पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
५१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
वैशरीरनित्यत्वं स्यात् ॥ ३६ ॥
-:*:—
११. अधिकरणम् ॥
( १ ) पाशुपतपक्षमपाकरोति—
सू—ॐ ॥ पत्युरसामञ्जस्यात् ॥ ॐ ॥ ३७ ॥
'यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमे
धाम्' ( ऋ. १०-१२५-५. ) 'अहं रुद्राय धनुरातनो
मि ब्रह्मद्विषे शरवे हन्त वा उ' (ऋ. १०-१२५-६.) 'अ
स्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
षप्रसङ्गादिति नात्मनः कायपरिमाणत्वपक्षो युक्त इति ॥ १० ॥
॥ इति नैकस्मिन्नधिकरणम् ॥
-: ॐ :-
११. अधिकरणम् ॥
( १ ) अधिकरणार्थं दर्शयति—पाशुपतेति ॥ पशुपतेरमी पाशुप
ता इति विग्रहः । तथा च पाशुपतशाक्तेयसौरस्कान्दगाणापत्यभेदेन
बहुविधेषु वैदिकाभासेषु मध्ये ये शैवपाशुपतकालामुखमहाव्रतभेदेन
चत्वारः पशुपतिपारम्यवादिनः, तेषां पक्षमस्मिन्नधिकरणे निराकरो
ति सूत्रकृदित्यर्थः । सार्वज्ञ्यादिगुणशाली पशुपतिरेव प्रकृतिमुपादा
नीकृत्य हरिहिरण्यगर्भादिजगदुत्पत्त्यादि करोति । तथा श्रुतिस्मृतयो
ऽस्मिन्नर्थे भवन्ति । तथा च का वार्ता हरेर्जगत्कारणत्वस्य । अतो न
लक्षणसूत्रं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—पत्यु
रिति । इत्यादिश्रुतेरिति पञ्चमी । समुदायैकवचनमेतत् । आदिशब्दे
न 'वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः' ( )
इत्यादिकं गृह्यते। 'पारतन्त्र्येण' परतन्त्रत्वाख्यदोषावगमेन पारतन्त्र्यं
जननमरणदेरप्युपलक्षकम्। अनेनहेत्वसिद्धिःपरिहृता । पारतन्त्र्येणेत्य
सामञ्जस्यपदस्यार्थान्तरं भावे ष्यञमभिप्रेत्याह-असमञ्जसत्वादिति ।
दोषत्वादित्यर्थः । पशुपतेरिति विपरिणामेनात्रापि सम्बध्यते । पशुप
तिः पशूनां पाशबन्धविमोक्षद इति ईश्वर इति च पत्युरिति पदस्यार्थ
द्वयम्। ईश्वरत्वं चाज्ञजनप्रसिद्ध्याऽन्यस्यापीत्यतः-पशुपतिरित्याह,यो
गेनान्योऽपि पशुपतिर्भवतीत्यतः-ईश्वर इति चाह । उभयसमभिव्या
हाराच्छिवस्यैव प्राप्तिः । न जगत्कर्तेत्यनेन प्रकरणाल्लब्धस्य जगत्कर्तृ
-Line 14:षे' चतुर्मुखपञ्चममुखच्छेत्त्रे प्रमेयदीपोक्तरीत्या संहारकाले ब्राह्मणा-Line 15:दिसर्वप्राणिविद्विषे इति वा, सुधारीत्या व्यत्ययेन ब्रह्मद्विषां दैत्यानांLine 16:शरवे हिंसकायेति वा, चन्द्रिकारीत्या दक्षप्रजापतिद्विषे इति वा रु-Line 17:द्राय । द्वितीयार्थे चतुर्थी । उक्तविशेषणकरुद्रमिति । 'हन्त वा उ' ह-Line 18:न्तुमेव, न तु भीषणाद्यर्थम्, प्रलये दुर्गरूपेण हननात् । धनुः 'आत-Line 19:नोमि' विस्तारयामि सज्यं करोमीति वा । अहं 'जनाय' जनस्य 'स-Line 20:मदं' सम्मदं हर्ष सन्ततमोदं वा करोमि । अहं 'द्यावापृथिवी' तदु-Line 21:पलक्षितानूर्ध्वाधोलोकान् धारण्या 'आविवेश' च्छन्दसि परोक्षेLine 22:लिट् । अहमस्य जगतः 'पितरं' ब्रह्माणं 'मूर्धन्' मूर्
५२० ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - २. ]
( २ ) सू—ॐ ॥ सम्बन्धानुपपत्तेश्च ॥ ॐ ॥ ३८ ॥
अशरीरत्वात्तस्य जगता सम्बन्धो न युज्यते कर्तृत्वेन
मृतपुरुषवत् ॥ ३८ ॥
( ३ ) सू—ॐ ॥ अधिष्ठानानुपपत्तेश्च ॥ ॐ ॥ ३९ ॥
पृथिव्याद्यधिष्ठाने स्थितो हि कुलालादिः कार्यं करो
ति, न चास्य तदस्ति ॥ ३९ ॥
णा ध्यानेन च प्रवृद्धे भरणे पूजने हविर्भिः कृते सति तत्प्रसादात् 'व
याः' अहंतत्त्वाभिमानित्वेन जनानां बन्धको रुद्रः 'रुद्रियं महित्वं'
रौद्रं पदं 'विदे' विविदे लेभे । हि प्रसिद्धमेतत् । तथा हि 'अश्विनौ'
युवामपि विष्णुपूजयैव तत्प्रसादात् 'इरावत्' अन्नवत् 'वर्तिः' वर्त
नं समस्तभोगवत्पदं 'यासिष्टं' अयासिष्टे प्राप्तुवन्तौ स्त इति । 'ए
को नारायणः' इत्यादिकं श्रुत्यन्तरवाक्यम् । अनेन प्रलयेऽभावोऽवग
म्यते । महाप्रलये नारायण एक एव प्रधान आसीत् । तदा स्वातन्त्र्ये
ण 'न ब्रह्मा' न चतुर्मुख आसीत, न 'शङ्करो' रुद्रश्चासीदित्यर्थः ॥
( २ ) युक्त्यन्तरेण पशुपतेर्जगत्कारणत्वं पराकुर्वत्सूत्रमुपन्यस्य
व्याचष्टे—सम्बन्धेति ॥ अशरीरत्वादित्यनेन न केवलं पारतन्त्र्यादेः,
किन्त्वशरीरत्वाच्चेति चशब्दसमुच्चेतव्यो हेतुर्दर्शितः । 'तस्य' पशु
पतेरिति । अनेन सूत्रे पत्युरित्यस्यानुवृत्तिर्दर्शिता । 'जगता' कार्ये
ण । जगत्पदं अशरीरस्य क्वचिदपि कार्यकर्तृत्वेन सम्बन्धो न युज्य
ते सुतरां सर्वस्मिन्निति कैमुत्यद्योतनाय । सूत्रेऽनुपपत्तेरिति पञ्चमी
प्रयोगेऽपि नात्र सम्बन्धानुपपत्तेः हेतुत्वं साध्याविशेषप्रसङ्गात् , कि
न्तु साध्यत्वं, पञ्चमी तु चशब्दसूचिताशरीरत्वस्य हेतुत्वज्ञापिकेति प्र
दर्शनाय युक्तेरित्यनुक्त्वा न युज्यत इति निर्देशः कृतः । ननु कार्येण
जगताऽपि सम्बन्धमात्रमशरीरस्यापि सम्भवति गगनादेर्घटादिसंयो
गदर्शनात् अतः कोऽसावत्र विवक्षितः सम्बन्धोऽयुक्त इत्यतः कार्यकार
तृभाव इति भावेनोक्तं—कर्तृत्वेनेति । 'कर्तृत्वेन सम्बन्धः' कर्तृत्वरू
पसम्बन्धः । अत्र दृष्टान्तमाह—मृतेति । त्यक्तदेहवदित्यर्थः । अने
न—न केवलमसामञ्जस्यात्, किन्तु पत्युरशरीरत्वाच्च न जगता कार्य
कर्तृभावरूपसम्बन्धो युक्त इति सूत्रार्थोऽभिहितः ॥
( ३ ) हेत्वन्तरेण पशुपतेर्जगत्कारणत्वं पराकुर्वत्सूत्रमुपन्यस्य
