पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
८६२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.]
लोकेऽपि नासौ किमु तेषां विमुक्तेः ॥ इति ॥ ३४ ॥
--
२१. अधिकरणम् ॥
( १ ) सू—ॐ ॥ इयदामननात् ॥ ॐ ॥ ३५ ॥
नामाद्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम् । न
प्राणात्किञ्चिद्भूय उक्तम् । तथाऽपि पूर्ववत्स्यादिति न
वाच्यम् ।
तुः-ब्रह्मधियामिति । विरोधाभावे हेत्वन्तरमाह—गुरुशिष्यादीति ।
आदिशब्देन स्वामिभृत्यभावो गृह्यते । इदमर्थं कैमुत्येनाप्याह—लोक
इति । 'तेषां' ब्रह्मधियां 'लोके' संसारेऽपि । 'असौ' विरोधो न,
कुतो? दोषाभावाद्गुरुशिष्यादिभावाच्च । 'किमु विमुक्तेः' अनन्तरमिति
शेषः ॥ २० ॥
इति यावदधिकरणम् ॥
--
२१. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनाधिकारिणां प्राणावसानत्वं समर्थ्य-
ते । सूत्रं पठति—इयदिति ॥ तथाऽपि पूर्ववत्स्यादित्यनेन द्वितीयसूत्र-
सूचितपूर्वपक्षं प्रदर्शयिष्यन्पूर्वपक्षे बाधकमाशङ्कते-नामादीति । यद्य-
पि छन्दोगश्रुताविति वाक्यं प्रागध्याहार्यम् । नामादीत्यादिपदेन नाम-
वाङ्मनःसङ्कल्पचित्तध्यानविज्ञानबलान्नास्तेज आकाशस्मराशा गृह्य-
न्ते । नामादिशब्दाश्च उषास्वाहापर्जन्यमित्राग्निवरुणविधुप्रवहनानि-
रुद्धाहङ्कारिकप्राणेन्द्रोमारुद्रवाणीपराः । 'प्राणान्तं' मुख्यवायुपर्यन्तं
' उत्तरोत्तरोत्तमत्वं ' पूर्वपूर्वापेक्षयोत्तरोत्तरमाधिक्यमुक्तमित्यर्थः ।
'प्राणात् ' मुख्यप्राणात् 'किंचित्' वस्त्विति शेषः । 'भूयः' अधिकं
नोक्तमित्यन्वयः । तथा च प्राणः स्वोत्तमाधिकारियुक्तः अधिकारि-
त्वात् नामाधिकारिवदिति पूर्वपक्षसाधकानुमानेऽनुक्तिः बाधिकेति
भावः । बाधकं परिहरन् द्वितीयसूत्रदर्शितपूर्वपक्षमाह—तथाऽपी-
ति । पूर्ववदिति । श्रुतौ पूर्वगृहीतनामादिवदित्यर्थः । स्यादिति । प्रा-
णादधिकोऽधिकारी साध्यः स्यादित्यर्थः । अधिकारित्वाद्धेतोरिति
शेषः । अनुक्तिस्तु प्रमाणदुर्बलत्वान्न बाधिकेति भावः । सिद्धान्तय-
[ अधि - २१. सू - ३६. ] दीपिकासहितम्. ८६३
( २ ) 'प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान्प्राणो ह्ये
व भूयांस्तस्माद्भूयान्नाम' इति कौण्ठरव्यश्रुतेः ॥ ३५ ॥
( ३ ) सू—ॐ ॥ अन्तरा भूतग्रामवदिति चेत्तदुक्तम् ॥ ॐ ॥ ३६ ॥
यथा भूतग्राम एकस्मादेक उत्तमोऽस्त्येवं प्राणा
दपि परमात्मानमन्तरा विद्यत इति चेन्न, प्राणादुत्त
माभावे प्रमाणमुक्तम् । अन्यत्रोत्तमाभावे न प्रमाण
म् । दृश्यते चान्यत्रोत्तमत्वम् ॥ ३६ ॥
ति--नेति । न वाच्यमित्यनन्तरं किन्तु अधिकारिणामपि 'इयत्' इ
यत्त्वमेव प्राणावधित्वमेवेति भावप्रधानं सौत्रं प्रतिज्ञावाक्यं संयोज्यम्।
अधिकारिणां प्राणावधित्वमेवेति तदर्थः ॥
( २ ) कुत इत्यतः प्रवृत्तं आमननादिति हेत्वंशं व्याचष्टे—प्राण इति।
वावेत्यवधारणे । 'हि' यस्मात्प्राणात् 'भूयान्' अधिकः कोऽपि ना
स्ति तस्मात्प्राण एव सर्वेभ्यो भूयान्, प्राण एव भूयानिति निगमनम् ।
यस्मात्प्राणो भूयानधिकः तस्मात्प्राणो लोके 'भूयान्नाम' भूयश्शब्द
वाच्यतया प्रसिद्ध इत्यर्थः ॥
( ३ ) उक्तमाक्षिप्य समाधातुं सूत्रं—अन्तरेति । अत्राक्षेपांशं व्या
चष्टे—यथेति । यथा 'भूतग्रामे' प्राणिसमूहे नामादौ 'उत्तमो' विशि
ष्टोऽस्त्येव, तथा प्राणादप्युत्तमो विद्यत इति साध्यत इत्यर्थः । ननु प
रमात्मनः श्रियश्चोत्तमत्वाङ्गीकारेण सिद्धसाधनमित्यत उक्तम्—अ
न्तरेति सौत्रं पदं व्याचष्टे—परमात्मानमिति । श्रियोऽप्युपलक्षकमेत
त् । अनेन सूत्रे अक्षरमिति पदानुषङ्गस्सूचितः । 'अन्तरा' विना । न
आकर्षेण परिहारांशं व्याचष्टे—नेति । नानुमानेन प्राणादप्युत्तमः सा
ध्य इत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन तदुक्तमित्यंशं व्याचष्टे—प्रा
णादिति । 'प्रमाणम्' 'प्राणो वाव सर्वेभ्यो भूयान्' इति श्रुतिरूपम्।
उक्तमित्यनन्तरं यत इति शेषः । तथा चाधिकारित्वादित्यनुमानस्या
गमबाध इति भावः । ननु नास्मदनुमानस्य बाधः, प्राणादुत्तमाभावे
नामादेरप्युत्तमो न स्यादधिकारित्वाविशेषादिति अनुकूलतर्कसाहा
य्येन इतरानुमानापेक्षया प्रबलत्वादित्याशङ्क्य आकृष्टनञावृत्त्या अन्य
त्रेत्यध्याहारेण च परिहरति-अन्यत्रेति । नामादावुत्तमाभाव इत्यर्थः ।
नन्वभाव इव भावेऽपि न प्रमाणमस्तीत्यतः तदुत्तरत्वेन दृश्यत इति
पदाध्याहारेण तदित्येतद्योजयति--दृश्यते चेति । 'अन्यत्र' वागादौ
८६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( ४ ) सू — ॐ ॥ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥ ॐ ॥ ३७ ॥
प्राणस्य सर्वोत्तमत्वे परमात्मना भेदानुपपत्तिरिति चे
न्न, श्रुत्युपदिष्टवदुपपत्तेः । अन्येभ्यः प्राणस्योत्तमत्वं
तस्मात्परमात्मनो ह्युपदिष्टम् ॥ ३७ ॥
—*—
नामाद्युत्तमत्वं ‘दृश्यते’ उच्यते छान्दोग्य इति शेषः । न केवलमन्य
त्रोत्तमभावो न दृश्यते, किन्तूत्तमसद्भावो दृश्यते प्रमीयते चेति चश-
ब्दार्थः । तथा च प्रतितर्कस्य प्रमाणबाध इति भावः । अनेन — ‘तत्’
तत्र प्राणादुत्तमभावे तच्छ्रुतिरूपं प्रमाणमुक्तम् । भूतग्रामे तु नोत्त-
मभावे प्रमाणम्, प्रत्युत तत्सद्भाव एव दृश्यत इति सूत्रखण्डार्थ उ-
क्तो भवति ॥
( ४ ) उक्तमाश्रित्य समादधत्सूत्रमुपन्यस्य व्याचष्टे—अन्यथेति ॥ अ-
त्रान्यथाशब्दार्थमाह-प्राणस्येति । सर्वोत्तमत्वे इत्युपलक्षणम् । प्राणादु-
