सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[अधि - १. सू - १.] दीपिकासहितम् २७
(५०) “शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा
आत्मन्येवात्मानं पश्येत्” (बृ-उ. ४-४-२३.)
(५१) परीक्ष्य लोकान् कर्मचितान्ब्राह्मणो
रस्तारतम्येन वक्ष्यते, सूत्रकृतेति शेषः । तदभिप्रेतस्मृतौ 'वेदोक्तब्र-
ह्मविद्यायाम्' इत्युक्तत्वात् तत्रोदाहृतश्रुतौ ज्ञानाधिकारित्रैविध्यस्या-
प्युक्तत्वादुक्तशङ्कापरिहार इति भावः । चशब्दः 'अध्ययनवान्' इ-
ति प्रमाणसमुच्चये ।
(५०) शमादिकमपि ब्रह्मविद्यायामधिकार इत्यत्र काण्वश्रुतिमा-
ह (बृ-४-४-२३)—'शान्त' इति । अत्र 'आत्मनि' इत्युक्त्या मध्य-
माधिकारी सूचितः, 'ऋषयोऽन्तःप्रकाशाः' इति श्रुतेः (चतुर्वेदशि-
खा) 'मध्यमा ऋषिगन्धर्वाः' इत्युक्तेश्च । 'शान्तो' भगवन्निष्ठबुद्धिः
“शमो मन्निष्ठता बुद्धेः” इति भागवतोक्तेः । तत्त्वप्रदीपे तु—वैष्णव-
सिद्धान्तादचलनं शम इति पर्यवसितमुक्तम् । 'दान्तो' निगृहीतमदः,
इन्द्रियनिग्रहवानिति यावत् । 'उपरतो' विषयालम्बुद्धिमान् । बृहद्भा-
ष्यरीत्या—उप समीपे स्वहृदयस्थे विष्णौ सन्तोषवानिति वा । 'ति-
तिक्षुः' शीतोष्णादिद्वन्द्वसहिष्णुः । 'समाहितः' समे सेन्दिरे हरौ
चित्तवृत्तिमान् । यद्वा—'यथा वस्तु तथा ज्ञानं तत्साम्यात्सममीरि-
तम्' इति वचनात् समं यथार्थमाहितमाधानं मनोवृत्तिरूपं ज्ञानं इच्छा
च यस्य स तथोक्तः । तथा च यथावस्तुज्ञानादिमानित्यर्थः । भूत्वेत्यस्य
प्रत्येकं सम्बन्धः। स्थितमिति शेषः । तथा च-पूर्वं 'एवं' विच्छब्देनोक्तो
हरेः संसारमोचकत्वज्ञानी शान्त्यादिमान् 'भूत्वा' 'आत्मनि' स्वहृद-
ये स्थितं 'आत्मानं' परमात्मानं 'पश्येत्' जानीयादित्यर्थः, विचारये-
दिति लाक्षणिकार्थः । शान्तादिर्भूत्वात्मानं विद्यादित्यनेन उपनयन-
स्य अध्ययनार्थत्ववत् शान्त्यादेर्ब्रह्मविद्यार्थत्वमुक्तं भवति । यद्यपि प-
श्यतीति श्रुतिपाठः तथापि विष्णुत्तत्त्वनिर्णयटीकायां “स तथा चका-
रेति क्वचित्पाठः ; स सदृशशाखान्तरगतो ज्ञातव्यः, एवमन्यत्रापि”
इत्युक्तत्वात् तन्न्यायेनायमपि सदृशशाखान्तरगतो वा पश्यतीत्य-
स्यार्थानुवादो वेत्यदोषः ।
(५१-५२) सारासारनित्यानित्यविवेकजन्यवैराग्याद्यपि ब्रह्मविद्याया-
मेव अधिकार इत्यत्राथर्वणश्रुतिमाह (मुं-१-२-१२)—'परीक्ष्य' इति ।

२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ५२ ) निर्वेदमायान्नास्त्यकृतः कृतेन ।
( ५३ ) तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्
( ५४ ) समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ ( मु.उ.१-२-१२. )
( ५५ ) यमेवैष वृणुते तेन लभ्यः
'ब्राह्मणो' ब्रह्मज्ञानयोग्यः 'लोकान्' विष्णुलोकेतरान् 'कर्मचितान्'
काम्यकर्मसम्पादितान् तत एवासारत्वेनानित्यत्वेन च 'परीक्ष्य' वि
विच्य तेन विवेकेन 'निर्वेदं' काम्यकर्मणि तत्फले च वैराग्यं 'आयात्'
प्राप्नुयात् । यस्मात्स्वरूपानन्दाविर्भावरूपत्वात् 'अकृतो' नित्यपुमर्थरू
पो मोक्षः 'कृतेन' उत्पत्तिनाशवत्फलत्वेनावधृतकर्मणा 'नास्ति',
किन्तु ज्ञानेन ।
( ५३-५४ ) 'तत्' तस्मात् 'सः' मोक्षादितरत्र विरक्तः 'विज्ञानार्थं'
ब्रह्मणो विशेषज्ञानाय । 'समित्पाणिः' समिद्युक्तौ पाणी यस्य । यद्वा--
सम्प्राप्तौ सम्पुटीकृतौ अरिक्तौ वा पाणी यस्य । स एवम्भूतस्सन् 'श्रोत्रि
यं' छन्दोध्येतारं ब्रह्मनिष्ठमेव गुरुं 'अभिगच्छेत्' उपसीदेदित्यर्थः । गुरु
मेव न त्वन्यमिति वा एवशब्दान्वयः । तत्त्वप्रदीपे तु-'कर्मचितान्' क
र्मणा सञ्चितान् ऐहिकान् मन्दिरादीन् विनाशिनः 'परीक्ष्य' परितो
वीक्ष्य पारलौकिकत्वेन तद्विपरीतानपि कर्मभिश्चितान् स्वर्गादिलो
कान् विनाशिन एव परीक्ष्य तेभ्यो 'निर्वेदमायात्' । 'अकृतो' ज्ञा
नप्रियो भगवान् 'कृतेन' कर्मणा 'न' लभ्यते । ततः 'तद्विज्ञानार्थं'
तस्य ज्ञानप्रियस्य विष्णोर्विज्ञानार्थं 'गुरुमभिगच्छेत्' इति श्रुत्यर्थ
उक्तः । अत्रापि विज्ञानपदेन ब्रह्मज्ञानिपरब्राह्मणपदेन च उत्तमाधिका
री सूचितः, 'देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितम्' इति गी
ताभाष्योक्तेः, 'नैव देवपदं प्राप्ताः ब्रह्मदर्शनवर्जिताः' इति तत्त्वा
त्पर्योक्तेश्च ।
( ५५ ) विष्णुभक्तिरपि ब्रह्मविद्यायामधिकार इत्येतत्कठश्रुत्या द
र्शयति - 'यं' इति । आथर्वणेपीयँ पठ्यते । ( मुं-३-२-३ ) 'एषः'
इच्छारूपः 'आत्मा' विष्णुः 'यं' अधिकारिणं 'वृणुते' परिगृह्णाति
'तेन' एव 'लभ्यः' प्राप्यः तस्य प्रसन्नो भवति ॥