व्याचष्टे—अधिष्ठानेति ॥ 'चो' यतोऽस्य पत्युरतदधिष्ठानं नास्त्यतो
[ अधि - ११. सू - ४०. ] दीपिकासहितम्. ५२१
(४) सू—ॐ ॥ करणवच्चेन्न भोगादिभ्यः ॥ ॐ ॥ ४० ॥
इदमेव जगतस्तस्य करणवदधिष्ठानादिरूपं नित्यस्यापि
कस्य चिद्भावाद्युज्यत इति चेत्—
ऽपि न जगत्कर्तृत्वमित्यनेन 'अधिष्ठानानुपपत्तेः' अधिष्ठानाभावाच्च
न पत्युः जगत्कर्तृत्वमिति सूत्रार्थो दर्शितः। अत्राप्रयोजकत्वमाशङ्क्य
तत्परिहाराय सूत्रे अधिष्ठानाभावादित्यनुक्त्वा अधिष्ठानानुपपत्तेः अ-
धिष्ठानाख्यव्याप्याभावादित्युक्तिबलात्सूचितां व्यतिरेकव्याप्तिं सामा-
न्यतः सहदृष्टान्तं दर्शयति—पृथिव्यादीति । 'पृथिव्याद्यधिष्ठाने'
भूम्याद्यधिकरणे । हिः प्रसिद्धौ । 'कार्ये' घटादि ॥
(४) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे
—करणवदिति ॥ इदमेवेति । मायादिकारकसमुदायरूपं जगदेवेत्य-
र्थः । न ततोऽन्यत् मृग्यमित्येवशब्दार्थः । 'तस्य' ईश्वरस्य । अनेन
सूत्रे पत्युरिदमेवेति पदानुषङ्गो दर्शितः । 'करणवत्' करणमस्मदा-
दिशरीरेन्द्रियादि तद्वत् समानं भवति , साक्षात्प्रयत्नाधिष्ठेयत्वसा-
म्यात् । यत एवमतस्तस्य् इदमेवाधिष्ठानादिस्वरूपं भवतीत्यर्थः ।
आदिपदेनेह विवक्षितं सम्बन्धोपपादकं शरीरं गृह्यते । यद्यप्यस्य सू-
त्रस्य व्यवहिताव्यवहितपूर्वसूत्रद्वयोक्तानुपपत्तिद्वयपरिहारनिरासक-
त्वात् व्यवहितपूर्वसूत्रेऽशरीरत्वस्य हेतुत्वेनोक्तत्वात् इदमेव विश्वं
शरीरादिरूपमिति वक्तव्यम् । अतएवानुव्याख्याने 'देहादिवद्विश्वम्'
इत्युक्तम् । तथाऽपि सन्निहितपरित्यागकारणाभावादधिष्ठानादिरूप-
मित्यक्तावपि उभयानुपपत्तिपरिहारप्रतीतेस्तन्निरासोऽत्र युज्यत एवे-
त्याशयेनाधिष्ठानादीत्युक्तम् । अनुव्याख्याने तु उभयानुपपत्तिपरिहार-
निरासकत्वज्ञापनायोभयमध्ये 'करणवच्चेत्' इत्यस्य सूत्रस्य व्याख्या-
त्वात् तदनुसारेण सन्निधिमनादृत्य देहादिवदित्युक्तमिति न विरोधः।
अधिष्ठानादिरूपमित्यनन्तरं अतो न तदनुपपत्तिरिति वाक्यशेषः ।
ननु प्रलये सर्वस्यापि विनाशात् कारकसमूहस्यापि नाधिष्ठानत्वाद्,
युज्यत इत्यत आह—नित्यस्येति । अपिः प्रलयेऽपीत्यध्याहृतेनान्वेति।
अधिष्ठानादीति भावप्रधानमिहानुषज्यते । युज्यत इति चावर्तते । त-
था च यतः प्रलयेऽपि 'कस्यचित्' मायादिरूपकारकसमूहस्य नि-
त्यस्य 'भावात्' विद्यमानत्वात् तस्याधिष्ठानादिरूपत्वं युज्यते तदुक्तं
युज्यत इति च योजना ॥
६६
५२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
( ५ ) न, भोगादिप्राप्तेः । उत्पत्तिनाशौ सुखदुःखभोगाश्च
प्राप्यन्ते तद्गताः ॥ ४० ॥
( ६ ) सू—ॐ ॥ अन्तवत्त्वमसर्वज्ञता वा ॥ ॐ ॥ ४१ ॥
देहवत्त्वेऽन्तवत्त्वम् । अन्यथा ज्ञानाभावः । शरीरिण
एव हि ज्ञानोत्पत्तिर्दृष्टा ।
( ५ ) परिहारांशं व्याचष्टे—नेति ॥ पूर्ववादिनोक्तं नेत्यर्थः । कुतो ने-
त्यतो भोगादिभ्य इत्येतत्प्राप्त्युपलक्षकतया व्याचष्टे—भोगादीति ।
भोगनिमित्तपदार्थवचनेन विषयोक्त्या च भोगादीति । एतदेव स्फु-
टीकरोति--उत्पत्तीति । यत इत्यादावुपस्कार्यम् । उत्पत्तिविनाशयो-
रादिशब्दगृहीतयोः पश्चादुक्तव्यत्वेऽपि सुखदुःखानुभवरूपभोगरूप-
त्वात्प्रथमं ग्रहणम् । अतएवासमासः । क्रियान्वयोऽपि विपरिणामेन पृ-
थगेव द्रष्टव्यः ।विषयीभूतसुखदुःखव्यक्तिबाहुल्याद्बहुवचनम् । सुखं
दुःखे च तयोर्भोगश्चेति वा । भोगश्चेत्येकवचनपाठः स्वरसः । तथा
त्वे आहृत्यैते प्राप्यन्त इत्यन्वयः । 'तद्गताः' शरीरादिसमानकारक-
व्रातगताः तदुपादानहानिनिमित्ता इति यावत् । 'प्राप्यन्ते' प्राप्येर-
न् । यज्ञदत्तादेः साक्षात्प्रयत्नाधिष्ठेयविकारात्मकशरीरोपादानहान-
योः सतोस्तन्निमित्तयोरुत्पत्तिविनाशयोर्दर्शनादिति भावः । सुखदुः-
खभोगस्य तद्गतत्वं चोत्पत्तिविनाशद्वारा बोध्यम् ॥
( ६ ) 'सम्बन्धानुपपत्तेः, करणवच्च' इत्याभ्यां मुक्तशरीर-
भावाभावपक्षावेव विकल्पभङ्ग्या दोषान्तरेण दूषयत्सूत्रं पठित्वा
व्याचष्टे—अन्तवत्त्वमिति ॥ भावरूपत्वात्प्रथमं करणसूत्रोक्तपक्षो गृ-
हीतः । 'अन्तवत्त्वं' देशतः परिच्छिन्नत्वं स्यात् यज्ञदत्तवदित्यर्थः ।
पत्युरिति वर्तते । ततश्च न जगत्कर्तृत्वं स्यादिति वाक्यशेषः । 'अन्यथा'
देहाभावे ज्ञानस्यैवाभावस्स्यात् । सुतरां सार्वज्ञ्यस्येत्येवार्थः । ततश्च
न जगत्कर्तृत्वं पत्युरिति भावः । शरीराभावे कुतो ज्ञानाभाव इत्यतो
• व्यतिरेकव्याप्तिं दर्शयति--शरीरिण एव हीति । न त्वशरीरिण इत्ये-
वार्थः । हिः प्रसिद्धौ । अनेन-सूत्रे करणवदिति मतुबन्तं पदं भावप्रधा-
नमनुवर्तनीयम् । न चेदिति शेषः । चशब्दार्थः वार्थः, कल्पभेदेन दो-
षसूचकश्च । तथा च यतः पत्युः करणवत्त्वं देहवत्त्वं चेत् अन्तवत्त्वं
च स्यात्, न केवलं भोगादिप्राप्तिः । न चेदज्ञता स्यात्, सुतरामसर्व-
ज्ञता च । न केवलं जगता कार्यकार्तृभावानुपपत्तिरिति सूत्रार्थ उक्तो
[ अधि - ११. सू - ४१. ] दीपिकासहितम्. ५२३
(७) विष्णोस्तु श्रुत्यैव सर्वे विरोधाः परिहृताः ।
- यदात्मको भगवांस्तदात्मिका व्यक्तिः । किमा-
त्मको भगवान् । ज्ञानात्मक ऐश्वर्यात्मकः '
(एकायन.) इति । 'बुद्धिमनोऽङ्गप्रत्यङ्गवत्तां भगवतो
