सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

८९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥
इति युक्तिमद्भगवद्वचनम् । अतो न प्रमाणान्तरबाधः॥
( २ ) 'कर्मणैव' ( गी. ३-२०. ) इत्ययोगव्यवच्छेदः ॥ ५० ॥
—*—
३१. अधिकरणम् ॥
( १ ) सू—ॐ ॥ अनुबन्धादिभ्यश्च ॥ ॐ ॥ ५१ ॥
योः श्रौतत्वेऽपि मोक्षस्य ज्ञानैकसाध्यत्वे साध्ये व्यवहितत्वाव्यवहि-
तत्त्वाभ्यां भेदः । श्रुतिस्तु जिज्ञासानये व्याख्याता । यस्मात् 'जन्तुः'
शरीरी काम्येन कर्मणा बध्यते 'विद्यया च' अपरोक्षज्ञानेनैव विमु-
च्यते, तस्मात्कर्म न कुर्वन्ति 'यतयो' निगृहीतेन्द्रियाः 'पारदर्शिनः'
संसृतेः पारभूतस्य ब्रह्मणो दर्शिन इति गीतास्मृत्यथः । इतीति। इति
वचनं स्मृतेर्बलवत् कर्मणो बन्धकत्वमुमुक्ष्वक्रियमाणत्वरूपयुक्तियुक्त-
त्वादित्यर्थः । भगवद्वचनमित्यनेन पूर्वपक्षिणा भगवद्वाक्यत्वादित्युक्त-
हेतोस्साम्यम् । ततश्च तस्य सावकाशत्वमुक्तं भवति । प्रथमान्तानां
अस्तीत्यध्याहृतेनान्वयः । ततः किमित्यतः साध्यसम्बन्धं दर्शयति—
अत इति । बलवच्छ्रुत्यादेः सत्त्वादित्यर्थः । नेति । प्रमाणान्तरेण स्मृ-
तिवचनेन बाधो नत्यर्थः । विद्यैव मोक्षसाधनमित्युक्तस्येति शेषः ।
( २ ) नन्वेवं चेत् 'कर्मणैव' इति स्मृतिरप्रमाणमेवेति प्राप्तमि-
त्यतः चशब्दसूचितार्थमाह—कर्मणेति । क्रियत इति शेषः । 'कर्मणैव'
इति वाक्यगतैवकारेण कर्मायोगस्य तदसम्बन्धस्य व्यवच्छेदो निरा-
सः क्रियते बोध्यत इत्यर्थः । तथा च जनकादयः 'कर्मणा सह' कर्म
कुर्वन्त एव 'संसिद्धिं' मुक्तिं 'आस्थिताः 'प्राप्ता इति न तस्याप्रामा-
ण्यमिति भावः । उपलक्षणमेतत् । कर्मणा संसिद्धिमास्थिता एवेत्य-
पि योजनासम्भवेन नासौ निरवकाश इत्यपि द्रष्टव्यम् । अनेन परकी-
यस्मृतेः सावकाशत्वाच्चेति सौत्रचशब्दार्थ उक्तो भवति ॥ ३० ॥
॥ इति श्रुत्यधिकरणम् ॥
————
३१. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्मज्ञानसाधनस्योपासनस्य भक्तिपूर्वकत्वं
समर्थ्यते । प्रबलगुरुप्रसादेनैव ब्रह्मदर्शनसम्भवान्न तदर्थं भक्त्यादि
कमपेक्षितमिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—अनुब

[ अधि - ३१. सू - ५१. ] दीपिकासहितम्. ८९१
न केवलं श्रवणादिभिः गुरुप्रसादेन च ब्रह्मदर्शनम् ।
किन्तु भक्त्यादिभिश्च ।
( २ ) सर्वलक्षणसम्पन्नस्सर्वज्ञो विष्णुतत्परः ।
यद्गुरुस्सुप्रसन्नस्सन् दद्यात्तन्नान्यथा भवेत् ॥
तथाप्यनादिसंसिद्धभक्त्यादिगुणपूगतः ।
लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत् ॥ इति ॥
न्धेति ॥ सूत्रे पूर्वस्मादनुवृत्तस्य चशब्दस्यार्थमाह—न केवलमिति ।
श्रवणमननादिभिः दर्शनासम्भवेऽपि प्रबलगुरुप्रसादादिना तत्सम्भव
तीत्याशङ्कावारणाय गुरुप्रसादस्य पृथङ्निर्देशः। प्रसादेनापीत्यर्थः ।
‘ब्रह्मदर्शनं’ भवतीति शेषः । अनेन सूत्रे दर्शनाच्चेत्यतो विपरिणामे
न दर्शनमित्यनुवर्तनीयमित्युक्तं भवति । अनुबन्धादिभ्य इत्यत्र अनुब
न्धशब्दार्थमाह—भक्तीति । ‘अनुबन्धस्तु भक्तिस्स्याद्बन्धस्नेह उदा
हृतः’ इत्यभिधानात् । ‘अनुबन्धो’ माहात्म्यज्ञानानुसारिस्नेहरूपभ
क्तिरित्यर्थः । अनुबन्धशब्देन हरिगुरुभक्तयोरुभयोर्ग्रहणमिति सूच
नाय भक्तीति सामान्यनिर्देशः । आदिपदेन शमदमादयो गृह्यन्ते । तृ
तीयापञ्चम्योरेकार्थत्वान्न सूत्रभाष्ययोर्विसंवादः शङ्क्यः । सूत्रे भाष्ये
च तैर्विना तदसिद्धेरिति हेतोः सिद्धत्वान्नोक्तिः ॥
( २ ) ननु नियामकाभाव इत्यतोऽत्रार्थेऽनुवृत्तचशब्दसूचितस्मृ
तिमाह—सर्वेति । स्वयोग्यषण्णवत्यङ्गुलत्वादिलक्षणसम्पन्नः स्वयो
ग्यसार्वज्ञ्योपेतः ‘विष्णुतत्परो’ विष्णुभक्तिमान् गुरुः सुप्रसन्नस्सन्
शिष्याय ‘यद्दद्यात्’ उपदिशेत् ‘तदन्यथा’ फलविसंवादि न भवे
दित्यर्थः । यद्यपि बलवद्गुरुप्रसादादेव दर्शनं भवति । तथाऽपि भक्त्या
द्यपेक्षितमिति शेषः । कुत इत्यत आह—अनादीति । यदनादिकाला
त्संसिद्धं स्वतः सिद्धमव्यक्तं भक्त्यादि स एव गुणपूगः गुणसमुदा
यः तस्माद्गुरुप्रसादं लभेदित्यर्थः । चशब्दाद्धरिप्रसादं चेति सूचयति ।
यत इति शेषः । तर्हि भक्त्यादिकं हरिगुरुप्रसादार्थमेव, न ज्ञानार्थं
स्यादित्यत आह—तस्मादेवेति । ‘तस्मात्’ अभिव्यक्तभक्त्यादेरेव
‘तत्’ अपरोक्षज्ञानं भवेदित्यर्थः । तर्हि भक्त्यादि ज्ञानसाधनमेव न
गुरुप्रसादस्येत्यतोऽप्याह—तस्मादिति । ‘तस्मात्’ भक्त्यादेरेव त
द्गुरुप्रसादादि भवेदित्यर्थः । न च भक्त्यादेरुभयसाधनत्वमयुक्तमिति

