सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - १०. सू - १० ] दीपिकासहितम्. ४७
( १०८ ) श्वपचादपि कष्टत्वं ब्रह्मेशानादयस्सुराः ।
( १०९ ) तदैवाच्युत यान्त्येव यदैव त्वं पराङ्मुखः ॥ इति ॥
( ११० ) ब्राह्मे च ब्रह्मवैवर्ते—
( १११ ) नाहं न च शिवोऽन्ये च तच्छक्त्येकांशभागिनः ॥
( ११२ ) बालः क्रीडनकैर्यद्वत् क्रीडतेऽस्माभिरच्युतः ॥ इति ।
योऽन्तमादिं च गच्छति स भवेदधिको लोके, लोककर्ता च स प्र-
भुः । तस्माद्धे विष्णो त्वं लिङ्गस्य मूलगवेषणायध्रस्ताद्व्रज, अहम्
न्तगवेषणाय ऊर्ध्वं गमिष्यामि इति । एवं तौ समयं कृत्वा मार्गमा-
णौ निर्गतौ । तत्र विष्णुर्वराहरूपेणाधस्ताद्गवेषितुं ययौ । वाणीजानि-
स्तु हंसरूपेणोर्ध्वं ययौ । अथ पुनर्विष्णुः स्वस्थानं समागत्य सर्वदेव-
सन्निधौ अहं लिङ्गस्यादिमद्राक्षमिति सत्यं आह । ब्रह्माऽपि समागत्य
अहमन्तमद्राक्षमिति छद्मना मृषा आह । अथ लिङ्गरूपी महेश्वरः त-
योर्वचः श्रुत्वा हे विष्णो यतस्त्वं सत्यमेवावोचः अतः तव लोके म-
त्समा पूजा भविष्यति । ब्रह्मणस्तु नेत्युवाच । ततो ब्रह्मा हे रुद्र म-
मानृतोक्तिकृतापराधस्त्वया क्षन्तव्य इत्याह । ततो रुद्रो न मम व-
चो मिथ्या भविष्यति । तथाऽपि त्वं मिध्योक्तिकृतदोषपरिहारार्थं
गन्धमादनगिरिं व्रज । तत्र ऋतून् कुरुष्व । ततस्तव श्रौतस्मार्तकर्म-
स्वेव पूजा भविष्यति । न तु देवालयादिष्वित्युक्त्वाऽन्तरधीयतेत्या-
दिरूपा स्कान्दपुराणस्था । ननु तथाऽप्यस्यार्थस्य स्कान्दब्रह्मवैवर्तादि-
पुराणविरोधस्स्यात्, तेषां शिवब्रह्मादिपारम्यविषयत्वादित्यत आह
—‘शैवे च’ इति । चशब्दोऽप्यर्थस्समुच्चये, यद्यपीत्याद्यर्थे च—
‘शैवे’ शिवोत्कर्षपरेऽपीति, ‘स्कान्दे’ वचनादित्यनुषङ्गोद्योतकश्च ।
एवमुत्तरत्रापि ॥
( १०८-१०९ ) हे ‘अच्युत’ ‘यदैव’ यदि च त्वमेव सर्वथा ‘प-
राङ्मुखो’ भवसि अनुग्रहं न करोषि ‘तदा’ तर्हि ‘ब्रह्मेशानादयः
सुराः’ श्वपचादपि श्वानं पचतीति श्वपचो नीचः तस्मादपि ‘कष्ट-
त्वं’ क्लेशयुक्तत्वं कष्टं वा ‘यान्त्येव’ इत्यर्थः । अस्य तर्कत्वात्तस्य
विपर्ययपर्यवसाने ब्रह्मादीनां विष्ण्वधीनत्वं अत्यन्ततदनुग्रहपात्रत्वं
च सिद्ध्यतीति न प्रमाणविरोधः । इतिशब्दस्य ‘इति स्कान्दे’
इत्यन्वयः॥
( ११०-११२ ) ‘ब्राह्मे’ ब्रह्मविषये । अत्र ‘अहं’ इति चतुर्मुख उच्य

४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
(११३) न च वैष्णवेषु तथा। तच्च “एष मोहं” इत्युक्तम् ॥
ते। 'यद्वत्' इति श्रवणात् 'तद्वत्' इति लक्ष्यते। चशब्दौ समुच्चयार्थी।
'अस्माभिः' इत्यत्र शिवश्चान्ये च अहं च वयं तैरित्येकशेषः। तथा च
यद्यपि वयं 'तच्छक्त्येकांशभागिनः' तस्याच्युतस्य या शक्तिः साम-
र्ध्यं तस्यैकांशभागिनो न भवामः तथाऽपि 'यद्वत्' यथा 'बालः क्रीडन-
कैः' क्रीडासाधनपदार्थैः 'क्रीडते' 'तद्वत्' तथा 'अच्युतो' हरिरपि 'अ-
स्माभिः' करणैः 'क्रीडते' सृष्ट्यादिक्रीडां करोतीत्यर्थः। पुनर्न चेत्युक्तिः
तात्पर्यार्था, 'ना' पुरुष इति वा। इतिशब्दस्य इति ब्रह्मवैवर्ते इत्यन्व-
यः। 'स्कान्दे' 'ब्रह्मवैवर्ते' इत्यनयोः 'वचनात्' इतिपदद्वारा 'न चेतर-
ग्रन्थविरोधः' इत्यनेनान्वयः। तथा च तेषां शैवादित्वेऽपि न विरो-
धित्वम्, तत्राऽपि विष्णूत्तमत्वादेरप्युक्त्या स्वविरोधेन शिवाद्युत्क-
र्षेऽप्रामाण्यात्। न च विपरीतं किं न स्यादिति वाच्यम्, शिवाद्युत्क-
र्षादेः शैवादिपुराणेष्वेवासाधारण्येन प्राप्तत्वात्, तत्रैव विष्णूत्कर्षो-
क्तौ तत्र प्रामाण्यस्य शिवाद्युत्कर्षादावप्रामाण्यस्य च निश्चयेन वैप-
रीत्यायोगात्। तस्मात्पाशुपतादिपरिकल्पितशिवाद्युत्तमत्वपरिपाटी-
दर्शनभाषया तेषूपन्यस्यत इति न तद्विरोध इति भावः ॥
(११३) तथाऽपि विष्णूत्तमत्वरुद्राधमत्वयोर्वैष्णवग्रन्थविरोधोऽ
स्तीत्यत आह—'न च' इति। समुच्चये चशब्दः। तथा च—'वै-
ष्णवेषु' विष्णुविषयपुराणादिष्वपि 'तथा' विष्णोरन्यस्योत्तमत्वमु-
क्तं न, अत एव 'तथा' शैववत् सर्वोत्तमत्वाधमत्वविषये विरोधो ने-
त्यर्थः, येन स्वविरोधेन स्वविषयेऽप्रामाण्यं स्यादिति भावः। तर्हि
वैष्णवेषु रामकृष्णादिविष्णुकर्तृकशिवस्तुत्यादि कथमुच्यत इत्यत
आह—'तच्च' इति। चस्त्वर्थः। वचनादित्यनुवर्तते। तदित्यस्यावृ-
त्तिः। तथा च–चो यतो वैष्णवेषु यच्छिवस्तुत्याद्युच्यते तत्तु 'एष
मोहं' इति वचनाज्ज्ञातेन तेन मोहार्थत्वेन 'उक्तं' प्रत्युक्तं समाहि-
तं इत्युक्तमित्यर्थः। अस्य 'अतो न तद्विरोधः' इत्यध्याहृतेनान्वयः॥
॥ इति जिज्ञासाधिकरणम् ॥
───※───