लक्षयामहे । बुद्धिमान्मनोवानङ्गवान्प्रत्यङ्गवान् ' (
) इति । 'सदेहः सुखगन्धश्च ज्ञानभाः सत्पं-
भवति । अत्र सम्बन्धानुपपत्तिसूत्रे शरीराभावे कर्तृत्वोपयुक्तज्ञाना-
भावेन कर्तृत्वरूपसम्बन्धानुपपत्तिरुक्ता । अत्र तु शरीराभावे ज्ञाना-
भावेनासर्वज्ञत्वाज्जगत्कर्तृत्वानुपपत्तिरित्युच्यतेऽत इति भेदो द्रष्टव्यः ॥
(७) ननु विष्णोरप्युक्तविकल्पमुखेनोक्तदोषाः प्रसज्यन्तयेवेति
तस्यापि कर्तृत्वानुपपत्तिरित्याशङ्कां 'आत्मनि चैवम्, सर्वोपेता च,
[L
५२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ]
राक्रमः ज्ञानज्ञानः सुखंसुखः स विष्णुः परमोऽक्षरः '
( पैङ्गिश्रुतिः. ) इत्यादिकया ॥ ४१ ॥
१२. अधिकरणम् ॥
( १ ) शक्तिपक्षं दूषयति—
सू— ॐ ॥ उत्पत्त्यसम्भवात् ॥ ॐ ॥ ४२ ॥
न हि पुरुषाननुगृहीतस्त्रीभ्य उत्पत्तिर्दृश्यते ॥ ४२ ॥
स्यासौ सदेहः । यः 'सुखगन्धः' सुगन्धिः पुण्यगन्धः सुखात्मकग-
न्धो वा। तत्रैकः सुधोक्तः। द्वितीयस्तृतीयः न्यायदीपोक्तः। यश्च 'ज्ञान-
भाः' न तु तेजसभाः । 'सत्पराक्रमः' अप्रतिहतपराक्रमः । यश्च 'ज्ञा-
नज्ञानः' अतिशयितज्ञानः कर्तृसाधनोऽयं ज्ञानशब्दः । 'सुखसुखः' अ-
तिशयितसुखः । अर्शाआद्यजन्तः । सुखशब्दः निर्धारणषष्ठ्या चोभय-
श्रोक्तार्थलाभः । स विष्णुः 'परमोऽक्षरः' परा जडप्रकृतिः । ततः प-
रा चित्प्रकृतिः । ततः परमः तत उत्तमोऽक्षर इत्यर्थः । तत्त्वप्रदीपे तु-
'ज्ञानज्ञानः' नाज्ञानमिश्रज्ञानः 'सुखसुखो' न दुःखमिश्रितसुख इत्य-
र्थ उक्तः ॥ ११ ॥
॥ इति पत्युग्धिकरणम् ॥
१२. अधिकरणम्
( १ ) अधिकरणार्थं दर्शयति—शक्तीति ॥ असामञ्जस्यादिति पू-
र्वोक्तन्यायेन निरस्तमपि शक्तिपक्षं शक्तेः स्त्रिया एव जगदुत्पत्तिरि-
ति वदतां महावामनमध्यवामनाणुवामनभेदेन त्रिविधानां शाक्तानां
मतमसाधारणदोषाविष्कारेण पुनर्द्षयत्यस्मिन्नधिकरणे सूत्रकृदित्य-
र्थः । शक्तिरेव खलु सार्वज्ञ्यादिगुणशालिनी सकलजगज्जननी श्रुति-
स्मृतीतिहासपुराणेषु पठ्यते । ततो न हरेर्जगत्कारणत्वं लक्षणं युक्त-
मितिप्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—उत्पत्तीति । न हीत्या-
दिना सूत्रे अनुषङ्गहेत्वध्याहाराभ्यां न शक्तेः केवलाया अगत्कर्तृत्वं
युक्तं । केवलायास्तस्या जगत्कर्तृत्वासम्भवात् । कुतः ? पुरुषाननु-
गृहीतत्वादिति सूत्रार्थो दर्शितः । अत्राप्रयोजकतामाशङ्क्य विपक्षे
क्वचिदप्यनुपलम्भबाधोक्त्या साऽपि परिहृता ॥
[ अधि - १२. सू - ४५. ] दीपिकासहितम्. ५२१
( २ ) सू—ॐ ॥ न च कर्तुः करणम् ॥ ॐ ॥ ४३ ॥
यदि पुरुषोऽङ्गीक्रियते तस्यापि करणाभावादनुपपत्तिः ॥४३॥
( ३ ) सू—ॐ ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ॐ ॥ ४४ ॥
यदि विज्ञानादिकरणं तस्याङ्गीक्रियते तदा तत एव
सृष्ट्याद्युपपत्तेरीश्वरादान्तर्भावः ॥ ४४ ॥
( ४ ) सू—ॐ ॥ विप्रतिषेधाच्च ॥ ॐ ॥ ४५ ॥
( २ ) ननु हेतुरसिद्धः । यतोऽस्त्येव शक्त्यनुग्राहकः पुरुषः सदा
शिवः अतस्तस्याः जगदुत्पत्तियुक्तेति वदतां मध्यमवामनानां मतं नि
राकुर्वत्सूत्रमुपन्यस्य व्याचष्टे-न चेति ॥ यद्यपीति सम्बन्धः । तत ए
वं तथापीति लभ्यते । अङ्गीक्रियते कैश्चिच्छाक्तेयैः । 'तस्य' शक्त्यनुग्रह
कर्तुः पुरुषस्य। करणाभावादिति। उत्पत्त्युपयोगिज्ञानादेस्तत्साधनेन्द्रि
यादेस्तत्कारणशरीरस्य चाभावादित्यर्थः । प्रकृतस्योत्पत्त्यसम्भवस्ये
ह साध्यत्वेनान्वय इत्याशयेन अनुपपत्तिरित्युक्तम् । सावधारणमेत
त् । तथा च पुरुषानुगृहीतशक्तेरपि जगदुत्पत्त्यसम्भव एवेत्यर्थः । अ
नेन सौत्रश्चशब्दो यत इत्यर्थे अवधारणे चेत्यभिप्रेति ॥
( ३ ) ननु शक्त्यनुग्राहकपुरुषाभावात् तस्याः जगदुत्पत्तियुक्तेत्ये
व नोच्यते, किन्तु तस्य पुंसः सार्वज्ञ्यादेरपि सद्भावेन युक्ततरा शक्तेर्ज
गदुत्पत्तिरितीत्यङ्गीकुर्वतामणुवामनानां मतान्निरासाय सूत्रमुपन्यस्य
व्याचष्टे—विज्ञानादीति ॥ आदिपदेनोत्पत्त्युपयोगिशरीरेन्द्रियादिग्रह
णम् । ' करणं ' तत्सत्त्वम् । ' तस्य ' शक्त्यनुग्रहकर्तुरिति । अनेन
सूत्रे कर्तुरित्यस्यानुवृत्तिः सूचिता । अङ्गीकार इत्यनेन सत्त्वार्थकभा
वपदमङ्गीकारोपलक्षकमित्युक्तं भवति । ' अत एव ' यदितदेत्युक्ते
तत एव शक्त्यनुग्रहकर्तुः शिवादेः कर्त्रन्तरमनपेक्ष्यैव ' सृष्ट्याद्युपप
त्तेः ' जगदुत्पत्त्यादिसम्भवात् इति भावकथनं, ' तदेश्वरवादान्तर्भा
वः ' शक्तिमतस्य पाशुपतमतैक्यं स्यादिति।अनेन 'तदप्रतिषेधः' तेन
शाक्तेयेन तस्य पाशुपतमतस्याप्रतिषेधः कृतः स्यात् । तेन तदनुमत
मेव स्यात् । तच्च निरस्तमेवेति पुनस्तदप्रतिषेधो नास्माभिस्तत्प्रति
षेधः कार्य इत्यावृत्त्या तदप्रतिषेध इत्यंशो व्याख्यातः । सूत्रे वाशब्दो
मतान्तरत्वद्योतकः ॥
( ४ ) एवं शाक्तेयमतत्रयं पृथङ्निराकृत्य समुदितदूषणेनापि प
राकुर्वत्सूत्रमुपन्यस्य व्याचष्टे-विप्रतिषेधाच्चेति ॥ आदिशब्देन स्मृत्या
५२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पां - २. ]
सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसम् ॥ ४५ ॥
—: ✡ :—
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये द्वितीयस्याध्यायस्य
द्वितीयः पादः.