८९२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( ३ ) भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् ।
दद्याच्छमदमादींश्च तेन चैते गुणाः पुनः ॥
तैस्सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत् ॥
इति च नारायणतन्त्रे ॥ ५१ ॥
३२. अधिकरणम् ॥
( १ ) सू-ॐ ॥ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॥ ॐ ॥ ५२ ॥
उपासनाभेदवत्तद्दर्शनभेदः ।
वाच्यम् । यतोऽनादिसिद्धाव्यक्तभक्त्यादिना गुरुप्रसादः तेन भक्त्या-
द्यभिव्यक्तिः अभिव्यक्त्यादिना च ज्ञानमित्यभ्युपगम्यते ॥
( ३ ) भक्त्यादिगुणपूगत इत्यत्रादिशब्दोक्तं तस्मादिति सामान्ये-
नोक्तं च स्पष्टयति—भक्तिरिति ॥ विष्णौ गुरौ च स्वरूपभूतानादि-
सिद्धा या भक्तिः यश्च शमदमादिस्तत्सर्वं गुरोर्नित्यप्रसन्नतां दद्यात्।
तेन गुरुप्रसादेन च पुनरेते भक्त्यादिगुणाः व्यक्ता भवन्ति । व्यक्तै-
स्सर्वैस्तैर्भक्त्यादिभिः विष्णोर्दर्शनं भवेत् । न चैतावता श्रवणादिवै-
यर्थ्यमित्याह—श्रवणादिकृतमिति । दर्शनं श्रवणादिभिः साधनैश्च कृ-
तं भवति । 'तस्मादेव च तद्भवेदिति' इति प्रथमेतिशब्दस्य 'श्रव-
णादिकृतं भवेदिति' इति द्वितीयेतिशब्दस्य च इति नारायणतन्त्र इ-
त्यनेनान्वयः । सूत्रकृदुक्तमुक्तमिति शेषः ॥ ३१ ॥
॥ इति अनुबन्धाधिकरणम् ॥
*
३२. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनासाध्यज्ञाने विशेषतारतम्यं समर्थ्यते ।
'दृष्ट्वैव तम्' ( कौशिक. ) इति श्रुतावविशेषितज्ञानेनैव मोक्षोक्तेः सर्वेषां
ज्ञानमेकप्रकारमेवेति पूर्वपक्षे सिद्धान्तयितुं सूत्रं प्रवृत्तं-प्रज्ञान्तरेति ॥
अत्र प्रज्ञान्तरपृथक्त्ववदित्यनेन दृष्टान्तोक्तिमुखेन हेतुरुच्यत इत्याशये-
न तत्पदं व्याचष्टे—उपासनेति। चशब्दोऽवधारणे, पृथगित्यस्यानुकर्ष-
णार्थश्चेति भावेन दृष्टिश्चेति साध्यांशं व्याचष्टे—दर्शनभेद इति। अने-
न प्रज्ञान्तरं प्रज्ञाविशेषः लिङ्गशब्दजन्याविच्छिन्नपरोक्षज्ञानसन्ततिरू-
पध्यानं तस्य पृथक्त्ववत् भेदवदनेकप्रकारवत्त्ववत् तदनुसारेण 'दृ-
ष्टिः' ब्रह्मदर्शनं च पृथक् भिन्नमनेकप्रकारमेव, फलस्य साधनानुसा

[ अधि - ३२. सू - ५२. ] दीपिकासहितम्. ८९३
(२) तथोक्तं कमठश्रुतौ । 'अन्तर्दृष्टयो बहिर्दृष्टयोऽवतार-
दृष्टयस्सर्वदृष्टय इति । देवा वाव सर्वदृष्टयस्तेषु चो-
त्तरोत्तरमाब्रह्मणोऽन्येषु यथायोगं यथा ह्याचार्या
आचक्षते' इति ।
रित्वादिति सूत्रखण्डार्थ उक्तो भवति । न च ध्यानस्य परोक्षज्ञानस-
न्ततिरूपत्वं ' मानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानम् '
इति सुधाविरोधः, ' क्रियामानसत्वात् ' इति क्रियात्वविरोधश्चेति श-
ङ्क्यम् । परमात्मविषये परोक्षत्वेऽपि तदधिष्ठानभूतवासनामयरूपवि-
षये अपरोक्षत्वसम्भवात् । न च परमात्मांऽशे उपनीतभानरूपत्वान्न प-
रोक्षत्वमिति वाच्यम् । उपनीतांशेऽपि लौकिकापरोक्षप्रत्यासत्त्यज-
न्यत्वेन श्रवणादिरूपपरोक्षज्ञानोपनीतविषयत्वेन वा परोक्षत्वाभ्युपग-
मात् । केचित्तु — गुणादिध्यानमप्यत्र विवक्षितमिति तदंशे परोक्षत्वं
युक्तमित्याहुः । तन्न, तस्यापि स्मृतिरूपस्य मनोजन्यत्वेन परोक्षत्वानु-
पपत्तेः । ध्यायत्यर्थत्वेन क्रियार्थत्वसम्भवाच्च तद्विरोधः ॥
(२) ननु साधनपृथक्त्वेऽपि साध्यपृथक्त्वं मा स्तु, साध्यसाम्य-
मेव किं न स्यादित्यतस्तदुक्तमित्युक्तं सूत्रे, तद्व्याचष्टे ॥ तथोक्तमि-
ति ॥ चो भिन्नक्रमः । अनेन सूत्रे चशब्दः उक्तं चेत्यपि संयोज्यः । त-
था च न केवलं तद्दर्शनपृथक्त्वं साधनपृथक्त्वयुक्तिसिद्धम्, किन्तु
श्रुत्युक्तं चेति सूत्रखण्डार्थ उक्तो भवति । केचित् शरीरान्तर्ब्रह्मोपास-
काः, अत एव तत्र ब्रह्मदर्शिनः । केचित् बहिरप्रथाद्यधिष्ठाने ब्रह्मोपा-
सकाः, तत्रैव तद्दर्शिनश्च । केचित् अवतारोपासकाः, अत एव दिव्य-
दृष्ट्या रामकृष्णाद्यवतारदर्शिनः । केचित् व्याप्तोपासकाः, तत एव
'सर्वदृष्टयो' व्याप्तदर्शिनः । यद्यपि सर्वेषामन्तर्बिम्बदर्शनमपेक्षितमे-
व, तस्य मोक्षार्थत्वादिति सुधोक्तेः । तथाऽपि प्राचुर्यापेक्षया एवमु-
क्तिः । उपासात्रैविध्योक्तिरपि प्राचुर्यापेक्षयैव । अन्यथा एषां बहिरु-
पासनेन मोक्षः तेषां हृद्युपासनं किञ्चित्कार्यमेवेति बृहद्भाष्यविरोधापा-
तात् । भावबोधे तु केचिदधिकारिणोऽवताराणां दिव्यदृष्ट्या दर्शनेनै-
व मुच्यन्ते, न तेषामन्तरुपास्तिरावश्यकी, बृहद्भाष्यं तु अवतारदृष्टि-
विशेषार्थमेवान्तरोपास्यावश्यकतापरं, अत एव ' अञ्जसा दृष्ट्यैव
ह्यवताराणाम् ' इत्युक्तम् । इतीति । श्रुतिः व्याख्यातपदानि स्वयमेव

८९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( ३ ) अध्यात्मे च —
दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा ।
दर्शनेनान्तरेणान्ये देवास्सर्वत्र दर्शनात् ॥
प्रतीकत्वेन गृह्णाति । तत्र प्राधान्यक्रमानुसारेण व्याप्तदृष्टीन् प्रथमतः
निर्दिशति—देवा इति । 'तेषु' देवेष्वपि 'आब्रह्मणः' चतुर्मुखपर्य
न्तं 'उत्तरोत्तरं' अधिकं व्याप्तदर्शित्वं ज्ञेयमित्यर्थः । तत्प्रकारश्च 'ब्र
ह्मा तु सर्वगं पश्येत्' इत्यादिनोक्तः । अवतारादिदर्शिनः के ? तेषां
च कथं स्थितिरित्याशङ्कायामाह—अन्येष्विति । अवतारादिदर्शिष्वि
त्यर्थः । 'यथायोगं' योग्यतानुसारेण व्यक्तिविशेषो निर्णेतव्य इति शे
षः । यद्वा—अन्येष्वपि यथायोगं उत्तरोत्तरमाधिक्यं ज्ञातव्यमित्यर्थः ।
ननु योग्यतैव कथं ज्ञायत इत्यत आह—यथेति । 'आचार्याः' गुरवो
यथा 'आचक्षते' उपदिशन्ति त्वमेतद्रूपदर्शनयोग्यस्त्वमेतद्रूपदर्श
नयोग्य इति तथेत्यर्थः ॥
( ३ ) ननु यद्यस्ति दर्शनभेदः, तर्हि न सर्वेषां मोक्षस्स्यात्, स
म्पूर्णज्ञानेनैव मोक्षस्य 'तमेवं, दृष्ट्वा' इत्यादौ प्रमितत्वादित्यतस्तदु
त्तरत्वेनापि तदुक्तमित्येतद्व्याचष्टे—अध्यात्मे चेति । अध्यात्माख्यग्र
न्थेपि तद्दर्शनपृथक्त्वमुक्तमित्यर्थः । तद्वाक्यं पठति—दृष्ट्वेति । दि
व्यदृष्ट्येत्यर्थः ।
प्रादुर्भावानपि यदा ज्ञानदृष्ट्यैव पश्यति ।
तदैव मुच्यते योगी ॥ इति काठकभाष्योक्तेः ।
तथा च केचिन्मनुष्याः 'अवताराणां' रामकृष्णदिरूपाणां 'अञ्जसा दृ
ष्ट्वा' दिव्यदृष्ट्यादर्शनेनैव मुच्यन्ते इत्यर्थः । एवकारस्त्वयोग्यव्यवच्छे
दकः । भावबोधपक्षेऽधिकारिविशेषापेक्षयाऽन्ययोग्यव्यवच्छेदकः । के
चित् ऋषयः 'आन्तरेण' हृदयान्तर्जातेन दर्शनेन मुच्यन्ते । सर्वत्र स्थि
तस्य ब्रह्मणो दर्शनाद्देवा मुच्यन्त इत्यर्थः । 'तेषां' अधिकारिणाम् । य
द्वा-'तेषां' देवानां 'विशेषं' तारतम्यं योग्यताविशेषं वा सर्वज्ञतां 'ग
तः' प्राप्त आचार्यो 'वेत्ति' जानातीत्यर्थः। अनेन 'विद्वान्, दृष्ट्वैव'
इत्यादेः न सम्पूर्णतो जानन् दृष्ट्वैवेत्यर्थः, किन्तुदाहृतविशेषवाक्यब
लाद्यथायोग्यमित्यभ्युपगमात् न तद्विरोध इत्युक्तं भवति । 'यावान्'
इति वाक्यं चतुर्मुखविषयं सामान्यतः सार्वज्ञद्यविवक्षया सर्वधिपर्य

