पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 916, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २४. सू - ४०. ] दीपिकासहितम्. ८६९
(४) सत्याद्या अहमात्मान्ता यद्गुणास्समुदीरिताः ।
तस्मै नमो भगवते यस्मादेव विमुच्यते ॥
इति चाध्यात्मं ॥ ३९ ॥
⁂
२४. अधिकरणम् ॥
(१) प्रकृतेरपि जन्मादेः संसारप्राप्तेः किमिति नामादिष्व
सत्यादिरूपवान् ' इति पाठे उपरि श्रुत इति आधिक्येनेति वा शेषः ।
हिः प्रसिद्धौ ॥
(४) नन्वस्तु भूमान्तानां भगवद्गुणोक्त्या तेनाभेदः, न त्वहङ्का
रात्मनोः, तयोर्भेदानुक्तेरित्यत आह—सत्याद्या इति ॥ सत्यविज्ञान
मतिश्रद्धानिष्ठाकृतिसुखभूमान इत्यर्थः । ' अहमात्मान्ताः' बहुव्रीहिः ।
अहङ्कारात्मान्ताः शब्दाः 'यद्गुणाः' यस्य परस्य गुणस्य वाचकाः समु
दीरिताः प्रमाणे तस्मै भगवते नम इत्यर्थः । अहङ्कारात्मनोः सत्यादी
विव गुणप्रश्नप्रतिवचनपूर्वक मभेदानुक्तावपि अस्त्येव भगवत्स्वरूप
त्वमित्यत्र हेतुर्यस्मादिति । यस्मादहङ्कारात्मनोः ज्ञानात् यस्मात् 'स
वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममि
थुन आत्मानन्दः स्वराट् भवति' (छा.७-२५.) इति वाक्यशेषे बन्धा
द्विमुच्यत इत्युक्तम् , तस्मात्तयोस्तत्स्वरूपत्वमित्यर्थः । श्रुतावात्मश
ब्दो विष्णुपरः, तस्मिन् रत्यादिमान् 'स्वराट्' स्वतन्त्रो बन्धरहित
इत्यर्थः । इति ब्रह्मतर्के इति चाध्यात्म इत्युभयत्राप्युक्तमिति शेषः ।
अनयोः अतस्सत्यादय इति पूर्वेणान्वयः ॥ २३ ॥
॥ इति सत्याधिकरणम् ॥
⁂
२४. अधिकरणम् ॥
(१) अत्राधिकरणे श्रिय उपासनानधिकारित्वं साध्यते । पूर्वपक्ष
यति—प्रकृतेरिति ॥ न केवलं प्राणादेः किन्तु चित्प्रकृतेर्लक्ष्म्या अपि
उपासनाधिकारोऽस्त्येवेति प्रतिज्ञायां हेतुमाह—संसारेति । 'प्राप्तेः'
सिद्धेः । साधुत्वाच्चेत्यपि द्रष्टव्यम् । नन्वसिद्धः संसार इत्यत आह—
जन्मादेरिति । सीतारुक्मिण्यादिरूपेण जन्ममरणादेर्दर्शनात् । 'यतः
प्रसूता' (महा. १.) इत्यादिश्रुतेश्चेत्यर्थः । अधिकारासिद्धेः फलमाह—कि