सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 75, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 75

६८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः
वीर्यस्तम्भार्थं स्थलमीनयोगः ।
स्थलमीनं समादाय शुष्कं चूर्णेन लेपयेत् ।
उल्लिप्तं रक्षयेत्किंचिद्वक्रे धार्यश्च वीर्यधृक् ॥ ३८ ॥
जसलमेरोः पत्तने अमरचण्डेश्वरो नाम देवतायतनं, तस्याग्रे
वालुकामध्ये स्थलमीनास्तिष्ठन्ति, ते च वालुकामीनाः
कथ्यन्ते ॥
वनिताद्रावणार्थे जलौकायोगाः ।
शुद्धसूते विनिक्षिप्य स्वर्णं वा नागमेव वा ।
अष्टमांशेन तत्सर्वं मर्दयेत्तप्तखल्वके ॥ ३९ ॥
शाल्मल्याश्चैव पञ्चाङ्गरसं तत्र विनिक्षिपेत् ।
श्लेष्मान्तस्य फलं पक्वं कोकिलाक्षस्य बीजकम् ॥ ४० ॥
तिलपिण्याकचूर्णं तु दत्त्वा तावद्विमर्दयेत् ।
जलौका जायते यावत्ततः कर्पूरटङ्कणम् ॥ ४१ ॥
कपिकच्छुकरोमाणि बाकुचीतैलकं पटु ।
मागधीं च जलैः पिष्ट्वा तत्सर्वं तप्तखल्वके ॥ ४२ ॥
क्षिपेत्पूर्वजलौकां च त्रिसप्ताहं विमर्दयेत् ।
सा योज्या कामकाले तु नारीणां योनिगह्वरे ॥ ४३ ॥
मद्दर्पहरा तासां मदविह्वलकारका ।
बाल्ये षडङ्गुला योज्या यौवने सा नवाङ्गुला ॥ ४४ ॥
द्वादशाङ्गुलिका योज्या प्रगल्भानां जलौकिका ।
यो वा तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ॥ ४५॥
पारदादष्टमांशेन सुवर्णं नागमेव वा ।
योजयेत्तप्तखल्वे तु शाल्मलीत्वङ्रिजद्रवैः ॥ ४६ ॥
मुनिपत्ररसैर्नीलीमूलद्रावैश्च मर्दयेत् ।
श्लेष्मातकफलं पक्वं कोकिलाक्षस्य बीजकम् ॥ ४७ ॥