[ अधि - ३३. सू - ५३. ] दीपिकासहितम्. ८९५
तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गतः ॥ इति ॥ ५२ ॥
—::—
३३. अधिकरणम् ॥
( १ ) सू—ॐ ॥ न सामान्यादप्युपलब्धेर्मृत्यवन्न हि लोका
पत्तिः ॥ ॐ ॥ ५३ ॥
येति ध्येयम् । इतीत्यस्याध्यात्म इत्यनेनान्वयः ॥ ३२ ॥
॥ इति प्रज्ञान्तराधिकरणम् ॥
—
—
३३. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनस्य बिम्बशब्दितयोग्यात्मरूपविषय
कस्यैव मुक्तिसाधनत्वं समर्थ्यते । भगवतस्सर्वरूपेष्वपि मोक्षदातृ
त्वगुणसाम्यात् यत्किञ्चिद्रूपदर्शनमेव मोक्षसाधनं न बिम्बविषयमेवे
ति नियम इति प्राप्ते सिद्धान्तयितुं प्रवृत्तं सूत्रं—न सामान्यादिति ॥
अत्र ' सामान्यात् ' साधारणात् उपलब्धेरिति सामानाधिकरण्यम् ।
लिङ्गव्यत्ययः शब्दस्वभावकृतः । यद्यपितथाऽपीत्यर्थे मात्रार्थे चापिश
ब्दः । उपलब्धेरपीत्यन्वीयते । मुक्तिरिति प्रकृतत्वात्सम्बध्यते । तथा
च यद्यपि भगवद्रूपाणां सामान्यं साम्यं, अत एव तद्विषयकदर्शनाना
मपि समानत्वम् । तथाऽपि ' सामान्यायाः ' समानब्रह्मरूपविषयत्वेन
स्वयोग्यरूपदर्शनेन समानतया वर्तमानायाः उपलब्धेरपि यत्किञ्चि
द्रूपदर्शनमात्रात् तस्मादेव सर्वेषां न मुक्तिरित्यर्थः । यद्वा—उपल
ब्धेः दर्शनस्य साम्यात् साधारणविषयत्वात् न तस्या मुक्तिरित्यर्थः।
अथवा-ल्यब्लोपनिमित्ता पञ्चमीयम् । तथा च सामान्यमपेक्ष्य रूपसा
मान्यं विषयीकृत्य सत्या उपलब्धेः दर्शनान्न मुक्तिरित्यर्थः । एतत्क
ल्पद्वये सामान्यादुपलब्धेरिति वैयधिकरण्यमिति भावेन सामान्याद
प्युपलब्धेरिति प्रतिज्ञांशं व्याचष्टे-नेति । अपि तु स्वयोग्यात्मदर्शनादे
वेति शेषः । तेनापीत्यस्यापि त्वित्यर्थाश्रयणेन उपलब्धेरित्यस्यावृत्त्या
च अपि तु उप समीपे योग्यतया वर्तमानस्य बिम्बरूपस्य लब्धेर्दर्श
नादेवेति सूत्रे प्रतिज्ञाशेषः प्रदर्शितो भवति । कुतो नेत्यतः तत्रोपल
ब्धेः सामान्यात् साधारणत्वादिति हेतुं उपलब्धेरित्यनेनोक्तं
मुक्त्यर्थमात्मयोग्यं तु विज्ञानं तदुदाहृतम् ।
समोऽपि भगवान् बिम्बदर्शनेनैवैनं मोचयति ॥ ( )

८९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् ।
( २ ) न हि लोकापत्तिमात्रं मुक्तिः ।
( ३ ) सामान्यदर्शनाल्लोका मुक्तिर्योग्यात्मदर्शनात् ।
इत्यादिश्रुतेरिति हेतुं मनसि निधाय सामान्यमात्रान्न मुक्तिरित्यत्र दृ-
ष्टान्तप्रतिपादनायोक्तं मृत्युवदित्यंशं व्याख्याति—यथेति । मृत्युमात्रा-
दिति । मृतिमात्रादित्यर्थः । न मुक्तिरित्यनुषज्यते । तथा च यथा ब्रह्म-
ज्ञानिनां सर्वमृत्यौ मृतित्वसाम्येऽपि न ‘मृत्युमात्रात्’ साधारणमृतेर-
नन्तरं मुक्तिः, किन्तु प्रारब्धकर्मक्षये चरममृत्यनन्तरमेव, तथा प्रकृते
ऽपि रूपविशेषज्ञानादेव मुक्तिः, न साधारणादित्यर्थः । यद्वा—मृत्यु-
शब्देन मारक उच्यते । संसृतेरिति शेषः । तथा च यथा ब्रह्मज्ञानिनां
ज्ञाने संसारमृत्युत्वे समानेऽपि ज्ञानरूपमृत्युमात्रादनन्तरं न मुक्तिः,
किन्तु प्रारब्धकर्मावसानकालीनत्वविशेषितान्मृत्योरवतरणानन्तरमे-
व, एवं भगवद्रूपाणां साम्येऽपि रूपविशेषज्ञानमेव मोक्षसाधनं, न सा-
मान्यदर्शनमित्यर्थः । ‘समोऽपि’ इति श्रुतौ बिम्बशब्दो योग्यात्मप-
रः । न तु
हृदिस्था या हरेर्मूर्तिः जीवो यत्प्रतिबिम्बकः ।
यद्वशे वर्तते जीवः सा तु जीवकला स्मृता ॥
इत्युक्तहृद्गतरूपविशेषपरः । ‘दृष्ट्वैव’ इति वाक्यविरोधात् । जीवः
कलांशो यस्यासौ जीवकला ॥
( २ ) ननु यदि सामान्यदर्शनान्न मुक्तिः, तर्हि तद्वैफल्यं स्यात् ।
न च ब्रह्मदर्शनस्य तद्युक्तं, अतः सफलत्वेऽवश्यंभाविनि यत्तस्य फलं
स एव मोक्ष इति सामान्यदर्शनमपि मुक्तिसाधनं भवतीत्यतः प्रवृत्तं-
न हि लोकापत्तिरित्यंशं व्याचष्टे—न हीति ॥ ‘लोकापत्तिमात्रं’ मह-
रादिलोकप्राप्तिरेवेत्यर्थः । अनेन लोकापत्तिरित्यनन्तरमप्यपिशब्दोऽनु-
षञ्जनीयः । स चावधारणार्थमात्रार्थः । तथा च न सामान्यदर्शनस्य
वैफल्यं शङ्क्यम् । यतः सामान्यादप्युपलब्धेर्लोकापत्तिः भवति अतः।
न चैवं तस्य मोक्षसाधनत्वापत्तिः । ‘हि’ यतो न लोकापत्तिरेव मो-
क्ष इति ‘हि’ प्रसिद्धमत इति सूत्रांशयोजनोक्ता भवति ॥
( ३ ) ननु सामान्यदर्शनेन लोकापत्तिरेव न मुक्तिरिति कुत इत्य-
तो हिशब्दसूचितप्रमाणमाह—सामान्येति ॥ योग्यात्मदर्शनातिरिक्त।
वतारादिदर्शनादित्यर्थः । ‘लोकाः’ महरादयः । योग्येति । स्वयोग्य

