पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 923, कुल 1267 में से
संदर्भ में पढ़ें८७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
(२) अत्रोच्यते—
सू—ॐ ॥ तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फ
लम् ॥ ॐ ॥ ४३ ॥
तत्त्वनिश्चयो वेदार्थनियमश्च ब्रह्मदृष्टेः पृथगेव ।
(३) हि शब्देन ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो
निदिध्यासितव्यः' (बृ. ४-४-५.) इति श्रुतिं सूचयति ॥
कं, न तु श्रवणाद्यपीति 'भवति' इष्यते, अतः 'श्रवणादेः' श्रवणमनन
योः किमर्थं उपासनमनुष्ठानमित्यपि तत्त्वप्रदीपदिशा व्याख्येयम् ॥
(२) अथ सिद्धान्तयत्तूत्रमवतार्य व्याचष्टे—अत्रेति ॥ सूत्रं पठ
ति—तन्निर्धारणेति । अत्र ध्यानस्य दर्शनार्थं अवश्यकर्तव्यतासमर्थ
नाय तन्निर्धारणार्थनियमः तद्दृष्टेः पृथक्फलं इत्ययमंशः प्रवृत्तः। तत्र
तन्निर्धारणं च अर्थनियमश्चेति द्वन्द्वः, छन्दःकल्पत्वात् एकवद्भावेऽ
पि नपुंसकत्वाभावः । यद्वा—तन्निर्धारणेन सहितोऽर्थनियम इति म
ध्यमपदलोपी समासः । प्रथमतच्छब्दः इयदामननात्, सैवेत्यत्र प्रकृ
तपरापरतत्त्वपरः भावप्रधानो वा। द्वितीयस्तु सैव हीति प्रकृतब्रह्मपरः।
फलमिति तद्दृष्टेरिति चावर्तते । हिः हेतावित्याशयेन तमंशं व्याचष्टे-
तत्त्वेति । परापरतत्त्वज्ञानमित्यर्थः। 'वेदार्थनियमः' अयमेव वेदार्थो ना
न्य इति निर्णय इत्यर्थः । फलमित्यत्रान्वेीयते । तद्दृष्टेरित्यस्यार्थो-ब्रह्मदृ
ष्टेरिति । भगवद्दर्शनादित्यर्थः । फलादिति विपरिणामेनात्रापि सम्बध्य
ते। ध्यानफलादिति तदर्थः । पृथगिति सावधारणमित्याह-पृथगेवेति ।
एवेत्यनन्तरं फलमिति सम्बध्यते। अतो दर्शनार्थं ध्यानं कर्तव्यमिति वा
क्यशेषः। तत्त्वप्रदीपे तु समस्तगुणसम्पूर्णो नारायण इत्ययमेव वेदा
र्थ इति ज्ञानं वेदार्थनियमः, इदं श्रवणफलम् । उपपन्न एवं भाव इति
निश्चयः तत्त्वनिश्चयः, इदं मननफलमित्यभिहितम् । अस्मिन् पक्षे त
त्त्वनिश्चयो वेदार्थनियम इति भाष्यपदद्वयं सौत्रपदद्वयस्य व्यत्यासेन
व्याख्यानरूपमिति प्रतिभाति ॥
(३) ननु ध्यानादेव चेद्दर्शनं, किं तर्हि श्रवणमननाभ्यां प्रयोजन
म इत्याशङ्कानिरासाय सौत्रं हिशब्दं श्रुतिसूचकत्या व्याचष्टे—हिश
ब्देनेति ॥ सूचयति सूत्रकारः । श्रुतिस्तु जिज्ञासा नये व्याख्याता । अत्र
दर्शनार्थं ध्यानं, तदर्थं श्रवणमनने इति त्रितयस्याप्यङ्गाङ्गिभावेन वि