रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 21, कुल 94 में से
संदर्भ में पढ़ें१४ आयुर्वेदीयग्रन्थमाला । [उपदेशः
अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् ।
भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ ८० ॥
श्रीकण्ठरसः ।
स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् ।
कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ ८१ ॥
तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् ।
समं मृतामृतं वज्रं पादांशं तत्र योजयेत् ॥ ८२ ॥
सर्वं जम्बीरजैर्द्रवैस्तप्तखल्वे विमर्दयेत् ।
दिनैकं तं निरुध्याथ भूधरे पाचयेद्दिनम् ॥ ८३ ॥
उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् ।
तच्चूर्णं मधुनाऽऽज्येन माषमात्रं लिहेत्सदा ॥ ८४ ॥
रसः श्रीकण्ठनामाऽयं खेचरत्वं प्रयच्छति ।
संवत्सरप्रयोगेण जीवेत्कल्पान्तमेव च ॥ ८५ ॥
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ ८६ ॥
खेचरबद्धरसः ।
शुद्धताम्रस्य भागैकं द्विपद् शुद्धरसस्य च ॥
त्रयं भूनागसत्त्वस्य भागमेकत्र कारयेत् ॥ ८७ ॥
सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् ।
तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ ८८ ॥
कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च ।
यावज्जीर्णे पुटे पच्यादेवं षड्गुणगन्धकम् ॥ ८९ ॥
जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् ।
यामं जम्बीरजैर्द्रवैस्ततो निश्चन्द्रमभ्रकम् ॥ ९० ॥
अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे ।
षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ ९१ ॥