ।
व्योमसुन्दरी वटिका ।
कार्पासाः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥ ३५ ॥
शुद्धसूतं दिनं मर्द्यं क्षाल्यमम्लैः समुद्धरेत् ।
तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥ ३६ ॥
पादोननिष्कम्प्रोत्थं सत्त्वं पादं च हाटकम् ।
हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥ ३७ ॥
दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् ।
त्रिदिनं दोलकायन्त्रे पाचयेत्सारनालके ॥ ३८ ॥
उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी ।
वर्षमात्रान्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ३९ ॥
चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके ।
आलोड्य भक्षयेत्कर्षमनु स्यात्क्रामणे हितम् ॥ ४० ॥
हाटकेश्वरीगुटिका ।
निष्कमेकं स्वर्णपत्रं त्रिनिष्कं शुद्धपारदम् ।
जम्बीरशरपुङ्खोत्थद्रवैर्मर्द्यं दिनावधि ॥ ४१ ॥
तद्गोलं बन्धयेद्वस्त्रे पचेद्गोक्षीरपूरिते ।
दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥ ४२ ॥
जायते धारिता वक्त्रे जरामृत्युविनाशिनी ।
वर्षमात्रान्न संदेहो जीवेद्वर्षायुतं नरः ॥ ४३ ॥
दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः ।
भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥ ४४ ॥
१ 'भूतावरटचूर्णं' ख. ।