[ अधि - १. सू - १० ] दीपिकासहितम्. २९
( ५६ ) तस्यैष आत्मा वृणुते तनूं स्वाम् ॥ (कठोप. २-२३.)
( ५७ ) यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
( ५८ ) तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥
( श्वे. उ. ६-२३. )
( ५९ ) इत्यादिश्रुतिभ्यश्च । व्योमसंहितायां च —
( ५६ ) ततश्च 'तस्य' अधिकारिणः 'एषः' प्रसन्नः 'आत्मा स्वां
तनूं' रूपं 'वृणुते' प्रकाशयतीत्यर्थः । अत्र 'भक्तमेव च वृणुत इति
प्रसिद्धः' इति प्रमेयदीपिकारीत्या वृणुत इत्यनेन भक्तत्वं सूचितम् ।
तत्त्वप्रदीपे तु—'यमेवैषः' परमात्मा भक्तिदानेन 'वृणुते' स्वीकरो-
ति 'तेन' प्राप्यो यतस्तस्यैव 'स्वां तनूं' प्रकाशयतीत्युक्तम् ॥
( ५७ ) सा च भक्तिः विष्णौ सर्वाधिका अन्येष्वपि यथायोग्या ब्र-
ह्मविद्योपयोगिनीत्यर्थे श्वेताश्वतराणां श्रुतिं ( श्वे-६-२३) दर्शयति—
'यस्य' इति । 'यथा' इत्यावर्तते । 'तथा' इति समुच्चये । 'कथिताः'
'अकथिताः' इति द्वेधा विच्छेदः । पूर्ववेदादिभिर्गुरुणेति च शेषः ।
तथा च—'यस्य' अधिकारिणो 'देवे' द्योतनादिगुणे विष्णौ 'परा'
सर्वाधिका 'भक्तिः' अस्ति 'तथा' 'देवे' तदितरदेवेषु ब्रह्मादिषु
'यथा' यथायोग्या भक्तिरस्ति, 'तथा गुरौ' अन्येषु स्वोत्तमेषु च यथा-
योग्या भक्तिरस्ति
( ५८ ) 'तस्य' महात्मनः कर्तरि षष्ठीयम् । तेनाधिकारिणा पूर्वं
वेदादिभिर्गुरुणा वा 'कथिताः' 'एते' उक्ताः 'अर्थाः' परापरतत्त्व-
रूपाः 'प्रकाश्यन्ते' ज्ञायन्त इत्यर्थः । यद्वा—'एते' शमादिरूपा 'अ-
र्थाः' गुणास्तस्मिन् 'प्रकाश्यन्ते' दृश्यन्त इत्यर्थः । अथ वा—'अक-
थिताः' गुरुभिरनुपदिष्टाः 'अर्थाः' अस्य भक्तिवशात् 'प्रकाश्यन्ते'
'हि' प्रसिद्धमित्यर्थः । 'प्रकाशन्ते' इति पाठे तत्कर्तृकज्ञानानुकूल-
भानकर्तारो भवन्तीत्यर्थः ॥
( ५९ ) 'इत्यादिश्रुतिभ्यश्च' इत्यस्य 'अधिकार उक्तः' इत्यनेना-
न्वयः । न केवलमुक्तश्रुतिभिः, किन्तु “भक्त्या त्वनन्यया शक्य अह-
मेवं विधोऽर्जुन । ज्ञातुं द्रष्टुं” ( भ-गी-११-५४ ) इत्यादिस्मृतिभ्यश्चेति
चशब्दार्थः ॥ ननु यद्यध्ययनवतामेव ब्रह्मविद्याधिकारः तर्हि त्रिवर्णे-
तरेषामध्ययनाभावेनाधिकारो न स्यात् । ततश्च तेषां ब्रह्मज्ञानाभावे

३० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ६० ) अन्त्यजा अपि ये भक्ता नामज्ञानाधिकारिणः ।
( ६१ ) स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता ॥
( ६२ ) एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे ।
( ६३ ) त्रैवर्णिकानां वेदोक्ते सम्यग्भक्तिमतां हरौ ॥
न मोक्षाभावस्स्यादित्याशङ्कां स्मृत्या परिहरति—' व्योमसंहितायां
च' इति । प्रकृतशङ्कानिरासपूर्वकमिति शेषः । पूर्वग्रन्थसमुच्चये च
शब्दः । अस्यापि 'अधिकार उक्तः' इत्यनेनान्वयः ।
( ६० ) अन्ते भवाः अन्त्याः तेषु जाताः 'अन्त्यजाः' त्रिवर्णबाह्याः। अ
यं चार्थो “विष्णुनामस्वाध्यायोऽन्त्यानां" इत्येतदवतारिकारूपया “ना
ग्निर्न यज्ञः शूद्रस्येत्यादेस्त्रिवर्णबाह्यानां" इति न्यायदीपिकया सूं त्रि
[L12

[ अधि - १. सू - १. ] दीपिकासहितम्. ३१
( ६४ ) आहुरप्युत्तमस्त्रीणामधिकारं तु वैदिके ।
( ६५ ) यथोर्वशी यमी चैव शच्याद्याश्च तथाऽपराः ॥ इति ॥
( ६६ ) यतो नारायणप्रसादमृते न मोक्षः, न च ज्ञानं-
[ विनात्यर्थ प्रसादः,
( ६७ ) अतो ब्रह्मजिज्ञासा कर्तव्या ॥
वर्णिनां चेत्—तेषामपि किं सर्वेषामधिकारः? न, किं तु केषां चि
दित्याह—‘त्रैवर्णिकानां' इति । ‘वेदोक्ते' वेदोत्पन्नब्रह्मज्ञाने तु 'ह
रौ सम्यग्भक्तिमतां' एव 'त्रैवर्णिकानां' उक्तेतरब्रह्मक्षत्रियवैश्यानां
अधिकारितेत्यर्थः । न केवलं नामादिज्ञानाधिकार इत्यर्थेऽपि तुशब्दः ॥
( ६४ ) “सपत्नीं मे पराधमपतिः मे केवलं कुरु ।” (मं-प्र-१-१६)
इत्यादी स्त्रीणामपि वेदाधिकारदर्शनात् कथं तासामनधिकार इत्यत

३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
(६८) यत्रानवसरोन्यत्र पदं तत्र प्रतिष्ठितं ॥
(६९) वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत् ॥
[ इति बृहत्संहितायाम् ।
र्थः । उक्तं हि शब्दाधिकरणे तत्त्वप्रदीपे “ मोक्षस्यैव परमपुरुषार्थ
त्वात् तस्य च समीचो विना विष्णुप्रसादात् अलभ्यत्वात् तस्य च अ
तिमात्रस्य अपरोक्षज्ञानप्रसाध्यत्वात् तस्य चापरोक्षस्य जिज्ञासासमा
प्ततत्त्वाद्द्विष्णुरेव जिज्ञास्य इत्युक्तम्” इति । सावधारणान्वयस्याप्यु
पलक्षकमेतत् । तस्यातश्शब्देन परामर्शाद्यनुपपत्तिः । अनेन सूत्रे यतो
नारायणप्रसादमृते न मोक्षः, किन्तु प्रसादेनैव, न च ज्ञानं विनाऽत्यर्थ
प्रसादः, किन्तु ज्ञानेनैव, न च जिज्ञासां विना ज्ञानं, किन्तु जिज्ञासयैव,
अतो ब्रह्मजिज्ञासा कर्तव्येत्यन्वयप्रदर्शनमुखेन अतश्शब्दस्य मोक्षसा
धनप्रसादसाधनज्ञानसाधनत्वादिति हेतुरर्थ इत्येतद्विवृतं भवति । एवं
यतो नारायणप्रसादमृते न ज्ञानं न जिज्ञासा किन्तु प्रसादेनैव इति
योजनायां अतःशब्दस्यार्थान्तरमपि विवृतं भवति । नारायणशब्दप्रयो
गेण सौत्रब्रह्मशब्दोऽपि व्याख्यातो भवति ॥
(६८-६९) ननु सूत्रे 'कर्तव्या' इति पदस्यैव अध्याहारः कुतः
अध्याहारस्य निरङ्कुशत्वेन 'न कर्तव्या' इति वाक्यस्यैवाध्याहारः
किं न स्यादित्यत आह—'यत्र' इति । अत्र यत्रेति तत्रेति पदमिति
चावर्तते, तथा वाक्यमित्यपि, विनेत्यध्याह्रियते । तथा च—'यत्र' अवा
न्तरवाक्ये यत् 'पदं' विना 'अन्यत्र' अर्थान्तरे 'अनवसरः' अघ
टना 'तत्र' वाक्ये तदेव 'पदं' 'प्रतिष्ठितं' प्राप्तं भवेत् नान्यदिति
'सतां' न्यायः, यत्र वाक्ये यस्मिन् वाक्ये सावकाशे अर्थान्तरे घट
नावति सति तदेव पदं नियमेन प्रतिष्ठितं प्राप्तं न भवेत् । एवं यत्र
महावाक्ये यदवान्तरवाक्यं विनान्यत्रानवसरः तत्र महावाक्ये तदे
व वाक्यं प्रतिष्ठितम्, यत्र यस्मिन् महावाक्ये सावकाशे सति तद्
वान्तरवाक्यं नियमेन प्रतिष्ठितं न भवेदित्यर्थः । यत्र वाक्ये यत्पदं
वाक्यं वाऽपेक्षितं अन्यत्रान्यस्यानवसर इति वा । इति बृहत्संहिताया
मुक्तत्वात् 'कर्तव्या' इति पदमेवावश्यमध्याहर्तव्यमिति वाक्यशेषे
णास्यान्वयः । 'न कर्तव्या' इत्यध्याहारे अथातश्शब्दार्थाधिकारादेरत्रा
न्वयायोगादिति भावः । एवं चन्द्रिकोक्तरीत्या 'यत्र'इति श्लोको 'यतः'
इत्याद्यध्याहारसमर्थनपरतयापि व्याख्येयः ।

