रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
३. तृतीय उपदेश: दिव्य रसायन योग, देह-सिद्धि, रसायन-गुटिका एवं उपसंहार
s also an े!
Wait, why are there two slants?
Wait, is the second slant an े?
Look at the line above: तं समुद्धरेत् ।
The द्भू of पच्याद्भूधरे has a ू below it!
Look at द्भू: द् + भ + ू.
The ू of द्भू comes down!
Does the ू reach line 7?
Line 6: पच्याद्भूधरे
Line 7: पिष्ट्वा पञ्चामृतैः खा...
Below पच्या: पिष्ट्वा पञ्चा
Below द्भू: मृतैः!
Below धरे: खा!
Below तं: the letter after खा!
Wait! In line 6, तं has an anusvara.
Then स is above the letter after खा!
Does स have anything hanging down? No.
So the slant on line 7 is NOT from line 6.
Now look at the letters in line 7:
Letter after खा:
It has a द् shape, with a loop?
Wait! Could it be खाद्वेटिकां?
Wait, look at the two characters:
One has `
६० आयुर्वेदीयग्रन्थमाला । [उपदेशः
उद्धृत्य बन्धयेद्वस्त्रे दृढे चैव चतुर्गुणे ।
क्षुद्रशम्बूकमांसात्तच्छागीरक्तगतं पचेत् ॥ ४५ ॥
दोलायन्त्रे त्र्यहं यावद्देयं रक्तं पुनः पुनः ।
गुडूच्या गजपिप्पल्या कदल्या कोकिलाक्षकैः ॥ ४६ ॥
गोक्षुरीवानरीमूलजातीमूलस्य च द्रवैः ।
पाचयेत्तत्कषायैर्वा दोलायन्त्रे दिनत्रयम् ॥ ४७ ॥
ततः क्षीरे सितायुक्ते तद्वत्पच्यादिनावधि ।
उद्धृत्य मुशलीक्वाथैर्मर्द्यं यामचतुष्टयम् ॥ ४८ ॥
रसः पूर्णेन्दुनामाऽयं खादेन्मांसं सितायुतम् ।
गोक्षुरो वानरीबीजं गुडूची गजपिप्पली ॥ ४९ ॥
कोकिलाक्षस्य बीजानि मज्जा कार्पासबीजजा ।
शतावरी च रम्भायाः फलं सर्वं समं भवेत् ॥ ५० ॥
सर्वतुल्या सिता योज्या मधुना लोडितं लिहेत् ।
पलार्धमनुपानं स्यात्ततः पेयं गवां पयः ॥ ५१ ॥
कामिनीनां सहस्रैकं रमते कामदेववत् ।
वाजीकरो मदनकामो रसः ।
पद्मबीजं कसेरुं च कन्दं नालं च कर्णिकाम् ॥ ५२ ॥
मुशली भृङ्गराद् द्राक्षा पक्वं श्लेष्मातकं फलम् ।
विजया मर्कटी माषाः शणबीजानि वै तिलाः ॥ ५३ ॥
कोकिलाक्षस्य बीजानि भूकूष्माण्डी शतावरी ।
शृङ्गाटं चिर्भिटं फञ्जीबीजानि चाश्वगन्धिका ॥ ५४ ॥
एतत्सर्वं समं चूर्ण्य पादांशं चाहरेत्पृथक् ।
पादांशस्याष्टमांशेन शुद्धं सूतं विमिश्रयेत् ॥ ५५ ॥
पारदादष्टमांशं च कर्पूरं तत्र निक्षिपेत् ।
चातुर्जातकमेकैकं कर्पूराद्विगुणं भवेत् ॥ ५६ ॥
सूततुल्या सिता योज्या मर्द्यं रम्भाद्रवैर्दिनम् ।
तद्गोलं डामरे यन्त्रे क्रमवृद्धाग्निना पचेत् ॥ ५७ ॥
६.] रसरत्नाकरस्य रसायनखण्डः । ६१
दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् ।
मर्दितं सितया तुल्यं माषकं भक्षयेत्सदा ॥ ५८ ॥
रसो मदनकामोऽयं बलवीर्यविवर्धनः ।
दिव्यरूपो भजेद्रामाः कामाकुलकलान्विताः ॥ ५९ ॥
भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् ।
कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥ ६० ॥
प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः ।
तत्सर्वं चालयन् पच्याद्यावत्पिण्डत्वमागतम् ॥ ६१ ॥
प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् ।
अस्य चूर्णस्य कर्पूरं चतुःषष्ठ्यंशकं क्षिपेत् ॥ ६२ ॥
चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः ।
सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥ ६३ ॥
कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् ।
वाजीकरा अभ्रकयोगाः ।
निष्कैकं मारितं चाभ्रं खादेच्छर्करया समम् ॥ ६४ ॥
शाल्मलीमूलचूर्णं तु भृङ्गराजस्य मूलकम् ।
पलैकं सितया चानु सेवेत कामिनीशतम् ॥ ६५ ॥
वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः ।
वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥ ६६ ॥
चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा ।
एतत्कर्षं गवां क्षीरैः पिबेत् कामाङ्गनायकः ॥ ६७ ॥
तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् ।
भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥ ६८ ॥
अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च ।
मूलं मुशलिजं कन्दं कोकिलाक्षस्य बीजकम् ॥ ६९ ॥
६
६२ आयुर्वेदीयग्रन्थमाला । [उपदेशः
विदारीपद्मिनीकन्दं वानरीबीजकं समम् ।
एतच्चूर्णं मृताभ्रं तु तुल्यं शर्करया समम् ॥ ७० ॥
पलार्धं पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् ।
क्षीरपानं ततः कृत्वा रमयेत्कामिनीशतम् ॥ ७१ ॥
वाजीकरो धात्रीलोहः ।
धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः ।
एकविंशतिवारान् वै शोष्यं पेष्यं पुनः पुनः ॥ ७२ ॥
तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् ।
पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥ ७३ ॥
धात्रीलोहप्रभावेन रमयेत् कामिनीशतम् ।
वाजीकरः पुनर्नवादियोगः ।
पुनर्नवा नागबला वाजिगन्धा शतावरी ॥ ७४ ॥
गोक्षुरं मुशलीकन्दं मृतं सूतं समं समम् ।
चूर्णं मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ ७५ ॥
तण्डुलं वानरीबीजं चूर्णयेत्सितया समम् ।
आलोडयेद्गवां क्षीरैस्तेन पच्यादपूपिकाम् ॥ ७६ ॥
तां घृतैर्भक्षयेच्चानु रमयेत्कामिनीकुलम् ।
वाजीकरो वटकः ।
वानरीबीजचूर्णं तु त्वग्वर्ज्यं माषचूर्णकम् ॥ ७७ ॥
नालिकेरोदकैर्भाव्यं यामान्ते पेषयेत्ततः ।
विंशत्यंशेन पिष्टस्य मृतमभ्रं विमिश्रयेत् ॥ ७८ ॥
तद्घृतैर्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् ।
क्षीरं सितां चानुपिबेद्रामाणां रमते शतम् ॥ ७९ ॥
वाजीकरो वालुकामत्स्ययोगः ।
वालुकासंभवं मत्स्यं सुपक्वं भक्षयेद्घृतैः ।
षण्ढोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥ ८० ॥
१ 'धात्रीफलं' ख. ।
६.] रसरत्नाकरस्य रसायनखण्डः । ६३
वाजीकरो नाभिलेपः ।
ऊर्णनाभिं समं क्षौद्रैः पिष्ट्वा नाभिं प्रलेपयेत् ।
मुच्यते बद्धषण्ढोऽपि क्षीरैर्वह्निं पिबेदनु ॥ ८१ ॥
स्वयमग्निरसं चात्र त्रिनिष्कं भक्षयेत्सदा ।
वाजीकरो माषयोगः ।
घृताक्ता दलिता माषा क्षीरेण सह पाचिताः ॥ ८२ ॥
सिताज्यसंयुता भक्ष्या वीर्यवृद्धिकरा बलम् ।
क्षणे क्षणे भजेद्रामां यथा पारावतो ध्रुवम् ॥ ८३ ॥
मदनानन्दमोदकः ।
सम्यग्जारितमभ्रकं कट्फलं कुष्ठाश्वगन्धामृता
मेथी मोचरसो विदारि मुशली गोकण्टकेक्षूरकौ ।
रम्भाकन्दशतावरी ह्यजमुदा मापास्तिला धान्यकं
यष्टी नागबला कंचोरमदनं जातिफलं सैन्धवम् ॥ ८४॥
भार्गीकर्कटशृङ्गिमृङ्गत्रिकटु द्वौ जीरकौ चित्रकं
चातुर्जातपुनर्नवागजकणाद्राक्षाशणं वासकः ।
शाल्मल्याङ्घ्रि फलत्रिकं कपिभवं बीजं समं चूर्णये-
च्चूर्णांशा विजया सिता द्विगुणिता मध्वाज्यमिश्रंतु तत्॥
कर्षार्धां गुलिकां विलेहमथवा कृत्वा सदा सेवये-
त्पेया क्षीरसिताऽनु वीर्यकरणे स्तम्भेऽप्यलं कामिनाम् ।
श्यामावश्यकरः समाधिसुखदः सङ्गेऽङ्गनाद्रावकः
क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥ ८६ ॥
कासश्वासमहातिसारशमनो मन्दाग्निसंदीपनो
ह्यर्शांसि ग्रहणीप्रमेहनिचयश्लेष्मातिसारप्रणुत् ।
नित्यानन्दकवेर्विशेषकवितावाचाविलासोद्भवं
दत्ते सर्वगुणं महास्थिरदशां ध्यानावसाने भृशम्॥८७॥
१ 'कसेरुदमनं' ख. ।
६४ आयुर्वेदीयग्रन्थमाला । [उपदेशः
अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरा-
त्सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन वै
वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासंगमे
सिद्धोऽयं धैनवस्त्वमोघसुखदो भूपैः सदा सेव्यताम्८८
इत्येतदुक्तं बहुवीर्यवर्धनं रात्रौ सदा क्षीरसितासमन्वितम् ।
भुक्तोत्तरं सेवितमाशु कामिनां विदग्धरामाकुलवश्यकारकम् ॥
इति पार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते श्रीरसरत्नाकरे रसायनखण्डे
वीर्यवर्धनं नाम षष्ठ उपदेशः ॥
अथ सप्तमोपदेशः ।
वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् ।
तेषां प्रगल्भाः प्रमदाश्च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥ १॥१
वीर्यस्तम्भकरी ब्रह्माण्डगुटिका ।
नागवल्लीदलद्रावैः सप्ताहं शुद्धपारदम् ।
मर्दयेत्तप्तखल्वे तु क्षालयेत्काञ्जिकैस्ततः ॥ २ ॥
तत्क्षिपेद्विषकन्दस्य गर्भे निष्कचतुष्टयम् ।
विषेण तन्मुखं रुद्धा स्थूलवाराहमांसके ॥ ३ ॥
पिण्डं गर्भे निरुन्ध्याथ मुखं सूत्रेण सीवयेत् ।
सन्ध्याकाले बलिं दत्त्वा कुक्कुटं मदिरायुतम् ॥ ४ ॥
ततश्चूल्यां लोहपात्रे तैले धत्तूरसंभवे ।
तं विंशतिपले पच्यात्सपिण्डं मन्दवह्निना ॥ ५ ॥
संध्यामारभ्य यत्नेन यावत्सूर्योदयं तथा ।
हठाज्जागरणं कुर्यादन्यथा तन्न सिध्यति ॥ ६ ॥
प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् ।
तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययमद्भुतम् ॥ ७ ॥
१ 'मम दृष्टप्रत्ययकरो' ख. ।
रसरत्नाकरस्य रसायनखण्डः । ६५
दृष्ट्वा तां धारयेद्वक्त्रे वीर्यस्तम्भकरीं रतौ ।
क्षीरं पीत्वा रमेद्रामाः कामाकुलकलान्विताः ॥ ८ ॥
मुखाद्भ्रस्तं यदा प्राप्ता तदा वीर्यं पतत्यलम् ।
ब्रह्माण्डगुटिका नाम शोषयन्ती महोदधिम् ॥ ९ ॥
वीर्यस्तम्भकरो लिङ्गलेपः ।
दग्धमङ्कोलमूलं तु कर्पूरं कुङ्कुमं तथा ।
रोचना सहदेवी च समं सर्वं प्रपेषयेत् ॥ १० ॥
विषमुष्टिकतैलेन लिप्तलिङ्गो ह्यनेन वै ।
नरो नारीसहस्रैकं गच्छन् वीर्यं न मुञ्चति ॥ ११ ॥
वीर्यस्तम्भकरो दीपः ।
श्वेतार्कतूलजां वर्तिं कृत्वा मूकरमेदसा ।
यावज्ज्वलति दीपोऽयं तावद्वीर्यं स्थिरं नृणाम् ॥ १२ ॥
वीर्यस्तम्भकरी इन्द्रवारुणिकामूलाया वटीः ।
इन्द्रवारुणिकामूलं पुष्ये नग्नः समुद्धरेत् ।
त्र्यूषणैश्च गवां क्षीरैः पिष्ट्वा कुर्याद्वटीं दृढाम् ॥ १३ ॥
छायाशुष्का स्थिता वक्त्रे वीर्यस्तम्भकरी नृणाम् ।
वरमङ्कोलतैलेन नाभिलेपोऽपि वीर्यधृक् ॥ १४ ॥
वीर्यस्तम्भार्थं रक्तापामार्गमूलयोगः ।
रक्तापामार्गमूलं तु सोमवारेऽभिमन्त्रयेत् ।
भौमे प्रातः समुद्धृत्य बन्धेत्कट्यां च वीर्यधृक् ॥ १५॥
वीर्यस्तम्भकरः पादलेपः ।
चटकानङ्गुलीतैलैः पादाधः संप्रलेपयेत् ।
न मुञ्चति नरो वीर्यं शय्यां पादेन न स्पृशेत् ॥ १६ ॥
वीर्यस्तम्भार्थे कट्यां सर्पास्थिधारणयोगः ।
डुण्डुभो नाम यः सर्पः कृष्णवर्णस्तमाहरेत् ।
तस्यास्थि धारयेत्कट्यां नरो वीर्यं न मुञ्चति ॥ १७ ॥
६६ आयुर्वेदियग्रन्थमाला । [उपदेश०
तन्मुक्ते मुञ्चते वीर्यं सिद्धयोग उदाहृतः ।
वीर्यस्तम्भकरो नाभिलेपः ।
सहदेवीयमूलं तु तत्समं पद्मकेशरम् ॥ १८ ॥
पिष्ट्वा मध्वाज्यसंयुक्तो लेपो नाभौ तु वीर्यधृक् ।
वीर्यस्तम्भकरी कोकिलाक्षादिवटी ।
श्वेतस्य कोकिलाक्षस्य बीजं मूलं समाहरेत् ॥ १९ ॥
पिष्टं तण्डुलसंभूतं बदरीणां फलं समम् ।
जलैः पिष्ट्वा वटी धार्या वीर्यस्तम्भकरी मुखे ॥ २० ॥
वीर्यस्तम्भकरो नाभिलेपः ।
नागवल्लीपयःपिष्टं लज्जामूलं प्रलेपयेत् ।
तन्नाभौ वीर्यधृक् पुंसां मूलं वा तुलसीभवम् ॥ २१
वीर्यस्तम्भकरो दीपः ।
मूलेन श्वेतगुञ्जाया वर्तिं कृत्वा प्रदीपयेत् ।
दीपं सूकरतैलेन वीर्यस्तम्भकरं नृणाम् ॥ २२ ॥
वीर्यस्तम्भकरी वटिका ।
बीजमीश्वरलिङ्ग्यास्तु मृतं वृश्चिककण्टकम् ।
सर्वं पूगफलस्यान्तः क्षिप्त्वा वेष्ट्यं त्रिलोहकैः ॥ २३ ॥
