सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 24, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 24

रसरत्नाकरस्य रसायनखण्डः । १७
सर्वं पालाशतैलेन मर्दयेद्दिनसप्तकम् ।
महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥ ११७ ॥
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥ ११८ ॥
इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ ११९ ॥
पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् ।
क्रामकं ह्यनुपानं स्यात्सम्यक्छक्त्या प्रकाशितम् ॥१२०॥
नाटकेश्वररसः ।
लोहितं वाऽथ वा कृष्णं वैक्रान्तं मारितं पलम् ।
स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ १२१ ॥
बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् ।
शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥ १२२ ॥
इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् ।
तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद्दिनत्रयम् ॥ १२३ ॥
तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् ।
सप्तधा भृङ्गजैर्द्रवैर्भावितं चूर्णयेत्पुनः ॥ १२४ ॥
त्रिफलात्र्यूषमध्वाज्यैः समं चूर्ण विमिश्रयेत् ।
माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ १२५ ॥
सर्वरोगजरामृत्यून् वत्सरान्नाशयत्यलम् ।
दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥ १२६ ॥
मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् ।
पिबेन्निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥ १२७ ॥
बालसुन्दररसः ।
सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे ।
अम्लवेतससंपिष्टं तेनैव द्रुतिमाप्नुयात् ॥ १२८ ॥
त्रैफलोषणमध्वाज्यैः' ख. । २ 'हाटकेश्वरः' क. ।