[ अधि - १. सू - १. ] दीपिकासहितम्. ३३
( ७० ) “ तमेवं विद्वानमृत इह भवति, नान्यः पन्था अ
यनाय विद्यते ” ( तै. आ. ३-१२. )
( ७१ ) ‘ प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ’ ।
( भ. गी. ७-१७. )
( ७२ ) “ यमेवैष वृणुते तेन लभ्यः ” ( क. २-२३. )
“ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो नि
दिध्यासितव्यः ” ( बृ. उ. ६-५-६. )
( ७० ) यदुक्तं ‘यतो नारायणप्रसादं’ इत्यनेन प्रसादस्य मोक्षसाध
नत्वं तत्कुत इत्यतस्तत्र श्रुतिं प्रमाणयति- ‘तं’ इति । ‘इह’ अधिकारि
वर्गे प्रकृतपुरुषशब्दितं ‘तं’ परमात्मानं ‘एवं’ सहस्रशीर्षत्वायुक्तप्र
कारेण ‘इह’ लोके ‘विद्वान्’ परोक्षज्ञानद्वारा अपरोक्षतो जानन्नेवा
न्ते ‘अमृतो’ मुक्तो भवति, यतो नारायणायनाय तत्प्राप्तिरूपमोक्षार्थं
‘अन्यः’ परमपुरुषज्ञानात् ‘पन्थाः’ उपायो ‘न विद्यते’ नास्ति अ
त इत्यर्थः । अत्र ज्ञानस्य मोक्षसाधनत्वं साक्षात् ज्ञायते । प्रसादस्य
मोक्षसाधनत्वं तु टीकासुधोक्तरीत्या प्रसादं विना विद्वत्पदलक्ष्या
परोक्षज्ञानमात्रेण मोक्षो न भवतीत्यन्यथानुपपत्त्यैव, न तु साक्षात् ।
निमित्तेन नैमित्तिकोपलक्षणा वेत्यवगन्तव्यम् ॥
( ७१ ) ‘न च ज्ञानं विना’ इति यदपरोक्षज्ञानस्य प्रसादसाधनत्व
मुक्तं तत्कुत इत्यतस्तत्र गीतास्मृतिमाह- ‘प्रियो हि’ इति । ‘अहं ज्ञा
निनोऽत्यर्थं’ अत्यन्तं ‘प्रियः’ । ‘हि’ प्रसिद्धम् । ‘स च’ सोऽप्यप
रोक्षज्ञानी मम प्रियः’ इत्यर्थः । कृष्णवाक्यमेतत् ।
( ७२ ) प्रसादस्य मोक्षसाधनत्वं न केवलमर्थात् ज्ञायते, किन्तु श्रु
त्या चेत्याशयेन तत्र कठश्रुतिमाह- ‘यं’ इति । अत्रैवकारो भिन्नक्रमः ।
तथाच ‘एषः’ परमात्मा ‘एषः’ इच्छारूपः प्रसन्नः सन् ‘यं’ अधि
कारिणं ‘वृणुते’ अनुगृह्णाति ‘तेन’ एव ‘लभ्यः’ प्राप्यः, न त्वन्येन
कर्मणेत्यर्थः । अत एव विष्णुतत्त्वनिर्णयटीकायाम् “एष परमात्मा यं
वृणुते यस्य प्रसीदति तेनैव लभ्यः । कथं ? यतस्तस्य स्वां तनुं विवृ
णुते प्रकाशयति, ततश्चास्य स्वां तनुं अविद्यावृतस्वरूपां विवृणुते आ
विर्भावयति” इति प्रकृतानुकूलतया समग्रवाक्यार्थ उक्तः । यत्पूर्वं
जिज्ञासायाः अपरोक्षज्ञानसाधनत्वमुपस्कृतवाक्येनोक्तं तत्र प्रमाणत्वे

३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ७३ ) इत्यादिश्रुतिस्मृतिभ्यः ।
( ७४ ) कर्मणा त्वधमः प्रोक्तः प्रसादः श्रवणादिभिः ।
( ७५ ) मध्यमो ज्ञानसंपत्त्या प्रसादस्तूत्तमो मतः ॥
( ७६ ) प्रसादात्त्वधमाद्विष्णोः स्वर्गलोकः प्रकीर्तितः ।
न श्रुतिमाह 'आत्मा' इति । वा अर इति विश्लिष्टपाठः । 'वै' शब्दे-
ऽवधारणे । 'अरे' इति याज्ञवल्क्यकर्तृकमैत्रेयीसम्बोधनम् । तथा
च 'अरे' मैत्रेयि अमृतत्वमिष्यते चेत्तर्हि 'आत्मा' परमात्मा त्वया
'द्रष्टव्यो' दर्शनेन विषयीकर्तव्य इत्यर्थः । दर्शनं केन स्यादित्याका-
ङ्क्षायामाह-'श्रोतव्यः' इत्यादि । दर्शनार्थं निदिध्यासितव्यः । तदर्थं
'श्रोतव्यः' गुरुपदेशमुखेन अयमस्य वाक्यस्यार्थ इत्युपनिषद्वाक्या-
र्थग्रहणरूपश्रवणेन विषयीकर्तव्यः, तथा 'मन्तव्यः' युक्त्यनुसन्धा-
नरूपमननेन विषयीकर्तव्यश्चेत्यर्थः । अनेन श्रवणमनननिदिध्यासना-
त्मकजिज्ञासायाः अङ्गाङ्गिरूपायाः ज्ञानसाधनत्वमुक्तं भवति ।
( ७३ ) 'श्रुतिस्मृतिभ्य' इति । श्रुतयश्च स्मृतयश्च ताभ्य इति विग्र-
हः । अस्य 'यतो नारायण' इत्यादिनोक्तं सिद्धमित्यन्वयः ।
( ७४ ) ननु 'तत्कर्म हरितोषं' 'य इमं परमं गुह्यं' (भ. गी.
१८-६८.) इत्यादेः कर्मादिनाऽपि भगवत्प्रसादसिद्धेः किं ज्ञानेन? प्र-
सादस्य मोक्षसाधनताबोधके “तमेवं विद्वान्” “यमेवैष वृणुते”
इत्यादाविव “प्रियो हि” इति वाक्येऽन्यनिषेधाभावादित्याशङ्कां स्मृ-
त्या परिहरति—'कर्मणा' इति । काम्याकाम्योभयकर्मणेति यावत् ।
तथा च 'कर्मणा' जन्यो यः 'प्रसादः' सः 'अधमः' एव 'प्रोक्तः'
प्रामाणिकैः । एवं 'श्रवणादिभिः' यः प्रसादो भवति
( ७५ ) स 'मध्यमः' । 'ज्ञानसम्पत्त्या' अपरोक्षज्ञानपरिपाकेन जन्यो
यः 'प्रसादः' स एव 'उत्तमो मतः' उत्कृष्टतया प्रमित इत्यर्थः ।
अवधारणार्थकतुशब्दस्य द्विर्ग्रहणं त्रिष्वप्यन्वयसूचनार्थम् ।
( ७६ ) किमतो यद्येवमित्यत आह—'प्रसादात्' इति । तुर्विशेषे ।
तथाच 'अधमात् विष्णोः प्रसादात्' काम्यकर्मसाध्यात् 'स्वर्गलोकः'
भाव्यतया वृद्धैः 'प्रकीर्तितः' इत्यर्थः । काम्यफलमात्रोपलक्षकमेतत्
“परीक्ष्य लोकान्” (मुं.उ.१-२-१२) इति श्रुतेः काम्यकर्मणां वैराग्य