जिह्वोपरि स्थिते तस्मिन्नरो वीर्यं न मुञ्चति ।
वीर्यस्तम्भार्थं श्लेष्मातकादियोगः ।
श्लेष्मातस्य कुरण्टस्य बीजं फण्याः समाहरेत् ॥ २४
अजाक्षीरेण तं पिष्ट्वा कर्षं भुक्त्वा तु वीर्यधृक् ।
वीर्यस्तम्भार्थं सूरणादियोगः ।
शूरणं तुलसीमूलं ताम्बूलैः सह भक्षयेत् ॥ २५ ॥
न मुञ्चति नरो वीर्यं कर्षैकेन पृथक्पृथक् ।
वीर्यस्तम्भार्थे मार्जारनखादिबन्धनम् ।
नखास्थीनि समादाय मार्जारस्य सितस्य वै ॥ २६ ॥
१ 'तुम्बरतैलेन' ख. । २ 'तुलसीं फलीं' ख. ।
रसरत्नाकरस्य रसायनखण्डः । ६७
श्वेतापराजितामूलं नीलीमूलं श्मशानजम् ।
सर्वं बद्ध्वा कटौ वीर्यं चिरकालं न मुञ्चति ॥ २७ ॥
वीर्यस्तम्भकरः पादलेपः ।
भूलता सिक्थकं तुल्यं लिम्पेत्तैलैः कुसुम्भजैः ।
पादौ वीर्यधरो भूयात्पद्भ्यां शय्यां न संस्पृशेत् ॥ २८ ॥
नवनीतेन वा लेप्यं चटकाण्डं च पूर्ववत् ।
इन्द्रवारुणिकामूलं उन्मत्ताजस्य मूत्रतः ॥ २९ ॥
भावयेत्तेन लेपेन नरो वीर्यं न मुञ्चति ।
वीर्यस्तम्भकरो लिङ्गलेपः ।
दाडिमस्य त्वचश्चूर्णं फलं भल्लातकाक्षयोः ॥ ३० ॥
पिष्ट्वा तत्कटुतैलेन लेपः स्यात्पूर्ववत्फलम् ।
कर्पूरं टङ्कणं मृतं मुनिपुष्परसं मधु ॥ ३१ ॥
मर्दयित्वा लिपेत्तेन लिङ्गं यावत्समन्ततः ।
जलैः प्रक्षालयेल्लिङ्गं भजेद्रामां यथोचिताम् ॥ ३२ ॥
वीर्यं स्तम्भयते पुंसां याममात्रं न संशयः ।
वीर्यस्तम्भार्थे कट्यां पारदगुटिकाधारणम् ।
कृष्णधत्तूरतैलेन पारदं घर्षयेद्दिनम् ॥ ३३ ॥
त्रिलोहैर्वेष्टितं बद्धं तत्कट्यां वीर्यधारकम् ।
वीर्यस्तम्भार्थे पारदादियोगः ।
सूतं स्वर्णं व्योमसत्त्वं तारं ताम्रं च रोचनम् ॥ ३४ ॥
बीजं वै शरपुङ्खायाः कृष्णधत्तूरबीजकम् ।
सर्वं मर्द्यं वटक्षीरैः कुबेराक्षस्य बीजके ॥ ३५ ॥
तत्क्षिप्त्वा धारयेद्वक्त्रे वीर्यस्तम्भकरं चिरम् ।
वीर्यस्तम्भार्थे हस्ते मुद्रिकाधारणम् ।
कृकलासस्य पुच्छाग्रं मुद्रिकाकारतां कृतम् ॥ ३६ ॥
ऊर्णनाभस्य जालेन वेष्टयित्वाऽथ धारयेत् ।
वामहस्ते कनिष्ठायां नरो वीर्यं न मुञ्चति ॥ ३७ ॥
६८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
वीर्यस्तम्भार्थं स्थलमीनयोगः ।
स्थलमीनं समादाय शुष्कं चूर्णेन लेपयेत् ।
उल्लिप्तं रक्षयेत्किंचिद्वक्रे धार्यश्च वीर्यधृक् ॥ ३८ ॥
जसलमेरोः पत्तने अमरचण्डेश्वरो नाम देवतायतनं, तस्याग्रे
वालुकामध्ये स्थलमीनास्तिष्ठन्ति, ते च वालुकामीनाः
कथ्यन्ते ॥
वनिताद्रावणार्थे जलौकायोगाः ।
शुद्धसूते विनिक्षिप्य स्वर्णं वा नागमेव वा ।
अष्टमांशेन तत्सर्वं मर्दयेत्तप्तखल्वके ॥ ३९ ॥
शाल्मल्याश्चैव पञ्चाङ्गरसं तत्र विनिक्षिपेत् ।
श्लेष्मान्तस्य फलं पक्वं कोकिलाक्षस्य बीजकम् ॥ ४० ॥
तिलपिण्याकचूर्णं तु दत्त्वा तावद्विमर्दयेत् ।
जलौका जायते यावत्ततः कर्पूरटङ्कणम् ॥ ४१ ॥
कपिकच्छुकरोमाणि बाकुचीतैलकं पटु ।
मागधीं च जलैः पिष्ट्वा तत्सर्वं तप्तखल्वके ॥ ४२ ॥
क्षिपेत्पूर्वजलौकां च त्रिसप्ताहं विमर्दयेत् ।
सा योज्या कामकाले तु नारीणां योनिगह्वरे ॥ ४३ ॥
मद्दर्पहरा तासां मदविह्वलकारका ।
बाल्ये षडङ्गुला योज्या यौवने सा नवाङ्गुला ॥ ४४ ॥
द्वादशाङ्गुलिका योज्या प्रगल्भानां जलौकिका ।
यो वा तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ॥ ४५॥
पारदादष्टमांशेन सुवर्णं नागमेव वा ।
योजयेत्तप्तखल्वे तु शाल्मलीत्वङ्रिजद्रवैः ॥ ४६ ॥
मुनिपत्ररसैर्नीलीमूलद्रावैश्च मर्दयेत् ।
श्लेष्मातकफलं पक्वं कोकिलाक्षस्य बीजकम् ॥ ४७ ॥
७.] रसरत्नाकरस्य रसायनखण्डः । ६९
मज्जा सुपक्वा बिल्वस्य क्षिपेत्तत्रैव मर्दयेत् ।
जलौका जायते यावत्ततस्सात्समुद्धरेत् ॥ ४८ ॥
त्रिसप्ताहं तप्तखल्वे कर्पूराद्यैश्च पूर्ववत् ।