[ अधि - ३४. सू - ५४. ] दीपिकासहितम्. ८९७
इति नारायणतन्त्रे ॥
(४) मुच्यते नात्र सन्देहो दृष्ट्या तु स्वात्मयोग्यया ।
इति च ।
(५) दर्शनेनात्मयोग्येन मुक्तिर्नान्येन केन चित् ॥
इति चाध्यात्मे ॥ ५३ ॥
३४. अधिकरणम् ॥
(१) ‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशः
परमात्मरूपदर्शनादित्यर्थः । भवन्तीति शेषः । नारायणतन्त्रे उक्तत्वा
दिति शेषः । अस्य न हीत्यनेनान्वयः । न च ‘दृष्ट्वैव’ इत्युक्तिविरो
धः । तस्याधिकारिविशेषविषयत्वात् अधिकारिविशेषाणां च अवता
रदर्शनस्य सामान्यदर्शनत्वाभावात् , एवकारस्यायोगव्यवच्छेदार्था
भ्युपगमाच्च ॥
(४) ननु यथा भगवद्दृष्टीनां मध्ये योग्यात्मदृष्टिरेव मुक्तिहेतुः, न
तु रूपान्तरदृष्टिरिति विकल्पः, तथा योग्यात्मदर्शनेऽपि किञ्चिन्मुक्तिहे
तुः किञ्चिन्नेति विकल्पः स्यादित्यत आह—मुच्यत इति । तुरेवार्थे ।
स्वात्मयोग्यया दृष्ट्या मुच्यत एव नात्र संशय इत्यर्थः । इति नाराय
णतन्त्र इत्यन्वयः । भिन्नप्रकरणस्थत्वात् पुनरितिशब्दः ॥
(५) ननु सामान्यदर्शनेन यथा लोकापत्तिः तथा क्वचिन्मुक्तिश्च
किं न स्यादित्यत आह—दर्शनेनेति ॥ ‘आत्मयोग्येन’ स्वयोग्यरूपवि
षयकेन दर्शनेनैव मुक्तिः ‘नान्येन केन चित्’ सामान्यदर्शनादिनेत्य
र्थः । अवतारदर्शनमपि केषांचित् स्वयोग्यमिति न तदत्र व्यावर्यमि
ति न ‘दृष्ट्वैव’ इत्यनेन विरोधः । यद्वा—मुक्तिर्नान्येनेत्यनेन अवतारा
दिदर्शनस्याव्यवधानेन मुक्तिसाधनत्वं निषिध्यते । ‘दृष्ट्वैव’ इत्यत्र
तु व्यवधानेन तदुच्यते । अतो न विरोधः । यथोक्तं गीतातत्पर्ये ।
दृशिः-नियमेनैव मोक्षाय भवेद्योग्या भवेद्यदि ।
अयोग्या भक्तिजाता चेत् क्रमान्मुक्तिर्भवेत्तया ॥ इति ॥
इत्यध्यात्मे च सूत्रकृदुक्तमुक्तमिति शेषः ॥ ३३ ॥
॥ इति न सामान्याधिकरणम् ॥
—*—
३४. अधिकरणम् ॥
(१) अत्राधिकरणे ‘अनुबन्धादिभ्यः’ इत्यत्र दर्शनसाधनतयो
११३

८९८ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.]
पुरुषो भक्तिरेव भूयसी' इति माठरश्रुतेर्न परमात्मना
दर्शनमिति चेत्—
(२) न, 'तस्यैष आत्मा विशते ब्रह्मधाम' (मु. ३-२-४.)
इति श्रुतेः।
(३) कथं तर्ह्येषा श्रुतिः।
सू—ॐ ॥ परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ॐ ॥५४॥
पासनसाहित्येनोक्तभक्तेः स्वातन्त्र्यं निरस्यते। पूर्वपक्षयति—भक्ति
रिति ॥ भक्तिरेव 'एनं' परमात्मानमधिकारिणं नयति, न त्वन्यदित्य
र्थः। यद्वा—'तस्यैवेनं वशं न येत्' इति स्मृत्यनुसारेण भक्तिरेवैनं प
रमात्मानं वशं नयतीत्यर्थः। 'एनं' विष्णुं भक्ताय दर्शयति। पुरुषो
हरिर्भक्तिवशो भक्त्यधीनः 'भूयसी' साधनेषु श्रेष्ठा। इति श्रुतेः 'प
रमात्मना' तत्प्रसादेन 'दर्शनं' दर्शनादि ब्रह्मसाक्षात्कारादि न भव
तीति ज्ञायत इत्यर्थः ॥
(२) सिद्धान्तयति—नेति ॥ परमात्मना दर्शनादि नेति न, किन्तु
तेनैव दर्शनादि भवतीत्यर्थः। कुत इत्यतस्तत्र हेतुत्वेन चशब्दसूचि
तां श्रुतिमाह—तस्येति। आथर्वणे—
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वा
म् ॥
एतैरुपायैर्यतते यस्तु विद्वान् ॥ (मु. ३ - २ - ३.)
इति पूर्ववाक्ये अयं परमात्मा भक्तिरहितैः प्रवचनमेधाश्रवणादिभिः
न लभ्यते भक्तिपूर्वकैरपि स्वातन्त्र्यान्न लभ्यः, किन्तु 'एतैः' भक्ति
प्रधानकैः प्रवचनाद्युपायैः 'यो' ब्रह्मदर्शनार्थं यतते इत्युक्तः, तस्या
धिकारिणः एतैः प्रसन्नः परमात्मा 'ब्रह्मधाम' परब्रह्माधिष्ठानभूतं वा
युं 'विशते' तत्र तस्याविर्भवतीत्यर्थः। 'प्रधानं धाम विष्णोस्तु प्राण
एव प्रकीर्तितः' इत्याथर्वणभाष्योक्तेः। तत्त्वप्रदीपे तु ब्रह्मपुरं हृदयं 'ए
षः' परमात्मा 'विशते' तत्र दृश्यते इत्युक्तम् ॥
(३) यदि परमात्मनैव दर्शनादि कथं तर्हि भक्तेरेव तत्साधन
त्वाभिधायकश्रुतिरुपपद्यत इति शङ्कते—कथमिति ॥ 'एषा' भक्तेः
कर्तृत्वाभिधात्री 'भक्तिरेवैनम्' इति श्रुतिः कथमुपपद्यत इत्यर्थः।
तत्परिहाराय सूत्रं पठित्वा व्याचष्टे—परेण चेति। एवकारो भिन्नक्र

[ अधि - ३४. सू - ५४. ] दीपिकासहितम्. ८९९
परमात्मैव भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति प्रधा-
नसाधनत्वाद्भक्तिः करणत्वेनोच्यते ।
( ४ ) मायावैभवे च—
भक्तिस्थः परमो विष्णुस्तयैवैतं वशं नयेत् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥
मः । अत्रेति शेषः । परमात्मा भक्त्यैव 'दर्शनं प्राप्य' दर्शनविषयो
भूत्वा मुक्तिं ददातीति हेतोः अत्र 'एतैरुपायैः' इति श्रुतौ भक्तिः कर-
णत्वेनोच्यते यतोऽत एषा श्रुतिरूपपद्यत इति योजना । करणे कर्तृ-
त्वोपचार इति भावः । ननु साधनान्तराण्यनुक्त्वा किं विशिष्याभि-
धीयते 'भक्तिरेवैनम्' इतीत्यत आह—प्रधानसाधनत्वादिति । साध-
नेषु प्रधानत्वादित्यर्थः । भक्तिः करणत्वेनोच्यत इत्यत्र भक्त्यैव मुक्तिं
ददातीत्ययं हेतुः । इतिशब्दस्य भक्तिरित्यप्यन्वयेन ज्ञापितायां विशि-
ष्योच्यते इति प्रतिज्ञायां प्रधानसाधनत्वादित्ययं हेतुः । अनेन भूय-
स्त्वादित्यस्यार्थ उक्तो भवति । सूत्रे चोऽप्यर्थोऽवधारणार्थश्रुतिसूच-
कश्च । प्रधानसूत्रात्तदुक्तमित्यनुवर्तते । तथा च 'अपि' यद्यपि 'ए-
तैरुपायैः' इति श्रुतेः 'परेण च' परमात्मनैव तद्दर्शनादिकं, न तु भ-
क्त्या । तथाऽपि 'भक्तिरेवैनम्' इति श्रुतेः 'ताद्विध्यं' ईश्वरकर्तृत्वश्रु-
तिवत्कर्तृत्वप्रतिपादकत्वमुपपद्यते । कथम् ? यतः 'अनुबन्धस्य'
भक्तेः 'एतैः' इति श्रुतौ तत्करणत्वमुक्तमतः । तथा च करणे कर्तृ-
त्वोपचार इति भावः । मुख्यकर्तृत्वाङ्गीकारे तु 'एतैरुपायैः' इति
निरवकाशविशेषश्रुतिविरोध इति तुशब्दाभिप्रायः । न च साधनान्त-
राणि विहाय किं विशिष्याभिधीयते 'भक्तिरेवैनम्' इति श्रुतावनुब-
न्धो भक्तिरिति वाच्यम् । तस्याः 'भूयस्त्वात्' साधनेषु प्रधानत्वा-
दिति सूत्रार्थः ॥
( ४ ) अत्रैव स्मृतिमाह—मायेति ॥ मायावैभवाख्यग्रन्थ इत्यर्थः ।
भक्तौ तिष्ठतीति भक्तिरत्र तिष्ठतीति वा भक्तिस्थः। भक्तयामधिकारि-
णो भक्तेः नियामकश्चेति तत्त्वप्रदीपोक्तेः । 'तया' अनादिसिद्धया
भक्त्यैव 'एनं' स्वात्मानं 'वशं नयेत्' जीववशोऽहमिति ज्ञापयेत् ।
यद्वा—'एनं' जीवं 'वशं नयेत्' तस्य भगवदीयोऽहमिति स्मृतिं
जनयेदित्यर्थः । 'तयैव' गुरुप्रसादेनाभिव्यक्तभक्त्यैव करणेन दर्शने
'यातः' प्राप्तस्तद्विषयो भूत्वा 'एतया' अतिपरिपक्वया भक्त्या घ. दीपा

