सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 100, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 100

[ अधि - ३. सू - ३. ] दीपिकासहितम्. ५३
( ६ ) यो नः पिता जनिता यो विधाता
धामानि वेद भुवनानि विश्वा ॥ ( ऋ. सं. १०-८२-३. )
इत्यादि च ॥ २ ॥
—: ❖ :—
३. अधिकरणम् ॥
( १ ) अनुमानतोऽन्ये न कल्पनीयाः ।
सू—ॐ ॥ शास्त्रयोनित्वात् ॥ ॐ ॥ ३ ॥
मस्य ते महिमानं त्वमेव वित्से । त्वमेव महिम्नः महिमसमुदायस्या
न्तं ब्रह्मणः श्रियो वा महिमानमतिशयितो हि विष्णुमहिमा अन्यम
हिम्नां परं अन्तं ते महिमानं न कश्चिदाप । यन्नाकं नास्ति तन्नाकम् ।
ऋष्वं प्रकाशरूपम् । बृहन्तं पूर्णं लोकं उदस्तभाः उदस्तम्भः उच्चैर
स्तम्भयः । पृथिव्याः पृथिव्यात्मकस्य ब्रह्माण्डस्य प्राचीं ककुभं दि
शं इन्द्रस्थापनेन दाधर्थ धृतवानसि । सर्वधारणोपलक्षणमेतदिति ।
( ६ ) जगत्कारणत्वं च ब्रह्मणो न विकारित्वेन, किन्तु पितृत्वन्निमि
त्त्वेनैवेति श्रुत्या दर्शयति,— 'यः' इति । 'यः' एक एव 'नः' अस्म
दादिसर्वेषां 'जनिता' जनयितैव 'पिता' न दत्तपुत्रपितृत्वत् पालकपि
तृमात्रम् । यद्वा—" स एव पितृसंस्थस्तुपातृत्वात्पितृनामकः " इत्यै
तरेयभाष्यादिशा " पिता पाता " इति तत्त्वप्रदीपोक्तेः ' जनिता ' जन
कः 'पिता' पाता चेत्यर्थः । 'यो विधाता' विशेषेण धारकः पोषकः,
“मुक्तानां पोषणं च ज्ञानमोक्षदानेन ” इति तत्त्वप्रदीपोक्तेः । "विधा
ता कर्ता" इति प्रमेयदीपोक्तिः । तस्या धारणपोषणयोरिति भावः ।
यो 'विश्वा' विश्वानि सर्वाणि भुवनानि तद्गत 'धामानि' गृहाणि
जीवादिस्वरूपाणि च 'वेद' जानातीत्यर्थः । 'इत्यादि' इति वाक्यं
'उक्तार्थे प्रमाणं' इति शेषः । आदिशब्देन एतज्जातीयकश्रुत्यन्तरं
"द्यावाभूमी जनयन्" इति च गृह्यते ॥ २ ॥
॥ इति जन्माधिकरणम् ॥
—: ❖ :—
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे पूर्वोक्तजगज्जन्मादिकारणत्वरूपब्रह्मलक्षणस्य
रुद्रादिष्वतिव्याप्तिपरिहाराय जगत्कारणे प्रमाणमुच्यते । सिद्धान्तप्र
तिज्ञामुपस्कृत्य दर्शयति—'अनुमानतः' इति । कारणत्वेनेति शेषः