मर्दयेच्च फलं तद्द्वज्जायते नात्र संशयः ॥ ४९ ॥
रसादष्टमभागं तु सुवर्णं नागमेव वा ।
योज्यं च त्रिफला भृङ्गी शुण्ठी छागपयो.घृतम् ॥५०॥
क्षौद्रं गोमूत्रकं चैव सर्वं सप्तदिनावधि ।
मर्दयेत्तद्वदच्छिन्नं जलौका यावता भवेत् ॥ ५१ ॥
कर्पूराद्यैः पुनर्मर्द्यं तप्तखल्वे तु पूर्ववत् ।
पूर्ववज्जायते सिद्धिस्तद्द्वयोगे न संशयः ॥ ५२ ॥
त्रिदिनं मर्दयेत्खल्वे सूतं निष्कचतुष्टयम् ।
त्रिफलायास्तु निर्यासं स्तोकं स्तोकं विनिक्षिपेत् ॥५३॥
पयश्चैव महाशृङ्गया दातव्यं मर्दनक्षमम् ।
जलौका मर्दनाद्ध्येयं जायते सुखदा नृणाम् ॥ ५४ ॥
रामाणां मदमत्तानां द्राविकाऽग्नौ घृतं यथा ।
पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरी भवेत् ॥ ५५ ॥
लिङ्गवर्धनाः कतिपययोगाः ।
पारदं मरिचं कुष्ठं तगरं कण्टकारिका ।
अश्वगन्धातिलक्षौद्रैस्सैन्धवश्वेतसर्षपाः ॥ ५६ ॥
अपामार्गो यवा माषाः पिप्पली च समं जलैः ।
पिष्ट्वा विमर्दयेत्तेन लिङ्गं मासमहर्निशम् ॥ ५७ ॥
वर्धते हस्तमात्रं तत्स्थौल्येन मुशलोपमम् ।
वराहवसा क्षौद्रैर्लिङ्गं मासं विलेपयेत् ॥ ५८ ॥
अतिदीर्घं दृढं स्थूलं जायते नात्र संशयः ।
अश्वगन्धा वचा कुष्ठं बृहती च शतावरी ॥ ५९ ॥
पाचयेत्तिलतैलेन मर्दयेत्तेन पूर्ववत् ।
लिङ्गं स्थूलं दृढं दीर्घं मासमात्रात्प्रजायते ॥ ६० ॥
७० आयुर्वेदीयग्रन्थमाला । [उपदेशः
जम्बूसूकरजं तैलं महाराष्ट्री च टङ्कणम् ।
मधुना सह लेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ ६१ ॥
मिश्रितं मुशलीचूर्णं माहिषैर्नवनीतकैः ।
तद्भाण्डं धान्यराशौ च स्थितं सप्तदिनैर्हरेत् ॥ ६२ ॥
तेन प्रलेपयेल्लिङ्गं वर्धते मासमात्रतः ।
पिप्पली मरिचं क्षीरं सिता तुल्यं विमर्दयेत् ॥ ६३ ॥
मासैकं वृद्धिकृल्लिङ्गे नात्र कार्या विचारणा ।
माहिषं गोघृतं तुल्यं सैन्धवं च समं समम् ॥ ६४ ॥
अनेन लेपयेल्लिङ्गं स्थूलं स्यान्मासमात्रतः ।
अश्वगन्धापामार्गौ च सारिवाऽक्षफलं तिलाः ॥ ६५ ॥
सर्षपेन्द्रयवं तुल्यमजाक्षीरेण पेषयेत् ।
तेन लिङ्गं तु मासैकं मर्दनाद्वृद्धिमाप्नुयात् ॥ ६६ ॥
मांसीमक्षफलं कुष्ठमश्वगन्धां शतावरीम् ।
तैले पक्त्वा प्रलेपोऽयं मासाल्लिङ्गस्य वृद्धिकृत् ॥ ६७ ॥
रोहीतमत्स्यजं पित्तं जलौका लाङ्गली समम् ।
अनेन लेपयेल्लिङ्गं स्यान्मासान्मुशलोपमम् ॥ ६८ ॥
निशा सिताऽश्वगन्धा च पारदं मर्दयेत्समम् ।
अनेन मर्दयेल्लिङ्गं योनिकर्णस्तनांस्तथा ।
वर्धन्ते मासमात्रेण नात्र कार्या विचारणा ॥ ६९ ॥
‘ॐ नमो भगवते उड्डामरेश्वराय सर प्रसर २ कुरु कुरु ठ
ठः ।' अनेन मन्त्रेण सर्वे वर्धनयोगाः सप्ताभिमन्त्रिताः सिद्धा
भवन्ति ॥
जाम्बूमार्जारयोः पित्तं यवागूमर्दितं दिहेत् ।
मासैकाद्वर्धते लिङ्गं स्तनौ कर्णौ च मर्दनात् ॥ ७० ॥
१ 'शैवालं' क. ।
८.] रसरत्नाकरस्य रसायनखण्डः । ७१
'ॐ नमो भगवते उड्डामरेश्वराय सर प्रसर प्रसर निकल
निकल निकालय निकालय स्वाहा ठः ठः ॥'
गृहगोधा शुनो जिह्वा स्त्रीजरायुः समं समम् ।
पिष्ट्वा धार्यं ताम्रपात्रे सप्ताहात्तं पुनः पचेत् ॥ ७१ ॥
तिलतैलेन तत्तैलमर्दनाद्वर्धते खलु ।
लिङ्गं स्तनौ च कर्णौ च हस्तौ पादौ न संशयः॥ ७२ ॥
'ॐ नमो भगवते उड्डामरेश्वराय सर सर हिलि हिलि
स्वाहा ठः ठः ॥'
अतितरसुखसाध्यैर्योगराजैः प्रसिद्धैः
सततसुरतयोग्यं स्तम्भनं वर्धनं च ।
निपुणरसिकरामारञ्जकं मोहकं स्या-
द्वदितमिह समस्तं भोगिनां सौख्यहेतुः ॥ ७३ ॥
इति पार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे
वीर्यस्तम्भनलिङ्गवर्धनं नाम सप्तमोपदेशः ॥
अथाष्टमोपदेशः ।
श्रीशैले देहसिद्धिः प्रभवति सहसा वृक्षमृत्कन्दतोयै-
स्तच्छास्त्रं शम्भुनोक्तं प्रगहनमखिलं वीक्षितं यत्तु सारम् ।
