रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 68, कुल 94 में से
संदर्भ में पढ़ें६.] रसरत्नाकरस्य रसायनखण्डः । ६१
दिनान्ते चोर्ध्वलग्नं तद्ग्राह्यं रम्भाद्रवैर्दृढम् ।
मर्दितं सितया तुल्यं माषकं भक्षयेत्सदा ॥ ५८ ॥
रसो मदनकामोऽयं बलवीर्यविवर्धनः ।
दिव्यरूपो भजेद्रामाः कामाकुलकलान्विताः ॥ ५९ ॥
भागत्रयं तु यत्पूर्वं पृथक्चूर्णं सुरक्षितम् ।
कुलीरमांसच्छागाण्डचटकाण्डानि वै पृथक् ॥ ६० ॥
प्रत्येकं चूर्णयेत्तुल्यं सर्वतुल्यं गवां पयः ।
तत्सर्वं चालयन् पच्याद्यावत्पिण्डत्वमागतम् ॥ ६१ ॥
प्रसार्य काष्ठपात्रान्तश्छायाशुष्कं विचूर्णयेत् ।
अस्य चूर्णस्य कर्पूरं चतुःषष्ठ्यंशकं क्षिपेत् ॥ ६२ ॥
चातुर्जातकचूर्णं तु क्षिपेद्द्वात्रिंशदंशतः ।
सर्वतुल्या सिता योज्या रक्षयेन्नूतने घटे ॥ ६३ ॥
कर्षद्वयं गवां क्षीरैरनुपानैः सदा पिबेत् ।
वाजीकरा अभ्रकयोगाः ।
निष्कैकं मारितं चाभ्रं खादेच्छर्करया समम् ॥ ६४ ॥
शाल्मलीमूलचूर्णं तु भृङ्गराजस्य मूलकम् ।
पलैकं सितया चानु सेवेत कामिनीशतम् ॥ ६५ ॥
वानरीकोकिलाक्षस्य बीजानि तिलमाषकाः ।
वासागोक्षुरयोर्मूलं सर्वं चूर्णं समं भवेत् ॥ ६६ ॥
चूर्णतुल्यं मृतं चाभ्रं सर्वतुल्या तु शर्करा ।
एतत्कर्षं गवां क्षीरैः पिबेत् कामाङ्गनायकः ॥ ६७ ॥
तैलेन पक्वं चटकं खादेत्पूर्वं तु भोजनात् ।
भोजनान्ते पिबेत्क्षीरं रामाणां रमयेच्छतम् ॥ ६८ ॥
अश्वगन्धाशतावर्योः शाल्मल्याश्चित्रकस्य च ।
मूलं मुशलिजं कन्दं कोकिलाक्षस्य बीजकम् ॥ ६९ ॥
६