सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 25, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 25

१८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् ।
मर्दितं लेहयेन्माषं मासाद्बालो भवेन्नरः ॥ १२९ ॥
वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः ।
बाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥ १३० ॥
ब्रह्मपञ्जररसः ।
चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् ।
पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ १३१ ॥
मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् ।
शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद्दिनम् ॥ १३२ ॥
माषमात्रां वटीं खादेद्वत्सरान्मृत्युजिद्भवेत् ।
जीवेद्ब्रह्मादिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥ १३३ ॥
वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् ।
शाल्मलीत्वग्दलद्रावैर्भावयेद्दिवसत्रयम् ॥ १३४ ॥
त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः ।
पुरातनगुडैस्तुल्यं कर्षकमनु भक्षयेत् ॥ १३५ ॥
शिवामृतरसः ।
रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् ।
छेदे निर्याति रक्तं चेत्तान् स्वीकुर्यात्प्रयत्नतः ॥ १३६ ॥
कृष्णवर्णगवाज्येन समेन सह तान् पचेत् ।
लोहजे चालयन् पात्रे यावत्सिन्दूरवर्णकम् ॥ १३७ ॥
तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् ।
मधुनाऽऽलोडितं सर्वं गुञ्जाधार्धं विवर्धयन् ॥ १३८ ॥
पञ्चाङ्गुञ्जां सदा खादेद्यावत्संवत्सरावधि ।
शिवामृतो रसो नाम जरामृत्युहरो नृणाम् ।
आयुर्ब्रह्मादिनं दत्ते शिवाम्बु पाययेदनु ॥ १३९ ॥


१ 'तिलैः सह' ख. ।