सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 96, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 96

[ अधि - २. सू - २. ] दीपिका सहितम्. ४९
२. अधिकरणम् ॥
—§*§—
( १ ) ब्रह्मणो लक्षणमाह—
सू—ॐ ॥ जन्माद्यस्य यतः ॥ ॐ ॥ २ ॥
सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षा यतः ।
२. अधिकरणम् ॥
—:§:—
( १ ) एतदधिकरणप्रतिपाद्यं दर्शयति—‘ब्रह्मणः’ इति । निर्बाध
रूढिबलात् जीव एवेदं ब्रह्म, तस्य चासन्दिग्धत्वान्न जिज्ञास्यत्वमि
ति प्राप्ते तन्निराकर्तुं ब्रह्मशब्देन जीवग्रहणे बाधकरूपं श्रुत्युक्तं जि
ज्ञास्यब्रह्मणो लक्षणमाह सूत्रकार इत्यर्थः । “श्रुत्युक्तं लक्षणमाह”
इति टीकया “सा विष्णोर्ब्रह्मत्वविधात्री तैत्तिरीयश्रुतिर्यानि तस्य लक्ष
णान्याह तान्यनेन सूत्रेण भगवानाह” इति तत्त्वप्रदीपोक्तेः तच्छब्दा
ध्याहारेण भाष्यार्थ उक्तः । अत एव लक्षणमिति समुदायैकवचनमि
ति ज्ञातव्यम् । अनेन पूर्वत्र विवक्षितब्रह्मजिज्ञासाक्षेपेणेह पूर्वपक्षो
त्थानात् पूर्वाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । ब्रह्मविषय
त्वाच्छास्त्रसङ्गतिः सिद्धैव । यद्यपि ‘ब्रह्मशब्दश्च विष्णावेव’ इत्यने
न ब्रह्मशब्दो विष्णावेव मुख्य इत्युक्तम् । तथापि भाष्यकारैरुक्तत्वेऽ
पि सूत्रकृतानुक्तत्वात् ब्रह्म किं जीव उत विष्णुरिति भवत्येव सन्दे
हः । सूत्रं पठति—‘जन्म’ इति । यत इत्युक्तेस्तद्ब्रह्मेति प्रकृतं भवती
ति शेषः । यद्वा—“जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः”
इति सुधोक्तेः श्रुतमिति वाक्यशेषः । जन्म आदिर्यस्य सृष्ट्यादिसमु
दायस्य तज्जन्मादीति तद्गुणसंविज्ञानबहुव्रीहिः, तस्य समासार्थैकदे
शस्य जन्मनो गुणत्वेन विशेषणत्वेन संविज्ञानात् । तथा च—‘अ
स्य’ प्रमितस्य जगतो ‘जन्मादि यतो’ भवति श्रुतमिति वा तद्ब्रह्मे
ति सूत्रार्थ इत्यभिप्रेत्य अस्य जगतो जन्म आदिपदोक्ते स्थितिसंहृती
यतस्तद्ब्रह्मेत्याद्यन्यथाप्रतीतिवारणाय सूत्रं यथावद्व्याचष्टे—‘सृष्टि’इ
ति । अत्र प्रयोजकव्यापारवाचिसृष्टिसंहारनियमनशब्दैर्लक्षणया प्रप
७