पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 946, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३४. सू - ५४. ] दीपिकासहितम्. ८९९
परमात्मैव भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति प्रधा-
नसाधनत्वाद्भक्तिः करणत्वेनोच्यते ।
( ४ ) मायावैभवे च—
भक्तिस्थः परमो विष्णुस्तयैवैतं वशं नयेत् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥
मः । अत्रेति शेषः । परमात्मा भक्त्यैव 'दर्शनं प्राप्य' दर्शनविषयो
भूत्वा मुक्तिं ददातीति हेतोः अत्र 'एतैरुपायैः' इति श्रुतौ भक्तिः कर-
णत्वेनोच्यते यतोऽत एषा श्रुतिरूपपद्यत इति योजना । करणे कर्तृ-
त्वोपचार इति भावः । ननु साधनान्तराण्यनुक्त्वा किं विशिष्याभि-
धीयते 'भक्तिरेवैनम्' इतीत्यत आह—प्रधानसाधनत्वादिति । साध-
नेषु प्रधानत्वादित्यर्थः । भक्तिः करणत्वेनोच्यत इत्यत्र भक्त्यैव मुक्तिं
ददातीत्ययं हेतुः । इतिशब्दस्य भक्तिरित्यप्यन्वयेन ज्ञापितायां विशि-
ष्योच्यते इति प्रतिज्ञायां प्रधानसाधनत्वादित्ययं हेतुः । अनेन भूय-
स्त्वादित्यस्यार्थ उक्तो भवति । सूत्रे चोऽप्यर्थोऽवधारणार्थश्रुतिसूच-
कश्च । प्रधानसूत्रात्तदुक्तमित्यनुवर्तते । तथा च 'अपि' यद्यपि 'ए-
तैरुपायैः' इति श्रुतेः 'परेण च' परमात्मनैव तद्दर्शनादिकं, न तु भ-
क्त्या । तथाऽपि 'भक्तिरेवैनम्' इति श्रुतेः 'ताद्विध्यं' ईश्वरकर्तृत्वश्रु-
तिवत्कर्तृत्वप्रतिपादकत्वमुपपद्यते । कथम् ? यतः 'अनुबन्धस्य'
भक्तेः 'एतैः' इति श्रुतौ तत्करणत्वमुक्तमतः । तथा च करणे कर्तृ-
त्वोपचार इति भावः । मुख्यकर्तृत्वाङ्गीकारे तु 'एतैरुपायैः' इति
निरवकाशविशेषश्रुतिविरोध इति तुशब्दाभिप्रायः । न च साधनान्त-
राणि विहाय किं विशिष्याभिधीयते 'भक्तिरेवैनम्' इति श्रुतावनुब-
न्धो भक्तिरिति वाच्यम् । तस्याः 'भूयस्त्वात्' साधनेषु प्रधानत्वा-
दिति सूत्रार्थः ॥
( ४ ) अत्रैव स्मृतिमाह—मायेति ॥ मायावैभवाख्यग्रन्थ इत्यर्थः ।
भक्तौ तिष्ठतीति भक्तिरत्र तिष्ठतीति वा भक्तिस्थः। भक्तयामधिकारि-
णो भक्तेः नियामकश्चेति तत्त्वप्रदीपोक्तेः । 'तया' अनादिसिद्धया
भक्त्यैव 'एनं' स्वात्मानं 'वशं नयेत्' जीववशोऽहमिति ज्ञापयेत् ।
यद्वा—'एनं' जीवं 'वशं नयेत्' तस्य भगवदीयोऽहमिति स्मृतिं
जनयेदित्यर्थः । 'तयैव' गुरुप्रसादेनाभिव्यक्तभक्त्यैव करणेन दर्शने
'यातः' प्राप्तस्तद्विषयो भूत्वा 'एतया' अतिपरिपक्वया भक्त्या घ. दीपा