९०० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरस्सरः ।
भक्तिरित्युच्यते सैव करणं परमेशितुः ॥
इति ।
( ५ ) सर्वशब्दानां ब्रह्मणि प्रवृत्तेश्च ॥ ५४ ॥
*
३५. अधिकरणम् ॥
( १ ) जीवांशानां पृथगुत्पत्तेर्नानादियोग्यतापेक्षेति न म
य मुक्तिं प्रदद्यादित्यर्थः । भक्तिरित्यनेनानुबन्धशब्दार्थ उक्तः । तत्र
प्रमाणमाह—स्नेहेति । भनु स्वानुकूलं यथा तथा बध्नाति बद्धमिव व-
शयति स्वप्रभुमित्यनुबन्धः । ‘यस्तस्मिन्’ विष्णौ ‘बहुमानपुरस्सरः’
बहुः पूर्णता मानं ज्ञानं देशकालगुणैः पूर्णत्वज्ञानपूर्वकः स्नेहः स एवा-
नुबन्धः सैव भक्तिरित्युच्यते इत्यर्थः । ननु दर्शनादौ हरेरेव कर्तृत्वे क-
थं ‘भक्तिरेवैनम्’ इति श्रुतिरुपपद्यत इत्यत आह—सैवेति । ‘परमेशि-
तुः’ परमेश्वरस्य दर्शनादिदाने सा भक्तिरेव करणमित्यर्थः । करणे
कर्तृत्वोपचार इति भावः । करणं साधनेषु प्रधानमित्यनेन साधनान्त-
राण्यनुक्त्वा भक्तेरेवाभिधाने कारणमुक्तं भवति । इतीत्यस्य मायावै-
भव इत्यनेनान्वयः ॥
( ५ ) एवं ‘हन्ता रामशरः’ इतिवत्करणेऽपि कर्तृत्वव्यपदेशदर्श-
नात्करणार्थत्वेन ‘भक्तिरेवैनम्’ इति श्रुतिमुपपाद्य प्रकारान्तरेणाप्यु-
पपादयति—सर्वेति ॥ भक्तिरित्यादिसर्वपदानामित्यर्थः । ‘ब्रह्मणि’ प-
रब्रह्मणि ‘प्रवृत्तेः’ समन्वयात् परममुख्यवृत्तेः सत्त्वात् । ब्रह्मैवैनं नय-
तीत्याद्यर्थोपपत्तेश्चोपपन्ना श्रुतिरित्यर्थः । अनेन ‘च’ यतः ‘परेण’ वा-
च्येन निमित्तेन भक्त्यादिशब्दस्य ‘ताद्विध्यं’ तस्य ‘एतैरुपायैः’ इ-
त्यादिवाक्यस्य विधा प्रकार इव प्रकारो यस्य स तद्विधस्तस्य भाव-
स्ताद्विध्यं तद्ब्रह्मन्नारायणस्य कर्तृत्ववादित्वं युक्तम्, अतो नेश्वरस्य द-
र्शनादिकर्तृत्वे श्रुत्यनुपपत्तिरिति सूत्रखण्डस्य अर्थान्तरमुक्तं भव-
ति ॥ ३४ ॥
॥ इति परेणाधिकरणम् ॥
*
३५. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनस्यानादियोग्यतासापेक्षत्वं समर्थ्य

[ अधि - ३५. सू - ५६. ] दीपिकासहितम्. ९०१
न्तव्यम्, कुतः ?
सू—ॐ ॥ एक आत्मनश्शरीरे भावात् ॥ ॐ ॥ ५५ ॥
अंशांशिनोरेकत्वमेव । अंशिकर्मविनिर्मितशरीर ए
वांशस्य भावात् ॥ ५५ ॥
( २ ) सू—ॐ ॥ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ ५६ ॥
ते । तत्र ‘उपलब्धिवत्, व्यतिरेकः' इत्याभ्यां सूचितहेतूक्तिपूर्वकं पू-
र्वपक्षयति—जीवेति ॥ उपासनादाविति शेषः । पृथगिति भिन्नं पदं पृ-
थक्त्वादित्यर्थः। तथा च नोपासनाद्यर्थं योग्यताऽपेक्षाऽस्ति । कुतः? यो-
ग्यतायाः सादित्वे तद्दुपासनस्याप्यागन्तुकत्वप्रसङ्गात् अनादित्वं
वाच्यम् । तच्च न युक्तं यत इन्द्रादिजीवांशानामर्जुनादीनां योग्यता
नानादिः । न चासिद्धिः । इन्द्रादिजीवांशानामुत्पत्तेः सादित्वात् । ध-
र्मिण एव सादित्वे तद्धर्मभूतयोग्यताया अनादित्वायोगादिति भावः ।
न चांशिनोऽनादित्वात् कथमंशानामुत्पत्तिः तयोरैक्यादिति वाच्यम् ।
इन्द्राद्यंशिजीवेभ्यस्तदंशानां पृथक्तवात् भिन्नत्वात् । न चासिद्धिः। अं-
शानामिन्द्रादिजीवेभ्यः पृथक्तवात् ज्ञानसुखादौ अनुसन्धानाननुस-
न्धानाख्यवैलक्षण्यवत्त्वादिति योजना । एवं प्राप्तं पूर्वपक्षं प्रतिषेधति-
नेति । कुतो न मन्तव्यमित्याक्षिपति—कुत इति । तत्परिहाराय सूत्र-
मुपन्यस्य व्याचष्टे—एक इति । अत्र अंशोंशी चैक एवेति योजनाम-
भिप्रेत्य एक इति प्रतिज्ञावाक्यतातपर्यमाह—अंशेति । कुत इत्यतः ष-
ष्ठ्यर्थोक्तिपूर्वकं आत्मनश्शरीरे भावादिति हेत्वंशं व्याचष्टे—अंशीति ।
‘भावात्' अभिमानितया सत्त्वादित्यर्थः । अनेनात्मांश आत्मना अंशि-
ना एक एव, न भिन्नः कर्मनिर्मितशरीरे आत्मनोंशस्य भावात्सत्त्वादि-
ति सूत्रार्थ उक्तो भवति ॥
( २ ) ननु ज्ञानादिभेदादंशांशिनोर्भेद एव युक्तो नाभेद इत्याश-
ङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—व्यतिरेक इति ॥ ज्ञानं वृत्तिरूपम् ।
आदिशब्देन तादृशसुखादिर्गृह्यते । व्यतिरेकशब्दार्थो भेद इति सप्त-
म्यन्ताद्व्यतिरिक्त इति भावेन भेद इति सप्तमीप्रयोगः । आत्मनोरिति विपरि-
णतपदस्यार्थः—अंशांशिनोरिति । पृथग्भाव इत्यनेन व्यतिरेकशब्द-
स्योपमानोपमेययोरन्वयो दर्शितः। एवेति तुशब्दस्यार्थः । अनेनात्म-
नोनोपलब्धिवद्व्यतिरेक इति प्रतिज्ञांशो व्याख्यातः । कुत इत्यतस्त-
दुत्तरत्वेन तद्भावभावित्वादिति हेत्वंशं व्याचष्टे—तदुपासनादीति ।