— ☼ —
॥ ॐ ॥
—
दिपरिग्रहः । विरुद्धत्वादित्यनेन विप्रतिषेधशब्दो व्याख्यातः । च शब्दः
पूर्वोक्तप्रत्येकहेतुसमुच्चये । श्रुतयः 'नर्ते' 'एको नारायणः' ( महाना. )
इत्याद्याः । स्मृतयः 'स एव' इत्याद्याः । चशब्दः पूर्वोक्तप्रत्येकहेतुस
मुच्चये । शिष्टजनैर्जिगुप्सितत्वाच्चेत्यनुभाष्योक्तयुक्तिसमुच्चये च । 'अ
समञ्जसं ' अयुक्तमिति । एतद्विप्रतिषेधसूत्रादनुषक्तं पदम् । शक्तिक
र्तृत्वमतमिति शेषः ॥ १२ ॥
इति उत्पत्त्यधिकरणम् ॥
—: ❇ :—
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्र संवतन्त्रसंवतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि
कायां द्वितीयाध्यायस्य द्वितीयः पादः
❖
॥ ॐ ॥
—
[ अधि - १. सू - १० ] दीपिकासहितम्. ५२७
१. अधिकरणम् ॥
( १ ) जीवपरमात्माधिभूताधिदैवेषु श्रुतीनां परस्परविरोध-
मपाकरोत्यनेन पादेन—
१. अधिकरणम् ॥
( १ ) एतत्पादार्थं दर्शयति—जीवेति ॥ अव्ययीभावगर्भतत्पुरुष-
गर्भद्वन्द्वसमासोऽयम् । तथा च जीवश्च परमात्मा च अधिभूतं च अ-
धिदैवं च तानि तथोक्तानि, तेषु तदुत्पत्तिविषये श्रुतीनामन्योन्यवि-
रोधं अनेन तृतीयपादेन निराकरोति सूत्रकृदित्यर्थः । अध्यात्मविषय-
श्रुतिविरोधपरिहारस्तु जिज्ञासोरध्यात्मविषयविचारस्यान्तिमत्वाच्च-
तुर्थपादे करिष्यतीति भावः । यद्यपि अस्मिन् पादे प्रथममेकैकस्मिन्न-
धिकरणे एकैकाधिभूतविचारस्यानन्तरं 'असम्भवस्तु, नात्माऽश्रुतेः'
इत्यधिकरणद्वये परमात्मविचारस्य, अथ 'ज्ञोऽत एव' इत्यारभ्य आ-
पादपरिसमाप्तेर्जीवविचारस्य च करणात्तदनुसारेणाधिभूताधिदैवप-
रमात्मजीवेष्विति निर्देष्टव्यम् । तथाऽपि जीवविचारस्य बाहुल्यात्त-
द्विवक्षया क्रमोल्लङ्घनम् । यद्यप्यत्र पादे अधिदैवश्रुतिविरोधपरिहारः
पृथङ्न क्रियते । तथाऽपि भूतविचारपराण्येव सूत्राण्यधिदैवपराणि
इत्याशयेनैवमुक्तम् । 'एतेन' इत्यधिदैवविचारोऽपि कृतः । अ-
धिभूतं नाम भूतमधिकृत्य वर्तमानम् । अधिकर्त्तव्यप्रधाने अधिकरणे
अधिशब्दः । सकार्यकारणभूतानि तच्च भूतं भूतकार्यं ब्रह्माण्डादिकं
तत्कारणमव्यक्तादिकं तदेकदेशश्च भवति । उक्तं च सुधायाम्-अधि-
भूतानि कार्यकारणोपेतानि वियदादिभूतानीति । उक्तं च न्यायविवर-
णटीकायाम्—अधिभूतादिशब्दैः आकाशादीन्युच्यन्ते । समुदायैकदे-
शाश्रयेणाधिकरणाधिकर्त्तव्यतोपपत्तेरिति । तत्त्वप्रदीपकृदाह—अधि-
भूतेषु महाभूतेषु आकाशादिषु 'इमानि पञ्चभूतानि पृथिवीवाय्वाक-
शापोज्योतींषि' (ऐ. ३ - ३.) इति श्रुतिः । अथवा—अधिभूतेष्विति
भूततत्सम्बन्धिविवक्षयेति । अधिभूताभिमानिदेवता अधिदैवतम् । अ-
धिगतं च तत् दैवतं चेति विग्रहः । तदुक्तं तत्त्वप्रदीपसुधयोः—अधि-
दैवेष्विति तदभिमानितत्सम्बन्धिविवक्षयेति। अधिदैवानि अव्यक्ताभि-
मानिदेवता इति च । एवमधिभूतशब्द इव अध्यात्मशब्देऽपि आत्मान-
न्देहं जीवं च अधिकृत्यवर्तमानं अध्यात्ममिति विग्रहो ज्ञातव्यः ॥
५२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
( २ ) सू—ॐ ॥ न वियदश्रुतेः ॥ ॐ ॥ १ ॥
न वियदनुत्पत्तिमत्, तथाऽश्रुतेः ॥ १ ॥
( ३ ) सू—ॐ ॥ अस्ति तु ॥ ॐ ॥ २ ॥
अस्त्येव चोत्पत्तिश्रुतिः, 'आत्मन आकाशस्सम्भूतः'
( तै. २-१० ) इत्यादि ॥ २ ॥
( ४ ) सू—ॐ ॥ गौण्यसम्भवात् ॥ ॐ ॥ ३ ॥
( २ ) न वियदित्यंशविवरणेनैव विषयपूर्वपक्षादिः सूचितो भव-
तीत्याशयेन तमप्रदर्श्य सिद्धान्तयतसूत्रमेवोपन्यस्यति—नेति ॥ अत्र
'उत्पत्त्यसम्भवात्' इति सूत्रप्रकृतानुत्पत्तिबोधकानुत्पत्तिमदितिपदम-
नुवर्त्य न वियदिति प्रतिज्ञाभागं व्याचष्टे—नेति । अत्र वियत्पदेन भू-
ताव्याकृताकाशौ तदभिमानिदैवतं चोच्यते । सुधाटीकोक्तरीत्या प्रकृ-
तिजीवकालमहदहङ्कारादेः उपलक्षकमेतत् । तत्त्वप्रदीपे तु वियदिति
विशेषव्याप्तिमत्त्वादहङ्कारादिकमप्युच्यत इत्युक्तम् । तन्नोच्यत इत्य-
स्य प्रतिपाद्यत इत्यर्थाश्रयणान्न विरोधः । कुतो नेत्यतस्तथाशब्दाध्या-
हारेण अश्रुतेरिति हेत्वंशं व्याचष्टे—तथेति । ' तथा ' तत्रानुत्पत्तौ श्रु-
त्यभावादित्यर्थः ॥
( ३ ) ननु न वियत् उत्पत्त्यभावे प्रमाणं नियमेन वक्तव्यम्, उत्प-
त्तौ प्रमाणाभावेनैव तत्सिद्धेः । न हि घटे प्रमाणाभावे पुनः प्रमाणापे-
क्षा स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—अस्तीति ॥ एवे-
ति तुशब्दार्थ उक्तः । चेति तुशब्दस्य न केवलं तथाऽश्रुतेः, किन्तु य-
त उत्पत्तौ श्रुतिरस्त्येव चेति समुच्चयरूपार्थान्तरं यत इत्यर्थत्वं चाह।
यथोक्तं तत्त्वप्रदीपे—न केवलमनुत्पत्तिर्न श्रूयते, किन्तु ' अस्ति तु '