[ अधि - २. सू - २. ] दीपिका सहितम्. ४९
२. अधिकरणम् ॥
—§*§—
( १ ) ब्रह्मणो लक्षणमाह—
सू—ॐ ॥ जन्माद्यस्य यतः ॥ ॐ ॥ २ ॥
सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षा यतः ।
२. अधिकरणम् ॥
—:§:—
( १ ) एतदधिकरणप्रतिपाद्यं दर्शयति—‘ब्रह्मणः’ इति । निर्बाध
रूढिबलात् जीव एवेदं ब्रह्म, तस्य चासन्दिग्धत्वान्न जिज्ञास्यत्वमि
ति प्राप्ते तन्निराकर्तुं ब्रह्मशब्देन जीवग्रहणे बाधकरूपं श्रुत्युक्तं जि
ज्ञास्यब्रह्मणो लक्षणमाह सूत्रकार इत्यर्थः । “श्रुत्युक्तं लक्षणमाह”
इति टीकया “सा विष्णोर्ब्रह्मत्वविधात्री तैत्तिरीयश्रुतिर्यानि तस्य लक्ष
णान्याह तान्यनेन सूत्रेण भगवानाह” इति तत्त्वप्रदीपोक्तेः तच्छब्दा
ध्याहारेण भाष्यार्थ उक्तः । अत एव लक्षणमिति समुदायैकवचनमि
ति ज्ञातव्यम् । अनेन पूर्वत्र विवक्षितब्रह्मजिज्ञासाक्षेपेणेह पूर्वपक्षो
त्थानात् पूर्वाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । ब्रह्मविषय
त्वाच्छास्त्रसङ्गतिः सिद्धैव । यद्यपि ‘ब्रह्मशब्दश्च विष्णावेव’ इत्यने
न ब्रह्मशब्दो विष्णावेव मुख्य इत्युक्तम् । तथापि भाष्यकारैरुक्तत्वेऽ
पि सूत्रकृतानुक्तत्वात् ब्रह्म किं जीव उत विष्णुरिति भवत्येव सन्दे
हः । सूत्रं पठति—‘जन्म’ इति । यत इत्युक्तेस्तद्ब्रह्मेति प्रकृतं भवती
ति शेषः । यद्वा—“जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः”
इति सुधोक्तेः श्रुतमिति वाक्यशेषः । जन्म आदिर्यस्य सृष्ट्यादिसमु
दायस्य तज्जन्मादीति तद्गुणसंविज्ञानबहुव्रीहिः, तस्य समासार्थैकदे
शस्य जन्मनो गुणत्वेन विशेषणत्वेन संविज्ञानात् । तथा च—‘अ
स्य’ प्रमितस्य जगतो ‘जन्मादि यतो’ भवति श्रुतमिति वा तद्ब्रह्मे
ति सूत्रार्थ इत्यभिप्रेत्य अस्य जगतो जन्म आदिपदोक्ते स्थितिसंहृती
यतस्तद्ब्रह्मेत्याद्यन्यथाप्रतीतिवारणाय सूत्रं यथावद्व्याचष्टे—‘सृष्टि’इ
ति । अत्र प्रयोजकव्यापारवाचिसृष्टिसंहारनियमनशब्दैर्लक्षणया प्रप
७

५० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २ ) उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट् ॥ इति ।
स्कान्दे ।
( ३ ) "यतो वा इमानि भूतानि जायन्ते । येन जातानि
जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञास
स्व । तद्ब्रह्मेति" ॥ ( तै. उ. ३-१. )
उच्चनिष्टजन्मनाशनियम्यत्वरूपप्रयोज्यव्यापाराः प्रतिपाद्यन्ते । लक्ष
णाप्रयोजनं ब्रह्मण उपादानत्वाभावप्रदर्शनमिति चन्द्रिकोक्तिः । सृ
ष्ट्यादीनामष्टानां च प्रत्येकं लक्षणत्वं, न तु समुदितवेषेण, अतिव्या
प्त्यद्यभावात् । एतच्च लक्षणमनन्तगुणपूर्णत्वस्याप्युपलक्षकम् । एके
नोपलक्षणसम्भवेऽपि मुमुक्षुज्ञेयत्वात्सार्थकमष्टानां वचनम् । यथोक्तं
श्रीमन्महाभारत

[ अधि - २. सू - २. ] दीपिका सहितम्. ५१
( ४ ) य उ त्रिधातु पृथिवीमुत द्यां
एको दाधार भुवनानि विश्वा ॥ ( ऋ. सं. १-१५४-४. )
चतुर्भिस्साकं नवतिं च नामभिः
चक्रं न वृत्तं व्यतीँरवीविपत् ॥ ( ऋ. सं. १-१५५-६. )
च—‘इमानि भूतानि यतो जायन्ते येन जातानि’ उत्पन्नानि ‘जीव
न्ति’ प्राणं दधति ‘यत्’ च प्रलये ‘प्रयन्ति’ प्रविशन्ति यच्च ‘अ
भि’ स्वेच्छया सम्यक् ‘विशन्ति’ मुक्तौ ‘तत्’ तदेव ‘ब्रह्म’ ना
न्यत् । मुख्यतः तज्ज्ञानाय वेदार्थभूतं ‘तद्विजिज्ञासस्व’ तद्विषयक
विचारं कुर्वित्यर्थः । इतिशब्दः श्रुतिस्थ एव । तस्य ‘इति वरुणो भृ
गुमुवाच’ इति क्रियापदेनान्वयः ॥
( ४ ) लक्षणस्यातिव्याप्तिशङ्कां उक्तानुमानस्य व्यभिचारशङ्कां वा
परिहर्तुं स्पष्टार्थत्वात्प्रथमं स्मृतिमुपन्यस्य इदानीं सृष्ट्यादिकर्तृत्वं
प्रत्येकमपि विष्णवेकनिष्ठं किमु सर्वमिति भावेन स्थितिकर्तृत्वस्य
विष्णवेकनिष्ठत्वे श्रुतिमाह—‘यः’ इति । उशब्द एवार्थः, त्रिधात्वित्ये
कं पदं, उतशब्दस्समुच्चये । तथा च—‘यो’ विष्णुः ‘एकः’ एव ‘त्रि
धातु’ प्रकृतिपुरुषकालधारकः ‘पृथिवीं’ भूमिं ‘द्यां’ श्रियं च ‘वि
श्वा’ विश्वानि सर्वाणि च ‘भुवनानि’ ‘दाधार’ दधारेत्यर्थः । नियम
नस्यापि विष्णवेककर्तृत्वे श्रुतिमाह—‘चतुर्भिः’ इति । स इति शेषः,
नशब्द इवार्थः, चशब्दो मात्रार्थः । तथा च—स बृहच्छरीरो मूलरूपी
विष्णुः ‘नामभिश्च’ नाममात्रैः स्वरूपभेदशून्यैः ‘चतुर्भिः’ वासुदेव
सङ्कर्षणप्रद्युम्नानिरुद्धैः ‘साकं नवतिं’ नवतिसङ्ख्याकान् ‘व्यतीन्’—
देवेषु यौगिकोयं शब्दः—विशेषेणाधिकान् देवान् किमुतान्यान् ‘वृत्तं
चक्रं न’ वर्तुलं रथाङ्गमिव युगपत् ‘अवीविपत्’, विपपरिवर्तन इति
धातुः, पर्यवर्तयदित्यर्थः । अष्टौ वसवः एकादश रुद्राः विष्णुव्यतिरि
क्तैकादशादित्याः हिरण्यगर्भेण सह दश प्रजेश्वराः प्रधानेन पञ्चाश
न्मरुत इति नवतिः । तत्त्वप्रदीपे तु—प्रथमं टीकोक्तार्थमभिधाय—
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि ।
बृहस्पतिश्च कामश्च मनुर्दक्षो विनायकः ।
भृगुश्चैवानिरुद्धश्च धर्मो निर्ऋतिरेव च ।
कुबेरसहिता देवाः नवतिस्सम्प्रकीर्तिताः ।