त्तमाधिकार्यभावे ‘प्राणो वाव सर्वेभ्यः’ (कौण्ठरव्य.) इति श्रुतिस्थ स-
र्वशब्दस्य निरुपचरित सर्वार्थत्वाङ्गीकारं चेत्यपि अन्यथाशब्दार्थो ज्ञात-
व्यः। सूत्रे अक्षरेणेत्यनुक्तपदस्यार्थमाह-परमात्मनेति । भेदेति । प्राण-
स्येति वर्तते। सर्वोत्तमद्वयायोगादिति भावः। एवं ‘अन्यथा’ श्रुतिस्थ
सर्वशब्दस्य सङ्कुचितार्थत्वे परमात्मानं च श्रियं च विनेतिवत्कतिप-
याधिकारिणश्च विनेत्यपि वक्तुं शक्यत्वाद्विवक्षितसिद्ध्यनुपपत्तिरि-
ति सूत्रखण्डव्यावृत्यन्तरमपि भाष्याभिप्रेतं द्रष्टव्यम्। परिहारांशं व्या-
चष्टे—नेति । नोक्तदोषप्राप्तिरित्यर्थः । कुत इत्यतः कर्मणि घञन्तत्वमा-
श्रित्य यत उपदेशवदुपपद्यत इति हेत्वंशं व्याचष्टे—श्रुतीति । छन्दो-
गश्रुत्युक्तप्रकारेणैव श्रुत्यन्तरस्थसर्वशब्दस्य सङ्कोचोपपत्तेः । अत ए-
व प्राणपरमयोः भेदोपपत्तेरित्यर्थः । तथा च द्वितीयपक्ष एवाङ्गीक्रिय-
ते । संकोचनियामकं तु श्रुतिवाक्यमेवेति भावः । किं तच्छ्रुत्युपदिष्ट-
मित्यत आह—अन्येभ्य इति । स्वव्यतिरिक्तसर्वाधिकारिभ्य इत्यर्थः ।
‘तस्मात्’ प्राणात् । हिः प्रसिद्धौ हेतौ वा । ‘उपदिष्टं’ उक्तं छन्दोग-
श्रुतौ । तस्मात् विष्णुव्यतिरिक्तसर्वार्थत्वं श्रुतेरिति वाक्यशेष
[ अधि - २२. सू - ३८. ] दीपिकासहितम्. ८६१
२२. अधिकरणम् ॥
( १ ) नेति चेन्न—
सू—ॐ ॥ व्यतिहारो विशिषन्ति हीतरवत् ॥ ॐ ॥ ३८ ॥
उक्तं प्राणात्परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण ।
( २ ) ‘एष तु वा अतिवदति’ ( छा. ७-१६. ) इति विशिष
न्ति हि ।
२२. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनाधिकारिणः प्राणात्परमेश्वरस्योत्तम
त्वं प्रसाध्यते । पूर्वपक्षयति—नेति ॥ छन्दोगश्रुतौ प्राणस्यैव सर्वोत्तम
त्वमुक्तम्, न तु प्राणात्परमात्मनः । न च वाच्यं सत्यपदोदितस्य वि
ष्णोः प्राणादाधिक्यमुक्तमिति । कुतो ? यतो भूतनामवत्प्रश्नप्रतिवच
नरूपप्रकरणभेदकल्पकं न, यतश्च ‘एष तु वा अतिवदति । यः सत्ये
नातिवदति’ इत्युक्तम्, सत्यत्वं प्राणविशेषणमेव न विष्णुविशेषणं,
अत इत्यर्थः। पूर्वपक्षं प्रतिषेधति-नेति । प्रश्नादिरूपप्रकरणभेदकल्पका
भावात् सत्यत्वस्य प्राणविशेषणतया विष्णुविशेषणत्वाभावात् न
प्राणाद्विष्णोरुत्तमत्वमुक्तमित्यर्थः । कुतो नेत्यतः सूत्रं पठित्वा व्या
चष्टे—व्यतिहार इति । यतश्छान्दोग्ये ‘पूर्वोक्ताध्याहारेण’ पूर्वेषु ना
मादिप्रकरणेषु ‘अस्ति भगवो नाम्नो वाव भूयोऽस्तीति, तन्मे भगवान्
ब्रवीत्विति’ ( छा. ७-१-५. ) ‘वाग्वाव नाम्नो भूयसी’ (छा.७-२-१.)
इत्युक्तवाक्यसदृशस्य ‘अस्ति भगवः प्राणाद्भूयोऽस्तीति तन्मे भगवा
न् ब्रवीत्विति सत्यं वाव प्राणाद्भूयः’ इत्येवंरूपस्य प्रश्नप्रतिवचनरूप
वाक्यस्याध्याहारेण प्रकरणभेदकल्पनया सत्यस्य विष्णोः प्राणादुत्त
मत्वमुक्तं अतो नेति योजना । अनेन यतः इतरवत् ‘व्यतिहारः’ अ
ध्याहार इति हेत्वंशो व्याख्यातः । श्रुतौ ‘भगवो’ भगवन्निति नारद
कर्तृकप्रश्नस्य ‘सत्यं वाव’ इति सनत्कुमारकर्तृकं प्रतिवचनम् ॥
( २ ) नन्वध्याहारे कारणाभाव इत्यतस्तत्र हेतुत्वेन विशिषन्तीत्यंशं
व्याचष्टे-एष तु वा अतिवदतीति ॥ विशिषन्ति हीति । छान्दोग्ये ‘स वा
एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति । तं चेद्ब्रूयुर
तिवाद्यसीति । अतिवाद्यस्मीति ब्रूयात् । नापह्नुवीत’ (छा. ७-१५.)
इति प्राणवादिनोऽतिशयितवस्तुवादित्वेनातिवादित्वमुक्तम् । ततश्च
१०९.
८६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( ३ ) यथेतरेषु विशेषणम् ।
'एष तु वा अतिवदति यः सत्येनातिवदति' इति सत्याख्यवस्तुवादिनोऽ-
प्यतिवादित्वमुच्यते । तत्र प्राणातिवादिनः सकाशात्सत्यातिवादी तु
शब्देन विशेष्यते । तथा च 'हि' यस्माच्छन्दोगाः प्राणातिवादिनः स-
काशात्सत्यातिवादिनं 'विशिषन्ति' अतिशयितवस्तुवादित्वविशेषण
युक्ततया आमनन्ति । एवं सत्यवादिनं विशिषन्तः प्राणात्सत्यं विशिष-
न्ति । तेन ज्ञायते अन्योऽसावन्योऽसाविति । तस्मात् प्रकरणभेदकस-
द्भावात्प्राणप्रकरणात्परस्तात् 'एष तु वा' इत्यतः प्राक् 'अस्ति भग-
वः' इत्यादिप्रश्नप्रतिवचनाध्याहारः कार्य इत्यर्थः । स एषोऽधिकारी
एवं शृण्वन् एवं विजानन्नेवं ध्यायन्नेवं पश्यन् 'अतिवादी' अतिश-
यितं उत्तमं मुख्यप्राणाख्यं वस्तु वदतीत्यतिवादी भवति 'तं' प्राणा-
तिवादिनं प्रति यदि त्वमतिवाद्यसीत्यन्ये ब्रूयुः, तदा सत्यमतिवाद्य-
स्मीति ब्रूयात् 'नापह्नुवीतैव' नैवापह्नुवीतेत्यर्थः । योऽधिकारी सन् नि-
र्दोषश्वासौ यो नियामकश्चेति सत्यो विष्णुस्तेनातिवदति तमतिवद-
ति एष एव तु प्राणातिवाद्यपेक्षया विशेषेणातिवदति अतिशयितमुत्त-
मं वस्तु वदतीत्यर्थः ॥
( ३ ) ननु कथमिदं विशेषणं प्रकरणभेदकं, येन प्रश्नाद्यध्या-
हारं प्रतिपद्येमहीत्यतः तदुत्तरत्वेनापि इतरवदित्यंशं व्याचष्टे—
यथेति ॥ 'इतरेषु' वागादिषु । प्रयुक्तमिति शेषः । 'वाग्वाव नाम्नो
भूयसी' इत्यादिकं विशेषणं प्रकरणभेदकमित्यर्थः । वाचो नामाधि-
क्यरूपातिशयाभिधायकत्वादिति भावः । तथैतदपीति वाक्यशेषः ।
यस्सत्येनातिवदति स तु प्राणातिवादिनोऽप्यतिशयितं वस्तु विशे-
षेणवदतीति वचनमुखेन प्राणात्सत्यस्य आधिक्यवाचकत्वादिति भा-
वः । अनेनेतरवदित्यस्य विशिषन्ति हीत्यनेनापि सम्बन्धः सूचितः ।