व्याहत्यानेकयुक्त्या सकलसुखकरं दृष्टसिद्धं तु यद्य-
तद्वक्ष्ये साधकानामनुभवपथगं भुक्तये मुक्तये च ॥ १ ॥
मल्लिकार्जुनदेवस्य पुरतो गजसंनिभा ।
शिला तिष्ठति या रात्रौ स्रवते गुग्गुलुं सदा ॥ २ ॥
पालाशचाडुना ग्राह्यं क्षिपेदलाबुपात्रके ।
तद्गुग्गुलुसमं गन्धं निष्कैकं भक्षयेत्सदा ॥ ३ ॥
मासान्मृत्युजरां हन्ति जीवेदाचन्द्रतारकम् ।
तद्गुग्गुलुं द्रुते ताम्रे कोटिभागेन योजयेत् ॥ ४ ॥
७२ आयुर्वेदियग्रन्थमाला। [उपदेशः
तद्भवेत्कनकं दिव्यं जाम्बूनदसमप्रभम् ।
वामतो मल्लिनाथस्य घण्टासिद्धेश्वरः स्थितः ॥ ५ ॥
तद्वारे विद्यते कुण्डं तत्र घण्टा विलम्बते ।
रात्रौ कृष्णचतुर्दश्यां सोपवासैस्त्रिभिर्जनैः ॥ ६ ॥
कर्तव्यं साधनं तत्र निर्विकल्पैरनिद्रितैः ।
एकस्तु स्नापयेद्देवं जलमेकस्तु वाहयेत् ॥ ७ ॥
एकस्तु वादयेद्धण्टामविच्छिन्नं निशावधि ।
ततस्तुष्टो भवेच्छम्भुः खेचरत्वं प्रयच्छति ॥ ८ ॥
घण्टासिद्धेश्वरस्यैव दक्षिणे क्रोशमात्रके १।
निखनेद्दृश्यते तत्र मृद्गोरोचनसंनिभा ॥ ९ ॥
सिताक्षीरैः पिबेत्कर्षं सप्ताहादमरो भवेत् ।
चन्द्रोदकं प्रसिद्धं वै मल्लिनाथस्य पश्चिमे ॥ १० ॥
स्थितं वैशाखमासे तु पूर्णमास्यां सुसाधयेत् ।
साधको निर्विकल्पेन स्थित्वा तस्य समीपतः ॥ ११ ॥
रात्रौ जपं प्रकुर्वाणस्तत्तोयं चार्धरात्रके ।
स्पृष्टुं चन्द्रो यदा गच्छेत्तदा क्षिप्रं कराञ्जलिम् ॥ १२॥
कृत्वा तिष्ठेद्यदा याति तज्जलं तत्क्षणात्पिबेत् ।
वज्रकायो भवेद्वीरो जीवेदाचन्द्रतारकम् ॥ १३ ॥
श्रीशैलपूर्वद्वारे तु देवोऽस्ति त्रिपुरान्तकः ।
देवस्योत्तरदिग्भागे चिञ्चावृक्षः समीपतः ॥ १४ ॥
विद्यते तस्य मूले तु भैरवो दृश्यते स्वयम् ।
तस्याग्रे निखनेद्भूमिं पुरुषस्य प्रमाणतः ॥ १५ ॥
दृश्यते तत्रकुण्डं तु नीलवर्णजलान्वितम् ।
चिञ्चावृक्षस्य पत्राणि सम्यग्वस्त्रेण बन्धयेत् ॥ १६ ॥
१ 'जानुमात्रकम्' ख. ।
८.] रसरत्नाकरस्य रसायनखण्डः । ७३
तस्मिन् कुण्डे विनिक्षिप्य तानि मीना भवन्ति वै ।
संगृह्य तेन काष्ठेन पचेत्तेषां विवर्जयेत् ॥ १७ ॥
कण्टकानि शिरः पुच्छं शेषं भक्षेत साधकः ।
क्षणं मूर्च्छा भवेत्तेन प्रबुद्धो जायते स्वयम् ॥ १८ ॥
छिद्रं पश्यति मेदिन्यां जीवेद्वर्षायुतं नरः ।
त्रिपुरान्तकदेवस्य पश्चिमे गव्युतिद्वये ॥ १९ ॥
मणिपल्लिरिति ग्रामस्तस्य पश्चिमतो गिरिः ।
तस्य पश्चिमदिग्भागे कपाटं दृश्यते शुभम् ॥ २० ॥
पूर्वाभिमुखः प्रविशेत्ततो गच्छेच्च दक्षिणम् ।
दशधन्वन्तरं यावद्दृश्यन्ते ज्वलनप्रभाः ॥ २१ ॥
आम्राकाराः सुपाषाणा ग्राह्या वस्त्रेण बन्धयेत् ।
रक्तवर्णं भवेद्वस्त्रं क्षीरमध्ये क्षिपेत्ततः ॥ २२ ॥
तत्क्षीरं जायते रक्तं तत्क्षीरं साधकः पिबेत् ।
सप्ताहाद्वज्रकायः स्याज्जीवेच्चन्द्रार्कतारकम् ॥ २३ ॥
त्रिपुरान्तकदेवस्य उत्तरे कोकिलाबिलम् ।
विख्यातं सर्वलोकेषु कृत्वा वमनरेचनम् ॥ २४ ॥
साधकः प्रविशेत्तत्र दशधन्वन्तरावधि ।
पाषाणाः कोकिलाकारास्तानि तिष्ठन्ति चाहरत्॥ २५॥
तेषां पृष्ठे तिलाः क्षिप्ताः स्फुटन्त्येव हि तत्क्षणात् ।
इत्येवं प्रत्ययं दृष्ट्वा तांश्च घृष्ट्वा परस्परम् ॥ २६ ॥
क्षीरमध्ये क्षिपेत्तान् वै क्षीरं कृष्णं प्रजायते ।
आकण्ठान्तं पिबेत्तत्तु दिव्यकायो भवेन्नरः ॥ २७ ॥
वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ।
छिद्रं पश्यति मेदिन्यां वायुवेगो महाबलः ॥ २८ ॥
त्रिपुरान्तकदेवस्य पूर्वदिग्योजनान्तरे ।
देवः स्वर्गपुरी नाम विद्यते तत्र वै खनेत् ॥ २९ ॥
७
७४ आयुर्वेदौयग्रन्थमाला । [उपदेशः
देवाग्रे भूमिकां जानुमात्रां तत्र फला इव ।
निर्गच्छन्ति तु पाषाणाः खरस्पर्शा भवन्ति वै ॥ ३०॥
त्रिपुरान्तकदेवस्य पश्चिमे योजनार्थके ।