[ अधि-१०. सू-१०.] दीपिकासहितम्. ३५
(७७) मध्यमाज्जनलोकादिरुत्तमस्त्वेव मुक्तिदः ॥
जननद्वारा मोक्षेऽप्युपयोगोऽस्तीति ज्ञातव्यम् । एवं अकाम्यकर्मसा-
ध्यात् अधमप्रसादात् अन्तःकरणशुद्ध्यादिद्वारा मोक्षो भवतीत्यपि
ज्ञातव्यम् । नच अधमप्रसादशून्यानां अतिद्वेषिणां दुर्योधनादीनां कथं
स्वर्गप्राप्तिरिति वाच्यम्, भागवताचार्यरहितानां तदभावोक्तावपि
तद्वतां तत्सम्भवात् । यथोक्तं गीतातत्पर्ये—
आचार्याणां तु तेजसा ।
यान्ति स्वर्गं ततः क्षिप्रं तमोऽन्धं प्राप्नुवन्ति च ॥
तदन्ये नैव च स्वर्गम् ॥
इति । स्वर्गलोक इत्युक्त्या तत्रैव “मोक्षः साङ्कल्पिकः स्वर्गः
भूतादित्वं फलं क्रमात्” इति वचनोक्तो यो नित्यसंसारिभीराजस-
राजसै राजसतामसैश्च प्राप्यः

३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ७८ ) श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च ।
( ७९ ) साधनं ज्ञानसंपत्तौ प्रधानं नान्यदिष्यते ॥
( ८० ) न चैतानि विना कश्चित् ज्ञानमाप कुतश्चन ॥ इति नारदीये॥
( ८१ ) ब्रह्मशब्दश्च विष्णोवेव ।
( ७८ ) नन्वस्तूत्तमप्रसादाय ज्ञानापेक्षा, तथाऽपि “कर्मणा ज्ञान-
मातनोति” इत्यादेः कर्मादिनाऽपि ज्ञानं भवतीति न तदर्थं जिज्ञासा
कर्तव्या “आत्मा” इति वाक्येऽन्यनिषेधाभावादित्याशङ्कां प्रकृतप्र-
माणशेषेण परिहरति—‘श्रवणं’ इति । अत्र एवकारस्य द्विर्ग्रहणं
सर्वत्र सम्बन्धज्ञापनाय । ते च श्रवणादीनां कार्यसाधने अन्यसाहि-
त्यनिरासकाः, “नरं च नारायणमेव” इत्यादाविव अनभिमतकर्मा-
दिव्यावर्तकाश्च । द्वयोर्द्वयोस्समुच्चये ‘च’ शब्दौ । ‘तथा’ शब्द उ-
पमायाम् । ‘तथैव च’ इति निपातसमुदायो वा । भक्तिग्रहणं प्रस-
ङ्गात्, दृष्टान्तार्थं वा ।
( ७९ ) तथा च ‘ज्ञानसम्पत्तौ’ अपरोक्षज्ञानप्राप्तौ यथा भक्तिस्त-
था श्रवणाद्येव साधनं, नान्यत्कर्मादीत्यर्थः । का गतिस्तर्हि “कर्म-
णा ज्ञानमातनोति” इत्यादिवचनस्येत्यत आह—‘प्रधानं’ इति । श्रव-
णादि प्रधानं साधनं, ‘अन्यत्’ अप्रधानमित्येव ‘इष्यते’ अभ्युपेयते
प्रामाणिकैः, न त्वन्यत् साधनमेव नेति योजना। अप्रधानसाधनविष-
यं कर्मादिवचनमिति भावः ।
( ८० ) विपरीतं किं न स्यादित्यत आह—‘न च’ इति । चश-
ब्दोऽप्यर्थः । तथा च ‘एतानि’ श्रवणादीनि ‘विना कश्चित्’ अपि
अधिकारी ‘कुतश्चन’ कर्मादेस्सतः ‘ज्ञानं नाप’ एवमेतानि श्रवणा-
दीनि सन्तिचेत् कुतश्च कर्मादेर्विना ज्ञानं नापेति नेति योजना।
तथा च निरपेक्षान्वयव्यतिरेकाभ्यां श्रवणाद्येव ज्ञाने प्रधानं साक्षा-
त्साधनं, कर्मादि तु तदभावात् पारम्पर्येण साधनमिति न वैपरीत्यमि-
ति भावः । ‘नारदीये’ ‘यत उक्तं’ इति शेषः । अस्य ‘अतो “यतो
नारायण” इत्यादिनोक्तं युक्तं’ इत्युपस्कृतवाक्येनान्वयः । ‘यतो ना-
रायण’ इत्यनेन जिज्ञासायाः निर्विषयत्वशङ्कानिरासाय प्रयुक्तः सौ-
त्रो ब्रह्मशब्दो नारायणपर इति व्याख्यतः ।
( ८१ ) ननु नारायणप्रसादमृते न मोक्षश्चेत् तर्हि तज्जिज्ञासैव कर्त-
व्या न ब्रह्मजिज्ञासा । न च वाच्यं नारायण एव ब्रह्मपदेन विवक्षितः