५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
(५) परो मात्रया तन्वा वृधान
न ते महित्वमन्वश्नुवन्ति ।
न ते विष्णो जायमानो न जातो
देवमहिम्नः परमन्तमाप ॥ ( ऋ. सं. ७-९९-१२. )
अनन्तो गरुडो वायुः चत्वारो ब्रह्मणा सह ॥
इति प्रमाणानुसारेण प्रकारान्तरेण चतुरुत्तरनवतिरुक्ता । तत्रैव ना
मवद्भिः कीर्तिमाद्भिरिति च व्याख्यातम् ।
(५) एतेषां लक्षणानामतिव्याप्तिं विष्णवेकनिष्ठत्वोक्त्या स्मृत्या
चार्थात् परिहृतामपि साक्षादन्यत्र लक्षणाभावं प्रतिपादयन्त्या श्रुत्या
निराह—‘परः’ इति । विष्णावित्याकृष्यते । तत्वोद्योतटीकोक्तरीत्या
मुक्ता अमुक्ताश्चेति शेषः । अत एव टीकायां क इत्युक्तम् । तथा च-
‘तन्वा’ स्वमूर्त्यैव न तु कीर्तिमात्रेण ‘वृधान’ अपरिच्छिन्न हे वि-
ष्णो त्वं यतो ‘मात्रया’ मितेः ‘परः’ विलक्षणोऽसि अपरिमितोऽसी-
ति यावत् । अत एवंभूतस्य ‘ते महित्वं’ जगत्सृष्ट्यादिरूपं महिमा-
नं’ ‘अनु’ अपि केऽपि मुक्ता अमुक्ताश्च ‘नाश्नुवन्ति’ न प्राप्नुव-
न्तीत्यर्थः । यद्वा—‘नाश्नुवन्ति’ नानुभवन्तीत्यर्थः । नाश्नुवन्तीति
वर्तमाननिषेधात् स्यादुत्तरत्रेत्यत आह—‘न’ इति । प्राप्नोतीति शे-
षः । तथा च—हे ‘विष्णो’ ‘देवमहिम्नः’ रमादिमहिम्नः ‘परं अन्तं’
सीमानं महिमतारतम्यपरावधिभूतं ‘ते महित्वं’ महिमानं ‘जायमा-
नो’ न प्राप्नोति, जातो ‘नाप’ इत्यर्थः । उपलक्षणं चैतत् जनिष्यमा-
णो न प्राप्स्यतीत्यपि द्रष्टव्यम् । अत एव तत्त्वप्रदीपे—“परो मात्रया
तन्वा वृधान । न ते महित्वमन्वश्नुवन्ति । उभे ते विद्म रजसी पृथि-
व्या विष्णो देवत्वं परमस्य वित्से । न ते विष्णो जायमानो न जा-
तो देवमहिम्नः परमन्तमाप । उदस्तम्भा नाकमृष्वं बृहन्तं दाधर्थ प्रा-
चीं ककुभं पृथिव्याः” इति ऋग्द्वयमेवमेव व्याख्यातम् । तथा हि—मा-
त्रायाः परः परिमाणातीतः तन्वा वृधानः तन्वा वर्धमानः देहेन पू-
र्णः—इत्थं भावे तृतीया—देहरूपेण पूर्ण इत्यर्थः । यतश्चिदानन्दाद्या-
त्मको विष्णोरभिन्नश्च देहः । ते महित्वं महिमानं नानुभवन्ति न प्रा-
प्नुवन्ति च । ते त्वदीयायाः पृथिव्याः प्रकृतेः रजसी रजोगुणकार्ये
उभे पुण्यपापे वयं विद्मः । प्रकृतेः रजसा हि पुण्यपापे सृज्येते । पर

[ अधि - ३. सू - ३. ] दीपिकासहितम्. ५३
( ६ ) यो नः पिता जनिता यो विधाता
धामानि वेद भुवनानि विश्वा ॥ ( ऋ. सं. १०-८२-३. )
इत्यादि च ॥ २ ॥
—: ❖ :—
३. अधिकरणम् ॥
( १ ) अनुमानतोऽन्ये न कल्पनीयाः ।
सू—ॐ ॥ शास्त्रयोनित्वात् ॥ ॐ ॥ ३ ॥
मस्य ते महिमानं त्वमेव वित्से । त्वमेव महिम्नः महिमसमुदायस्या
न्तं ब्रह्मणः श्रियो वा महिमानमतिशयितो हि विष्णुमहिमा अन्यम
हिम्नां परं अन्तं ते महिमानं न कश्चिदाप । यन्नाकं नास्ति तन्नाकम् ।
ऋष्वं प्रकाशरूपम् । बृहन्तं पूर्णं लोकं उदस्तभाः उदस्तम्भः उच्चैर
स्तम्भयः । पृथिव्याः पृथिव्यात्मकस्य ब्रह्माण्डस्य प्राचीं ककुभं दि
शं इन्द्रस्थापनेन दाधर्थ धृतवानसि । सर्वधारणोपलक्षणमेतदिति ।
( ६ ) जगत्कारणत्वं च ब्रह्मणो न विकारित्वेन, किन्तु पितृत्वन्निमि
त्त्वेनैवेति श्रुत्या दर्शयति,— 'यः' इति । 'यः' एक एव 'नः' अस्म
दादिसर्वेषां 'जनिता' जनयितैव 'पिता' न दत्तपुत्रपितृत्वत् पालकपि
तृमात्रम् । यद्वा—" स एव पितृसंस्थस्तुपातृत्वात्पितृनामकः " इत्यै
तरेयभाष्यादिशा " पिता पाता " इति तत्त्वप्रदीपोक्तेः ' जनिता ' जन
कः 'पिता' पाता चेत्यर्थः । 'यो विधाता' विशेषेण धारकः पोषकः,
“मुक्तानां पोषणं च ज्ञानमोक्षदानेन ” इति तत्त्वप्रदीपोक्तेः । "विधा
ता कर्ता" इति प्रमेयदीपोक्तिः । तस्या धारणपोषणयोरिति भावः ।
यो 'विश्वा' विश्वानि सर्वाणि भुवनानि तद्गत 'धामानि' गृहाणि
जीवादिस्वरूपाणि च 'वेद' जानातीत्यर्थः । 'इत्यादि' इति वाक्यं
'उक्तार्थे प्रमाणं' इति शेषः । आदिशब्देन एतज्जातीयकश्रुत्यन्तरं
"द्यावाभूमी जनयन्" इति च गृह्यते ॥ २ ॥
॥ इति जन्माधिकरणम् ॥
—: ❖ :—
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे पूर्वोक्तजगज्जन्मादिकारणत्वरूपब्रह्मलक्षणस्य
रुद्रादिष्वतिव्याप्तिपरिहाराय जगत्कारणे प्रमाणमुच्यते । सिद्धान्तप्र
तिज्ञामुपस्कृत्य दर्शयति—'अनुमानतः' इति । कारणत्वेनेति शेषः