विद्यते हि बिलद्वारं तन्मध्ये धनुषां त्रयम् ॥ ३१ ॥
गच्छेत्खर्जूरवृक्षो वै दृश्यते कृष्णवर्णकः ।
तत्फलानां रसं पीत्वा मूर्च्छा संजायते क्षणम् ॥३२॥
ततः संजायते सिद्धो जीवेच्चन्द्रार्कतारकम् ।
श्रीशैले दक्षिणे द्वारे जालेश्वरसुरेश्वरौ ॥ ३३ ॥
देवौ प्रसिद्धौ विद्येते निखनेत्तत्र भूमिकाम् ।
पाषाणाः श्रीफलाकारा निर्यान्ति स्पर्शभेदकाः ॥३४॥
देवो रामेश्वरस्तत्र विद्यते तस्य संनिधौ ।
रुद्राक्षाकारपाषाणाः खरस्पर्शा भवन्ति ते ॥ ३५ ॥
ज्योतिःसिद्धवटे वृक्षे एकपादेन तिष्ठति ।
आवर्तदेवको नाम तत्समीपे तु पश्चिमे ॥ ३६ ॥
विद्यते पर्वतस्तत्र पाषाणास्तालकोपमाः ।
आदाय तान् धमेत्तीव्रं दिव्यं भवति काञ्चनम् ॥३७॥
तत्रैव दक्षिणद्वारे देवः स्यात्कुण्डलेश्वरः ।
तत्समीपे खनेद्भूमिं जानुमात्रां ततो हरेत् ॥ ३८ ॥
पाषाणाः श्रीफलाकारा रक्ताश्च स्पर्शवेधकाः ।
पुरुषेश्वरदेवस्य कुण्डमस्ति समीपतः ॥ ३९ ॥
गुञ्जा च रिष्ठकश्चैव द्वौ वृक्षौ तत्र तिष्ठतः ।
तयोः पत्राणि संभक्ष्य तत्क्षणादमरो भवेत् ॥ ४० ॥
तथा हस्तिशिला तत्र तस्या दक्षिणतः खनेत् ।
हस्तमात्रं ततः पश्येज्जम्बूफलसमाकृतिः ॥ ४१ ॥
१ 'गच्छेदर्जुनवृक्षो' ख. ।
रसरत्नाकरस्य रसायनखण्डः । ७५
शिला तत्र समाख्याता स्पर्शग्राहा प्रयत्नतः ।
नाम्ना हस्तिशिरः ख्यातं सैव हस्तिशिला भवेत् ॥४२॥
तस्या दक्षिणदिग्भागे योजनैकेन तिष्ठति ।
छायाछत्रं प्रसिद्धं तच्छिवरूपं शिवोदितम् ॥ ४३ ॥
शतहस्तप्रमाणं तु तत्क्षेत्रं परिवर्तुलम् ।
योऽसौ गच्छति तस्याधो नासौ केनापि दृश्यते ॥४४॥
रुद्रतुल्यो भवेत्सिद्धः क्रीडते भुवनत्रये ।
अथवा साधयेद्भूरात्ख्यातं सिद्ध्यष्टकं तु यत् ॥ ४५ ॥
कान्ताभ्रं काञ्चनं सूतं मर्द्यं क्रमगुणोत्तरम् ।
तद्गोलं वेष्टयेल्लोहैस्त्रिभिर्ह्लात्क्रमेण वै ॥ ४६ ॥
वस्त्रे बद्ध्वा तु तद्वस्त्रं वंशाग्रे बन्धयेद्दृढम् ।
मन्त्रयेत्कालिमन्त्रेण छायाच्छत्रे निवेशयेत् ॥ ४७ ॥
तद्दंशाग्रं क्षणेकेन जायते गुटिका तु ताम् ।
साधको धारयेद्वक्त्रे खेचरत्वप्रदायिकाम् ॥ ४८ ॥
तालकं कुनटीं तद्वद्वंशे बद्ध्वा निवेशयेत् ।
ताभ्यामञ्जितनेत्रो यो निधिं पश्यति भूतगतम् ॥ ४९॥
वंशे बद्ध्वा क्षिपेत्खङ्गं पूर्वमन्त्रेण मन्त्रितम् ।
तत्खङ्गं धारयेद्धस्ते त्रैलोक्यविजयी भवेत् ॥ ५० ॥
वस्त्रे गोरोचनं बद्ध्वा वंशस्थं तत्र वेशयेत् ।
तेनैव तिलकं कुर्याद्दृष्ट्वा मोहयते जगत् ॥ ५१ ॥
स्रोतोञ्जनं कज्जलं च क्षित्वा तत्रैव पूर्ववत् ।
तेन चाञ्जितनेत्रो यो देवैरपि न दृश्यते ॥ ५२ ॥
पादुकां तेन योगेन क्षित्वा पद्भ्यां तु धारयेत् ।
यत्रेच्छा तत्र तत्रैव गन्ता भवति तत्क्षणात् ॥ ५३ ॥
तद्वद्रक्तपटं तत्र क्षित्वा संवेष्ट्य साधकः ।
अदृश्यो जायते सम्यक्पटे मुक्ते तु दृश्यते ॥ ५४ ॥
७६ आयुर्वेदीयग्रन्थमाला । [उपदेशः
कान्ताभ्रं काञ्चनं सूतं कृत्वा गोलं तु वेशयेत् ।
वंशाग्रस्थं मन्त्रयुक्तं स्पर्शवेधी भवेत्तु तत् ॥ ५५ ॥
श्रीशैले पश्चिमे द्वारे नाम्ना ब्रह्मेश्वरेश्वरः ।
तल्लिङ्गं स्पर्शमित्याहुर्दुर्गा तत्रैव तादृशी ॥ ५६ ॥
नवमं यत्तु सोपानं नद्यां तत्तादृशं स्थितम् ।
देवस्य तिष्ठति द्वारे मुद्गवर्णं विलोकयेत् ॥ ५७ ॥
ब्रह्मेश्वरस्य नैर्ऋत्ये संस्थितं तिन्तिणीवनम् ।
तस्मिन् वने स्थितं कुण्डं तत्र तिष्ठति चण्डिका ॥५८॥
एकपादेन चिञ्चाधस्तद्वृक्षात्पत्रमाहरेत् ।
बद्ध्वा वस्त्रे क्षिपेत्कुण्डे स्नानं तत्र समाचरेत् ॥ ५९ ॥
स्नानान्ते पोटली ग्राह्या सर्वे मत्स्या भवन्ति ते ।
तत्काष्ठैः पाचयेत्तानि कण्ठं पुच्छं शिरस्त्यजेत् ॥६०॥
भागं देवाय संकल्प्य द्वितीयमतिथेर्भवेत् ।
तृतीयं साधको भुक्त्वा क्षणं भवति मूर्च्छितः ॥ ६१ ॥
