रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 71, कुल 94 में से
संदर्भ में पढ़ें६४ आयुर्वेदीयग्रन्थमाला । [उपदेशः
अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरा-
त्सर्वेषां हितकारको निगदितः श्रीनित्यनाथेन वै
वृद्धानामपि कामवर्धनकरः प्रौढाङ्गनासंगमे
सिद्धोऽयं धैनवस्त्वमोघसुखदो भूपैः सदा सेव्यताम्८८
इत्येतदुक्तं बहुवीर्यवर्धनं रात्रौ सदा क्षीरसितासमन्वितम् ।
भुक्तोत्तरं सेवितमाशु कामिनां विदग्धरामाकुलवश्यकारकम् ॥
इति पार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते श्रीरसरत्नाकरे रसायनखण्डे
वीर्यवर्धनं नाम षष्ठ उपदेशः ॥
अथ सप्तमोपदेशः ।
वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् ।
तेषां प्रगल्भाः प्रमदाश्च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥ १॥१
वीर्यस्तम्भकरी ब्रह्माण्डगुटिका ।
नागवल्लीदलद्रावैः सप्ताहं शुद्धपारदम् ।
मर्दयेत्तप्तखल्वे तु क्षालयेत्काञ्जिकैस्ततः ॥ २ ॥
तत्क्षिपेद्विषकन्दस्य गर्भे निष्कचतुष्टयम् ।
विषेण तन्मुखं रुद्धा स्थूलवाराहमांसके ॥ ३ ॥
पिण्डं गर्भे निरुन्ध्याथ मुखं सूत्रेण सीवयेत् ।
सन्ध्याकाले बलिं दत्त्वा कुक्कुटं मदिरायुतम् ॥ ४ ॥
ततश्चूल्यां लोहपात्रे तैले धत्तूरसंभवे ।
तं विंशतिपले पच्यात्सपिण्डं मन्दवह्निना ॥ ५ ॥
संध्यामारभ्य यत्नेन यावत्सूर्योदयं तथा ।
हठाज्जागरणं कुर्यादन्यथा तन्न सिध्यति ॥ ६ ॥
प्रातरुद्धृत्य गुटिकां क्षीरभाण्डे विनिक्षिपेत् ।
तत्क्षीरं शुष्यति क्षिप्रमेतत्प्रत्ययमद्भुतम् ॥ ७ ॥
१ 'मम दृष्टप्रत्ययकरो' ख. ।