[अधि - १०. सू - १०.] दीपिकासहितम्. ३७
(८२) यमन्तस्समुद्रे कवयो वयन्ति तदक्षरे परमे प्रजाः ।
सूत्रकृतेति, ब्रह्मशब्दस्य बह्वर्थत्वेन सूत्रकारविवक्षाविशेषस्य दुर्ज्ञेय-
त्वादित्यत आह—'ब्रह्म' इति । मुख्य इति शेषः । चः 'अनेकार्थोऽ-
पि ब्रह्मशब्दः' इति अप्यर्थे, यतइत्यर्थे च । तथा च ब्रह्मशब्दस्याने-
कार्थत्वेऽपि यतः सः विष्णावेव मुख्यः अतो मुख्यामुख्ययोर्मुख्यस्यैव
ग्राह्यत्वात् स एव सूत्रकारविवक्षितो ज्ञायत इति योजना । अत्र श-
ब्दान्तरं विहाय विष्णुशब्दप्रयोगेन तच्छब्दगतानां वर्गपञ्चमषष्ठचतु-
र्थानां षण्णां सङ्ख्या रेखालखनेन सूत्राणां चतुष्षष्ट्युत्तरपञ्चशत-
सङ्ख्योक्ता भवति । यद्वा—
देशतः कालतश्चैव गुणतश्चापि पूर्तितः ।
विष्णौ ब्रह्मेति नामैतन्मुख्यतोऽन्यत्र न क्वचित् ॥
इत्यैतरेयभाष्योक्तेः देशकालगुणापरिच्छेदरूपत्रिविधपूर्तिवाचकब्रह्म-
शब्दव्याख्यानाय तादृशविष्णुशब्दप्रयोगः । टीकायां तु—अत्र विष्णु-
ग्रहणेन “सविष्णुराह हि । तं ब्रह्मेत्याचक्षते” इत्यन्योन्याव्यवहित-
सूत्रद्वयकरणानन्तरमेव ब्रह्ममीमांसायाः व्यासेनारब्धत्वादेतद्व्यवहि-
तदेवमीमांसान्त्यसूत्रद्वये ब्रह्मत्वेन नारायणस्यैव प्रकृतत्वं सूचयती-
ति प्रयोजनान्तरमुक्तम् । तत्त्वप्रदीपेऽप्येतदेव यो देवतामीमांसान्ते
“विष्णुरेव हि तच्छ्रुतेस्तं ब्रह्मेत्याचक्षते” इति सर्वदेवोत्तमत्वेन प्र-
तिज्ञातो ब्रह्मत्वेन चोक्तः स एवोत्तरमीमांसायां विचार्यत्वेनोच्यत इ-
ति पाठभेदेनोक्तम् ॥
(८२) ब्रह्मशब्दस्यान्यत्रापि रूढत्वाद्रूढेरेव मुख्यवृत्तित्वात्कुतोऽ-
सौ विष्णावेव मुख्य इत्यत आह—'यं' इति । 'ब्रह्मशब्दश्च' इत्यादि अ-
त्रापि सम्बध्यते । चो यद्यपीत्याद्यर्थे । हिशब्दो यत इत्यर्थे । श्रुतिराहे-
ति शेषः । तथा च यद्यपि ब्रह्मशब्दोऽन्यत्र रूढः, तथापि 'श्रुतिः'
“यमन्त” इत्यादिका यतः कवीनां मते 'तदेव परमं ब्रह्म' इत्याहुरि-
ति प्रयोगबाहुल्यरूपाम् रूढिमाह, अतो ब्रह्मशब्दो विष्णावेव परममु-
ख्य इत्यर्थः । अन्यत्राज्ञरूढेः विद्वद्रूढेरतिमुख्यत्वादिति भावः । यमन्त-
स्समुद्रे इति वाक्यम्
यदोष्धीभिः पुरुषान् पशूंश्च विवेश भूतानि चराचराणि ।

३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ८३ ) यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज
[ भूम्याम् ॥
( ८४ - ८५ ) इत्याद्युक्त्वा “ तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म
परमं कवीनाम् ” ( महाना. १. )
अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम् ॥
यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥
इति वाक्येन सह व्याख्यातं विष्णुतत्त्वनिर्णयटीकायाम् । तथा
हि-‘यमन्तस्समुद्रे’ विभक्त्यर्थेऽव्ययीभावः समुद्रस्यान्तस्स्थितं ‘क
वयो’ज्ञानिनः ‘अवयन्ति’ ईषदेव जानन्ति, यस्मिन् ‘तदक्षरे’ अवि
ज्ञेयत्वरूपपूर्वविशेषणविशिष्टे प्रसिद्धे वा अविनाशिनि ‘परमे’ प्र
जा अधीनाः सन्ति
( ८३ ) ‘जगतः प्रसूती’ प्रसूतिर्जनयित्री मूलप्रकृतिर्लक्ष्मीः ‘यतो’
यस्मात् प्रसूता उत्पन्ना, सृष्टौ अभिमुखीबभूवेति वा, यश्च यद्वस्तु
‘तोयेन’ तत्तज्जीवकर्मणा स्ववीर्येण वा, तोयशब्दोक्ताम्बूपलक्षितैर्भू
तैर्वा ‘भूम्यां’ पृथिव्यादिषु लोकेषु ‘जीवान् व्यससर्ज’ विविधं स
सर्ज ।
( ८४-८५ ) यश्च ‘ओषधीभिः’ सहितान् ‘पुरुषान् पशूंश्च चरा
चराणि भूतानि’ प्रेरणाय ‘विवेश’ । ‘चराचराणि भूतानि’ इत्यनेनैव
सिद्धे यज्ञाङ्गत्वादिना विशिष्टानां व्रीह्योषधीनां ग्रहणाय पुनर्वचनम् ।
‘अतः’ यस्मात् ‘परं’ अतिशयेन ‘अन्यत्’ वस्तु ‘अणीयसं’ अणी
यो नास्ति, यच्च ‘परात्परं’ उत्कृष्टादुत्कृष्टं ‘महतो’ महत्परिमाणादपि
‘महान्तं’ महत्, ‘यदेकं’ केवलं ‘अव्यक्तं’ स्वप्रसादं विना अती
न्द्रियं ‘विश्वं पूर्णं तमसः’ प्रकृतेरज्ञानाद्वा ‘परस्तात्’ अतिक्रम्य
स्थितं ‘तदेवर्तं’ यथार्थज्ञानरूपं ‘तदु’ तदेव ‘सत्यं’ ज्ञानपूर्वकक्रियावत्
‘तदेव कवीनां’ मते ‘परमं’ मुख्यं ‘ब्रह्म’ इत्याहुरिति । अत्र ‘तदक्षरे’
इति श्रुतिपाठः । ‘यदक्षरे’ इति क्वचित्पाठे यस्मिन्नित्यध्याहारो न का
र्यः । ‘व्यससर्ज’ इति प्रायिकः श्रुतिपाठः । ‘व्यचसर्ज’ इत्यपि क्वचि
त्पठन्ति । अत्र सकारस्य चकारादेशः छान्दसः । आद्यपक्षेऽपि वि आ
ससर्जेत्यवयवविभागः । तत्राङो ह्रस्वत्वं छान्दसं बहुलग्रहणात् ।
“इन्द्रा वरुण वामहम्” इति श्रुतौ णकारात्परस्याकारस्य यथा ह्रस्व