९०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
ज्ञानादिभेदे विद्यमानेऽपि नांशांशिनोः पृथग्भाव एव ।
तदुपासनादिभोगादर्शस्य ।
( ३ ) परमसंहितायां च—
अंशिनस्तु पृथग्जाता अंशास्तस्यैव कर्मणा ।
पुनरैक्यं प्रपद्यन्ते नात्र कार्या विचारणा ॥ इति ॥ ५६ ॥
—::—
अंशिकर्तृकोपासनादिजातमहाफलभावादित्यर्थः । उपासनाजनितम-
हाफलानुसन्धानमेवाभेदे प्रयोजकं तद्भावस्त्वसिद्ध इत्युक्तं भवति ।
अनेन ‘उपलब्धिवत्’ उपलब्ध्यादौ धर्मे व्यतिरेक इव भेद इव अनु-
सन्धानाननुसन्धानात्मकवैलक्षण्यमिव आत्मनोरंशांशिनोः धर्मिणोर-
पि परस्परं ‘व्यतिरेक एव’ अन्योन्याभावरूपपृथग्भाव एव, न त्व-
भेद इति न वाच्यम् । कुतः ? ‘तद्भावभावित्वात्’ भावशब्द आवर्त-
ते । तत्रैकस्यानुभवोऽर्थः । भवतेरनुभवार्थकत्वात् । अन्यस्य मानसक्रि-
यारूपध्यानाख्यमुपासनमर्थः । अपरस्योपासनफलमानन्दवृद्धिरर्थः ।
‘भावो वृद्धिः समुद्दिष्टा क्वचिद्भावो मनः स्मृतम्’ इति वचनात् । तु-
शब्दस्यात्रान्वयः । स चाप्यर्थः । तथा च आत्मन उपलब्ध्यादौ ज्ञा-
नादावनुसन्धानाननुसन्धानरूपे अल्पत्वमहत्त्वरूपं वा व्यतिरेके वि-
द्यमानेऽप्यात्मनोंशस्याल्पे वृत्तिज्ञानसुखादौ मानुषोपभोगादिनाऽनु-
सन्धानाभावेऽपीति यावत् । ‘तद्भावभावित्वात्’ तस्यांशिनो भाव-
स्य तत्कर्तृकप्रधानसाधनोपासनादिसम्बन्ध्यानन्दवृद्धिरूपमहाफल-
स्य भावित्वात् अनुसन्धातृत्वात् अंशत्वेऽपीति सूत्रार्थ उक्तो भवति ॥
( ३ ) आद्यसूत्रार्थे स्मृतिं प्रमाणयति—परमेति ॥ न केवलं सूत्र-
इति चार्थः । ‘अंशाः’ अर्जुनादयः । ‘तस्यैव’ अंशिन एव ‘कर्मणा’
तत्कर्मनिमित्तेनैव शरीरेण सह ‘अंशिनः’ इन्द्रादेः ‘पृथक्’ विभक्त-
तया भूम्यादौ जाताः सन्तः ‘पुनः’ कर्मपर्यवसानान्तरं स्वस्थानं ग-
ताः अंशिनैक्यं ‘प्रतिपद्यन्ते’ प्राप्स्यन्तीत्यर्थः । न त्वन्यकर्मणेत्येवश-
ब्दार्थः । अत्रार्थे ‘विचारणा’ चर्चा न कार्येत्यर्थः । इति परमसंहिता-
यां सूत्रकृदुक्तमुक्तमित्यन्वयः ॥ ३५ ॥
॥ इति एकाधिकरणम् ॥
—
—

[ अधि - ३६. सू - ५७. ] दीपिकासहितम्. ९०३
३६. अधिकरणम् ॥
( १ ) सु — ॐ ॥ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ॐ ॥ ५७ ॥
ब्रह्माद्यङ्गदेवतावबद्धोपासनादि प्रतिशाखं प्रतिवेदं च
नोपसंह्रियते ।
३६. अधिकरणम् ॥
( १ ) अत्राधिकरणे भगवदुपासनस्य यथायोग्यं ब्रह्माद्यङ्गदेवतोपा-
सनस्य युक्तत्वेन कर्तव्यता प्रतिपाद्यते । 'अन्या वाचो विमुञ्चथ' (मु.
२-२-५.) 'पूजयेन्नान्यदेवताः' इत्यादेर्नाङ्गाश्रितान्यदेवतोपासनं कार्यं,
किन्तु केवलं ब्रह्मोपासनमेव, कार्यत्वे वा एकस्य प्रतीतगुणाः सर्वेषूप-
संहर्तव्या इति प्राप्ते सिद्धान्तयत्सूत्रं पठति—अङ्गेति॥ अत्राङ्गशब्देन 'वि-
ष्णोरङ्गात्समुद्भूते, विष्णोरङ्गानि देवताः' इति वचनादीशाङ्गजत्वाद्वाभि-
मानित्वाद्ब्रह्मादिदेवाः अङ्गानीत्युच्यन्ते । भावप्रधानोऽयमावर्तनीय इति
भावेन अङ्गावबद्धा इति प्रतिज्ञांशं व्याचष्टे—ब्रह्मादीति । ब्रह्मादयश्च ताः
देवताश्च तदवबद्धं तत्सम्बद्धं च तदङ्गतयावबद्धं च तत् उपासनादि
चेति विग्रहः । प्रथमादिशब्देन रुद्रादयो गृह्यन्ते । द्वितीयेन परिचर्या-
नमस्काराद्युच्यते । कार्यमेव अधिकारिभिरिति शेषः । एवेत्यनेन सौ-
त्रतुशब्दोऽवधारणार्थतयाऽपि व्याख्यातः । अङ्गावबद्धा इति वचनेनो-
दाहृतश्रुत्यादिविरोधः परिहृतः । श्रुत्यादौ प्राधान्येनोपासनस्यैव नि-
षिद्धत्वात् अङ्गत्वेनोपासनस्य चाभ्युपगतत्वात् । अत एव—
सर्ववर्णाश्रमैर्विष्णुरेक एवेज्यते सदा ।
रमाब्रह्मादयस्तस्य परिवारतयैव तु ॥
इति वचनम् । अनेन अङ्गावबद्धाः ब्रह्मादिदेवविषयाः अङ्गत्वसम्बद्धाः
तत्प्रकारकाः उपासनाद्याः कार्या एव सर्वैर्मुमुक्षुभिः । कुत एतत्? हि-
शब्दसूचितायाः ' समत्वात् ' इति स्मृतेरेवेति सूत्रांशस्यार्थ उक्तो भ-
वति । तर्हि सर्वगुणाः सर्वत्रोपसंहृत्योपास्याः स्युरिति शङ्कते—त्वि-
ति । तदुत्तरत्वेन—न शाखासु प्रतिवेदमित्येतद्व्याचष्टे—प्रतिशाखमि-
ति । 'प्रतिवेदं' सर्ववेदानां 'प्रतिशाखं' सर्वशाखास्वित्यन्वयः । उ-
क्तमुत्तमानां गुणजातमधमेष्विति शेषः । चस्समुच्चये । शाखास्वित्ये-
व पूर्तौ प्रतिवेदमित्युक्तिः अविभक्तमूलवेदापेक्षयेत्युक्तं तत्त्वप्रदीपे ।
' नोपसंह्रियते ' अधमेषु नोपसंहार्यमिति । अनेन प्रतिवेदं प्रतिशाखा-