५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( २ ) “नावेदविन्मनुते तं बृहन्तं । सर्वानुभुमात्मानꣲ
साम्पराये” ( तै. ब्रा. ३-१२-९. )
“औपनिषदः पुरुषः” ( ) इत्यादि श्रुतिभ्यश्च ।
तथा च—शिवो जगज्जन्मादिकर्ता सर्वज्ञत्वात् व्यतिरेकेण यज्ञदत्तव
त् इत्याद्यनुमानात् विष्णोः 'अन्ये' रुद्रादयोऽपि जगत्कारणत्वेन 'न
कल्पनीयाः' न शङ्कया इत्यर्थः । कुत इत्यतस्तत्र हेत्वाकाङ्क्षायां सूत्रमु
पन्यस्यति—'शास्त्रयोनित्वात्' इति । जगत्कारणस्येति शेषः । “त
न्निर्धारितयुक्तिर्वा” इत्यनुव्याख्यापदे “तन्निर्धारितेत्यतः परं व्याप्ति
शब्दोऽध्याहार्यः” इति सुधोक्तेर्यथा तत्र मध्येऽध्याहारः, यथा वा
“सर्वेन्द्रियविवर्जितत्वाद्यर्थ उक्तः” इति गीताभाष्यप्रमेयदीपे आ
दीत्यतः परं शब्दशब्दोऽध्याहार्य इत्युक्तेस्तत्र यथामध्येऽध्याहारः, य
था वा “पुरुषाङ्गश्वविकारसमूहेतेनकृतेषु” इति महाभाष्यवाक्ये
समासमध्ये तेनेति पदाध्याहारः, तथाऽत्रापि शास्त्रशब्दात्परमेकश
ब्दोऽध्याहार्यः योनिशब्दात्प्राक् ज्ञप्तिशब्दश्च । तथा च—ऋगादिरूपं
शास्त्रं च तदेकमसहायं च ज्ञप्तियोनिर्ज्ञप्तिकारणं यस्य वस्तुनः तत्त
थोक्तं तस्य भावस्तत्त्वं तस्मादितिसूत्रार्थः । अनेन न जगत्कारणमानु
मानिकं तस्य शास्त्रैकसमधिगम्यत्वात् धर्मादिवत् इत्यनुमानमुक्तं भव
ति । न च दृष्टान्ते साध्यवैकल्यम् । न हि धर्मादिनिश्चयोऽनुमानेन भ
वति । तथा च—अनुमानादन्येषां जगत्कारणतासाधनमयुक्तमिति न
तेषु लक्षणस्यातिव्याप्तिरिति भावः ॥
( २ ) कारणस्य शास्त्रैकवेद्यत्वं कुत इत्यत आह—'न' इति । तै
त्तिरीयवाक्यमिदम् । अत्र ह्रस्वोकारपाठः । 'औपनिषदः' इति श्रुत्य
न्तरम् । अत्राङः प्रश्लेषः कार्यः । आदिशब्देन “सर्वेवेदा यत्पदं”
( कठ. उ. २-१५ ) “वेदाह्येनं” ( भाल्लवेयं ) “तं त्वौपनिषदं
पुरुषं पृच्छामि” ( बृ. उ. ३-९-२६ ) इति वाक्यं च गृह्यते ।
‘तं’ पूर्वप्रकृतं ‘बृहन्तं’ पूर्णं ‘सर्वानुभुं’ सर्वमनुभवतीति सर्वा
नुभूः तं सर्वज्ञम् । यद्वा—सर्वमनुभावयतीति सर्वानुभुस्तं आत्मानं
सर्वजगत्कर्तारं सर्वस्वामिनं वा । 'साम्पराये' सम्यक्परस्याव्यः प्रा
प्तिः सम्परायः स एव साम्परायः, तदर्थ्ये सप्तमी, तथा च मोक्षाय।
‘अवेदवित्’—विष्णुतत्त्वनिर्णयटीकोक्तरीत्या अत्र वेदशब्देन सदा

[ अधि - ३. सू - ३. ] दीपिका सहितम्. ५५
( ३ ) न चानुमानस्य नियतप्रामाण्यम् ।
श्रुतिसाहाय्यरहितमनुमानं न कुत्राचित् ।
निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च ॥
गमा गृह्यन्ते । तथाच सदागमतदर्थाज्ञानी वेदविरुद्धज्ञानी वा न
मनुते' न जानाति, वेदादन्यत् जगत्कर्तारं न प्रमापयतीति यावत् ।
किन्तु वेदविदेव जानाति वेद एव प्रमापयतीति प्रथमश्रुत्यर्थः । पुरु
षो जगत्कर्ता स औपनिषदः उपनिषदेकसमधिगम्य इत्यन्यश्रुत्यर्थः ।
गम्यत्वं ग्राह्यत्वं तद्धितार्थः । आदिशब्दोपात्तश्रुत्यपेक्षया 'श्रुतिभ्य
श्च' इति बहुवचनम् । चशब्दोऽध्याहृतसाध्यसमुच्चये, स्वोक्तिसमु
च्चये वा । अस्य शास्त्रयोनित्वादित्यनेनान्वयः । कारणस्येति शेषः ।
तथाचैवमादिश्रुतिभ्यः कारणस्य शास्त्रैकयोनित्वावगमात् नासिद्धि
रिति भावः । नञ्द्वयाऽघटितश्रुत्युदाहरणेन सूत्र एकशब्दोऽध्याहा
र्य इति सूचितम् ॥
( ३ ) औपनिषदस्यापि कारणस्यानुमानेन सिद्धिः । किं न स्या
दित्यत आह—'न च' इति । चोऽवधारणे । तथा च—'अनुमानस्य'
अनुमानमात्रस्य 'प्रामाण्यं' अतीन्द्रियार्थप्रमापकत्वं नेत्यर्थः । तथा
च—न तेनान्यस्य जगत्कर्तृतासाधनं युक्तमिति भावः । ननु कथमेत
त् 'सर्वधर्मोपपत्तेश्च' (सू. २-१-३८.) इत्याधिकरणे स्वातन्त्र्यादिहे
तुना विष्णोः पूर्णत्वादिसिद्ध्यङ्गीकारादित्यत उक्तम्—'नियत' इति।
इदं च स्वातन्त्र्यार्थकं प्रमाणरूपप्रकृत्यर्थविशेषणम् । अनुमानस्येति
हेतुगर्भम् । तथा च—अनुमानत्वादेव न तस्य स्वातन्त्र्येणादृष्टार्थनि
श्चायकत्वं, प्रतिपक्षादिसम्भवात्, किन्त्वस्वातन्त्र्येण । स्वातन्त्र्यं च
सहायराहित्यम् । तच्च न स्वातन्त्र्यादिहेतावस्ति श्रुतिसहितत्वात् । पू
र्वपक्ष्याशङ्कितसर्वज्ञत्वकार्यत्वाद्यनुमानस्य तु श्रुतिसाहाय्यरहितत्वेन
स्वतन्त्रत्वान्न प्रमाणत्वमिति भावः । कुतो नानुमानस्य नियतप्रामा
ण्यमित्यत आह—'श्रुति' इति । स्मृतेरप्युपलक्षकमेतत् । अत्र सहाय
शब्दो मूलवाची । तस्मात्स्वार्थे ष्यञ् । श्रुतिश्च तत्साहाय्यं चेति कर्म
धारयः, ततस्तेन रहितमिति तत्पुरुषः । श्रुत्यनुग्राह्यत्वरहितमिति या
वत् । चः समुच्चये । एवशब्दो भिन्नक्रमः । तथा च—'कुत्राचित्' अ

५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
(४) श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् ।
प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा ॥
(५) पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् ।
इत्याद्यमूहनं तर्कः शुष्कतर्कं तु वर्जयेत् ॥
इत्यादि महाकौर्मे ।
स्मदाद्यदृष्टे श्रौतेऽर्थे 'श्रुतिसाहाय्यरहितमनुमानं' ईश्वरो न स्वतन्त्रः
चेतनत्वादित्यादि लिङ्गम्, तथा यज्ञहिंसाऽधर्मत्वानुमानं च तथा 'प्र
माणान्तरं' अनुमानादन्यत् रामकृष्णांशे दोषग्राहि मानुषत्वग्राहि च
प्रत्यक्षं 'निश्चयात्' स्फुटमऽतीन्द्रियार्थं 'न साधयेत्' इति योजना ।
यद्वा—अर्थ निश्चयान्न साधयेन्न साधयेदेवेत्यर्थः । उक्तं हि गीताभा
ष्ये—“स निश्चयेन योक्तव्यः योक्तव्य एव बुभूषुणेत्यर्थः” इति । उ
क्तं हि प्रमेयदीपिकायाम् “अयोगव्यवच्छेदे निश्चयशब्दः” इति ॥
(४) तर्हि कीदृशस्य प्रत्यक्षादेरदृष्टार्थनिश्चायकत्वमित्यत आह—
'श्रुति' इति । बहुव्रीहिरयम् । तथा च—श्रुतिस्मृतिरूपसहकारियु
क्तं 'यत्प्रमाणान्तरं' यशोदादिप्रत्यक्षं तत् 'उत्तमम्' । अतः तत्
'प्रमाणपदवीं' अनुप्रमाणस्य प्रमाकरणत्वरूपां पद्धतिं 'गच्छेत्' प्रा
यादित्यन्वयः । तदिति पाठेऽप्येवमेव योजना । एवं श्रुतिस्मृतिसहा
यो यस्तर्कः विष्णुः स्वतन्त्रः पूर्णत्वादिति समव्याप्तिकानुमानं सोऽपि
प्रमाणपदवीं गच्छेदित्यन्वयः । 'अत्र' अस्मिन् विषये 'विचारणा'
संशयो 'न' कार्यइत्यर्थः । नात्रेत्यनेन स्वोक्तार्थेऽप्रामाण्यशङ्का
निराकृता ॥
(५) तर्कपदस्य व्याप्यारोपणेत्याद्यन्यथाप्रतीतिनिरासाय तर्क
स्वरूपमाह—'पूर्व' इति । 'अत्र' विप्रतिपन्ने वाक्ये 'कोऽर्थोऽभिम
तः' तात्पर्य विषयो 'भवेदित्याद्यं' एवंभूतविमर्शपूर्वकं 'पूर्वोत्तरा
विरोधेन' उपक्रमोपसंहाराविरोधेन तदेकरूप्येण-लिङ्गान्तरस्याप्यु
पलक्षणमेतत्—तथा च—उपक्रमादितात्पर्यलिङ्गैः अत्र तात्पर्यविष
यार्थोऽयमेव भवेदित्याद्यं यत् 'ऊहनं' यत्प्रमाज्ञानं तत्साधनं लिङ्गं
स एव 'तर्कः' अत्राभिमतः । 'शुष्कतर्कं' श्रुतिस्मृतिसहायरहितं
तन्निरपेक्षं चेतनत्वादि तर्कं तु वर्जयेत्, तेनातीन्द्रियार्थनिश्चयो न