अनेन न विष्णोः प्राणादुत्तमत्वाभावः, यतस्तच्छ्रुत्युपदिष्टं, न च प्र-
श्नाद्यभावात्प्राणपरैव श्रुतिः, यत इतरवत्प्रकरणान्तरवत्प्रश्नाद्यध्याहा-
रः कर्तुं शक्यः । न चात्र कारणाभावः । हि यतः छन्दोगाः इतरवद्धि
शिषन्ति 'वाग्वाव नाम्नो भूयसी' इत्यादिना नामादितो वागादिक-
मिव 'एष तु वा इति' तुशब्देन प्राणात्सत्यं विशिषन्त्यत इति सूत्रार्थ
उक्तो भवति ॥
[ अधि - २३. सू - ३९. ] दीपिकासहितम्. ८६७
(४) उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् ।
तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः ॥ इति
बृहत्तन्त्रं ॥ ३८ ॥
——
२३. अधिकरणम् ॥
( १) कृतिर्निष्ठा विज्ञानमित्यादीनां भेदाद्बहव उत्तमा इति
चेत्—
(४) उक्तार्थे हिशब्दसूचितं स्मृतिं चाह---उत्तमत्वमिति ॥ 'दे-
वानां' नामादिदेवानां 'मानवात्' मनुष्योत्तमादिति । उपलक्षणम् ।
मुक्तावप्युत्तमत्वमस्ति किमु संसारे इत्यर्थः । 'तेभ्यो' देवेभ्यः 'प्रा-
णस्य' मुख्यवायोः 'तस्मात्' प्राणात् । चस्त्वर्थे । नित्यमुक्तस्येति
हेतुगर्भम् । हरेरुत्तमत्वमिति सम्बन्धः । बृहत्तन्त्र इत्यस्योक्तमिति पूर्वे
वाक्येनान्वयः ॥ २२ ॥
॥ इति व्यतिहाराधिकरणम् ॥
——
२३. अधिकरणम् ॥
(१) अत्राधिकरणे प्राणाद्विष्णोरेवोत्तमत्वं साध्यते । पूर्वपक्षय-
ति—कृतिरिति ॥ बहव इत्यनन्तरं अपीति, इत्यादीनामित्यनन्तरं उक्त-
त्वादिति च शेषः । तथा च न केवलं प्राणात्सत्यपदोक्तो विष्णुरेवोत्त-
मः , किन्तु बहवोऽप्युत्तमास्सन्ति । कुतः ? कृतिः निष्ठा ज्ञानमित्यादि-
शब्दवाच्यानां बहूनां सत्यादुपर्युक्तत्वादित्यर्थः । आदिपदेन सत्यं वि-
ज्ञानं मतिः श्रद्धा सुखं भूमा अहङ्कारः आत्मेति शब्दवाच्या गृह्यन्ते ।
ननु विज्ञानादीनां सत्येनान्योन्यं चाभेदान्न बहूनामुत्तमत्वं, किन्त्वेक-
स्यैवेत्यत आह—भेदादिति । सत्येनान्योन्यं चेति शेषः । बहव इति ।
प्राणादुत्तमा बहव एव स्युः, न त्वेकः सत्यपदोदितो विष्णुरित्यर्थः ।
तत्त्वप्रदीपे तु सत्यस्य परमात्मत्वे सत्यादीनां भेदात्परमात्मनोऽपि
बहव उत्तमाः स्युरिति पूर्वपक्षो दर्शितः । यद्यपि छान्दोग्ये सत्यादन-
न्तरं विज्ञानं मतिः श्रद्धा निष्ठा कृतिः सुखं भूमा अहङ्कार आत्मेति क्र-
मो, न तु कृत्यादित्वेन । तथाऽपि सूत्रे अक्षरस्य प्रकृतत्वात् तदिति व-
क्तव्ये श्रुतिस्थकृत्यादिशब्दानुसारेण सेति स्त्रीलिङ्गनिर्देशात्तदनुसारे-
णात्र कृत्यादित्वेनोक्तिः । न चैवं मत्यादित्वेनोक्तिस्स्यादिति वाच्यम् ।
८६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( २ ) न,
सू— ॐ ॥ सैव हि सत्यादयः ॥ ॐ ॥ ३९ ॥
सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः ।
( ३ ) ब्रह्मतर्के च ।
नामादिप्राणपर्यन्तात् यो हि सत्यादिरूपवान् ।
तस्मै नमो भगवते विष्णवे सर्वजिष्णवे ॥ इति ॥
‘ सत्यं पूर्णं कृतिः पूर्णा निष्ठा पूर्णा श्रद्धा पूर्णा ’ ( ) इत्या-
दिश्रुत्यन्तरानुरोधेन सत्यादनन्तरं कृतिर्निष्ठेति क्रमेण निर्देशात् । त-
त्त्वप्रदीपे तु लक्ष्मीरपि सत्यादिगुणकत्वात्सत्यादिपदैरुच्यते । तथा
च तद्विवक्षया सैवेति स्त्रीलिङ्गशब्दप्रयोग इत्युक्तम् । तथा स्त्रीलिङ्गो-
क्त्या कृतिर्निष्ठेत्यादिशब्दवाच्यत्वं विष्णोरुचितमिति चोक्तम् ॥
( २ ) पूर्वपक्षं प्रतिषेधति—नेति ॥ न प्राणादधिकाः बहव इति यु-
क्तमित्यर्थः । तत्त्वप्रदीपदिशा तु न तु परमात्मनोऽपि बहव उत्तमाः श-
ङ्कया इत्यर्थः । एवं प्रतिज्ञां बहिरैव प्रदर्श्य कुतो नेत्यतः तत्र हेतुत्वेन
सूत्रमुपन्यस्य व्याचष्टे—सैवेति । ‘ हि ’ यस्मात्सत्यादयोऽहङ्कारान्ताः
‘ सा ’ अक्षरशब्देन प्रकृता ईश्वराख्या परदेवतैव, न तु ततो भिन्नाः
तस्मादित्यर्थः । तस्या एवेति । अक्षरशब्देन प्रकृताया एवेत्यर्थः । स-
त्यादयः आत्मान्ताः सा परदेवतैवेति व्याख्यातव्ये सत्यादयो गुणाः
तस्या एव स्वरूपभूता इति व्याख्यानं सत्यादिशब्दवाच्यानां भेदनि-
राकरणेन अभेदसाधनार्थम् । अनेन कथमभेदसिद्धिरिति चेदित्थम्—
‘ सत्यं भगवो विजिज्ञासे ’ ( छा. ७-१६. ) इति नारदस्य सत्याख्यस्य
विष्णोः गुणजिज्ञासायां सनत्कुमारेण ‘ यदा वै विजानात्यथ सत्यं व-
दति नाविजानन् सत्यं वदति ’ ( छा. ७-१७. ) इति वाक्यशेषेण सत्या-
ख्यविष्णुगुणत्वेन तदविनाभूतज्ञानस्योक्तत्वात्, तथोत्तरत्रापि तत्तद्गु-
णजिज्ञासायां तत्तदविनाभूतसत्यादीनामेवोक्तत्वादभेदसिद्धेः । अन्य-
था सत्यादिजिज्ञासायां विज्ञानादिकथनस्यासङ्गतत्वापातात् ॥
( ३ ) गुणतद्युक्तिसिद्धाभेदरूपार्थं हिशब्दसूचितां स्मृतिं चाह—
ब्रह्मतर्के चेति ॥ न केवलं सूत्र इति चार्थः । यो नामादिप्राणपर्यन्तात्
अधिकारिजातात् ‘ अधि ’ उपरि ‘ सत्यादिरूपवान् ’ सत्यादिशब्दवा-
च्यगुणवानुक्तः, गुणस्वरूपतयोक्तः, तस्मै भगवते ‘ सर्वजिष्णवे ’ स-
र्वजननशीलाय विष्णवे नम इत्यन्वयः । ‘ नामादिप्राणपर्यन्ताद्यो हि
[ अधि - २४. सू - ४०. ] दीपिकासहितम्. ८६९
(४) सत्याद्या अहमात्मान्ता यद्गुणास्समुदीरिताः ।
तस्मै नमो भगवते यस्मादेव विमुच्यते ॥
इति चाध्यात्मं ॥ ३९ ॥
⁂
२४. अधिकरणम् ॥
(१) प्रकृतेरपि जन्मादेः संसारप्राप्तेः किमिति नामादिष्व
सत्यादिरूपवान् ' इति पाठे उपरि श्रुत इति आधिक्येनेति वा शेषः ।
हिः प्रसिद्धौ ॥
(४) नन्वस्तु भूमान्तानां भगवद्गुणोक्त्या तेनाभेदः, न त्वहङ्का
