पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 924, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २५. सू - ४३. ] दीपिकासहितम्. ८७७
( ४ ) श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः ।
( ५ ) ब्रह्मतर्के च—
हितत्वात्समस्तमुपासनं कर्तव्यमिति भावः ॥
( ४ ) ननु श्रुतोऽपि श्रवणादित्रितयसमुच्चयः कथमङ्गीकर्तुं शक्य
ते, ध्यानादेव दर्शनसम्भवात् । न च ज्ञानोपयोगितया श्रवणादेः क
र्तव्यता । श्रवणादेः फलान्तरस्योक्तत्वादित्याशङ्कानिरासकं प्रतिब
न्धः फलमित्यंशं व्याचष्टे—श्रवणादीति ॥ श्रवणादेः साक्षात्फलं चे
त्यर्थः । आदिशब्देन मननं गृह्यते । अज्ञानेति । अज्ञानविपर्ययादिरूपं
यद्दर्शनस्य प्रतिबन्धकं तन्निवृत्तिरित्यर्थः । आदिपदेन संशयो गृह्य
ते । तथा च तत्त्वनिर्णयो वेदार्थनियमः अपरोक्षज्ञानं चेति क्रमभावी
ति शब्दादिजन्यानीत्युत्तरभाविटीकारीत्या गुरूपदेशरूपशब्दप्रत्यय
स्य श्रवणशब्दार्थत्वेन विवक्षितस्य तत्त्वनिर्णयद्वाराऽज्ञाननिवर्तकत्वा
त् युक्त्यनुसन्धानात्मकमननस्य च वेदार्थनियमद्वारा संशयविपर्यय
निवर्तकत्वेन प्रतिबन्धकनिवर्तकतया ध्यानफलकापरोक्षज्ञानोपयोगि
त्वात् , ध्यानस्य च ज्ञानप्रतिबन्धकस्य दृढत्वाद्ध्यानादेव दर्शनमिति
टीकानुसारेण दृढप्रतिबन्धकस्य संशयस्यात्यन्तिकनिरासद्वारा तदु
पयोगित्वात् , ज्ञानार्थिनः समस्तोपासनमपेक्षितमेवेति भावः । अने
न—'हि' यतः 'तन्निर्धारणार्थनियमः' तत्त्वनिश्चयो वेदार्थनियमश्चे
त्येवंरूपं गुरूपदेशविषयवाक्यश्रवणयुक्त्यनुसन्धानात्मकमननफलं
ध्यानफलात् 'तद्दृष्टेः' ब्रह्मदर्शनात्पृथक् ताभ्यां तद्दृष्टेरसिद्धेः, तद्दृष्टे
रर्थे तद्ध्यानं कार्यम् । ननु ध्यानादेव चेद्दर्शनं , तर्हि श्रवणम
ननाभ्यां प्रयोजनाभावात् श्रवणादित्रयानुष्ठानं कुत इत्यतो—हीति ।
'श्रोतव्यो मन्तव्यः' इत्यादिश्रुत्या ज्ञानार्थं त्रितयस्यापि विहितत्वा
दित्यर्थः । ननु श्रौतोऽपि त्रितयसमुच्चयः कथमङ्गीकर्तुं शक्यः, ध्याना
देव दर्शनसम्भवात्, श्रवणादेः फलान्तरस्यैव उक्तत्वाच्चेत्यतः—अप्र
तिबन्धः फलमित्याह । यतस्तद्दृष्टेः 'अप्रतिबन्धः' प्रतिबन्धनिवृत्तिः
तयोः श्रवणमननयोः साक्षात् फलं, तद्द्वारा ध्यानजन्यज्ञानं फलं अ
तः समुच्चयोऽङ्गीकार्य इति सूत्रार्थ उक्तो भवति ॥
( ५ ) श्रवणादेः प्रतिबन्धकनिवृत्तिद्वारा ज्ञानोपयोगित्वरूपोक्तार्थे
स्मृतिं चाह—ब्रह्मतर्के चेति ॥ उक्तमिति शेषः । न केवलं सूत्र इति
चार्थः । किमुक्तमित्यतस्तत्पठति—श्रुत्वेति । 'श्रुत्वा' गुरूपदेशं प्रा