[ अधि - ३. सू - ३ ] दीपिकासहितम्. ५७
( ६ ) शक्यत्वाच्चानुमानां सर्वत्र ।
( ७ ) सर्वत्र शक्यते कर्तुमागमं हि विनाऽनुमा ।
तस्मान्न सा शक्तिमती विनाऽगममुदीक्षितुम् ॥
इति वाराहे ।
( ८ ) रेतो धातुर्वटकणिका घृतधूमाधिवासनम् ।
जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ।
प्रेत्य भूताप्ययश्चैव देवताऽभ्युपयाचनम् ।
कार्य इत्यर्थः । केचित्तु-क इत्यस्योभयार्थत्वमाश्रित्य “कश्छन्दसा
म् ” ( ऋ० १०-११५-२. ) इति वाक्यं 'अत्र' इत्यनेन परामृश्यते ।
अतएव 'इत्याद्यं' इत्यपि युक्तमित्याहुः । 'कौर्मे' इत्यनन्तरं पुराणे
यत उक्तमिति शेषः । अस्य 'न च' इत्यनेनान्वयः ॥
( ६ ) न केवलं श्रुत्यादिसाहित्यहीनानुमानस्य प्रामाण्याभावे सा
धकसद्भावः, अपि तु तत्प्रामाण्याभ्युपगमे बाधकं चास्तीत्याह—'श
क्यत्वात्' इति ॥ प्रयोक्तुमिति शेषः । 'अनुमानां' इति कर्मणि ष
ष्ठी । चशब्दो न केवलमित्युक्तसमुच्चयार्थः । तथा च—श्रुत्यादिसा
हित्यहीनानां 'अनुमानां' चेतनत्ववस्तुत्वादिरूपकेवलहेतूनां 'स
र्वत्र' रुद्रादेर्जगत्कारणत्वाभावादौ शशादेः शृङ्गित्वादौ साध्येऽपि
प्रयोक्तुं 'शक्यत्वात्' नानुमानस्य नियतप्रामाण्यमिति योजना ॥
( ७ ) अत्रैव प्रमाणमाह—सर्वत्रेति ॥ 'हि' यस्मात् 'आगमं वि
ना' तद्धीना 'अनुमा' 'सर्वत्र' ईश्वरकारणत्वाभावादौ 'कर्तुं' प्र
योक्तुं 'शक्यते' 'तस्मात्' अनुमा 'आगमं विना उदीक्षितुं' उदी
क्षयितुं ज्ञापयितुं अर्थमिति शेषः 'शक्तिमती' सामर्थ्ययुता नेत्यर्थः ।
'वाराहे' इत्यस्यापि 'कौर्मे' इतिवदन्वयः । तस्मात्केवलानुमान
स्यानिर्णायकत्वाच्छास्त्रेणैव कर्तृत्वनिश्चय इति स्थितम् ॥
( ८ ) नन्वतीन्द्रियार्थाभावेन प्रत्यक्षेतरस्याप्रामाण्यात्कथं शास्त्रा
दीश्वरसिद्धिरिति नास्तिक्यवादं मोक्षधर्मवचनेन निराचष्टे—रेत इ
ति ॥ रेतइत्यादिप्रथमैकवचनान्तानां पदानां प्रत्येकं प्रमाणमिति प
देनान्वयः । 'अत्रार्थे' इति शेषः । तथा च--रेतोधात्वादि 'अत्रा
र्थे' अतीन्द्रियार्थसत्त्वे अनुमानादिप्रामाण्ये च प्रमाणं प्रमापकं भव
८

५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः । इति
मोक्षधर्मवचनान्न नास्तिक्यवादो युज्यते ॥
तीत्यर्थः । भाष्यकारीयद्वितीयेतिशब्दस्य एवं मोक्षधर्मवचनात्प्रतीतैर्हे-
तुभिर्नास्तिक्यवादो न युज्यत इति योजना । नास्तिका एव नास्ति-
क्यं, नास्तिकसमुदायो वा नास्तिक्यम् । तथा च—नास्ति परलोकः,
धर्मो नास्ति, अधर्मो नास्तीति धिया वाद इत्यर्थः । यद्वा—न्यायदी-
पिकोक्तरीत्या—आस्तिक्यं धर्मादावस्त्येनेन प्रयोजनमिति भावो बु-
द्धिः, तत्पूर्वको वादः, तदन्यो नास्तिक्यवाद इत्यर्थः । रेतोधात्वादी-
नामनुमापकत्वप्रकारस्त्वित्थम्—रेतःशब्दितचरमधातुशरीरयोः का-
र्यकारणभावो न प्रत्यक्षः, किन्त्वन्वयव्यतिरेकाख्यानुमानगम्य इति
तत्प्रामाण्यसिद्धिः । मृतशरीरे सिक्तस्य रेतसः शरीराकारणत्वेन य-
दधिष्ठिते शरीरे सिक्तं रेतः शरीरात्मना परिणमति तज्जीवसिद्धिः ।
वन्ध्यादिसर्वशरीरे सिक्तस्य रेतसः कार्याकरत्वेन यत्प्रेरितं रेतः कार्यं
करं तदीश्वरादृष्टसिद्धिः । तत एव तत्प्रतिपादकागमप्रामाण्यसि-
द्धिः । एवं वातपित्तादिधातुरपथ्यादिना जीवच्छरीरे क्वचिदेव विक्रि-
यते, न मृतशरीरे, नापि जीवत्सर्वशरीरेषु । ततो जीवेश्वरतद्बोधका-
गमप्रामाण्यादिसिद्धिः । वटकणिकापदोक्तवटबीजाद्वट उत्पद्यत इति
सुप्रसिद्धम्, न च भर्जितायास्तस्याः, नाप्यभर्जिताभ्यस्सर्वाभ्य इति
तत्प्रेरकेश्वरादृष्टसिद्धिः । घृतेन जीवच्छरीर एव पीनता जायते, न
मृतशरीरे क्षिप्तेन, नापि जीवत्सर्वशरीरेषु । 'धूमाधिवासनं' नाम
पुष्पादिसम्पत्त्यर्थः धूमेन वृक्षस्य संस्कारः । तेनाशुष्कवृक्षेष्वेव पुष्पा-
दिसम्पत्तिः, न शुष्के, नाप्यशुष्केषु सर्वेषु । एताभ्यामपि लिङ्गाभ्यां
जीवेश्वरादृष्टादिसिद्धिः । केषां चित्साधनविशेषात् 'जातिस्मृतिः'
पूर्वजन्मस्मृतिर्भवति अनेनैव पुण्येन एवं स्वर्गोऽनुभूतः, अनेन पापेने-
त्थं नरकमनुभूतमिति । सा च कस्यचिदेव, न सर्वस्य, न चेतनाद्य-
भावे सा युक्तेत्यतोऽपि चेतनादृष्टादिसिद्धिः । अयस्कान्ताख्यशिला-
विशेषेणायो भ्रमति, न चाचेतने चेष्टकत्वं दृष्टं, नापि सर्वचेतनाना-
मित्येतस्मादपि तत्प्रेरकेश्वरादृष्टादिसिद्धिः । सूर्यकान्ताख्यशिला-
विशेषेणाग्निर्जायते, न चासौ शक्तिरचेतने युक्ता । अतोऽपि प्रेरकेश्व-
रादृष्टादिसिद्धिः । अम्बुभक्षणेन जीवच्छरीर एव तृष्णा निवर्तते, न