रात्मनोः, तयोर्भेदानुक्तेरित्यत आह—सत्याद्या इति ॥ सत्यविज्ञान
मतिश्रद्धानिष्ठाकृतिसुखभूमान इत्यर्थः । ' अहमात्मान्ताः' बहुव्रीहिः ।
अहङ्कारात्मान्ताः शब्दाः 'यद्गुणाः' यस्य परस्य गुणस्य वाचकाः समु
दीरिताः प्रमाणे तस्मै भगवते नम इत्यर्थः । अहङ्कारात्मनोः सत्यादी
विव गुणप्रश्नप्रतिवचनपूर्वक मभेदानुक्तावपि अस्त्येव भगवत्स्वरूप
त्वमित्यत्र हेतुर्यस्मादिति । यस्मादहङ्कारात्मनोः ज्ञानात् यस्मात् 'स
वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममि
थुन आत्मानन्दः स्वराट् भवति' (छा.७-२५.) इति वाक्यशेषे बन्धा
द्विमुच्यत इत्युक्तम् , तस्मात्तयोस्तत्स्वरूपत्वमित्यर्थः । श्रुतावात्मश
ब्दो विष्णुपरः, तस्मिन् रत्यादिमान् 'स्वराट्' स्वतन्त्रो बन्धरहित
इत्यर्थः । इति ब्रह्मतर्के इति चाध्यात्म इत्युभयत्राप्युक्तमिति शेषः ।
अनयोः अतस्सत्यादय इति पूर्वेणान्वयः ॥ २३ ॥
॥ इति सत्याधिकरणम् ॥
⁂
२४. अधिकरणम् ॥
(१) अत्राधिकरणे श्रिय उपासनानधिकारित्वं साध्यते । पूर्वपक्ष
यति—प्रकृतेरिति ॥ न केवलं प्राणादेः किन्तु चित्प्रकृतेर्लक्ष्म्या अपि
उपासनाधिकारोऽस्त्येवेति प्रतिज्ञायां हेतुमाह—संसारेति । 'प्राप्तेः'
सिद्धेः । साधुत्वाच्चेत्यपि द्रष्टव्यम् । नन्वसिद्धः संसार इत्यत आह—
जन्मादेरिति । सीतारुक्मिण्यादिरूपेण जन्ममरणादेर्दर्शनात् । 'यतः
प्रसूता' (महा. १.) इत्यादिश्रुतेश्चेत्यर्थः । अधिकारासिद्धेः फलमाह—कि
९७० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
पाठ इति ।
( २ ) अत्रोच्यते—
सू—ॐ ॥ कामादितरत्र तत्र चायतनादिभ्यः ॥ ॐ ॥ ४० ॥
स्वेच्छयैव मूलस्थाने स्थिताऽन्यत्रावतारान् करोती-
श्वरानुसारेण ।
( ३ ) 'सर्वायतना सर्वकाला सर्वेच्छा सर्वज्ञा न बद्धा वन्धि-
मिति । कस्माद्धेतोरित्यर्थः । नामादिषु मध्ये । किमिति । किंनिमित्तः
'अपाठो' पाठाभावः किंप्रयुक्त इत्यर्थः । किन्तु तदध्याहारः । तत्पाठोऽ-
ध्याहर्तव्य एवेत्यर्थः । स च भवन् प्राणादुपरि एव भवेत्, तथा
च नाधिकारिणां प्राणावसानत्वमिति भावः ।
( २ ) सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—अत्रेति । अत्रास्मिन्
पूर्वपक्षे सिद्धान्त उच्यते सूत्रकृतेत्यर्थः । सूत्रं पठति—कामादि-
ति । अत्र कामादित्येतत्स्वकामपरतया व्याख्याति—स्वेच्छयेति ।
सौत्रचशब्दस्य कामादित्यन्वयमभिप्रेत्यार्थमाह—एवेति । न कर्मतं
इत्यर्थः । अनेनेन्द्रादिवज्जननादिकं निरस्तं भवति । तत्रेत्यनन्तरं शे-
षं दर्शयन् तदर्थमाह—मूलेति । मूलरूपेण 'मूलस्थाने' वैकुण्ठादौ
भगवत्समीपे स्थितेत्यर्थः । अनेन प्रकृतेः इतरजननवन् मुख्यजननादि
निरस्तो भवति । चशब्दस्येतरत्र चेत्यपि सम्बन्धं समुच्चयार्थत्वं चा-
भिप्रेत्य इतरत्रेत्यस्यार्थमाह—अन्यत्र चेति । भूम्यादावपीत्यर्थः । सू-
त्रे इतरत्रेत्यनन्तरमध्याहार्यं दर्शयति-अवतारेति । बहुवचनमाद्यर्थे ।
अवतारादि करोतीत्यर्थः । 'अवतारो' जनप्रत्यक्षविषयता । आदि-
पदेनैतद्विषयत्वरूपा मूर्तिर्गृह्यते । यद्वा—अवतीर्यमाणसीतारुक्मि-
ण्यादिरूपबाहुल्याद्बहुवचनम् । मरणादेरुपलक्षणमेतत् । 'करोति' प्रा-
प्नोति । अनेन जननादेरवतारादिविषयत्वेनान्यथासिद्धिरुक्ता भवति ।
कामादित्यस्येशकामादित्यप्यर्थमाह—ईश्वरेति । अनेन प्रकृतेः स्वात-
न्त्र्यशङ्का निरस्ता भवति । अत्रेश्वरेच्छानुसारेण वर्तमानया स्वेच्छयै-
व मूलस्थाने स्थितेन तेन सहैवान्यत्र च तेन सहावतारान् करोतीति
तत्त्वप्रदीपोक्तार्थविशेषो बोध्यः । करोतीत्यस्य प्रकृतिरिति विपरिणते-
न सम्बन्धः ॥
( ३ ) मूलरूपेण भगवत्समीपे स्थिता स्वेच्छयैवावतारान् करो-
तीत्येतत्कुतः इत्यतः तत्र हेतुत्वेन आयतनादिभ्य इत्यंशं व्याचष्टे—
[ अधि - २४. - सू - ४०. ] दीपिकासहितम्. ८७१
का सैषा प्रकृतिरविकृतिः’ इति वत्सश्रुतेः ।
( ४ ) नामादयस्तु बद्धत्वान्मोचकत्वात्परोऽपि च ।
उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥
सर्वायतनेति ॥ सर्वं जगदायतनमाश्रयो यस्यास्सा तथोक्ता । सर्वः
कालः आश्रयो यस्याः सा तथोक्ता । आभ्यां देशकालानन्त्यमुच्यते ।
सर्वमिच्छाधीनं यस्यास्सा ‘सर्वेच्छा’ सर्वं जानातीति ‘सर्वज्ञा’ स-
र्वावस्थेति पाठे सर्वजनस्य सर्वाऽपि जाग्रदाद्यवस्था यस्याः सा त-
थोक्तेत्यर्थः । तत्त्वप्रदीपे तु सर्वः पूर्णो विष्णुस्तस्यायतनमेवास्या आ-
यतनं, तत्काल एव कालः तस्मादेव च इच्छा चेत्यर्थः उक्तः । स्वयं
क्वचिदपि न बद्धा बन्धिका च सर्वजीवानां ‘अविकृतिः’ विकाररहि-
ता । अचेतनप्रकृतिव्यावृत्त्यर्थमिदं विशेषणम् । सर्वेच्छा सर्वज्ञेत्येतच्च
न व्यावर्तकं, जडेऽपि ज्ञानेच्छोपादानत्वेन तथोक्तिसम्भवात् । या ए-
वंभूता सैषा चित्प्रकृतिरिति श्रुत्यर्थः । इति वत्सश्रुतेरित्यनेन आयतना-
दिभ्य इति सौत्रपदस्य भावप्रधानगर्भितस्य सर्वांयतनत्वादिबोधक-
श्रुतेरित्यर्थ उक्तो भवति । सूत्रे बहुवचनं तु श्रुतिप्रतिपाद्यबहुत्वाद्युक्त-
मिति भावः ॥
( ४ ) नन्वेवं प्रकृतेरसंसारित्वेनानधिकारित्वेऽपि कुतः छन्दोगश्रु-
तौ नामादिष्वपाठः, भगवदुक्तिवत्तारतम्यकथनावसरे तदुक्तेरावश्य-
कत्वात् । अन्यथा प्रकृतेरभावप्रसङ्गादित्यतः सूत्रचशब्दसूचितां स्मृ-
तिमाह—नामादयस्त्विति ॥ तुशब्दो विशेषार्थः । चशब्दोऽवधारणे ।
तथा च यथा छन्दोगश्रुतौ बद्धत्वनिमित्तादेव नामवागादय उदिताः ।