तत्क्षणाज्जायते सिद्धश्छिद्रां पश्यति मेदिनीम् ।
अजरामरतां याति न बाध्यस्त्रिदशैरपि ॥ ६२ ॥
अलंपुरोत्तरे भागे ग्रामः स्याद्धीमपादुकः ।
तस्य ग्रामस्य पार्श्वे तु हस्तमात्रं खनेद्ध्रुवम् ॥ ६३ ॥
पाषाणाः सर्पवद्वक्रा ग्राह्या स्पर्शा भवन्ति ते ।
योगेश्वरीति विख्याता देवता या त्वलंपुरे ॥ ६४ ॥
देव्या ह्यग्रे गुहा रम्या तन्मध्ये निखनेद्ध्रुवम् ।
पाषाणा भेकसंकाशा ग्राह्या मार्जारविष्ठया ॥ ६५ ॥
मिश्रीकृत्य क्षिपेद्वङ्गे तद्वङ्गं तारतां व्रजेत् ।
मध्वाज्यसहितान् भक्ष्येत्पाषाणांस्तान्विचक्षणः ॥ ६६ ॥
श्रीशैलस्योत्तरद्वारे महेशो नाम देवता ।
भ्रमराम्रः स्थितस्तत्र तस्य पक्वफलानि वै ॥ ६७ ॥
८.] रसरत्नाकरस्य रसायनखण्डः । ७७
स्फोटयेत्तत्र निर्यान्ति भ्रमरा जीवसंयुताः ।
इत्येवं प्रत्ययं ज्ञात्वा भ्रमरांस्तान् परित्यजेत् ॥ ६८ ॥
फलानि पाचयेत्क्षीरैः पिवेन्क्षीरं यथेष्टकम् ।
किंचिन्मूर्च्छा भवेत्तेन ततो बोधे पिवेत्पुनः ॥ ६९ ॥
एवं कुर्यात्त्रिसप्ताहं वज्रकायो भवेन्नरः ।
वलीपलितनिर्मुक्तो जीवेदाचन्द्रतारकम् ॥ ७० ॥
सर्ववाङ्मयवेत्ता च वायुवेगी भवेन्नरः ।
तेनैवाम्रफलैकेन वर्जितभ्रमरेण च ।
सहस्रपलवङ्गं तु द्रावितं स्तम्भयेद्ध्रुवम् ॥ ७१ ॥
क्षेपाच्चारमवाप्नोति सत्यमीश्वरभाषितम् ।
तत्फलं छिद्रितं कृत्वा उत्पाट्य भ्रमरं ततः ॥ ७२ ॥
शुद्धपारदकर्षैकं तत्तुल्यं कृष्णमभ्रकम् ।
क्षिप्त्वा तस्मिन्मुखं रुद्धा लिम्पेन्मृद्गोमयेन च ॥ ७३ ॥
छायाशुष्कं तदाम्रोत्थैः काष्ठैर्यामं¹ विपाचयेत् ।
स्वभावशीतला ग्राह्या गुटिका फलमध्यगा ॥ ७४ ॥
मुखस्था खेचरं दत्ते अदृश्यत्वं महाबला ।
काथे वाक्पतितुल्यः स्याज्जीवेदाचन्द्रतारकम् ॥ ७५ ॥
तारं ताम्रं भुजङ्गं वा कोटिभागेन वेधयेत् ।
कृष्णाभ्रं शुद्धसूतं च पूर्ववत्तत्फले क्षिपेत् ॥ ७६ ॥
लिम्पेन्मृद्गोमयैस्तद्वदारण्योत्पलकैः पुटेत् ।
स्वभावशीतलं ग्राह्यं तद्रसं मधुसर्पिषा ॥ ७७ ॥
गुञ्जामात्रं सदा खादेन्मासाद्वालो भवेन्नरः ।
जीवेद्ब्रह्मदिनं वीरो नवनागबलान्वितः ॥ ७८ ॥
विद्यते लोकविख्यातः पूज्यः पञ्चोपचारकैः ।
ॐ हुं फट्कारमन्त्रेण निर्विकल्पेन साधकैः ॥ ७९ ॥
१ 'काष्ठैर्यामं' ख. ।
७८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
वीक्ष्य पश्चिमदिग्भागे ह्यन्तरिक्षे च तत्क्षणात् ।
पश्येदिव्यविमानानि जायते प्रत्ययो महान् ॥ ८० ॥
ततः पश्चिमदिग्भागे गच्छेन्नदीं तरेत्सुधीः ।
गह्वरं दृश्यते तत्र प्रविशेत्पश्चिमामुखम् ॥ ८१ ॥
योजनत्रितयं गच्छेदेकाकी निर्विकल्पकः ।
पञ्चयोजनविस्तीर्णं दृश्यते कदलीवनम् ॥ ८२ ॥
तस्य मध्येऽतिविस्तीर्णं जलपूर्णं सरोवरम् ।
सिंहासनं तु तन्मध्ये शुद्धस्फटिकसंनिभम् ॥ ८३ ॥
तं दृष्ट्वा दण्डवद्भूमौ निपतेन्मन्त्रमुच्चरेत् ।
ॐ ह्रीं विद्यावागीश्वराधिपतये ह्रीं ॐ स्वाहा ।
स्नानं कृत्वा प्रयत्नेन लक्षमेकं जपेदनु ॥
यथेष्टं भोजनं कृत्वा कन्दमूलफलादिकम् ॥ ८४ ॥
ततः सिंहासनस्योर्ध्वं शुद्धस्फटिकसंनिभः ।
चतुर्भुजस्त्रिनेत्रश्च दृश्यते परमेश्वरः ॥ ८५ ॥
स्तोत्रमन्त्रैर्नमस्कारैः प्रणिपत्य पुनः पुनः ।
वरं दत्ते यथेष्टं वै साधकस्य न संशयः ॥ ८६ ॥
शतमायतनं तत्र कूपानां च शतं नव ।
तावत्संख्यास्तथाऽऽरामा नन्दनाख्यवनानि च ॥ ८७ ॥
तथा नवशतं वाप्यो विद्यन्ते कदलीवने ।
बिलद्वाराणि तावन्ति कल्पवृक्षास्तथैव च ॥ ८८ ॥
तत्रैव मौकली नाम यक्षिणी प्रकटा स्थिता ।
सा वक्ति भोजनं देहि यदीच्छसि समीहितम् ॥ ८९ ॥
ततस्तस्यै प्रवक्तव्यं दास्यामि परमेश्वरि ।
क्षीरान्नं वा फलाहारं तदग्रे दापयेत्सुधीः ॥ ९० ॥
सा वक्ति मम पुत्रोऽयं क्षणं वक्षसि धार्यताम् ।
यदा न मुञ्चते भूमौ तदा सिद्धयष्टकं तव ॥ ९१ ॥