[ अधि - १. सू - १० ] दीपिकासहितम्. ३९
( ८६ ) इति हि श्रुतिः । “ तन्नो विष्णुः ” ( महाना. १० )
इति वचनाद् विष्णुरेव हि तत्रोच्यते ।
( ८७ ) न चेतरशब्दात्तत्प्राप्तिः ।
त्वं तद्वदिति नारायणपण्डिताचार्योक्तिः । “ व्यससर्ज विससर्ज बहु-
लग्रहणात् ” इति प्रमेयदीपोक्तिरपि ह्रस्वाभिप्रायिकैव । केचित्तु लि-
ट्यडागमश्छान्दसो बहुलग्रहणादिति प्रमेयदीपार्थमाहुः । तदार्यो-
क्तत्पक्षान्तरम् । पद्मनाभतीर्थकृततत्त्वनिर्णयटीकायां न्यायरत्नावल्यां
तु ' वयन्ति ' इति विच्छिद्य ' तदक्षरे ' इत्येव च पठित्वा, “ यं पुरुषं
समुद्रेऽन्तः कवयो वयन्ति वाञ्छन्ति तदक्षरे यस्मिन् तस्मिन् अक्षरे
नाशवर्जिते परमे प्रजास्तदाधाराः तिष्ठन्ति, जगतः प्रसूती जगज्जन-
यित्री प्रकृतिः यतः प्रसूता प्रादुर्भूता सती तोयेन इतरमिश्रितेन जीवा-
न् देहवत्त्वेन व्यससर्ज विसृष्टवती ” इत्येकान्वयेन “ तदेव तात्पर्यविष-
यीभूतत्वादृतं तदेवाबाधितरूपत्वात्सत्यं तदेव कवीनामभिमतं परं
ब्रह्म” इत्यर्थ उक्तः । नारायणपण्डिताचार्यकृतौ तत्त्वमञ्जर्यामपि ‘तद्-
क्षरे ' इति पठित्वा “ यमवयन्ति अवगच्छन्ति यस्मिंस्तस्मिन् अक्षरे
प्रजाः सन्ति यतः प्रसूता पराधीनविशेषं प्राप्ता श्रीः तोयेन कर्मणा
जीवान् भूम्यां प्रकृत्यां व्यससर्ज ” इत्यन्वयेन “ तदेवर्तं शश्वदेकप्र-
कारं सत्यं साधु ब्रह्म गुणपूर्णं ” इत्यर्थ उक्तः ॥
( ८६ ) ननु ‘तदेव’ इति वाक्ये तच्छब्देन कुतो विष्णुनिश्चयः?
समुद्रस्थत्वलिङ्गादिति चेत्—न, तस्य रुद्रादावपि कथं चित्सम्भ-
वादित्यतो निरवकाशविष्णुश्रुतेरेवेत्याह—' तन्नः ' इति । ‘इति वच-
नाद्विष्णुरेव ’ ‘ तत्र ’ ‘ तदेव ’ इति श्रुतौ तच्छब्देन ‘ उच्यते ’ इति
निश्चीयत इत्यर्थः । हिशब्दः प्रसिद्धौ । अत्र ‘ तन्नः ' इत्येकदेशग्रहणे-
न “ नारायणाय विद्महे वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोद-
यात् ” इति समग्रवाक्यं गृह्यते । द्वितीयार्थे चतुर्थ्यौ । तथा च य-
स्मात् वयं नारायणं ‘ विद्महे ' जानीमहे यतश्च तं वासुदेवं ‘धीम-
हि ' ध्यायेमहि ‘तत् ' तस्मात् नः ’ अस्मान् ‘तत् ' शुभं प्रति ‘वि-
ष्णुः प्रचोदयात् ’ प्रेरयत्विति श्रुत्यर्थः ॥
( ८७ ) यद्युत्तरवाक्ये विष्णुशब्दश्रवणाद्विष्णुरेवात्रोक्तं ब्रह्म, तर्हि
‘ तन्नो रुद्रः ’ इत्यादीतरशब्दश्रवणात् रुद्रादेरपि मुख्यब्रह्मता प्राप्तेत्य-

४० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( ८८ ) नामानि विश्वाऽभि न सन्ति लोके यदाविरासी
[ दनृतस्य सर्वम् ।
( ८९ ) नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममु
[ दाहरन्ति ॥
( ९० ) इति भाल्लवेयश्रुतिः । “यो देवानां नामधा एक ए
व तं सम्प्रश्नं भुवना यन्त्यन्या” (ऋ. सं. १०-८२-३.)
त आह—'न च' इति । च शब्दः समुच्चये । तथा च 'इतरशब्दा
त्' रुद्रादिवाचकशब्दबलात्तस्य रुद्रादेरपि तस्य मुख्यब्रह्मत्वस्य
'प्राप्तिर्न' इत्यर्थः ।
( ८८ ) कुत इत्यतस्तत्प्रापकशब्दानां विष्णवेव मुख्यत्वादिति हेतूप
स्कारमभिप्रेत्य तस्यासिद्धिपरिहाराय विष्णोर्मुख्यतः सर्वनामवाच्य
त्वे श्रुतिमाह—'नामानि' इति । 'श्रुतेः' इति क्वचित्पञ्चम्यन्तपा
ठः

[ अधि - १०. सू - १०. ] दीपिकासहितम्. ४१
इत्येवशब्दान्नान्येषां सर्वनामता ।
( ९१ ) “ अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि
भुवनानि तस्थुः ॥ ( ऋ. सं. १०-८२-६. ) इति
हि विष्णोर्लिङ्गम् ।
( ९२ ) न च प्रसिद्धार्थे विनाऽन्योऽर्थो युज्यते ।
ब्रह्मत्वं किं न स्यादित्यत आह—‘यः’ इति । ‘इत्येवशब्दात्’ इति
इतिवाक्यस्थैवशब्दात् ‘अन्येषां’ रुद्रादीनां ‘सर्वनामता’ विष्णुवा-
दिसर्वशब्दवाच्यत्वं नेत्यर्थः । सर्वनामतेत्यनन्तरं-यत एवमतः ‘तन्मे
विष्णुः’ ( महाना.३-१६. ) इत्यादौ नान्येषां प्राप्तिः अत एव न ब्रह्मत्वं
तेषामिति वाक्यशेषः । ‘यो’ भगवान् ‘एक एव देवानां’ ब्रह्मादीनां
‘नामधाः’—विश्वपाशब्दवदयं शब्दः—नामधारकः न त्वन्येऽपि ‘तं
प्रश्ने’ पृष्टारं ‘अन्या’ अन्यानि ‘भुवना’ भुवनानि लोकाः ‘संयन्ति’
संयान्ति मोक्षे प्रलये चेति श्रुत्यर्थः ॥
( ९१ ) नन्वत्रापि यच्छब्देन विष्णुरिति कुतः ? विश्वकर्मेति श्रुति-
बलादस्य सूक्ताख्यप्रकरणस्य विश्वकर्माद्यन्यपरतया तद्गतयच्छब्द-
स्यापि तत्परत्वौचित्यादित्यत आह—‘अजस्य’ इति । ‘हि’ यस्मात्
इति वाक्ये ‘विष्णोः लिङ्गं’ पद्मनाभत्वाख्यमसाधारणो धर्मः श्रुतः
तस्माद्यच्छब्दोदितो विष्णुरेवेत्यन्वयः । उत्सर्गतो लिङ्गात् श्रुतेः प्राब-
ल्येऽपि सावकाशाया विश्वकर्मश्रुतेः निरवकाशलिङ्गेन बाधोपपत्तेरि-
ति भावः । श्रुत्यर्थस्तु—‘अजस्य’ अजन्यस्य पुरुषस्य ‘नाभौ एकं’
वस्तु ‘अर्पितं’ उद्भूतम् । ‘यस्मिन् विश्वानि भुवनानि’ सर्वे चतुर्दश
लोकाः ‘अधितस्थुः’ अधिष्ठिताः इति ॥
( ९२ ) नाभ्यर्पितं पद्मादन्यत्किं न स्यादित्यत आह— ‘न च’
इति । चः समुच्चये । प्रसिद्धं विष्णुनाभिस्थत्वेन प्रसिद्धं पद्मा-
ख्यार्थं ‘विनाऽन्योऽर्थो’ न युज्यते, प्रसिद्धिबाधादित्यर्थः । विश्वकर्म-
श्रुतिवत्पद्मनाभत्वलिङ्गमप्यन्यस्य किं न स्यादित्यतो वाऽऽह—‘न
च’ इति । पद्मनाभत्वेन प्रसिद्धपदार्थं भगवन्तं विना ‘अन्यः’ पद्म-
नाभो न युज्यते प्रसिद्धिबाधादित्यर्थः ॥
६