मोचकत्वादेव परमात्माऽप्युदितः । उभयोर्बन्धमोचकत्वयोरभावेनैव
‘अव्यक्तं’ श्रीतत्त्वं ‘नोदितं’ नोक्तं, न तु तस्या अभावान्निमित्तात् ।
तथा ‘द्वा सुपर्णा’ ( मु. ३-१. ) इति श्रुतौ ‘स्वाद्वत्ति’ इत्युक्तत्वात्कर्म-
बद्धत्वात् ‘सखाया’ उपकार्योपकारिभावित्यनेनोक्तात् मोचकत्वादे-
व जीवपरमात्मानावेवोच्येते । न तु ताभ्यां ‘इतरत्’ अन्यत्किञ्चिज्ज-
डमुच्यते । अनेन बुद्धिाजडपरतया व्याख्यानं निरस्तं भवति । यदा चै-
वमुक्तिः तदा श्रुतौ
ईश्वरः प्रकृतिर्जीवो जडं चेति चतुष्टयम् ।
पदार्थानां समुद्दिष्टम्.... ॥
इति बृहदारण्यकभाष्योदाहृतप्रमाणोक्ततत्त्वचतुष्टयमध्ये ईश्वरजीवा
८७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
श्रुतौ तथा जीवपरावुच्येते किञ्चनेतरत् ।
नोच्यते च तदा तत्त्वद्वयं वै समुदाहृतम् ॥
इति ब्रह्मतर्के ॥ ४० ॥
ख्यं तत्त्वद्वयमेवोक्तं ज्ञातव्यं, न तु जडाभाव इत्यर्थः । तत्त्वप्रदीपे तु-
बद्धत्वमोचकत्वयोरुभयोरभावेन यथा येन प्रकारेण योजनायामव्य
क्तं नैवोदितं छन्दोगश्रुतौ, तथा तस्मिन्नेव योजनाप्रकारे प्राणपर्यन्तो
जीवराशिः सत्यादिगुणकः परमेश्वरश्चैवोच्यते, न त्वन्यत्किंचित्, अ
व्यक्तस्याबद्धत्वेन परतत्त्वेऽन्तर्भावात् । ‘तदा’ तस्मिन् पक्षे तत्त्वद्व
यमेवोक्तमित्युक्त्वा, एवं च प्रकारान्तरेणापि श्रुतियोजनाऽस्तीति गम्य
ते। येन प्रकारेणाव्यक्तशब्दशब्दिता स्वरमणपरतन्त्रा अक्षतगुणजल
क्षणा सा महालक्ष्मी रत्र संलक्ष्यते । स्वयं च सूत्रं ‘सैव हि सत्यादयः’
( ३-३-३९. ) इति तदभिमुखमिव च प्रतिभाति । ‘यथाऽव्यक्तं न तूदि
तम्’ इत्यादिकमुदाहरद्भिर्हि भट्टारकैश्च तां कटाक्षेण वीक्षमाणाम
भिप्रक्षामहे । सा देवी प्रस्तुतैव भगवत्प्रस्तावे अनादिकालभगवत्स
म्बन्धित्वादित्याह। भूमादिगुणत्वमुभयथा विष्णोरेवेति भूमा विष्णुरेवे
त्युक्तं, पुरस्ताच्छ्रीगुणेषूदितेष्वपि सत्यादिषु तेषां भूमा विष्णुरेवेत्य
र्थः । न हि भगवतोऽन्यत्र सत्यज्ञानादीनां परिपूर्तिः । न च ‘यत्र ना
न्यत्पश्यति’ इत्यादिना सर्वस्वातन्त्र्यादिधर्मापपत्तिरन्यत्रेत्यादि तत्रै
वावेदितम् । अन्तराले अनुक्तिपक्षेऽपि नोपासनीया सेति मा भूच्छङ्का
इत्युपासनापादे प्रस्तौति देवीम् । प्राणप्रस्तुतिः प्राणादुपरि सहैव भ
गवता मुमुक्षूणां अभिध्यातव्येति । नामादिप्राणपर्यन्तानामपि भूताना
मुत्तरोत्तरतो विशेषादुपास्तिपूजादिकं विवक्षितम्, किं पुनरखिलेश्व
रस्य अतिप्रियतमाया विरिञ्चमुखनिखिलसुरवरपुरस्सरसज्जनसन्त
तसेव्याया देव्या इति विशेषार्थ उक्तः । अत्र तत्त्वप्रदीपपक्षे स्मृतिग
तस्य श्रुतावित्यस्य नावृत्तिः । टीकाकृत्पक्षे तु आवृत्तिः यथातथाशब्द
योर्दृष्टान्तदार्ष्टान्तिकभावसूचकत्वम् । तत्त्वप्रदीपपक्षे तु प्रकारसमर्पक
त्वम्। टीकाकृत्पक्षेऽस्याः स्मृतेः प्राकृतिकजडाभावशङ्कानिवारकत्वम्।
तत्त्वप्रदीपपक्षे तु बन्धमोचकत्वान्यप्रकारेण परापरत्वरूपेण अव्यक्त
परतयाऽपि छन्दोगश्रुतियोजनाप्रदर्शकत्वमिति विशेषो ज्ञातव्यः । म
हालक्ष्मीः ‘अत्र’ छन्दोगश्रुतौ ‘संलक्ष्यते’ प्रतिपाद्यतयाऽभिप्रेयते इ
त्यर्थः । ‘तदभिमुखं’ लक्ष्म्यभिमुखं तत्परमित्यर्थः । भट्टारकैः श्रीम
[अधि - २४. सू - ४१. ] दीपिकासहितम्. ८७३
( ५ ) सू- ॐ ॥ आदरादलोपः ॥ ॐ ॥ ४१ ॥
अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या
भवति ।
द्याचार्यराजैः सा देवीत्यादिना सा देवी सत्यादय इति सूत्रस्य अर्था-
न्तरमुक्तम् । 'प्रस्तावे' प्रकरणे 'प्रस्तुतां' प्रकृतैवेत्यर्थः । ' इत्याह '
उपस्थितैरिति सूत्रकृत । प्रकृतिपुरुषयोः साम्यशङ्कां वारयति - भूमा-
दीति । आदिशब्देन अहमात्मनोः ग्रहणं 'उभयथा' सम्प्रसादादध्यु-
पदेशाच्च । 'सत्यादिषु' सत्यादिरूपश्रीगुणेषूदितेष्वपीत्यन्वयः । 'ते-
षां' तैः 'भूमा' पूर्ण इत्यर्थः । तैरेव भूमाधिकरणे 'अन्तराले' प्राण-
परमात्मनोर्मध्ये बन्धमोचकत्वविवक्षया श्रुत्यनुक्तिपक्षेऽपि प्रस्तौति
देवीं सत्यादिशब्दैः सूत्रकृदित्यर्थः । 'मुमुक्षूणां' मुमुक्षुभिः अभिध्या-
तव्या देवीति हेतोः प्राणप्रस्तुतिरित्यन्वयः । देव्याः पूजादिकं विवक्षि-
तमिति किमु वक्तव्यमित्यर्थः । अनेन-चित्प्रकृतिरुपासनाधिकारिणी न
भवति, तत्साधकसंसारित्वशून्यत्वात् । न च जननादिदर्शनश्रुतिवि-
रोधाद्धेतोरसिद्धिः । यतश्च 'इतरत्र' भूम्यादावप्यवतारान् करोति ।
अतो जननादिदर्शनस्यावतारविषयत्वेन विरोधाभावादिति भावः ।
न च लोकसिद्धजन्मैव किं न स्यादिति शङ्क्यम् । यतस्सा तत्र मू-
लस्थाने मूलरूपेण भगवत्समीपे स्थिता । न च तादृशानामपीन्द्रादी-
नामर्जुनादिरूपेण उत्पत्तेर्दर्शनात् हेतोरप्रयोजकत्वं शङ्क्यम् । यतः
सा 'कामात्' स्वेच्छयैव तत्र स्थिता न कर्मतोऽतः । न च स्वेच्छा-
नुसारित्वे तस्याः स्वातन्त्र्यं शङ्क्यम् । यतः सा 'कामात्' ईश्वरे-
च्छामनुसृत्यैवावतारादि करोति, न स्वेच्छामात्रादतः । न च मूलरूपे-
ण भगवत्समीपे स्थिता इतरत्र स्वेच्छयैवावतारादि करोतीति विशि-
ष्टहेतोरसिद्धिरिति वाच्यम् । ' आयतनादिभ्यः' सर्वा॑यतनत्वादिप्रति-
पादकश्रुतेरेवेति सूत्रार्थ उक्तो भवति ॥
( ५ ) ननु रमाया असंसारित्वे कृतकृत्यत्वेन भगवदुपासनाद्य-
भावस्स्यात् । न चासौ युक्तः ।
यदर्चितं ब्रह्म भवादिभिः सुरैः
श्रिया च देव्या मुनिभिश्च सात्त्वतैः ।
तुलसीभिरीशमभ्यर्चति..