अस्त्येव चोत्पत्तिवादिनी श्रुतिरिति । इत्यादिश्रुतिरित्यान्वयः । आदि-
शब्देन ' एतस्माज्जायते .... खं वायुः ' ( मु. २-१-३. ) ' नाभ्या आसी-
दन्तरिक्षम् ' ( तै. आ. ३-१३. ) ' सन्देहो बहुलः ' ( छा. ५-१८-२. )
इत्यादिकं गृह्यते ॥
( ४ ) ननु न वियतोऽनया श्रुत्योत्पत्तिः साधयितुं शक्या । ' अना-
दिर्वा ' इत्यादिस्वाभिधायकश्रुतिविरोधादित्याशङ्कां परिहरत्सूत्रमुप-
न्यस्य व्याचष्टे—गौणीति ॥ इत्यादीति । एवमादिरूपे वाक्ये अनादि-
त्वश्रुतिः तद्बोधकशब्दो 'गौणी' भूते छत्रिवल्लाक्षणिकी । आकाशश-
ब्दार्थैकदेशानादित्वपरा । एकदेशानित्यत्वगुणयोग इति तत्त्वप्रदीपो
[ अधि - १ ० - सू - ३ ० ] दीपिकासहितम् ० ५२९
'शून्योऽलौकिकः' इत्यादिश्रुतिर्गौणी ।
(५) अन्यथोत्पत्तिश्रुतिबाहुल्यासम्भवात् ॥ ३ ॥
र्कैः । चिरंतनत्वमात्रेण गौणी वेत्यर्थः । यद्वा—'इत्यादिश्रुतिर्गौणी'
अमुख्यपदोपेतेत्यर्थः । तद्यथाकरीत्याऽनादिपदमाकाशपदं वा । तस्या
पि भूतेतरस्मिन्नाकाशशब्दबोध्ये लाक्षणिकत्वसम्भवादिति भावः ।
इत्यादिश्रुतिरित्यनेन सूत्रेऽनुत्पत्तिश्रुतिरिति प्रकृतमनुपद्यते इति सू
चितम् । उपलक्षणमेतत् । उत्पत्तिश्रुतिस्तु मुख्यार्था सर्वविषयिणीत्य
पि द्रष्टव्यम् । गौणीत्यनन्तरं यत एवं व्यवस्था युज्यते, अतो नोक्तश्रु
तेस्तद्विरोध इति वाक्यशेषः । श्रुतौ अयमित्यव्याकृताकाशो ग्राह्यः ।
भूते कथमप्यवृत्तेरिति टीकाविरोधान् न भूताकाशोऽपि । आकाशा
नादित्वे हेतुमाह—यतः 'शून्यः' सूक्ष्मः अप्रतिघ इति । सूक्ष्मत्वं वा
योरप्यस्तीति व्यभिचार इत्यतो हेतुगर्भं विशेषणान्तरमाह—अलौ
किक इति । अतीन्द्रिय इत्यर्थः । नन्वव्याकृतस्य साक्षिवेद्यत्वात्कथमे
तत् । न, तत्त्वप्रदीपेरीत्यास्य लौकिकप्राकृतेन्द्रियागम्य इत्यर्थाश्रयणा
त् । ननु तथाऽपि व्यभिचारानुद्धारः, 'आकाशवायू त्वव्यक्तौ' इति भा
गवततात्पर्योक्तेः, तस्य प्रत्यक्षाप्रत्यक्षपञ्चमहाभूतविषयत्वादिति सु
धोधेश्च वायोरप्यतीन्द्रियत्वादिति चेत्—न, भूताकाशस्य दिव्यदृष्टि
गोचरत्वेन तद्विषयेऽव्यक्तशब्दस्य सङ्कोचेऽवश्यंभाविनि तद्वत् वायो
रपि स्पार्शनेन्द्रियग्राह्यत्वमङ्गीकृत्य अव्यक्तशब्दस्येतरेन्द्रियाग्राह्यार्थक
तया सङ्कोचसम्भवात् । अत एव सुधावाक्यस्थाप्रत्यक्षपदमपि भूता
काशमात्रपरं । न च पङ्क्तौ 'वायुस्पर्शाऽपि त्वचो विषयः' इति
वायुस्पर्शमात्रग्रहणविरोधः । वायुस्तत्स्पर्शोऽपीत्यर्थाश्रयणात् । अ
स्तु वा—तात्पर्यसुधानुसाराद्वायोरतीन्द्रियत्वम् । तथाऽपि न व्यभि
चारः । भूताकाशवत् वायोरपि योगिचाक्षुषप्रत्यक्षविषयत्वेन प्राकृते
न्द्रियग्राह्यतया तदग्राह्यत्वहेतोस्तत्राभावात् ॥
(५) ननु किमेतया व्यवस्थया, अनादित्वश्रुत्यनुसारेणानुत्पत्ति
रेव किं नाश्रीयत इत्यतः प्रवृत्तमसम्भवादित्यंशं व्याचष्टे—अन्यथेति ॥
उक्तव्यवस्थामनभ्युपगम्याकाशस्य सर्वथाऽनुत्पत्तेरेवाभ्युपगमे 'उत्प
त्तिश्रुत्यसम्भवात्' तत्प्रामाण्यासम्भवात्तदप्रामाण्यप्रसङ्गादित्यर्थः ।
विषयाभावादिति भावः । ननूत्पत्तिश्रुतेरनुभवाद्यनुसारिबलवदनादि
त्वश्रुतिविरोधेनाप्रामाण्यं युक्तमिति नेदमनिष्टमित्याशङ्कोत्तरत्वेनापि
६७
५३० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
( ६ ) सू—ॐ ॥ शब्दाच्च ॥ ॐ ॥ ४ ॥
'अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इति ।
अथ यान्यनित्यानि प्राणः श्रद्धा भूतानि भौतिकानी
प्रवृत्तमसम्भवादित्येतत बाहुल्यासम्भवपरतयाऽपि व्याचष्टे—अन्य
थेति ॥ अनादित्वश्रुतिविरोधेनोत्पत्तिश्रुतेरप्रामाण्याङ्गीकारे 'आत्मन
आकाशस्सम्भूतः' इत्युत्पत्तिश्रुतेर्बहुविषयत्वरूपबाहुल्येन प्रबलत्वात
दसम्भवप्रसङ्गादित्यर्थः । बाहुल्यस्य प्राबल्यहेतुतया उत्पत्तिश्रुतेरपि
बलवत्त्वेन अप्रामाण्यस्य वक्तुमशक्यतया श्रुतिद्वयप्रामाण्याय उक्त
व्यवस्थाया एव आश्रयणीयत्वादिति भावः । यद्वा—नन्वनादित्वश्रु
तिर्मुख्या , उत्पत्तिश्रुतिस्तु गौणीति वैपरीत्यं किं न स्यादित्याशङ्क्यो
त्तरत्वेनापि प्रवृत्तं असम्भवादित्येतद्बाहुल्यासम्भवपरतया व्याचष्टे-
अन्यथेति । उत्पत्तिश्रुतेरेवैकदेशविषयत्वरूपगौणार्थानभ्युपगमे तस्या
बहुविषयत्वरूपबाहुल्यासम्भवप्रसङ्गादित्यर्थः । अयं भावः—उत्प
त्तिवाक्यस्थाकाशशब्देन हि आकाशाख्यभूतं तदभिमानी विनायकः
अव्याकृताकाशं तदभिमानिचित्प्रकृतिश्चेति चत्वारो वाच्याः । उत्प
त्तिरपि अभूत्वाभवनरूपा देहसम्बन्धरूपा पराधीनविशेषावाप्तिरूपा
