सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 69, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 69

६२ आयुर्वेदीयग्रन्थमाला । [उपदेशः
विदारीपद्मिनीकन्दं वानरीबीजकं समम् ।
एतच्चूर्णं मृताभ्रं तु तुल्यं शर्करया समम् ॥ ७० ॥
पलार्धं पाययेत्क्षीरैः खादेत्कुक्कुटमांसकम् ।
क्षीरपानं ततः कृत्वा रमयेत्कामिनीशतम् ॥ ७१ ॥
वाजीकरो धात्रीलोहः ।
धात्रीफलस्य चूर्णं तु भावयेत्तत्फलद्रवैः ।
एकविंशतिवारान् वै शोष्यं पेष्यं पुनः पुनः ॥ ७२ ॥
तत्पादांशं मृतं लोहं मध्वाज्यशर्करान्वितम् ।
पलैकं भक्षयेन्नित्यं सिताक्षीरं पिबेदनु ॥ ७३ ॥
धात्रीलोहप्रभावेन रमयेत् कामिनीशतम् ।
वाजीकरः पुनर्नवादियोगः ।
पुनर्नवा नागबला वाजिगन्धा शतावरी ॥ ७४ ॥
गोक्षुरं मुशलीकन्दं मृतं सूतं समं समम् ।
चूर्णं मध्वाज्यसंयुक्तं निष्कं भुक्त्वा पिबेत्पयः ॥ ७५ ॥
तण्डुलं वानरीबीजं चूर्णयेत्सितया समम् ।
आलोडयेद्गवां क्षीरैस्तेन पच्यादपूपिकाम् ॥ ७६ ॥
तां घृतैर्भक्षयेच्चानु रमयेत्कामिनीकुलम् ।
वाजीकरो वटकः ।
वानरीबीजचूर्णं तु त्वग्वर्ज्यं माषचूर्णकम् ॥ ७७ ॥
नालिकेरोदकैर्भाव्यं यामान्ते पेषयेत्ततः ।
विंशत्यंशेन पिष्टस्य मृतमभ्रं विमिश्रयेत् ॥ ७८ ॥
तद्घृतैर्वटकं पक्त्वा मध्वाज्याभ्यां तु भक्षयेत् ।
क्षीरं सितां चानुपिबेद्रामाणां रमते शतम् ॥ ७९ ॥
वाजीकरो वालुकामत्स्ययोगः ।
वालुकासंभवं मत्स्यं सुपक्वं भक्षयेद्घृतैः ।
षण्ढोऽपि जायते कामी वीर्यस्तम्भः प्रजायते ॥ ८० ॥
१ 'धात्रीफलं' ख. ।