सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 95, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 95

४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
(११३) न च वैष्णवेषु तथा। तच्च “एष मोहं” इत्युक्तम् ॥
ते। 'यद्वत्' इति श्रवणात् 'तद्वत्' इति लक्ष्यते। चशब्दौ समुच्चयार्थी।
'अस्माभिः' इत्यत्र शिवश्चान्ये च अहं च वयं तैरित्येकशेषः। तथा च
यद्यपि वयं 'तच्छक्त्येकांशभागिनः' तस्याच्युतस्य या शक्तिः साम-
र्ध्यं तस्यैकांशभागिनो न भवामः तथाऽपि 'यद्वत्' यथा 'बालः क्रीडन-
कैः' क्रीडासाधनपदार्थैः 'क्रीडते' 'तद्वत्' तथा 'अच्युतो' हरिरपि 'अ-
स्माभिः' करणैः 'क्रीडते' सृष्ट्यादिक्रीडां करोतीत्यर्थः। पुनर्न चेत्युक्तिः
तात्पर्यार्था, 'ना' पुरुष इति वा। इतिशब्दस्य इति ब्रह्मवैवर्ते इत्यन्व-
यः। 'स्कान्दे' 'ब्रह्मवैवर्ते' इत्यनयोः 'वचनात्' इतिपदद्वारा 'न चेतर-
ग्रन्थविरोधः' इत्यनेनान्वयः। तथा च तेषां शैवादित्वेऽपि न विरो-
धित्वम्, तत्राऽपि विष्णूत्तमत्वादेरप्युक्त्या स्वविरोधेन शिवाद्युत्क-
र्षेऽप्रामाण्यात्। न च विपरीतं किं न स्यादिति वाच्यम्, शिवाद्युत्क-
र्षादेः शैवादिपुराणेष्वेवासाधारण्येन प्राप्तत्वात्, तत्रैव विष्णूत्कर्षो-
क्तौ तत्र प्रामाण्यस्य शिवाद्युत्कर्षादावप्रामाण्यस्य च निश्चयेन वैप-
रीत्यायोगात्। तस्मात्पाशुपतादिपरिकल्पितशिवाद्युत्तमत्वपरिपाटी-
दर्शनभाषया तेषूपन्यस्यत इति न तद्विरोध इति भावः ॥
(११३) तथाऽपि विष्णूत्तमत्वरुद्राधमत्वयोर्वैष्णवग्रन्थविरोधोऽ
स्तीत्यत आह—'न च' इति। समुच्चये चशब्दः। तथा च—'वै-
ष्णवेषु' विष्णुविषयपुराणादिष्वपि 'तथा' विष्णोरन्यस्योत्तमत्वमु-
क्तं न, अत एव 'तथा' शैववत् सर्वोत्तमत्वाधमत्वविषये विरोधो ने-
त्यर्थः, येन स्वविरोधेन स्वविषयेऽप्रामाण्यं स्यादिति भावः। तर्हि
वैष्णवेषु रामकृष्णादिविष्णुकर्तृकशिवस्तुत्यादि कथमुच्यत इत्यत
आह—'तच्च' इति। चस्त्वर्थः। वचनादित्यनुवर्तते। तदित्यस्यावृ-
त्तिः। तथा च–चो यतो वैष्णवेषु यच्छिवस्तुत्याद्युच्यते तत्तु 'एष
मोहं' इति वचनाज्ज्ञातेन तेन मोहार्थत्वेन 'उक्तं' प्रत्युक्तं समाहि-
तं इत्युक्तमित्यर्थः। अस्य 'अतो न तद्विरोधः' इत्यध्याहृतेनान्वयः॥
॥ इति जिज्ञासाधिकरणम् ॥
───※───