[ अधि - ३. सू - ३. ] दीपिकासहितम्. ५९
(९) दर्शनाच्च तपआदिफलस्य ।
(१०) ऋग्यजुस्सामाथर्वाश्च भारतं पञ्चरात्रकम् ।
मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥
(११) यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् ।
अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत् ॥
[इति स्कान्दे ।]
च तन्मृतशरीरे पात्रान्तरे वा निहितं पच्यते । नापि जीवत्सर्वशरी
रेषु । तस्मादपि जीवेश्वरादिसिद्धिः । प्रेत्येत्यनन्तरं स्थितस्येति शे
षः । 'प्रेत्य' जीवं विहाय स्थितस्य देहस्य 'भूताप्ययो' भूतेषु लय
इत्यर्थः । तथा च-मरणेन देहस्य पृथिव्यादिपञ्चभूतेषु लयो भवति,
न जीवतो, न चेच्छयेत्यतोऽपि तन्नियामकेश्वरादिसिद्धिः । एवं देव
ताऽभ्युपयाचनेन तत्प्रार्थनेन केषां चिदेव सम्पदादिकं भवति, एवं मृ
ते देहे चेष्टानिवृत्तिर्भवति, न पुरा न स्वेच्छया । अतोऽपि जीवेश्वरादृ
ष्टादिसिद्धिरिति ॥
(९) युक्त्यन्तरेणापि नास्तिक्यवादं दूषयति—दर्शनाच्चेति ॥
चो युक्तिसमुच्चये । आदिशब्देन पापं गृह्यते । तथा च—स्वाध्यायब्र
ह्मचर्यादिरूपात्युत्कटतपआदिफलस्य तेजस्स्वित्वादेः

६० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]


( १२ ) साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।
इत्यारभ्य वेदपञ्चरात्रयोरैक्याभिप्रायेण पञ्चरा


दिरूपग्रन्थविस्तरः 'तन्नैव शास्त्रम्', किन्तु 'कुवर्त्म' कुत्सितमा-
र्गः, मार्ग इव मार्गः, कुत्सितज्ञानोपायोऽमानमित्यर्थः । ऋगादिकमेवे-
त्येवकारस्तु विरुद्धादिविषय इति भावः । स्कान्दे पुराणे इत्युक्तमित्य-
न्वयः । पाशुपतादेः कुवर्त्मत्वमितिशब्दार्थः ॥
( १२ ) इतोऽपि पाशुपतादिकं कुवर्त्मेत्याह—साङ्ख्यमिति ॥ अत्रैवं
योजना—न केवलं स्कान्दे, किन्तु मोक्षधर्मेष्वपि । 'साङ्ख्यं योगः पा-
शुपतं वेदारण्यकमेव च ' 'इत्यारभ्यो' उपक्रम्याधीतेन
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्स्वयम् ।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते ॥
इत्युत्तरवाक्येन साङ्ख्यादिषु प्रकृतेष्वपि तत्परित्यागेन पञ्चरात्रस्यै-
व प्रामाण्यरूपमाधिक्यमुक्तं यतोऽतः पाशुपतादिकं कुवर्त्म अमानमे-
वेति । नन्वनेन पाञ्चरात्रप्रामाण्यमेव भवेन्नान्याप्रामाण्यमित्यत आ-
ह—इतरेषामिति । वेदपञ्चरात्रयोरन्येषां साङ्ख्यादीनामित्यर्थः ।
'भिन्नमतत्वं' विरुद्धदर्शनत्वं 'प्रदर्श्य' ज्ञापयित्वा प्रतिपादयेति या-
वत् ।
साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा ॥
इति वाक्यशेषेणेति शेषः । प्रदर्श्येत्यस्य पञ्चरात्रस्यैव प्रामाण्यमुक्त-
मित्यनेनान्वयः । परस्परविरुद्धानामेकप्रामाण्योक्तावन्याप्रामाण्यला-
भादिति भावः । तर्हि वेदारण्यकस्याप्यप्रामाण्यं स्यादित्यत आह—
वेदेति । 'ऐक्याभिप्रायेण' इति । एकार्थत्वरूपमूलमूलिभावाभिप्राये-
णेत्यर्थः । तथा च—पञ्चरात्रस्य वेदसमानार्थत्वेन तत्प्रामाण्योक्तौ
वेदप्रामाण्यमेवोक्तं भवतीति न तस्याप्रामाण्यमिति भावः । न चैक्या-
भिप्रायः कुतः कल्प्यत इति वाच्यम्, यतोऽदृष्टविषयस्य पौरुषेयस्य
पञ्चरात्रस्य निर्मूलत्वेऽप्रामाण्यादाधिक्यकथनमसङ्गतं स्यात् । 'सा-
ङ्ख्यं' ईश्वरावतारान्यकपिलोक्तं शास्त्रम् ।
कपिलो वासुदेवाख्यः तन्त्रं साङ्ख्यं जगाद ह ।
सर्वागमविरुद्धं च कपिलोऽन्यो जगाद ह ॥

[ अधि - ३. सू - ३. ] दीपिकासहितम्. ६१
अस्यैव प्रामाण्यमुक्तमितरेषां भिन्नमतत्त्वं प्रदर्श्य
मोक्षधर्मेष्वपि ॥
( १३ ) शास्त्रं योनिः प्रमाणमस्येति शास्त्रयोनि ॥ ३ ॥
इत्युक्तत्वात् । 'योगो' हि हिरण्यगर्भोक्तं पातञ्जलम् । 'पाशुपतं' पशु-
पतिना प्रोक्तम् । अरण्ये निर्जने देशे अध्येतव्यत्वादारण्यकमित्युपनि-
षदुच्यते । वेदाश्चारण्यकानि च, तेषां समाहारः वेदारण्यकं, द्वन्द्वैक-
वद्भावो वा । वर्णाश्रमराजदानधर्मादिप्रतिपाद्यधर्मबहुत्वात् मोक्षधर्मा-
णां भेदाद्वा मोक्षधर्मेष्विति बहुवचनम् । अत एव तत्त्वप्रदीपे—मोक्ष-
धर्मेष्विति बहुवचनं धर्मभेदादित्युकम् । मोक्षधर्मे हि-
साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नानि उताहो नेति चोच्यताम् ॥
इति वैशम्पायनं प्रति जनमेजयप्रश्नः । तस्य-
साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नानि नात्रकार्या विचारणा ॥
इति वैशम्पायनोक्तं प्रतिवचनं चास्ति । इमे युधिष्ठिरभीष्मकर्तृके
च । भगवतः ज्ञानानि ज्ञानसाधनानि भिन्नानि भिन्नमतानि । विरुद्धा-
नामपि मतानां न सर्वेषां प्रामाण्यं सम्भवति वस्तुनो बहुरूपत्वाभा-
वात्, किन्त्वेकस्यात्र प्रामाण्यमितरेषामप्रामाण्यं वाच्यम् । तत्र कस्य
प्रामाण्यं कस्य वाऽप्रामाण्यमिति पुनर्युधिष्ठिरजनमेजयहार्दप्रश्नोत्तर-
माह भीष्मो वैशम्पायनश्च । “ साङ्ख्यस्यवक्ता कपिलः ” इत्यारभ्य
“पञ्चरात्रस्य कृत्स्नस्य” इत्यनेन ज्ञानेषु ज्ञानसाधनेषु एतत्पञ्चरात्रम्।
अभिप्रायस्तु-परमाप्ततमेन नारायणेन सर्वस्य पञ्चरात्रस्य कृतत्वा-
त्प्रामाण्यं तावत्सिद्धम्, विरुद्धानां चैकप्रामाण्ये अन्याप्रामाण्यं च। ए-
तच्चाद्यवाक्यस्थवेदारण्यकपदेन वेदमूलकपञ्चरात्रस्योत्तरवाक्यस्थ-
पञ्चरात्रपदेन च मूलभूतवेदारण्यकस्योपलक्षणामङ्गीकृत्योभयोरेक-
वाक्यतायामेव सम्भवति । अन्यथा पञ्चरात्रस्य पूर्वमप्रकृतत्वेन पू-
र्वोत्तरवाक्ययोरसङ्गतत्वापातः । उपलक्षणामङ्गीकृत्यैकवाक्यतायां
च स्वीकृतायां वेदपञ्चरात्रयोरेव प्रामाण्यं सिद्ध्यति । न तद्विरुद्धपा-
शुपतादीनामिति तेषामप्रामाण्यमेवेति ॥
( १३ ) एवं सूत्रं व्याख्याय यत्परेणोक्तं शास्त्रस्य योनिरिति तद्यु-