चेति त्रिधा । तत्राद्या भूताकाशे । द्वितीया तदभिमानिनि । तृतीया
मूर्तद्रव्यसम्बन्धरूपपराधीनविशेषवत्यव्याकृताकाशे , तदभिमानि
चित्प्रकृतौ चास्ति । तथा चोत्पत्ति श्रुतेर्बहुविषयत्वम्, अनुत्पत्तिश्रुते
स्त्ववकाशमात्रविषयत्वेनाल्पविषयत्वं सिद्धम् । एवं चोत्पत्तिश्रुतेरेव
गौणार्थत्वे एकदेशविषयत्वापत्त्या बहुविषयत्वासम्भवप्रसङ्गाद्बह्वनुग्र
हायानुत्पत्तिश्रुतेरेव गौणत्वं अङ्गीकृत्योत्पत्तिश्रुतेर्मुख्यार्थताऽङ्गीकार्य्ये
त्युक्तव्यवस्थैव युक्ता, न वैपरीत्यमिति ॥
( ६ ) न केवलमुक्तव्यवस्थाऽसम्भवयुक्तिसिद्धा, अपि तु श्रुतिसि
द्धा चेत्यर्थप्रतिपादकं सूत्रमुपन्यस्य तां श्रुतिमुदाहरति-शब्दाच्चेति॥
भाल्लवेयश्रुतेश्चेत्यस्य अनुत्पत्तिश्रुतिर्गौणीति व्यवस्था सिद्धेति पूर्वेणा
न्वयः । न केवलमसम्भवयुक्तेरिति चशब्दार्थः । श्रुतौ अथेति प्रमेया
न्तरारम्भे । वावेति निपातौ प्रसिद्धौ । हेत्यास्वादने । हवावेति नि
पातसमुदायो वा प्रसिद्धौ । यानीत्युभयत्र सम्बध्यते । तथा च यानि
पुरुषादीनि तानि नित्यानि, यानि च प्राणादीनि प्रसिद्धानि तान्यनि
त्यानीति प्रतिज्ञाद्वयस्यार्थः । इत्येतानीति इतिशब्दद्वयस्यान्वयः । 'पु
[ अधि - १०. सू - ४. ] दीपिकासहितम्. ५३१
ति । यानि ह वाव उत्पत्तिमन्ति तान्यनित्यानि । या-
नि ह वा अनुत्पत्तिमन्ति तानि नित्यानि, न ह्येतानि
कदाचनोत्पद्यन्ते न विलीयन्ते पुरुषः प्रकृतिरात्मा का-
रूपो' जीवचैतन्यं तदभिमानी ब्रह्मा च । 'प्रकृतिः' सत्त्वादिगुणात्म-
कं जडं तदभिमानिनी श्रीभूदुर्गात्मिका लक्ष्मीश्च । तत्र लक्ष्म्याः न
स्वरूपदेहयोरुत्पत्तिः, नापि प्रधानवत्परिणामेनेति नित्यं सत्त्वेन नि-
त्यत्वमुच्यते । 'आत्मा' परमात्मा । 'कालः' तत्प्रवाहस्तदभिमानी
प्रकृतिश्च । 'प्राणो' मुख्यवायुः । 'श्रद्धा' तत्पत्नी भारती । 'भूता-
नि' आकाशादीनि । 'भौतिकानि' भूतकार्याणि शरीरादीनि । यद्य-
पि सकलचैतन्यग्राहकपुरुषपदेनैव प्राणश्रद्धयोर्नित्यवर्गे गृहीतत्वात्
तदुपकरणभूतयोस्त
त इति । अथैतान्युत्पत्तिमन्ति च अनुत्पत्तिमन्ति च
प्राणः श्रद्धाऽऽकाश इति भागशो ह्युत्पद्यन्ते' इतिभाल्ल-
वेयश्रुतेश्च ॥ ४ ॥
( ७) सू—ॐ ॥ स्याच्चैकस्य ब्रह्मशब्दवत् ॥ ॐ ॥ ५ ॥
स्यादेवैकस्योत्पत्तिमत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्य-
त्वापेक्षया ।
केषु नञ्परित्यागेनोपनयनिगमने द्रष्टव्ये । अनित्यत्वेन गृहीतेषु प्रा-
णादिषु मध्ये न सर्वेषामनित्यत्वमेव मन्तव्य म्, किन्तु केषु चिन्नित्यत्व-
मपीत्याह—अथेति । अर्थान्तरवचनोऽयम् । चावन्वोन्यसमुच्चये ।
इत्येतानीत्यन्वयः । तस्मान्नित्यानीति शेषः । तत्रोपपत्तिमाह—भाग-
श इति । बहुभागैरुत्पद्यन्ते कैश्चिन्नोत्पद्यन्त इत्यर्थः । तथा च 'हि'
यस्मात्प्राणादीनि भागश उत्पद्यन्ते , भागशस्तु न, अथ तस्मादुत्प-
त्तिमन्ति चानुत्पत्तिमन्ति च तस्मान्नित्यानित्यानीति योजना । तथा-
हि-प्राणपदोक्तो भूततदमुख्यमुख्याभिमानिरूपत्रित्यात्मको वायुस्त्रि-
भिरपि भागैरुत्पद्यते । एवं श्रद्धापदोक्ता भारती च । एवमाकाश-
पदोक्तं भूतमव्याकृतं तदभिमानिद्वयं च । आहत्य चतुष्टयं चतुर्भि-
रपि भागैरुत्पद्यते उक्ताया उत्पत्तेश्च त्रिष्वपि सत्त्वात् । एतान्येवाभि-
मानिचैतन्यस्वरूपेणावकाशस्वरूपेण भूतसूक्ष्मरूपेण च नोत्पद्यन्ते इ-
ति । अनेन यानि प्राणः श्रद्धा आकाशाख्यभूतं चेत्येतानि, तानि नि-
त्यानित्यानीति प्रतिज्ञान्तरम् । तत्र स्यादनादित्वादितिहेतुः तदनुसार्यु-
दाहरणोपनयनिगमनानि चोपलक्षणयाऽनेन दर्शितानीति ज्ञातव्यम् ॥
( ७) ननु भवेदाकाशस्य गौणमनादित्वं उत्पत्तिस्तु मुख्यत इति
व्यवस्था, यद्यनादित्वश्रुतिर्गौणी भवेत्, नैतदस्ति, 'न जायते म्रियते
वा कदाचिन्नाऽयं भूत्वा भविता वा न भूयः' ( भ.गी-२. ) इत्यादौ न
जायत इत्यनुत्पत्तिमत्त्वाभिधायकशब्दस्य परमात्मनि मुख्यत्वदर्शनेन
तदेकार्थानादित्वश्रुतेरपि तथात्वौचित्यात् । यद्यप्ययं मन्त्रो गीताभा-
ष्ये जीवपरत्वेन व्याख्यातः । तथाऽपि तत्र परमात्मप्रतिबिम्बत्वेनैव त-
च्छब्दप्रवृत्तिर्मुख्यतो भगवत्येवायं शब्द इत्यस्ति चोद्यावकाशः । ' अ-
यं ना ' परमपुरुषो न जायते इति गीतातत्पर्ये परमात्मपरत्वेनापि
व्याख्यानाच्चेत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—स्यादिति ॥ ए
[ अधि - १० - सू - ६ . ] दीपिकासहितम्. ५३३
( ८ ) यथा ब्रह्मशब्दः । ' अथ कस्मादुच्यते परं ब्रह्मेति . .