९०४ ब्रह्‍मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
हिशब्दात्
समत्वाद्धोत्तमत्वाद्वा नाङ्गदेवाद्युपासनम् ।
उपसंहार्यमित्याहुर्वेदसिद्धान्तवेदिनः ॥
इति ब्रह्‍मतर्कवचनात् ॥ ५७ ॥
(२) सू—ॐ ॥ मन्त्रादिवद्वाऽविरोधः ॥ ॐ ॥ ५८ ॥
सूक्ता अङ्गावबद्धा उत्तमाङ्गदेवतासम्बन्धिनो ब्रह्मणः सर्वगुणाः 'वेदा
हमेतं पुरुषं महान्तम्' (तै.आ.३-१२.) इत्युक्ताः 'अवमेषु' रुद्रादिषु तद्गु
णाः 'त्र्यम्बकाय त्रिपुरान्तकाय कालाग्निरुद्राय नीलकण्ठाय' (व्यासन
मस्कृतिः) इत्युक्ताः इन्द्रादिषु च नोपसंहर्तव्याः, किन्तु योग्या एवेति सू
त्रखण्डस्यार्थ उक्तो भवति । न चायं विभागो न दृष्ट इति वाच्यम् । य
था खलु भगवत्परवाक्यानां न सर्वेषामन्यत्र ब्रह्मादिष्वन्वयः, अपि तु
योग्यानामेव 'हिरण्यगर्भस्समवर्तताग्रे' (तै.सं.४-१-८.) इत्यादीनां, तद्व
दुपपत्तेरिति भावः। कुत एतत्सिद्धमित्यतः प्रवृत्तं हीत्येतद्व्याचष्टे-सम
त्वादिति ॥ सूचितादिति शेषः। अस्य वचनादित्येनेनान्वयः। स्मृतौ का
र्यमिति उत्तमानां गुणजातमधमेष्विति च शेषः। उपासनशब्द आवर्त
ते । तत्रैकः कर्मणि ल्युडन्तो गुणजातपरः । आदिशब्देन गन्धर्वादयो
गृह्यन्ते । तथा च अङ्गदेवाद्युपासनं कार्यं मुमुक्षुभिः, परं तु उत्तमा
नां ब्रह्मादीनां गुणजातमधमेषु नोपसंहार्यमित्याहुरित्यर्थः । कुत इत्य
तो हेतुमाह--समत्वादिति । वाशब्दौ चार्थौ परस्परसमुच्चये । अयम
र्थः—अन्यगुणानामन्यत्र उपसंहारे सर्वदेवानां साम्येनैव भाव्यं, तच्च
नास्ति केषां चित्समत्वात् केषां चिदुत्तमत्वादिति सर्वसाम्याभावा
त् । तत्त्वप्रदीपे तु असमानां समत्वेनोपासनस्य उत्तमानां अधमत्वेनो
पासनस्य च निषिद्धत्वादित्येवं प्रकारसमर्पकतया व्याख्यातम् । हेत्व
सिद्धिपरिहारायाह—वेदेति । वेदनिर्णायकग्रन्थवेदिन इत्यर्थः । तथा
च वेदसिद्धान्ते नानागुणत्वेनैव तेषामुक्तेर्नासिद्धिरिति भावः । वच
नादित्यस्य नोपसंह्रियत इत्यनेनान्वयः । इति ज्ञायत इति शेषः॥
(२) एवमेकत्र प्रतीतानां सर्वगुणानामन्यत्रोपसंहाराभाव उक्तः।
इदानीमुपसंहाराभ्युपगमेऽपि न विरोध इत्याह सूत्रकृत्—मन्त्रादिव
दिति ॥ अत्रादिशब्देन बहुवाक्यसमूहरूपविद्योच्यते । षष्ठ्यन्ताच्च वति
रिति भावेन सूत्रं व्याचष्टे—सर्वेति । अग्न्याद्यधमसर्वदेवतामन्त्रादय

[ अधि - ३६. सू - ५८. ] दीपिकासहितम्. ९०५
सर्वदेवतामन्त्रा यथाऽधीयन्ते एवमविरोधो वा ।
(४) उपासनाऽङ्गदेवानां परमाङ्गतया भवेत् ।
उपसंहृतिर्विशेषे तु फलानामन्यथा न तु ॥
पुरुषाणां विशेषाद्वा यथायोगं भविष्यति ।
इत्यर्थः । अधीयन्त इति । अध्येतृभिरुत्तमसर्वदेवेष्विति शेषः । तेषां
तत्प्रतिपादकत्वादिति भावः। 'एवं' अधमगुणानामुत्तमेषूपसंहारे 'अवि
रोधो' विरोधाभावस्तेषु तद्गुणसत्त्वादित्यर्थः । अनुपसंहारस्यैवोत्त
मगुणविषयत्वात् उपसंहारवचनस्याधमगुणविषयत्वादिति भावेन
भाष्ये सूत्रे च व्यवस्थितविकल्पार्थकवाशब्दः ॥
(४) यदुक्तं अङ्गदेवतोपासनं कार्यं एकत्र प्रतीतानामन्यत्र यथा यो
ग्यगुणानामुपसंहारश्च कार्य इति, तद्द्वयं किं सर्वैः कार्यं न वेत्यपेक्षा
यामाह-उपासनेति॥ सर्वैः कार्येति शेषः । 'अङ्गदेवानां' ब्रह्मादीनां 'प
रमाङ्गतया' परमात्मपरिवारत्वेनोपासना 'सर्वैः' मोक्षयोग्यैः कार्या भ
वेत्, न तु प्राधान्येनेति । तर्हि गुणोपसंहृतिरपि तथा स्यादित्यतो गुणो
पसंहृतौ विशेषमाह-उपसंहृतिरिति । विशेष इति तादर्थ्ये सप्तमी । उ
पसंहृतिस्तु 'फलानां विशेषे' अतिशयितफलार्थं तदपेक्षायामेव का
र्या, 'अन्यथा' तदनपेक्षायां केवलमोक्षाय न कार्येत्यर्थः । यथोक्तं त
तत्त्वप्रदीपे-यथा विषभयादौ गरुडादिषु विषहरत्वादिगुणोपसंहृति
रिति । फलविशेषापेक्षाऽपि पुरुषविशेषाणामेवेत्याह-पुरुषाणामिति।
'विशेषात्' उत्तमाधिकारित्वरूपात् । अत्र फलविशेषार्थिनः पुरुषवि
शेषाश्चैके एव, वाशब्दस्तु पुरुषाणां विशेषादित्यनेनोत्तमाधिकारिरू
पोपासकप्रतिपत्तौ सत्यां उत्तमाधिकारिभिरपि फलातिशयापेक्षायां
कर्तव्या, अन्यथा नेति उपसंहृतिरूपसाधनविषय एव विकल्पबोध
कः, न तु फलविशेषार्थिभिः कर्तव्या नान्यैरिति ज्ञातव्यम् । तथा च
उपसंहृतिस्तु पुरुषाणां विशेषं उत्तमाधिकारित्वमपेक्ष्य 'यथायोगं फ
लानां विशेषे' यथायोग्यफलविशेषार्थं 'भविष्यति' भवेत् । 'अन्य
था' उत्तमाधिकारित्वाभावे तादृशफलयोग्यताया एवाभावात् न वा
न कर्तव्या वेति व्यवस्थितो विकल्पः । यद्वा-ये फलविशेषार्थिनः ते
गुणोपसंहारपूर्वकं उपासका इति पूर्वमुपासकपुरुषप्रतिपत्तौ फलाति
११४

इति बृहत्तन्त्रे ॥ ५८ ॥
——
३७. अधिकरणम् ॥
(१) सू—ॐ ॥ भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॥ ॐ ॥ ५९ ॥
सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत् सर्वत्र सह
भावात् । दीक्षाप्रायणीयोदयनीयसवनत्रयावभृथात्म
कः क्रतुः।
शयार्थित्वं साधनतयोक्तं, इदानीं तु ये पुरुषविशेषा उत्तमाधिकारि-
णः तेषां गुणोपसंहारपूर्वकं उत्तमाधिकारित्वं साधनतयोच्यत इति
उपासकप्रतिपत्तौ साधन एव विकल्पो वाशब्दार्थः, नोपासकविक-
ल्पः । सा चोपसंहृतिः ‘यथायोगं’ उपास्यानां देवानां योग्यगुणवि-
षयिण्येव ‘भविष्यति’ भवतीत्यर्थः । बृहत्तन्त्र इति । उक्तमिति शे-
षः ॥ ३६ ॥
॥ इति अङ्गावबद्धाधिकरणम् ॥
—
—
३७. अधिकरणम् ॥
(१) अत्र भूमगुणस्य सर्वोपासकसाधारणत्वं समर्थ्यते । व्यर्थं-
त्वाद्भूमगुणो न सर्वोपास्य इति पूर्वपक्षे सिद्धान्तयितुं सूत्रं-भूम्न इति॥
अत्र भूम्नः सर्वोपास्यत्वमिति साध्याध्याहारमभिप्रेत्य तत्र हेतुपरतया
ज्यायस्त्वमित्येतद्व्याचष्टे-सर्वेति । क्रतुवदित्यस्योभयत्रान्वयः । तथा
च विष्णोर्ज्ञानानन्दादिसर्वगुणेषु मध्ये ‘भूमगुणस्य’ पूर्णत्वरूपशुभध-
र्मस्य ‘यो वै भूमा’ (छा० ७-२४.) इत्यत्र श्रुतस्य ‘ज्यायस्त्वं’ क्रतुव-
द्विशिष्टत्वमित्यर्थः । कुत इत्यतो भूमत्वमृते कस्यापि गुणस्यानुपास्य-
त्वात् सर्वस्यापि पूर्णज्ञानः पूर्णानन्द इत्यादिक्रमेण तदनुबन्धेनैवोपा-
स्यत्वादिति भावेन विशिष्टत्वे साध्ये हेतुपरतयाऽपि क्रतुवदित्यंशं
व्याचष्टे—क्रतुवदिति । सर्वत्रेति । सर्वयागेष्विति दृष्टान्तार्थः । दार्ष्टा-
न्तिके तु ‘सर्वत्र’ आनन्दादिगुणेष्वित्यर्थः । ‘सहभावात्’ स्वानुवृ-
त्त्याऽङ्गिनः साफल्यसाधकत्वात् । अनेन सूत्रे क्रतुवदित्यस्यावृत्त्या
साध्यहेत्वोरन्वयः । सर्वत्र सहभावादिति हेत्वध्याहारश्च सूचितः ।

