सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 573, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 573

५२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पां - २. ]
सकलश्रुत्यादिविरुद्धत्वाच्चासमञ्जसम् ॥ ४५ ॥
—: ✡ :—
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
ब्रह्मसूत्रभाष्ये द्वितीयस्याध्यायस्य
द्वितीयः पादः.
— ☼ —
॥ ॐ ॥
—
दिपरिग्रहः । विरुद्धत्वादित्यनेन विप्रतिषेधशब्दो व्याख्यातः । च शब्दः
पूर्वोक्तप्रत्येकहेतुसमुच्चये । श्रुतयः 'नर्ते' 'एको नारायणः' ( महाना. )
इत्याद्याः । स्मृतयः 'स एव' इत्याद्याः । चशब्दः पूर्वोक्तप्रत्येकहेतुस
मुच्चये । शिष्टजनैर्जिगुप्सितत्वाच्चेत्यनुभाष्योक्तयुक्तिसमुच्चये च । 'अ
समञ्जसं ' अयुक्तमिति । एतद्विप्रतिषेधसूत्रादनुषक्तं पदम् । शक्तिक
र्तृत्वमतमिति शेषः ॥ १२ ॥
इति उत्पत्त्यधिकरणम् ॥
—: ❇ :—
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्र संवतन्त्रसंवतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि
कायां द्वितीयाध्यायस्य द्वितीयः पादः
❖
॥ ॐ ॥
—