इत्यादिप्रमाणविरुद्धत्वात् । अत्रार्चितमुपासितं पूजितं चेत्युक्तेरित्या-
११०
... that doesn't split naturally.
Wait, what about:
यत्न?
Wait, what if it is:
यत्नयोर्भक्तिर्बहुमानं च सेवनम्? No, too short.
Wait! Look at the three letters:
Letter 1: य
Letter 2: त्न
Letter 3: ं (anusvara)?
Wait, look at the image:
य then त्न then ं?
Wait, why did you think म ज मं?
Because:
Letter 1: has a vertical left, loop at bottom, horizontal to right, vertical down: THAT IS A म!
Letter 2: horizontal from left, goes down, loops up: THAT IS A ज!
Letter 3: म with an anusvara: मं!
Wait! Is it म ज मं? But what does मजमं mean in Sanskrit?! Nothing!
Wait, could it be य ज नं (यजनं)?
Wait! "आदरो यजनं भक्तिर्बहुमानं च सेवनम्"????
HOLY COW!
यजनम् (yajanam) = worship/sacrifice!
भक्तिः (bhaktih) = devotion!
बहुमानम् (bahumanam) = high esteem!
च (cha) = and!
सेवनम् (sevanam) = service
[ अधि - २५. सू - ४३. ] दीपिकासहितम्. ८७५
(८) ‘द्वावेतावनादिनित्यावनादियुक्तौ नित्यमुक्तावनादि
कृतौ नित्यकृतौ योऽयं परमो या च प्रकृती रमते ह्य
स्यां परमो रमते ह्यस्मिन् प्रकृतिः स्वस्मिन् हि रमते
परमो न स्वस्मिन् प्रकृतिरत एनमाहुः परम इति’
इति गौपवनश्रुतिवचनात् ॥ ४२ ॥
────────*────────
२५. अधिकरणम् ॥
( १) दर्शनार्थं ह्युपासनं तच्च श्रवणादेरेव भवति, अतः कि
मर्थमिति ।
(८) ननु उपस्थितिः कुतः सिद्धेत्यतस्तत्र हेतुत्वेन तद्वचनादि
त्येतद्व्याचष्टे— द्वाविति ॥ या प्रकृतिर्यश्चायं परमः तौ द्वौ ‘अनादि
नित्यौ’ देहतोऽपि ‘अनादियुक्तौ’ अनादिकालतः सम्बद्धौ ‘नित्यमु
क्तौ’ अनन्तकालदुःखासम्बन्धौ ‘अनादिकृतौ’ नित्यकृतौ सर्वकाले
पूर्णावित्यर्थः । विष्णोः परमशब्दवाच्यत्वे निमित्तमाह— रमत इति ।
‘अस्यां’ प्रकृतौ ‘अस्मिन्’ परमे । तर्ह्युभयोः साम्यमित्यत आह—
स्वस्मिन्निति । श्रियां रममाणोऽपि तत्स्थे स्वस्मिन् रमत इत्यर्थः ।
‘रमायां रममाणोऽपि तत्स्थेनैव श्रियाऽऽत्मना । रमते’ इत्यैतरेयभाष्योक्तेः।
यत एवमत एनं विष्णुं परम इत्याहुः स्वरमणेन मायाः परत्वात् परम
शब्दवाच्य इत्यर्थः । इति श्रुतिवचनादिति । अस्य सिद्धादिति शेषेण
भगवत्संबन्धित्वादित्यनेनान्वयः । अनेन सूत्रे तद्वचनात् सिद्धादुप
स्थितेरित्यन्वयः । तद्वचनादित्यस्य च तस्यां श्रुतौ तस्याः उपस्थितेः
वचनाद् उक्तेरित्यर्थ उक्तो भवति ॥ २४ ॥
॥ इति कामाधिकरणम् ॥
───────:۞:───────
२५. अधिकरणम् ॥
(१) अत्राधिकरणे श्रवणमनननिदिध्यासनरूपस्य समस्तस्याप्यु
पासनस्य कर्तव्यत्वं समर्थ्यते । पूर्वपक्षयति— दर्शनार्थमिति ॥ ‘हि’
यतः ‘उपासनं’ ध्यानं ब्रह्मदर्शनार्थमेव, न तु प्रयोजनान्तरार्थं, त
स्यादर्शनात्, अनिष्टत्वाच्च । ‘तच्च’ दर्शनं उपासनान्तर्गत ‘श्रवणादेः’
श्रवणमननाभ्यामेव ‘भवति’ भविष्यति । अतः किमर्थं समस्तोपासन
मित्यर्थः । एवं ‘हि’ यतः तच्चोपासनमेव हरेः ‘दर्शनार्थं’ तत्प्रयोजन
८७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
(२) अत्रोच्यते—
सू—ॐ ॥ तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फ
लम् ॥ ॐ ॥ ४३ ॥
तत्त्वनिश्चयो वेदार्थनियमश्च ब्रह्मदृष्टेः पृथगेव ।
(३) हि शब्देन ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो
निदिध्यासितव्यः' (बृ. ४-४-५.) इति श्रुतिं सूचयति ॥
कं, न तु श्रवणाद्यपीति 'भवति' इष्यते, अतः 'श्रवणादेः' श्रवणमनन
योः किमर्थं उपासनमनुष्ठानमित्यपि तत्त्वप्रदीपदिशा व्याख्येयम् ॥
(२) अथ सिद्धान्तयत्तूत्रमवतार्य व्याचष्टे—अत्रेति ॥ सूत्रं पठ
ति—तन्निर्धारणेति । अत्र ध्यानस्य दर्शनार्थं अवश्यकर्तव्यतासमर्थ
नाय तन्निर्धारणार्थनियमः तद्दृष्टेः पृथक्फलं इत्ययमंशः प्रवृत्तः। तत्र
तन्निर्धारणं च अर्थनियमश्चेति द्वन्द्वः, छन्दःकल्पत्वात् एकवद्भावेऽ
पि नपुंसकत्वाभावः । यद्वा—तन्निर्धारणेन सहितोऽर्थनियम इति म
ध्यमपदलोपी समासः । प्रथमतच्छब्दः इयदामननात्, सैवेत्यत्र प्रकृ
तपरापरतत्त्वपरः भावप्रधानो वा। द्वितीयस्तु सैव हीति प्रकृतब्रह्मपरः।
फलमिति तद्दृष्टेरिति चावर्तते । हिः हेतावित्याशयेन तमंशं व्याचष्टे-
तत्त्वेति । परापरतत्त्वज्ञानमित्यर्थः। 'वेदार्थनियमः' अयमेव वेदार्थो ना
न्य इति निर्णय इत्यर्थः । फलमित्यत्रान्वेीयते । तद्दृष्टेरित्यस्यार्थो-ब्रह्मदृ
ष्टेरिति । भगवद्दर्शनादित्यर्थः । फलादिति विपरिणामेनात्रापि सम्बध्य
ते। ध्यानफलादिति तदर्थः । पृथगिति सावधारणमित्याह-पृथगेवेति ।
एवेत्यनन्तरं फलमिति सम्बध्यते। अतो दर्शनार्थं ध्यानं कर्तव्यमिति वा
क्यशेषः। तत्त्वप्रदीपे तु समस्तगुणसम्पूर्णो नारायण इत्ययमेव वेदा
र्थ इति ज्ञानं वेदार्थनियमः, इदं श्रवणफलम् । उपपन्न एवं भाव इति
निश्चयः तत्त्वनिश्चयः, इदं मननफलमित्यभिहितम् । अस्मिन् पक्षे त
