सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 572, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 572

[ अधि - १२. सू - ४५. ] दीपिकासहितम्. ५२१
( २ ) सू—ॐ ॥ न च कर्तुः करणम् ॥ ॐ ॥ ४३ ॥
यदि पुरुषोऽङ्गीक्रियते तस्यापि करणाभावादनुपपत्तिः ॥४३॥
( ३ ) सू—ॐ ॥ विज्ञानादिभावे वा तदप्रतिषेधः ॥ ॐ ॥ ४४ ॥
यदि विज्ञानादिकरणं तस्याङ्गीक्रियते तदा तत एव
सृष्ट्याद्युपपत्तेरीश्वरादान्तर्भावः ॥ ४४ ॥
( ४ ) सू—ॐ ॥ विप्रतिषेधाच्च ॥ ॐ ॥ ४५ ॥
( २ ) ननु हेतुरसिद्धः । यतोऽस्त्येव शक्त्यनुग्राहकः पुरुषः सदा
शिवः अतस्तस्याः जगदुत्पत्तियुक्तेति वदतां मध्यमवामनानां मतं नि
राकुर्वत्सूत्रमुपन्यस्य व्याचष्टे-न चेति ॥ यद्यपीति सम्बन्धः । तत ए
वं तथापीति लभ्यते । अङ्गीक्रियते कैश्चिच्छाक्तेयैः । 'तस्य' शक्त्यनुग्रह
कर्तुः पुरुषस्य। करणाभावादिति। उत्पत्त्युपयोगिज्ञानादेस्तत्साधनेन्द्रि
यादेस्तत्कारणशरीरस्य चाभावादित्यर्थः । प्रकृतस्योत्पत्त्यसम्भवस्ये
ह साध्यत्वेनान्वय इत्याशयेन अनुपपत्तिरित्युक्तम् । सावधारणमेत
त् । तथा च पुरुषानुगृहीतशक्तेरपि जगदुत्पत्त्यसम्भव एवेत्यर्थः । अ
नेन सौत्रश्चशब्दो यत इत्यर्थे अवधारणे चेत्यभिप्रेति ॥
( ३ ) ननु शक्त्यनुग्राहकपुरुषाभावात् तस्याः जगदुत्पत्तियुक्तेत्ये
व नोच्यते, किन्तु तस्य पुंसः सार्वज्ञ्यादेरपि सद्भावेन युक्ततरा शक्तेर्ज
गदुत्पत्तिरितीत्यङ्गीकुर्वतामणुवामनानां मतान्निरासाय सूत्रमुपन्यस्य
व्याचष्टे—विज्ञानादीति ॥ आदिपदेनोत्पत्त्युपयोगिशरीरेन्द्रियादिग्रह
णम् । ' करणं ' तत्सत्त्वम् । ' तस्य ' शक्त्यनुग्रहकर्तुरिति । अनेन
सूत्रे कर्तुरित्यस्यानुवृत्तिः सूचिता । अङ्गीकार इत्यनेन सत्त्वार्थकभा
वपदमङ्गीकारोपलक्षकमित्युक्तं भवति । ' अत एव ' यदितदेत्युक्ते
तत एव शक्त्यनुग्रहकर्तुः शिवादेः कर्त्रन्तरमनपेक्ष्यैव ' सृष्ट्याद्युपप
त्तेः ' जगदुत्पत्त्यादिसम्भवात् इति भावकथनं, ' तदेश्वरवादान्तर्भा
वः ' शक्तिमतस्य पाशुपतमतैक्यं स्यादिति।अनेन 'तदप्रतिषेधः' तेन
शाक्तेयेन तस्य पाशुपतमतस्याप्रतिषेधः कृतः स्यात् । तेन तदनुमत
मेव स्यात् । तच्च निरस्तमेवेति पुनस्तदप्रतिषेधो नास्माभिस्तत्प्रति
षेधः कार्य इत्यावृत्त्या तदप्रतिषेध इत्यंशो व्याख्यातः । सूत्रे वाशब्दो
मतान्तरत्वद्योतकः ॥
( ४ ) एवं शाक्तेयमतत्रयं पृथङ्निराकृत्य समुदितदूषणेनापि प
राकुर्वत्सूत्रमुपन्यस्य व्याचष्टे-विप्रतिषेधाच्चेति ॥ आदिशब्देन स्मृत्या