?
Wait, look at line 25: तथा च यः विश्वकर्मसूक्ते or तथा च यत्?
तथा च यः - wait, look at यः: it is य followed by a visarga ः or is it यद्?
Let's zoom in on line 25:
तथा च य then ः or space with a dot?
Wait, यः विश्वकर्मसूक्ते? No, look at line 26:
वा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति” इति या आख्या उक्तिः
The sentence is: तथा च या विश्वकर्मसूक्ते ... इति या आख्या उक्तिः?
Wait, does line 25 say या?
Look at the letter after च: it is य with something... wait, look closely:
It has a top bar, य, and an anusvara? Or यः? Or या?
Wait, it has a vertical stroke to the right with a blot: could it be या? No, look at यः: there are two dots vertically aligned, but the top dot is faint. Wait, or is it यः?
Wait, in विश्वकर्मसूक्ते: "यः विश्वकर्मसूक्ते ..."? No, Vishvakarma is यः (he who is...)?
Wait,

[ अधि - १. सू - १. ] दीपिकासहितम्. ४३
( ९६) “यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं
सुमेधाम् ” (ऋ. १०-१२५-५.) इत्युक्त्वा
( ९७) “मम योनिरप्स्वन्तः समुद्रे ” (ऋ. १०-१२५-७.) इत्याह ।
( ९६) ननु समाख्याश्रुतावपि विष्णुः कुतो वाच्य इत्यत आह—
‘यं’ इति । इतीत्यनन्तरं वाक्येनेत्युभयत्र शेषः । ‘परो दिवा’ इत्येत
त्समस्तमनेनापि योज्यम् । अत्र समाख्याश्रुतावित्येकं पदम् । तथा च-
यस्मात् ‘परो दिवा’ इति समाख्याश्रुतौ मेत्याख्या माख्या तया
सहिता समाख्या “प्रकृतिर्वाव समासमा” (माध्यंदिनश्रुतिः)
इति श्रुतौ समासमत्वोक्तेः ‘नामैकदेशे’ इति न्यायेन समाभिधा
वा, अहमिति प्रकृता लक्ष्मीः “यं” इत्यादिवाक्येन ब्रह्मादीनां
स्वाधीनत्वमुक्त्वा “मम योनिरप्स्वन्तः समुद्रे” इति वाक्येन “प
रो दिवा” इत्युक्तं विष्णुं स्वकारणत्वेन समुद्रस्थत्वेन चाह, तस्मा
द्विष्णुरेव समाख्याश्रुतिप्रतिपाद्य इत्यर्थः । उक्तेत्यनेन लक्ष्मीकारणं
ब्रह्माद्यन्यतमं किं न स्यादिति शङ्का वारिता । श्रुतौ ‘दिवा’ इत्यादि
तृतीया पञ्चम्यर्थे । तथा च—‘दिवः’ श्रियः ‘परः’ ‘एना’ एत
स्याः भूम्याश्च ‘परः’ उत्तमः । ‘देवेभिः’ देवेभ्यः ‘असुरैः’ असुरे
भ्यश्च ‘परः’ उत्तमः । किं बहुना—‘यदस्ति’ तस्मात्सर्वस्मादपि
परः। स विष्णुः द्यावापृथिवीभ्यां परः। अहं तु ‘महिना’ महिम्ना
‘एतावती’ परिमिता बभूव । अहमेतावती यथोक्तप्रकारा महिम्ना
नातोऽधिकेति वा श्रुत्यर्थः । अहमिति लब्धपदेन लक्ष्मीरूच्यते, एत
त्सूक्तप्रवर्तिकायाः आम्भृण्याः लक्ष्मीरूपत्वात् । तथा च—अहं ‘यं
यं’ रुद्रपदयोग्यं जीवं ‘उग्रं’ रुद्रं कर्तुं ‘कामये’ इच्छेयं ‘तं तं’ उ
ग्रं कृणोमि करोमि । एवं तत्तत्पदयोग्यं यंयं ‘ब्रह्माणं’ ‘ऋषिं’ ‘सु
मेधां’ सुमेधसं वा कर्तुं कामये तं तं तथा करोमीत्यर्थः । शिष्टवाक्या
र्थः “पत्युरसामञ्जस्यात्” (ब्र.सू.२-२-३७) इत्याधिकरणे वक्ष्यते ॥
( ९७) तथाऽपि मम न स्वातन्त्र्यमित्याह—‘मम’ इति । ‘मम’
योनिः’ कारणं ‘समुद्रे अप्सु’ अपां ‘अन्तः’ तिष्ठति । १ स्याधिक्यं
कम्पस्वरार्थः । पतिनाम न ग्राह्यमिति भावेन नारायण इत्यनुक्त्वा
तदर्थबोधनायैवमुक्तिः ॥

४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
(९८) उग्रो रुद्रः, समुद्रेऽन्तर्नारायणः । प्रसिद्धत्वात् सू
[ चितत्वाच्चास्यार्थस्य ।
(९९) न चाविरोधे प्रसिद्धः परित्यज्यते । उक्तन्यायेन
[ च श्रुतय एतमेव वदन्ति ।
(९८) नन्वत्र समुद्रस्थो रुद्रः किं न स्यात् 'तप्यमानाय
सलिले' इति भारतेोक्तेः । न च रमाधीनतोक्तिविरोधः, उ
ग्रशब्देन कस्य चित्क्रूरस्य ग्रहणसम्भवादित्यत आह—'उग्र' इति ।
भवेदित्युभयत्र शेषः । तथा च—अत्रोग्र इत्युक्तो रुद्र एव भवेत्,
तथा समुद्रेऽन्तस्स्थितो नारायण एव भवेत्, इति प्रतिज्ञावाक्यद्वया
र्थः । तत्र हेतुमाह—'प्रसिद्धत्वात्' इति । 'अस्यार्थस्य' रुद्रे
उग्रशब्दवाच्यत्वरूपार्थस्य 'प्रसिद्धत्वात्', “उग्रः कपर्दी” इत्या
दिकोशप्रसिद्धत्वात्, उग्रशब्देन रुद्रशब्दार्थस्य क्रौर्यस्य ज्ञापितत्वा
च्चेत्यर्थः । रुद्रो रौद्र उग्र इत्येतेषामेकार्थत्वादिति भावः । एवं समुद्र
शायित्वरूपार्थस्य “महोदधिशयोऽन्तः” इत्यादिविष्णुसहस्रनामप्र
सिद्धत्वात् समुद्रेऽन्तःस्थत्वकथनेन “आपो नाराः” इति स्मृतिसि
द्धनारशब्दोदितोदकाश्रयत्वरूपनारायणशब्दार्थस्य 'सूचितत्वाच्च'
इत्यर्थः ॥
(९९) ननु प्रसिद्धादिसद्भावेऽपि तत्परित्यागेनान्यस्वीकारे किं
बाधकमित्यत आह—'न च' इति । अर्थस्येत्येतद्विपरिणामेनात्र स
म्बध्यते । तथा च चो यतोऽयमर्थः 'प्रसिद्धः' अतो 'अविरोधे' प्रमाण
विरोधाभावे 'न परित्यज्यते' न त्यज्यत इत्यर्थः, प्रसिद्धार्थस्य विरो
धैकापोद्यत्वात्, अन्यथा प्रसिद्धिबाधादिति भावः । “आकाशादेव
समुत्पद्यन्ते” (छां.उ.१-९-१.) “जनितोत विष्णोः” (ऋ.सं.९-९६-५.)
“नकिरिन्द्र त्वदुत्तरः” (ऋ.४-३०-१.) इत्यादौ व्यभिचारवारणाया
विरोध इति । ननु विरोधाभावोऽसिद्धः, यतोऽत्र यदि रुद्रो लक्ष्म्यधी
नतयोग्रपदेनोच्यते तर्हि “विश्वाधिको रुद्रः” इत्यादिश्रुतिविरोधः
स्यात् अतोऽत्र तत्परित्यागो युक्त इत्यत आह—'उक्त' इति । करणव्यु
त्पत्त्या न्यायः प्रमाणम् । तथा च-यतो “नामानि विश्वा” (भालुवेयश्रु
तिः) इत्याद्युक्तागमेन, तदुक्तोत्पत्तिमत्प्रवृत्तिनिमित्तमत्त्वाद्यनुमानेन,
चशब्दसमुचितैः “वेदे रामायणे चैव” इति वक्ष्यमाणप्रमाणैश्च सा