त्त्वनिश्चयो वेदार्थनियम इति भाष्यपदद्वयं सौत्रपदद्वयस्य व्यत्यासेन
व्याख्यानरूपमिति प्रतिभाति ॥
(३) ननु ध्यानादेव चेद्दर्शनं, किं तर्हि श्रवणमननाभ्यां प्रयोजन
म इत्याशङ्कानिरासाय सौत्रं हिशब्दं श्रुतिसूचकत्या व्याचष्टे—हिश
ब्देनेति ॥ सूचयति सूत्रकारः । श्रुतिस्तु जिज्ञासा नये व्याख्याता । अत्र
दर्शनार्थं ध्यानं, तदर्थं श्रवणमनने इति त्रितयस्याप्यङ्गाङ्गिभावेन वि
[ अधि - २५. सू - ४३. ] दीपिकासहितम्. ८७७
( ४ ) श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः ।
( ५ ) ब्रह्मतर्के च—
हितत्वात्समस्तमुपासनं कर्तव्यमिति भावः ॥
( ४ ) ननु श्रुतोऽपि श्रवणादित्रितयसमुच्चयः कथमङ्गीकर्तुं शक्य
ते, ध्यानादेव दर्शनसम्भवात् । न च ज्ञानोपयोगितया श्रवणादेः क
र्तव्यता । श्रवणादेः फलान्तरस्योक्तत्वादित्याशङ्कानिरासकं प्रतिब
न्धः फलमित्यंशं व्याचष्टे—श्रवणादीति ॥ श्रवणादेः साक्षात्फलं चे
त्यर्थः । आदिशब्देन मननं गृह्यते । अज्ञानेति । अज्ञानविपर्ययादिरूपं
यद्दर्शनस्य प्रतिबन्धकं तन्निवृत्तिरित्यर्थः । आदिपदेन संशयो गृह्य
ते । तथा च तत्त्वनिर्णयो वेदार्थनियमः अपरोक्षज्ञानं चेति क्रमभावी
ति शब्दादिजन्यानीत्युत्तरभाविटीकारीत्या गुरूपदेशरूपशब्दप्रत्यय
स्य श्रवणशब्दार्थत्वेन विवक्षितस्य तत्त्वनिर्णयद्वाराऽज्ञाननिवर्तकत्वा
त् युक्त्यनुसन्धानात्मकमननस्य च वेदार्थनियमद्वारा संशयविपर्यय
निवर्तकत्वेन प्रतिबन्धकनिवर्तकतया ध्यानफलकापरोक्षज्ञानोपयोगि
त्वात् , ध्यानस्य च ज्ञानप्रतिबन्धकस्य दृढत्वाद्ध्यानादेव दर्शनमिति
टीकानुसारेण दृढप्रतिबन्धकस्य संशयस्यात्यन्तिकनिरासद्वारा तदु
पयोगित्वात् , ज्ञानार्थिनः समस्तोपासनमपेक्षितमेवेति भावः । अने
न—'हि' यतः 'तन्निर्धारणार्थनियमः' तत्त्वनिश्चयो वेदार्थनियमश्चे
त्येवंरूपं गुरूपदेशविषयवाक्यश्रवणयुक्त्यनुसन्धानात्मकमननफलं
ध्यानफलात् 'तद्दृष्टेः' ब्रह्मदर्शनात्पृथक् ताभ्यां तद्दृष्टेरसिद्धेः, तद्दृष्टे
रर्थे तद्ध्यानं कार्यम् । ननु ध्यानादेव चेद्दर्शनं , तर्हि श्रवणम
ननाभ्यां प्रयोजनाभावात् श्रवणादित्रयानुष्ठानं कुत इत्यतो—हीति ।
'श्रोतव्यो मन्तव्यः' इत्यादिश्रुत्या ज्ञानार्थं त्रितयस्यापि विहितत्वा
दित्यर्थः । ननु श्रौतोऽपि त्रितयसमुच्चयः कथमङ्गीकर्तुं शक्यः, ध्याना
देव दर्शनसम्भवात्, श्रवणादेः फलान्तरस्यैव उक्तत्वाच्चेत्यतः—अप्र
तिबन्धः फलमित्याह । यतस्तद्दृष्टेः 'अप्रतिबन्धः' प्रतिबन्धनिवृत्तिः
तयोः श्रवणमननयोः साक्षात् फलं, तद्द्वारा ध्यानजन्यज्ञानं फलं अ
तः समुच्चयोऽङ्गीकार्य इति सूत्रार्थ उक्तो भवति ॥
( ५ ) श्रवणादेः प्रतिबन्धकनिवृत्तिद्वारा ज्ञानोपयोगित्वरूपोक्तार्थे
स्मृतिं चाह—ब्रह्मतर्के चेति ॥ उक्तमिति शेषः । न केवलं सूत्र इति
चार्थः । किमुक्तमित्यतस्तत्पठति—श्रुत्वेति । 'श्रुत्वा' गुरूपदेशं प्रा
८७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम् ॥ इति ॥ ४३ ॥
प्य तज्जन्यतत्त्वज्ञानद्वारा तदज्ञानं 'पराणुद्य' परिहृत्य 'मत्वा' ब्रह्म
विषयकयुक्त्यनुसन्धानात्मकमननं कृत्वा 'तत्संशयविपर्ययौ' संशय
मिथ्याज्ञाने पराणुद्य, तथा 'ध्यात्वा' दृढप्रतिबन्धं च पराणुद्य ब्रह्म
दर्शनं 'लभते' प्राप्नोतीत्यर्थः । यद्वा—श्रवणमनननिदिध्यासनानां क्र
मेणाज्ञानविपर्ययसंशयनिवर्तकत्वमत्रोच्यते । यथोक्तं तत्त्वप्रदीपे—
तत्त्वनिश्चयवतोऽपि परोक्षात्कश्चित्संशयो भवति आ दृष्टेः । दर्शने तु
कीदृशोऽपि न भवेत् । तदाह—
श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम् ॥ इति ॥
ननु—
अथ वा सततं शास्त्रविमर्शो न भविष्यति ।
विष्णुशास्त्रावमर्शनं, एकमन्यद्धरेर्ध्यानम् ॥
इति च । तन्त्रसारे श्रवणादिरूपशास्त्रावमर्शस्य साक्षादपरोक्षज्ञान
साधनत्वोक्तेरत्र प्रतिबन्धकनिवर्तकतया ध्यानाङ्गतया अपरोक्षज्ञानोप
योगित्वोक्तौ तद्विरोध इति चेत, अत्रोक्तं सुधायां—शास्त्राभ्यास
स्य ध्यानाङ्गत्वेऽपि स्वतन्त्रोपासनत्वं चास्ति । तेन चित्तवृत्तिनिरोध
नादिति । अथ वा--उपासनाप्राक्कालीनयोः तदन्तर्गतयोः तज्जाती
ययोः श्रवणमननयोः अत्र विचारितत्वात् तन्त्रसारे च तदतिरिक्त
योः तदनन्तरभाविनोः विवक्षितत्वात् न विरोधः । शास्त्राभ्यासध्यान
रूपद्विविधोपासनस्यापि श्रवणमननमङ्गमिति तत्त्वप्रदीपोक्तेः सुधा
यामपि श्रवणमननरूपशास्त्राभ्यासस्य भेद एव तात्पर्यं, न तु भावबो
ध इव अभेदे तात्पर्यं वर्णनीयम् । केचित्तु—ईषद्बिम्बध्यानस्य सर्वापे
क्षितत्वेऽपि अधिकारिविशेषे शास्त्रविमर्शप्राचुर्यविवक्षया 'अथवा
सततम्' इति वाक्योपपत्तेः न विरोध इत्याहुः । इति ब्रह्मतर्के इत्यन्व
यः । अस्य च अज्ञानादिनिवृत्तिः श्रवणादिफलमित्युक्तमिति पूर्वेणा
न्वयः ॥ २५ ॥
॥ इति निर्धारणाधिकरणम् ॥
[ अधि - २६. सू - ४४. ] दीपिकासहितम्. ८७९
२६. अधिकरणम् ॥