६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
४. अधिकरणम् ॥
( १ ) अज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वम् ।
कुतः?
सू- ॐ ॥ तत्तु समन्वयात् ॥ ॐ ॥ ४ ॥
( २ ) अन्वय उपपत्त्यादि लिङ्गम् ।
क्तमिति भावेन स्वाभिमतार्थं दर्शयति—शास्त्रमिति । कारणार्थकेन
योनिशब्देन योग्यतया ज्ञेयसम्बन्धे प्रमाणमिति पर्यवस्यतीत्यभिप्रा
येण 'योनिः प्रमाणं' इति व्याख्यातम् । 'अस्य' जगत्कारणस्य 'इ
ति शास्त्रयोनि' इत्यनन्तरं तुशब्दोऽध्याहार्यः । अत एव गीताभाष्ये
“इति तु शास्त्रयोनित्वं” इत्युक्तम् । तुरेवार्थः । तथा च—शास्त्रं योनिः
प्रमाणं यस्य तच्छास्त्रयोनीत्येव शास्त्रयोनिपदार्थो ब्रह्म, न तु शास्त्र
स्य योनित्यर्थः । परव्याख्यानं तूक्तानुपयुक्तमयुक्तं चेति टीकायामेव
दूषितम् ॥ ३ ॥
॥ इति शास्त्रयोनित्वाधिकरणम् ॥
४. अधिकरणम् ॥
( १ ) अत्राधिकरणे जगत्कारणस्य शास्त्रयोनित्वान्न लक्षणाति
व्याप्तिरिति पूर्वाधिकरणफलाक्षेपपरिहारमुखेन तस्य लक्षणत्वसि
द्धये विष्णोरेव जगत्कारणत्वेन शास्त्रगम्यत्वं नेतरेषामपीति समर्थ्य
ते । पूर्वपक्षसूचनपूर्वकं सिद्धान्तमाह—अज्ञानामिति ॥ कर्तरि षष्ठीय
म् । इतरेषां इति सम्बन्धे । समुच्चयार्थस्याप्येरुभयत्रान्वयः । प्रतीत्या आ
गमोपलक्षणा वा । तथा च—न केवलं पाशुपताद्युक्तम्, किन्तु 'अज्ञानां'
श्रुतितात्पर्यार्थाज्ञानिभिरापातः ज्ञायमानमपि न केवलं विष्णोः कि
न्तु 'इतरेषां' रुद्रादीनामपि शास्त्रयोनित्वं, जगत्कारणत्वेन शास्त्रगम्य
त्वं नेत्यर्थः । ननु प्रतीत्यादेरज्ञानमूलत्वादिकं परिकल्प्यान्येषां कारण
तया शास्त्रयोनित्वाग्रहणे को हेतुरिति पृच्छति—कुत इति । प्रतीय
मानमपीत्यनेनास्यान्वयः । तत्र हेतुकथनाय सूत्रमुपन्यस्यति—तत्त्वि
ति । यत इत्यादौ ग्राह्यम् ॥
( २ ) सूत्राक्षराणि व्याचष्टे—अन्वय इति ॥ अन्वीयते स्वार्थेन स
म्बध्यते तत्परतया ज्ञायते शास्त्रं शब्दो वाऽनेनेत्यन्वयः उपपत्त्यादिता
त्पर्यलिङ्गमित्यर्थः । सूत्रानुसारादेकवचनं समुदायाभिप्रायम् । तेन

[ अधि - ४. सू - ४. ] दीपिकासहितम्. ६३
( ३ ) उक्तं च बृहत्संहितायाम्—
चोपक्रमादीनां क्वचिदविरोधं सूचयति । आदिपदं श्रुतिलिङ्गवाक्य-
प्रकरणस्थानसमाख्यानामपि ग्राहकम् । अत्र श्रुत्यादिषट्कं च ग्राह्य-
मिति टीकोक्तेः । अत्र वाक्ये श्रुत्यादिषट्कमप्यादिपदेन ग्राह्यमिति हि
तस्यार्थः । परन्तु श्रुत्यादीनामुपक्रमादिवत्तात्पर्यग्राहकत्वाभावादा-
गमार्थमात्रनिर्णायकत्वात् नात्र तन्निदर्शकप्रमाणोक्तिः । अत एवो-
त्तरत्र—
श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा ।
स्थानं पूर्वे बलीयः स्यादेवमागमनिर्णये ॥
इति तत्रापि प्रमाणं वक्ष्यति । उक्तं हि प्रमाणलक्षणटीकायाम् “ उपक्र-
मादीनां तात्पर्यलिङ्गत्वमेतेषां पुनरर्थ एवेति विशेषज्ञापनार्थो योगवि-
भागः ” इति । न चैवं “ अत्र श्रुत्यादिषट्कं च ग्राह्यं ” इति टीकायां
तात्पर्यग्राहकेष्वन्तर्भावोक्तिरयुक्तेति वाच्यम्, यतोऽत्रेत्यस्य समन्व-
यशब्दार्थ इत्येवार्थो न तात्पर्यग्राहकेष्विति, ‘ आकाशस्तल्लिङ्गात् ’
‘ शब्दादेव प्रमितः ’ ( ब्र.सू.१-१-२२,४-२४. ) इत्यादौ श्रुतिलिङ्गादि-
भिरागमार्थनिर्णयदर्शनेन तेषामपि अन्वीयते शक्तिरूपसम्बन्धवत्तया
ज्ञायते पदजातमेभिरितिव्युत्पत्त्या अन्वयशब्दार्थत्वौचित्यात् । न चो-
पक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तयः श्रुतिलिङ्गवाक्यप्रक-
रणस्थानसमाख्याश्च तात्पर्यलिङ्गानीति ज्ञानपादीयसुधाविरोध इति
वाच्यम्, अत्र शक्तेरपि संयोजनात् । अत एव चन्द्रिकायामुपक्रमादि-
प्रमाणकः शक्तितत्पर्यलक्षणस्सम्बन्धः समन्वय इत्युक्तम् । अत्रादिप-
दं श्रुत्यादीनामपि ग्राहकम् । व्युत्क्रमेणान्वयः । अनेनात्र बृहत्संहिता-
वचनोदाहरणं वक्ष्यमाणस्य श्रुतिर्लिङ्गमिति वचनस्योपलक्षककमिति
सूचितम् ॥
( ३ ) कानि तान्युपपत्त्यादीनि कुत्र च लिङ्गानीत्यत आह—उक्तं
चेति ॥ उपपत्त्यादीत्यनुषज्यते । न केवलमुपपत्त्याद्युक्तं निर्दिष्टं, किन्तु
तज्ज्ञाप्यं चोक्तमिति चार्थः । अस्मदुक्तमुपपत्त्यादि लिङ्गं बृहत्संहिता-
यामप्युक्तमिति वा । किमुक्तमित्यतस्तत्पठति—उपक्रमेति । प्रकरणा-
दिरुपक्रमः तदन्त उपसंहारः । उपक्रमोपसंहारश्च तौ तथोक्तौ ।
अत्रोपक्रमोपसंहारतदैक रूप्याभ्यासापूर्वताफलार्थवादाश्चेति प्रमाण

उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ इति ।
( ४ ) उपक्रमादितात्पर्यलिङ्गैः सम्यङ्निरूप्यमाणे तदेव
[ शास्त्रगम्यम् ।
लक्षणोक्तेः प्रत्येकविवक्षया विशकलितावुपक्रमोपसंहारौ द्वौ समुदा-
यविवक्षया उभयाविरोधलक्षणं एकार्थत्वलक्षणं वा तदैकरूप्यमपि
पृथक्तात्पर्यग्राहकमनुसन्धेयम् । अत एव द्विवचनप्रयोगः । एकप्रका-
रासकृदुक्तिरभ्यासः । प्राचुर्येण प्रमाणान्तरासिद्धार्थबोधकता अपूर्व-
ता । फलवदर्थप्रतिपादकं फलम् । स्तुतिः, निन्दा, एककर्तृकोपाख्या-
नरूपा परकृतिः, अनेककर्तृकोपाख्यानरूपः पुराकल्पश्च, अर्थवादः । उ-
पपत्तिः युक्तिः । 'तात्पर्यनिर्णये' वाक्यतात्पर्यनिश्चये 'लिङ्गं' साध-
नमित्यर्थः । यद्वा—निर्णेतव्ये तात्पर्ये साध्ये 'लिङ्गं'

[ अधि - ४. सू - ४. ] दीपिकासहितम्. ६५
( ५ ) मां विधत्तेऽभिधत्ते मां विकल्प्योऽपोह्य इत्यहम् ।
खप्रमाणकत्वे हेतुरिति सूचितं भवति । न केवलमुपपत्त्यादिकं सम-
न्वयशब्दार्थः, किन्तु तद्धेतुकः शास्त्रजन्यप्रमागोचरत्वरूपः शास्त्र-
योनित्वे हेतुभूतः । “तत्परत्वसंबन्धोऽपि” इति सुधोक्तेः । अनेन ‘स-
मन्वयात्’ सावकाशत्वनिरवकाशत्वादिना बलाबलनिश्चयपुरस्सरं अ-
न्यतरबाधया वाक्यार्थविमर्शरूपसम्यग्विचारितत्वलक्षणसम्यक्त्व-
युक्तादुपक्रमादिशक्तितात्पर्यलिङ्गसमुदायात्समन्वयात् सर्वशास्त्रस्य
भगवत्येव सम्यग्वचनवृत्त्या शक्तितात्पर्याख्यसंबन्धावगमात् तद्वि-
ष्ण्वाख्यं ब्रह्मैव जगत्कारणतया शास्त्रयोनि न रुद्रादीति ‘समन्वया-
त्’ इत्यस्यावृत्त्या सूत्रयोजना दर्शिता भवति ॥
( ५ ) ननु कर्मविधानादिरूपशास्त्रस्य कथं ब्रह्मपरतेत्याशङ्कां भ-
गवद्वाक्येन प्रतिषेधति— मामिति ॥ यद्यपि भागवते “इत्यस्या हृदयं
लोकः” इति पाठः, तथा पूर्वोत्तरार्धयोर्व्युत्क्रमेण पाठश्च दृश्यते । त-
थाऽप्यार्योक्तेरन्यकल्पीयोऽयमित्यदोषः । एकादशस्कन्धे उद्धवं प्रति
कृष्णवचनमेतत् । अत्रास्मच्छब्देन कृष्ण उच्यते । तथा च “वसन्ते
वसन्ते” ( ) इत्यादि कर्मविधात्री श्रुतिः ‘मां’ उद्दि-
श्यैव मत्पूजात्वेन कर्म विधत्ते । इन्द्राद्यभिधात्री ‘मामभिधत्ते’ मङ्गु-
णानैश्वर्यादीनभिधत्ते । ‘अहं विकल्प्यः’ कल्पनं विधानं तथा च—
‘चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति’
(ऋ० १ - १६४ - ४५०) इति श्रुत्या या वाग्वक्तृत्वा॑न्निमित्ताद्वाक्शब्दि-
तो हरिः तस्या यानि स्थानापेक्षया ‘परिमितानि’ परिच्छिन्नानि ‘च-
त्वारि पदानि’ वासुदेवादि रूपाणि तानि ये मनीषिणः ब्राह्मणाः त
एव विदुः । तत्र वाचो हृदयगुहायां निहितानि वासुदेवादि त्रीणि रू-
पाणि ‘मनुष्याः’ साधारणाः ‘नेङ्गयन्ति’ न जानन्ति । ‘तुरीयं’ अ-
निरुद्धाख्यं तु ‘वदन्ति’ जानन्तीत्येवंरूपेण अहमेव चतुष्ट्वसंख्यावि-
शिष्टवासुदेवादि विविधरूपतया बहुत्वेन विधेय इत्यर्थः । ‘अहमपो-
ह्यः’ ‘न सुरां पिबेत्’ (मनु० ११ - ९४.) इत्यादिवाक्येनाप्रियादति-
शेषः । तथा च “निषेधबुद्धिविषयमप्रियं हि हरेः स्मृतम्” इति
भागवततात्पर्योक्तेः सुरापानादिकं मदप्रीतिसाधनत्वात् निषिध्यते
९

६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन । इति भागवते ॥ ४ ॥
५. अधिकरणम् ॥
( १ ) ननु यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।
[ ( तै. उ. २-४-१. )
इत्यप्रियद्वारा ‘ न सुरां पिबेत् ’ इत्यादीना अहमेव निषेध्य इत्यर्थः ।
अथवा—अहमप्रियादपोह्यः ममाप्रीतिकरात्सुरापानशब्दितात् “सुरा
हरेर्गुणा मे स्युः” इति चिन्तनात्तदपेक्ष्य अपोह्यो निषेध्य इत्यर्थः ।
तदुक्तं भागवततात्पर्ये—विधिरूपत्वेन कल्पनं विकल्पः चत्वारि
वागित्यादि । तत्र वागित्‍यनुवादः ।
विधिभागे हरेः पूजैवाभिधाने च तद्गुणाः ।
विकल्पे तद्बहुत्वं चाप्यपोहे तु तदप्रियम् ।
उच्यते सर्ववेदेषु तच्च वेद स एव हि ॥ इति । तथा—
सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम् ।
सुरापानमिति प्रोक्तं तन्न कुर्यात्कथं चन ॥ इति ।
तत्त्वप्रदीपे तु-‘द्वे वाव ब्रह्मणो रूपे’ इति विकल्प्य विविधं कल्पयित्वा
‘ तत्र यस्स आत्मा’ ( तलवकारब्राह्मणम् ) इति सदोषादपोह्यो नि
र्दोषत्वेन विधेयोऽप्यहमेवेत्यर्थः उक्तः । अत्र तत्त्वप्रदीपपक्षे विकल्प्ये
ति ल्यप् । टीकाकृत्पक्षे तु विकल्प्यशब्दस्समासान्तर्गतो व्यस्तो वेति
विशेषः। इयं च भगवति वाक्यसमन्वयरीतिः—आद्यस्य इतिशब्दस्य
प्रकारार्थस्य हृदयमित्यनेनान्वयः । द्वितीयस्य एवंभूताया इत्यर्थः ।
तथा च ह्येवंभूताया विधिनिषेधादिरूपाया अन्यपरत्वेन प्रतीताया
श्चास्याश्श्रुतेरिति ‘ मां विधत्ते ’ इत्याद्युक्तप्रकारेण ‘ हृदयं ’ तात्पर्यं
‘ अहमेव वेद ’ जानामि ‘ मदन्यः कश्चन ’ कोपि विशेषतः प्रायः न
वेद न जानातीत्यर्थः । भागवत इत्यनन्तरं तदेव शास्त्रगम्यमित्युक्त
त्वात् न कथमितिशङ्कावकाश इति वाक्यशेषः ॥ ४ ॥
॥ इति समन्वयाधिकरणम् ॥
—:::—
५. अधिकरणम् ॥
( १ ) अत्राधिकरणे संशब्द्योक्तं वाच्यत्वं कात्स्न्र्येन चाक्षिप्य समा
धीयते । पूर्वपक्षयति—नन्विति ॥ ‘ इत्यादिभिश्चश्रुतिभिः ’ इति तृती