पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 920, कुल 1267 में से
संदर्भ में पढ़ें[अधि - २४. सू - ४१. ] दीपिकासहितम्. ८७३
( ५ ) सू- ॐ ॥ आदरादलोपः ॥ ॐ ॥ ४१ ॥
अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या
भवति ।
द्याचार्यराजैः सा देवीत्यादिना सा देवी सत्यादय इति सूत्रस्य अर्था-
न्तरमुक्तम् । 'प्रस्तावे' प्रकरणे 'प्रस्तुतां' प्रकृतैवेत्यर्थः । ' इत्याह '
उपस्थितैरिति सूत्रकृत । प्रकृतिपुरुषयोः साम्यशङ्कां वारयति - भूमा-
दीति । आदिशब्देन अहमात्मनोः ग्रहणं 'उभयथा' सम्प्रसादादध्यु-
पदेशाच्च । 'सत्यादिषु' सत्यादिरूपश्रीगुणेषूदितेष्वपीत्यन्वयः । 'ते-
षां' तैः 'भूमा' पूर्ण इत्यर्थः । तैरेव भूमाधिकरणे 'अन्तराले' प्राण-
परमात्मनोर्मध्ये बन्धमोचकत्वविवक्षया श्रुत्यनुक्तिपक्षेऽपि प्रस्तौति
देवीं सत्यादिशब्दैः सूत्रकृदित्यर्थः । 'मुमुक्षूणां' मुमुक्षुभिः अभिध्या-
तव्या देवीति हेतोः प्राणप्रस्तुतिरित्यन्वयः । देव्याः पूजादिकं विवक्षि-
तमिति किमु वक्तव्यमित्यर्थः । अनेन-चित्प्रकृतिरुपासनाधिकारिणी न
भवति, तत्साधकसंसारित्वशून्यत्वात् । न च जननादिदर्शनश्रुतिवि-
रोधाद्धेतोरसिद्धिः । यतश्च 'इतरत्र' भूम्यादावप्यवतारान् करोति ।
अतो जननादिदर्शनस्यावतारविषयत्वेन विरोधाभावादिति भावः ।
न च लोकसिद्धजन्मैव किं न स्यादिति शङ्क्यम् । यतस्सा तत्र मू-
लस्थाने मूलरूपेण भगवत्समीपे स्थिता । न च तादृशानामपीन्द्रादी-
नामर्जुनादिरूपेण उत्पत्तेर्दर्शनात् हेतोरप्रयोजकत्वं शङ्क्यम् । यतः
सा 'कामात्' स्वेच्छयैव तत्र स्थिता न कर्मतोऽतः । न च स्वेच्छा-
नुसारित्वे तस्याः स्वातन्त्र्यं शङ्क्यम् । यतः सा 'कामात्' ईश्वरे-
च्छामनुसृत्यैवावतारादि करोति, न स्वेच्छामात्रादतः । न च मूलरूपे-
ण भगवत्समीपे स्थिता इतरत्र स्वेच्छयैवावतारादि करोतीति विशि-
ष्टहेतोरसिद्धिरिति वाच्यम् । ' आयतनादिभ्यः' सर्वा॑यतनत्वादिप्रति-
पादकश्रुतेरेवेति सूत्रार्थ उक्तो भवति ॥
( ५ ) ननु रमाया असंसारित्वे कृतकृत्यत्वेन भगवदुपासनाद्य-
भावस्स्यात् । न चासौ युक्तः ।
यदर्चितं ब्रह्म भवादिभिः सुरैः
श्रिया च देव्या मुनिभिश्च सात्त्वतैः ।
तुलसीभिरीशमभ्यर्चति..
इत्यादिप्रमाणविरुद्धत्वात् । अत्रार्चितमुपासितं पूजितं चेत्युक्तेरित्या-
११०