बृहति बृंहयति च ' (अथर्वशिरः ) इति श्रुतेः । परे
ब्रह्मणि मुख्योऽपि गौणत्वेन विरिञ्चादिष्वपि वर्तते ।
अत एवाब्रह्मत्वं च तेषाम् । एवमन्यत्राप्यनुत्पत्तिम
च्छब्दः ॥ ५ ॥
( ९ ) सू—ॐ ॥ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ ॐ ॥ ६ ॥
वकारो भिन्नक्रमः , चकारार्थोऽयम् । इदं चैकस्यैवाकाशस्य उत्पत्ति
मत्त्वमनुत्पत्तिमत्त्वं च गौणमुख्यत्वापेक्षया स्यात् । भावरूपत्वात्क्रम
व्यत्यासः । उत्पत्तिमत्त्वं मुख्यं अनुत्पत्तिमत्त्वं गौणमित्युभयमविरुद्धं
स्यात् । कुतः ? यत एकस्यैवानुत्पत्तिमच्छब्दस्य ब्रह्मणि मुख्यत्वेऽ
प्याकाशे गौणत्वमिति गौणमुख्यत्वापेक्षया प्रवृत्तिः स्यात् अत इत्या
वृत्त्या योज्यम् ॥
( ८ ) अत्र सूत्रकृदुक्तं दृष्टान्तं विवृणोति—यथेति ॥ आद्योऽपिर्य
द्यपितथापीत्यर्थे । द्वितीयस्समुच्चये । ब्रह्मशब्दः परे ब्रह्मणि कुतो
मुख्य इत्यत उक्तम्—अथेति । इति श्रुतेर्मुख्यत्वेनावगतोऽपीत्यन्वयः ।
'गौणत्वेन' अमुख्यत्वेन परममुख्यान्यवृत्त्येति यावत् । ब्रह्मशब्दो वि
रिञ्चादिष्वमुख्यतः कुतोऽस्तीत्यत उक्तम्—अत एवेति । ब्रह्मशब्दस्य
तत्रामुख्यत्वादेव 'तेषां' विरिञ्चादीनां 'अब्रह्मत्वं' अपूर्णत्वं मुख्यम
स्तीत्यर्थः । न केवलं गौणं ब्रह्मत्वमिति चकारार्थः । हिशब्दार्थो वा
चशब्दः । एवकारो मुख्यत्वस्य व्यापकतासूचकः । अनेन विरिञ्चादी
नाममुख्यब्रह्मशब्दार्थत्वे पूर्णत्वादिति व्यतिरेकी हेतुः सूचितः । अथे
ति प्रश्नार्थः । परं वस्तु ब्रह्मेति कस्मान्निमित्तादुच्यत इति । बृहति बृं
हयतीत्युत्तरम् । स्वयं वर्धते पूर्णं भवति, यथायोग्यं वर्धयति, पूरय
ति चान्यान् तस्मात् प्रवृत्तिनिमित्तसद्भावाद्ब्रह्मेत्युच्यत इति श्रुत्यर्थः ।
आथर्वणीयं श्रुतिः । ब्रह्मशब्दवदित्यनेन लब्धं दार्ष्टान्तिकमाह—एव
मिति । 'अन्यत्र' विष्णोः आकाशे । अपिः समुच्चये । 'अनुत्पत्तिम
च्छब्दः' तत्प्रतिपादको न जायतेऽनादिरित्यादिरूपः गौणत्वेन वर्तत
इति शेषः ॥
( ९ ) ननु युक्तं ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वमन्यत्रामुख्यत्वम्,
गुणपूर्णत्वरूपशब्दप्रवृत्तिनिमित्तसद्भावासद्भावस्य कारणसद्भावात् । न
!
Wait, does it have a second vertical stem? No!
Wait, could it be तद्वाचिनुत्पत्तिमत्? No, it's च्य.
Wait, why तद्वाच्यनुत्पत्तिमच्छब्द?
Wait, could it be:
"मुख्यतस्तद्वाचिनि"? No, it's नुत्पत्तिमच्छब्द.
Wait, look at line 7: च तथाऽनुत्पत्तिमच्छब्दे वक्तुं शक्यम्
Line 10: मुख्यतस्तद्वाच्यानुत्पत्तिमच्छब्द or तद्वाच्यनुत्पत्तिमच्छब्द?
Wait, look at तद्वाच्यनु: is there a sandhi or compound? In manuscripts/prints, sometimes hiatus or a typo drops the ा, or is it तद्वाच्यनुत्पत्तिमच्छब्द?
Wait, let's look at च्या: look closely at च्य:
Wait, is the loop च?
Wait, between द्वा and नु, what are the glyphs?
च with य: wait, look at च्या: is there another vertical line? No, just one.
So it reads तद्वाच्यनुत्पत्तिमच्छब्दवाच्यत्वेऽङ्गीकृते.
Let's check line 11:
`सति। अनेन सूत्रे पूर्ववाद्युक्त
[अधि - १. सू - ७. ] दीपिकासहितम्. ५३५
२-१०.) 'इदं वा अग्रे नैव किञ्चनासीत्' (तै. ब्रा. २-२-
९.) इत्यादिश्रुतिभ्यः ॥ ६ ॥
( ११ ) सू— ॐ ॥ यावद्विकारं तु विभागो लोकवत् ॥ ॐ ॥ ७ ॥
कं सर्वं जगदपेक्ष्य ततगुणत्वात् 'आत्मा' विष्णुरेव 'अग्रः' अ
ग्रथो गुणतोऽधिक आसीदिति व्याख्यातम् । तथाऽपीदं बृहद्भाष्यदि
शा टीकोक्तं व्याख्यानान्तरमित्यदोषः । 'सदेवेत्याद्यद्वितीयम्' इतन्तं
छान्दोगवाक्यम् । सोम्येति श्वेतकेतुसम्बोधनं 'इदमस्य' जगतो अ
ग्रे 'सत्' ब्रह्मैव स्वातन्त्र्येणासीत् । तद्ब्रह्म च 'एकं' स्वसजातीय
मत्स्यादिभिर्भेदशून्यम् । 'एव' स्वगतगुणक्रियावयवादिभिरभिन्नं न
तु तैर्भिन्नम् । यद्वा-अवयवादिनाऽप्यभिन्नमेव न तु घटादिवत्स्वावयवै
र्भिन्नाभिन्नमित्येवशब्दार्थः । 'अद्वितीयं' समशून्यं अधिकशून्यत्वमां
र्थिकार्थः । 'इदं वा अग्रे' इत्यध्वर्यूणां श्रुतिः । इयं च—
सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च ।
कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् ॥
संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लय्ये त्वभूत् ॥
इति बृहद्भाष्योदाहृतब्रह्मतर्कवचनानुसारेण 'इदं' अस्य 'अग्रे' प्र
लये 'किञ्चन' विष्णुरमादिभ्योऽन्यो नैवासीदिति व्याख्येया । इत्या
दिश्रुतिभ्य इत्यस्यानुत्पत्तिमच्छब्दो ऽन्यत्रामुख्यो ब्रह्मणि तु मुख्य इ
त्यवसीयत इति पूर्वेणान्वयः । तथा चाकाशब्रह्मणोः 'आत्मा' इत्या
दिश्रुतिभिः स्पष्टमेव सादित्वानादित्वप्रतीतेस्ता एव तयोरनुत्पत्तिम
च्छब्दमुख्यत्वामुख्यत्वयोः कारणमिति तदनुपलम्भोऽसिद्ध इति भा
वः । बहुवचनाद्बहुश्रुतिविरोधे च एकस्यानुत्पत्तिमच्छब्दस्यामुख्यार्थं
त्वं न्याय्यमिति न्यायं सूचयति—यद्यप्युदाहृतवाक्येष्वपि ब्रह्मणोऽ
नादित्वस्य तदन्यस्य च कतिपयस्यानादित्वाभावस्य च प्रतीतावपि
न स्पष्टमाकाशस्योत्पत्तिः प्रतीयते । तथाऽप्यादिशब्दगृहीतेषु तदुक्त
रपूर्वभाविषु 'स इमान् लोकानसृजत' (ऐ. १ - १०) इत्यादिषु सा