[ अधि - ३७. सू - ५९. ] दीपिकासहितम्. ९०७
( २ ) भूमैव देवः परमो ह्युपास्यो नैवाभूमा फलमेषां विधत्ते ।
तस्माद्भूमा गुणतो वै विशिष्टो यथा क्रतुः कर्ममध्ये वि-
शिष्टः ॥
ननु क्रतुशब्दः स्वाङ्गक्रियावचनः, न च तस्य सर्वक्रतुष्वनुवृत्तिरस्ती-
त्यतो नात्र क्रतुशब्दः स्वाङ्गप्रधानपरः, किन्तु अङ्गकलापपर इति भा-
वेन क्रतुशब्दार्थमाह — दीक्षेति । ज्योतिष्टोमे दीक्षा नाम यजमानसंस्का-
रूपकर्मविशेषः । प्रायणीयोदयनीयौ तस्याद्यन्तयोः कर्तव्येष्टिविशे-
षौ । प्रातःसवनं माध्यन्दिनसवनं तृतीयसवनं चेति सोमाभिषवरूप-
सवनत्रयम् । अवभृथो नाम ‘ अप्स्रवभृथेन चरन्ति ’ ( )
इत्युक्तेष्टिविशेषः । एतदात्मकाङ्गकलापः सर्वत्र कर्तुं योग्यत्वान्निमित्ता-
दिह क्रतुशब्देनोक्त इत्यर्थः

९०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
इति गौपवनश्रुतिः ॥ ५९ ॥
—-::-—
३८. अधिकरणम् ॥
( १ ) सू—ॐ ॥ नाना शब्दादिभेदात् ॥ ॐ ॥ ६० ॥
शब्दोऽनुमा तथैवाक्षो योग्यताभेदतस्सदा ।
ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥
अतः पूर्णत्वमीशस्य नानैवैषां प्रदृश्यते ।
अतः फलस्य नानात्वं नानैवोपासना यतः ॥
त्यर्थोऽभिमतः । स च सूत्राक्षराणां बह्वर्थत्वाभिप्रायेण तट्टीकायामु
क्तः ॥ ३७ ॥
॥ इति भूमाधिकरणम् ॥
—
—
३८. अधिकरणम् ॥
( १ ) अत्राधिकरणेऽधिकारिणां भूमगुणस्य नानाप्रकारेण प्रती-
तिः समर्थ्यते भूमत्वे विशेषकल्पनायोगाद्भूमगुणः सर्वेषामेकप्रकारे-
णैव प्रतीयत इति प्राप्ते सिद्धान्तयितुं सूत्रं पठति—नानेति ॥ अत्र भू-
म्न इत्येतत् प्रथमान्ततया विपरिणम्यानुवर्तते । नानेति भावप्रधानम्,
नानात्वेनेति । उपास्यते इति शेषः । एवं च प्रतिज्ञावाक्यसिद्धौ तत्र हे-
तुरुक्तः—शब्दादिभेदादिति । भूमगुणप्रत्यायकैः शब्दानुमाप्रत्यक्षप्र-
माणैः अधिकारियोग्यताभेदात् भूम्नो नानारूपेण प्रतीतेरिति तदर्थ
इति भावेन अस्मिन्नर्थे प्रमाणोदाहरणपूर्वकं सूत्रं व्याचष्टे—शब्देति ।
प्रथमं तत्त्वनिर्णयोऽथ वेदार्थनियमोऽथापरोक्षज्ञानमिति कार्यक्रमानु-
सारेण स्मृतौ शब्दादीनां क्रमेण निर्देशः । एवं सूत्रेऽपि । शब्दः आग-
मः । अक्षः प्रत्यक्षम् । तथाशब्दः समुच्चये । आहत्यैते 'योग्यताभेदा-
त्' योग्यताविशेषात्सदा ब्रह्मादीनामेकैक मर्थं पूर्णत्वादिरूपं 'बहुधा'
अवान्तरविशेषवत्त्वेन 'दर्शयन्ति' ज्ञापयन्ति 'हि' यतोऽतः 'एषां'
ब्रह्मादीनामीशस्य पूर्णत्वं नानैव 'प्रदृश्यते' प्रतीयते उपासनकाले ।
यतः नानाप्रदृश्यतेऽतो नानाप्रकारेणैव पूर्णत्वोपासनं भवेत् । यतो ना-
नोपासनमतः फलस्य 'नानात्वं' तारतम्यमुपपद्यत इति योजना ।
न चोपास्यभूमत्वप्रतीतेः शब्दानुमानसाध्यत्वेऽपि कथं प्रत्यक्षसाध्य

[ अधि - ३९. - सू - ६१. ] दीपिकासहितम्. ९०९
इति ब्रह्मतर्के । अतो भूमत्वमपि नानैवोपास्यते ॥ ६० ॥
----------------- 𑁍 -----------------
३९. अधिकरणम् ॥
(१) सू—ॐ ॥ विकल्पो विशिष्टफलत्वात् ॥ ॐ ॥ ६१ ॥
स्वयोग्योपासनानन्तरं सामान्यस्यापि कस्य चिदुपा
त्वमिति वाच्यम् । योगिनां मनसाऽपि तत्प्रतीतिसम्भवेन तस्यास्त्रित
यसाध्यत्वोपपत्तेः । ब्रह्मतर्क इत्यस्य यतः शब्दादिभेदान्नाना प्रतीयते
भूमत्वमतो नानैवोपास्यतेऽपीत्युक्तमित्यन्वयः । न केवलं नाना प्रतीय
तेऽपि तु नानैवोपास्यतेऽपीति सिद्धमित्यन्वयः । नानैवोपास्यतेऽपि ना
नैव फलप्रदमपीत्यपेरर्थः । न च भूमत्वविशेषानुपपत्तिः । अतीतवत्स
राणां मासानां चानन्त्ये समेऽपि वत्सरानन्त्यान्मासानन्त्ये विशेषव
त् अधिकारियोग्यताविशेषात् प्रतीते । पूर्णत्वेऽपि विशेषसम्भवादि
ति भावः ॥ ३८ ॥
॥ इति नानाशब्दाधिकरणम् ॥
----------------- * -----------------
३९. अधिकरणम् ॥
( १ ) अत्र नये बिम्बातिरिक्तरूपोपासनस्याकर्तव्यता निरस्यते ।
स्वयोग्यरूपातिरिक्तरूपविशेषविषयमुपासनं मुमुक्षुणा न कर्तव्यम्,
मोक्षानुपयुक्तत्वात् । प्रत्युतक्रियमाणमपि तदुपासनं स्वयोग्योपास
नविघ्नायैव भवेदिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य सामान्योपासन
स्येति पदाध्याहारेण व्याचष्टे—विकल्प इति ॥ अपिः समुच्चये । त
था च न केवलं स्वयोग्यस्य, किन्तु तदतिरिक्तस्य ‘ सामान्यस्य ’ वै
ष्णवत्वेन बिम्बसमानतया वर्तमानस्य कस्यचित् नृसिंहरामकृष्णा
दिरूपविशेषस्याप्युपासनं स्वयोग्योपासनानन्तरं मुमुक्षोः ‘ विशिष्टफ
लापेक्षया ’ उत्तमफलापेक्षया ज्ञानादिप्रतिबन्धकदुरितविशेषनिवृ
त्तिलक्षणमोक्षोपयोगिफलेच्छया निमित्तभूतया ‘ विकल्पेनैव भवति ’
प्रकारद्वयोपेतमेव न तु एकप्रकारोपेतमिति योजना । स्वयोग्योपास
नानन्तरमिति सामान्योपासनस्य मोक्षार्थोपासनानन्तरभावित्वकथने
न प्रत्युतेत्युक्तदोषो निरस्तः । सूत्रे विशिष्टफलत्वादित्यनेन विकल्पे
निमित्तं सूचितम् । तदपेक्षोपलक्षकत्या विवृतं—विशिष्टफलापेक्षये
ति । ते न मोक्षानुपयुक्तत्वादिति दोषो निरस्तः । अनेन मुमुक्षोः वि