( १ ) सू- ॐ ॥ प्रदानवदेव हि तदुक्तम् ॥ ॐ ॥ ४४ ॥
न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिक-
र्तव्येन । यथा गुरुदत्तं तथैव भवति ।
( २ ) 'आचार्यवान् पुरुषो वेद' (छां. ६-१४-२.) इति हि
२६. अधिकरणम् ॥
( १ ) अत्र भगवज्ज्ञानसाधनश्रवणाद्युपासनस्य सेतिकर्तव्यताक-
त्वं साध्यते । सूत्रं पठति—प्रदानवदेवेति ॥ अत्र तच्छब्दपरामर्शप्रद-
र्शनपूर्वकं एवशब्दसूचितपूर्वपक्षं प्रतिक्षिपन् सूत्रं व्याचष्टे—न चेति ।
श्रवणादिमात्रेनेति । यथाकथंचिदनुष्ठितेन इतिकर्तव्यतारहितेन श्रव-
णादिनेत्यर्थः। अनेन पूर्वपक्षसूचकैवशब्दार्थ उक्तो भवति । ब्रह्मदृष्टिर्भ-
वतीत्यनेन सूत्रे पूर्वस्माद्विपरिणामेन दृष्टेरिति पदमनुवर्तत इति सूचि-
तम् । कुतो नेत्याशङ्कते—किं त्विति । तदुत्तरतया मतुबाश्रयणेन प्रदा-
नवदित्येतद्व्याचष्टे—सेतिकर्तव्येनेति । भावप्रधानोऽयं निर्देशः । इति-
शब्दः प्रकारार्थः । इति प्रकारेण कर्तव्यमितिकर्तव्यमङ्गभूतं कर्म त-
स्य भाव इतिकर्तव्यत्वमङ्गं तत्सहितेनेत्यर्थः । श्रवणादिनेति वर्तते ।
कुत इत्यतोऽपि प्रवृत्तं यतस्तत्फलं 'प्रदानवत्' तदनुरूपमित्यभिप्रा-
येण वत्यन्तांशं विवृणोति—यथेति । 'गुरुदत्तं' गुरुदानं तदुपदेशो यथा
'तथा' तदनुसार्येव भवति । फलमिति शेषः । सप्रदानेनेत्यनुक्त्वा
सेतिकर्तव्येनेत्युक्त्या 'श्रोतव्यो मन्तव्यः' इति श्रुतिविरोधः परिहृतः।
तथा च गुरुप्रदानं ज्ञानसाधनस्य श्रवणादेः इतिकर्तव्यताऽङ्कमेव, न
चैतावता तस्य साधनवत्कार्यत्वेन पृथग्वाच्यता सोमलतारसकार्य-
त्वोक्तवत् तदङ्गदृढमुष्टिनिपीडनादेः पृथग्वचनात् । अतो न श्रवणा-
दिमात्रस्य ज्ञानहेतुतावोधकश्रोतव्य इत्यादिवचनविरोध इति भावः॥
( २ ) ननु प्रदानाधीनत्वं ज्ञानस्य कुत इत्यतः प्रवृत्तं तदुक्तमित्ये-
तद्व्याचष्टे—आचार्यवानिति ॥ 'हि' यस्मादुक्तं तदिति सम्बध्यते ।
तथा च छन्दोगश्रुतौ तज्ज्ञानस्य गुरुप्रसादाधीनत्वमुक्तमित्यर्थः । ही-
त्यनेन सूत्रे पूर्वस्माद्विशब्दोऽनुवर्तनीयः, स च श्रुतिसूचकः, यस्मा-
दित्यर्थे चेत्युक्तं भवति । 'आचार्यवान्' तदनुग्रहवान् पुरुषो विमु-
क्ताविद्यापटलस्सन् ब्रह्म वेदेति छन्दोगश्रुत्यर्थः । अनेन—'हि' यत-
स्तत् प्रदानयुक्तमेव श्रवणादि ज्ञानसाधनमिति तस्यां श्रुतायुक्तं अतः
:
क्तम् ॥ ४४ ॥ - that is the end of तदुक्तम् ॥ ४४ ॥!
Now look at the commentary on Sutra 44 (Adhikarana 26, Pradanadhikarana):
The sutra has words:
प्रदानवत्एवतदुक्तम्
Wait! Where would'तद्गृहेः'come from if the sutra isप्रदानवदेव तदुक्तम्?
Wait, is it'तद्गृहेः'or'तद्ग्रहे'or'तदुक्तेः'?
LOOK AT THE LETTERS:
त
दु(da with u-karaु!)
क्तेः(ka-ta with e-kara and visargaेः!)
' त दु क्तेः '!!!!!!!!!
YES!तदुक्तेः!
Look at it:
त
दु
क्तेः
'तदुक्तेः'!
Because the sutra word isतदुक्तम्!
In the commentary, the commentator explainsतदुक्तम्as:
'तदुक्तेः' ब्रह्मज्ञानस्य साधनं, न श्रवणादिमात्रमिति सूत्रार्थ उक्तो भवति ॥ २६ ॥
[ अधि - २७. सू - ४५. ] दीपिकासहितम्. ८८१
भगवद्दृशेभ्य आचार्य्याद्धैव विद्या विदिता साधिष्ठं
प्रापयति' (छा. ४-९-३.) इति वचनात् ।
( २ ) 'अत्र ह न किञ्चन वीयाय' इत्यनुज्ञानादुपकोसलव
त्य ब्रह्मविद्यामुपदिदिशुः । अथ तैः ब्रह्मविद्यां श्रुत्वा स्वाचार्यकुलं पुनः
प्राप्तोऽथाचार्येण गौतमेन हे सत्यकाम त्वं ब्रह्मविदिव भासि को नु
त्वामनुशशास देवो वा मनुष्यो वेत्युक्तो मनुष्येभ्योऽन्य देवा इति
'प्रतिजज्ञे' विज्ञापयांचक्रे । अथ गौतममुपदेशाय प्रार्थयत । किमि
ति ? यद्यपि देवेभ्यो मया श्रुतं ब्रह्म, तथाऽपि भगवानेव तु 'मे' मम
'कामे' तादर्थ्ये सप्तमी, शुभार्थं 'ब्रूयात्' ब्रवीतु । कुतः ? 'हि' य
तो 'भगवद्दृशेभ्यो' भगवत्समेभ्य एव 'मे' मया श्रुतम्, न त्वाचा
र्यात् अतो हेतोः । न च यस्मात्कस्माच्चित् श्रवणेनालमिति शङ्क्यम् ।
यतः उपनयनादिकर्तुराचार्यादाराधितादेव 'विदिता' लब्धा विद्या
'साधिष्ठं' भावप्रधानोऽयं, साधुतमत्वं स्थिरत्वं वा 'प्रापयति' स्वा
र्थे णिच्, प्राप्नोति । कचिद्भवतीति पाठः, तदा भवतेः प्राप्त्यर्थता ज्ञे
या । न च देवा मे आचार्याः, तेषामाचार्यतया मयाऽनङ्गीकृतत्वाद्वि
ति भावः । प्रापयतीत्यनन्तरं श्रुताविति शब्दोऽस्ति, तस्य इति प्रतिज
ज्ञे इत्यन्वयः । अयं तु भाष्यकारीयः । इति वचनादित्यस्योत्तरत्रा-
न्वयः ॥
( २ ) लिङ्गान्तरं दर्शयति—अत्रेति ॥ 'अत्र' ऋषभादिदेवेभ्यः
श्रवणे तन्निमित्तं किञ्चन 'न वीयाय' नापगतं न ते काचिद्धानिरप
राधोऽभूदिति गौतमः सत्यकामायोवाचेत्यर्थः । हेत्यास्वादने । इत्यनु
ज्ञानादिति । इत्येवं गौतमेन गुरुणा देवोपदिष्टस्य स्वाभिमतिसूचक
शब्दोक्तिरूपानुज्ञाकरणादित्यर्थः । स्वप्रदानस्याप्राबल्येऽनुज्ञावैयर्थ्या
दिति भावः । लिङ्गान्तरं दर्शयति—उपकोसलवचनाच्चेति । उपकोस