प्रतीयत इति नानुपपत्तिरिति ध्येयम् । न च गौण्यसम्भवादित्यनेनेदं
पुनरुक्तं, श्रुतिनिरूपितबाहुल्यासम्भवस्यापि असम्भवपदेनोक्तत्वाद्वि
ति वाच्यम् । शब्देभ्य इत्यस्य पूर्वोक्तासम्भवसम्बन्धिबहुत्वाश्रयविव
रणरूपत्वेनापुनरुक्तेः । अत एव 'अस्ति तु' इत्यनेनापि न पुनरुक्तिः ॥
( ११ ) अनुमानेनापि ब्रह्मण एवानादित्वं, अन्येषां सादित्वमनुत्प
५३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ]
विभक्तत्वाच्च विकारित्वं युक्तम् ।
( १२ ) विकारिण एव हि विभक्ता लोके दृश्यन्ते ।
त्तिश्रुतेर्मुख्यामुख्यत्वसिद्ध्यर्थं साध्यसूत्रमुपन्यस्यति—यावदिति ॥
अत्र तुशब्दश्चार्थो हेताववधारणे च। तेन विकारस्य व्यापकता लक्ष्य
ते। यावच्छब्दोऽवधारणे। अत्र अवधारणमियत्तापरिच्छेदः। अव्ययीभा
वसमासश्चार्थे । विकारविभागशब्दौ कर्मणि घञन्तौ। लोकवदिति स
प्तम्यन्ताद्वतिरित्यभिप्रेत्य व्याप्त्यभिधानेन लब्धौ प्रतिज्ञाहेतू बहिरेव
दर्शयित्वा सूत्रं व्याप्तिप्रदर्शनपरतया व्याचष्टे-विभक्तत्वाच्चेति । विय
त इति विपरिणामेनेहानुवर्तते । चो हेतुसमुच्चये । तथा च न केवलं श
ब्देभ्यः, किन्तु वियतो 'विभक्तत्वात्' अल्पशक्तित्वानुमानाच्च 'वि
कारित्वं' उत्पत्तिमत्त्वमेव 'युक्तं' न्याय्यमित्यर्थः । चकारादविभक्त
त्वाद्विकारित्वं च ब्रह्मणो युक्तमिति समुच्चयोऽपि सूच्यते ॥
( १२ ) एवं प्रतिज्ञाहेतू अभिधाय हेतोरप्रयोजकत्वशङ्कामपाकर्तुं सू
त्रे यावद्विकारमिति सकलसाध्याश्रयार्पकांशेन साधनाश्नयार्पकेण
विभाग इत्यनेन च लोकवदिति दृष्टान्तोक्त्या च ज्ञापितां व्याप्तिं दर्श
यति—विकारिण एवेति ॥ घटादय इति शेषः । न त्वविकारिण इत्ये
वार्थः । बहुवचनेन यावत्पदतात्पर्यमुक्तम् । एवेत्यनेन विभक्तत्वहेतो
र्व्यतिरेकव्याप्तिश्च दर्शिता । तेन विकारित्वसाध्येन व्यभिचाराभावो
ज्ञापितः । एवकारस्य विभक्ता एवेति भिन्नक्रमेणान्वये समव्याप्तिर
प्यनेन उक्ता । तेन ब्रह्मण्यविकारित्वे साध्ये तद्व्यतिरेकस्याविभक्त
त्वाभावरूपविभक्तत्वव्याप्यता सिद्ध्यति । हिशब्दोऽस्यार्थस्य प्रमाण
प्रसिद्धतामाह। यद्वा—सौत्रतुशब्दो हेतावपीत्याशयेन हिशब्दप्रयोगः।
'लोके' जगति । तस्माद्विभक्तत्वहेतोर्नाप्रयोजकताशङ्केति वाक्यशे
षः। अनेन वियद्विकृतमुत्पत्तिमत् विभक्तत्वात् घटवत् , ब्रह्मानुत्प
त्तिमत्, अविभक्तत्वात्, व्यतिरेकेण घटवत्, इत्यनुमानद्वयमुक्तं भव
ति । सूत्रार्थस्तु—'लोकवत्' यथा लोके जगति 'यावद्विकारं' वि
क्रियमाणं यावद्वस्तु घटादिकं तत्सर्वमेव 'विभागः' अल्पशक्तिमत्
दृष्टम्, यद्यद्विभक्तं तत्तद्विकृतं दृष्टम्, यथा लोके घटादीति । यावदि
ति । एवं यावद्विभागं तु विकारो 'लोकवत्' यथा लोके इत्यपि व्या
ख्येयम् । यस्मादेवं तस्माद्विभक्तत्वाच्च वियद्विकारो विकृतमुत्पत्तिम
त्, अविभक्तत्वात् ब्रह्माविकारीति च सिद्धमिति सूत्रशेषः ॥
[ अधि - १. सू - ७. ] दीपिकासहितम्. ५३७
( १३ ) एकोऽविभक्तः परमः प्ररुषो विष्णुरुच्यते ।
प्रकृतिः पुरुषः कालश्चय एते विभागतः ॥
( १४ ) चतुर्थस्तु महान् प्रोक्तः पञ्चमाऽहङ्कृतिर्मता ।
तद्विभागेन जायन्त आकाशाद्याः पृथक्पृथक् ॥
( १५ ) यो विभागी विकारः स सोऽविकारः परो हरिः ।
अविभागात्परानन्दो नित्यो नित्यगुणात्मकः ॥
( १३ ) सूत्रार्थे स्मृतिसम्मतिं चाह—एक इति ॥ यतो विष्णुरेक
एव परमपुरुषः । अतः स एक एवाविभक्त उच्यते । एतत्समर्थनाया
न्येषां विभक्तत्वमाह—प्रकृतिरिति । प्रकृतिः पुरुषः कालः इति । ए
तैः प्रान्नित्यत्वेन उत्तरत्र परनित्यत्वेन च गृहीतानां ग्रहणम् । तत्त्वप्र
दीपे तु प्रकृतिः पुरुषः काल इत्येतैः परनित्यभूताः श्रीभूदुर्गाः सत्त्वा
द्यात्मिकाः गृह्यन्त इत्युक्तम् । तत् नित्यस्याप्युपलक्षकं, श्रुत्यर्थनिर्णाय
कत्वात्स्मृतेः । श्रुतावक्रमेण निर्दिष्टानामपीह क्रमेण निर्देशः कृतः ।
तथा च प्रकृतिः पुरुषः काल इत्येते त्रयो 'विभागतो' विभागत्वेन
प्रोक्ता इत्यर्थः ॥
( १४ ) एवं विभक्तेषु त्रीन् तत्त्वदेवान् प्रदर्श्य तत्सृज्यं चतुर्थमा
ह—चतुर्थ इति ॥ 'महान्' महत्तत्त्वाभिमानी चतुर्मुखस्तु विभक्तेषु
'चतुर्थः प्रोक्तः' तत्त्वेन परिगणितः । 'अहंकृतिः' रुद्रस्तु 'पञ्चमा'
पञ्चमीत्वेन मता । अस्त्वेवं, ततः किमित्यत आह—तदिति । स चा
सौ विभागश्च स तथोक्तः । तथा च तेन विभक्तत्वरूपहेतुना आका
शाद्याः 'पृथक्पृथक्' प्रकृतिगुणेभ्यो महान्, ततो अहम्, तत आका
शः, आकाशाद्वायुः, वायोरग्निरिति परम्परया जायन्ते । न त्वेकस्मा
त्सर्वमित्यनुमीयत इत्यर्थः । आद्यशब्देन वाय्वादिकं गृह्यते ॥
( १५ ) विभक्तत्वेऽपि कुतो जन्मेति तत्राह—य इति ॥ 'यो विभा
गी' विभागवान् 'स विकारः' विकृत इत्यर्थः । इति व्याप्तेरिति शे
षः। ननु विष्णुरेक एवाविभाग इत्युक्तम्, समर्थितं च तत् । ततः कि
मित्यत उक्तम्—स इति । अविभक्तत्वेनोक्तो हरिः 'अविकारः' अना
दिनित्यः । कुतः? अविभागात् । न च द्वयमसम्भावितम् । यतः 'परः'
लोकविलक्षणः । न केवलं हरिरविभागादविकारीत्येतावन्मात्रम् , किं
तर्हि ? 'परानन्दः' पूर्णानन्दः स्वरूपतो देहतश्च नित्यः नित्यज्ञानादि
गुणश्च भवति । नन्वविभागादित्यसिद्धं, तथासति विष्णोः द्रव्यत्वा
६८