[ अधि - १. सू - १. ] दीपिकासहितम्. ४५
( १०० ) वेदे रामायणे चैव पुराणे भारते तथा ।
( १०१ ) आदावन्ते च मध्ये च विष्णुस्सर्वत्र गीयते ॥
( १०२ ) इति हरिवंशेषु । न चेतरग्रन्थविरोधः,
( १०३ ) एष मोहं सृजाम्याशु यो जनान्मोहयिष्यति ।
धकैः 'श्रुतयो' “विश्वाधिको रुद्रः” (महाना. १०-३.) इत्याद्यागमाः
रुद्रादिपदानां विष्णुवाचित्वमाश्रित्य वा, विश्वो वायुः अधिको यस्मा
द्विश्वाधिक इत्यर्थाश्रयणेन वा 'एतमेव' विष्णुमेव 'वदन्ति' तात्पर्यतः
प्राधान्येन बोधयन्ति इत्यवगम्यते । अतो न “विश्वाधिकः” इत्या
दिश्रुतिविरोध इति योजना ॥
( १०० ) श्रुतीनां विष्ण्वेकवाचित्वे स्मृतिं चाह—'वेदे' इति ।
विष्णुरेव 'वेदे रामायणे च पुराणे तथा भारते' ॥
( १०१ ) किं बहुना 'सर्वत्र' सर्वग्रन्थेषु 'गीयते' प्रतिपाद्यते । ते
ष्वपि न भागे, किन्त्वादौ मध्ये अन्ते च, कर्मादिकाण्डत्रयेऽपि,
उपक्रमोपसंहारयोरवान्तरप्रकरणेषु च, सर्वत्र प्रतिवाक्यं प्रतिपदं
प्रत्यक्षरं च मुख्यतः प्रतिपाद्यत इत्यर्थः ॥
( १०२ ) 'वेद' इति वचनस्य खिलाखिलपारिजाताख्यहरिवंश
भागत्रयगतत्वसूचनाय 'हरिवंशेषु' इति बहुवचनम् । हरिवंशेष्वि
त्यनन्तरं 'यदुक्तं' इति शेषः, तस्यातो न विरोध इति, हरिवंशेषू
क्तन्यायेन उक्तरीत्या इति वाऽन्वयः । ननु प्रमाणविरोधाभावोऽसि
द्धः, यतः श्रुतिविरोधाभावेऽप्यस्ति पाशुपतादिशास्त्रविरोधः, तत्र
रुद्रादीनां सर्वोत्तमत्वस्य सर्वकारणत्वस्य चोक्तेः इत्यत आह—
'न च' इति । चोऽप्यर्थः । न केवलं श्रुतिविरोधाभावः, अपितर्हीतर
विरोधोऽपि नेति । 'अस्यार्थस्य' इति वर्तते ॥
( १०३ ) कुत इत्यतः तेषां मोहार्थं कृतत्वादिति हेत्वध्याहारमभि
प्रेत्य तस्यासिद्धिं प्रमाणोदाहरणेन निराह—'एष' इति । रुद्रं प्रति
विष्णुवाक्यमेतत् । मुह्यतेऽनेन जन इति 'मोहो' नटनं वञ्चनं वा ।
'मोहो' मोहकारणमनादिकर्मवासनारूपमिति तत्त्वप्रदीपोक्तेरप्यय
मेवार्थः, मोहकशास्त्रमिति व्यासतीर्थीयोक्तेः । न च अस्य 'न मोह
शास्त्रस्य वक्ता विष्णुराशङ्क्यः, “अजस्यावक्रचेतसः” (क.उ.५-१०.)
इति हि श्रुतिः' इति तत्त्वप्रदीपविरोधः शङ्क्यः, असत्तामित्यभिप्राया

४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ]
( १०४ ) त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥
( १०५ ) अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
( १०६ ) प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु ॥
( १०७ ) इति वाराहवचनात् । शैवे च स्कान्दे—
त् । विद्यमानाकाराच्छादनेनाविद्यमानाकारप्रदर्शनं नटनम् । अविद्य-
मानकथनं वञ्चनम् । सृजामीत्युत्तमपुरुषप्रयोगादहमिति कर्ता लभ्य-
ते । चशब्दः क्रियाकर्तृसमुच्चये । 'पूर्वश्रुतस्यैतच्छब्दस्य पश्चात् श्रुतो
यच्छब्दो विशेषणं' इति न्यायदीपोक्तेः य एष इति योजना । तथा
च अहं 'मोहं सृजामि' करोमि । 'य एष' मोहः 'जनान् मोहयिष्य-
ति' अज्ञानमिथ्याज्ञानादिकं प्रापयिष्यति ॥
( १०४ ) परबाधकत्वात् बाहुः प्राण्यङ्गं, महान् बाहुर्यस्य सः, तस्य
सम्बुद्धिः हे 'महाबाहो' शत्रुबाधकाङ्गयुक्त 'रुद्र' 'त्वं च' मोहं
सृज 'मोहशास्त्राणि' च 'कारय' कुरु, दधीच्यादिभिश्च कारय । हे
'महाभुज' महाभक्षक महाकुटिलेति वा हे रुद्र ॥
( १०५ ) तेष्विति शेषः तथा च—'तेषु' मोहशास्त्रेषु 'अतथ्यानि'
क्वाप्यविद्यमानानि लिङ्गमूलान्वेषणादीनि 'वितथ्यानि' व्यधिकरण-
त्वेन विद्यमानानि विष्णुनिष्ठानि वायुनिष्ठानि वा रुद्रादिनिष्ठतयो-
च्यमानानि सर्वोत्तमत्वसर्वस्वातन्त्र्यविषभक्षणादीनि 'दर्शयस्व'
प्रतिपादयेति यावत् ॥
( १०६ ) 'मां आत्मानं' इत्युद्देश्यद्वितीयान्तं । परस्परसमुच्चये च
शब्दौ । तथा च—लोकेषु 'आत्मानं' स्वात्मानमुद्दिश्य 'प्रकाशं' प्र-
सिद्धिं 'कुरु' । न केवलमेतावत, किन्तु 'मां' उद्दिश्य 'अप्रकाशं'
अप्रसिद्धिं च कुर्वित्यर्थः । केचित्तु-प्रकाशोऽस्यास्तीति प्रकाशमिति
अर्शाआद्यजन्तत्वमाश्रित्य उद्देश्यद्वितीयानाश्रयणेन प्रकाशं प्रसिद्ध-
मिति व्याचक्षते ॥
( १०७ ) 'वाराहवचनात्' इत्यस्येतरेषां मोहार्थं कृतत्वावगमादि-
ति हेतुमुखेन 'न चेतर' इति प्रतिज्ञावाक्येनान्वयः । लिङ्गमूलान्वेष-
णकथा तु—पूर्वं जगत्कर्तृत्वविषये विष्णुविरिञ्चयोर्विवादोऽभूत् अह-
मेव जगतः कर्ता न मत्तोऽन्यः इति । एतस्मिन्नन्तरे तयोर्गर्वविनाशाय
तन्मध्ये किञ्चन लिङ्गमुद्भूत । तौ तत् दृष्ट्वा सर्वदेवसन्निधौ परस्प-
रं समयं चक्रतुः । तत्र ब्रह्मा विष्णुमाह—आवयोर्मध्येऽस्य लिङ्गस्य